This page has not been fully proofread.

श्री वेंकटेशप्रपत्तिः
 
भूयोऽपि मामिह तौ करदर्शितौ ते
 
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ ११ ॥
मन्मूनिकालियफणे विकटाटवीषु
 
श्री वेंकटाद्रिशिखरे शिरसि श्रुतीनाम् ।
चित्तेऽप्यनन्यमनसां सममाहितौ ते
 
श्री वेंकटेश चरणौ शरणं प्रपद्ये ॥ १२ ॥
अम्लानहृप्यदवनीतकीर्णपुष्पौ
 
श्री वेंकटाद्रिशिखराभरणायमानौ ।
आनन्दिताखिलमनोनयनौ तवैतौ
 
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ १३ ॥
प्रायः प्रपन्नजनताप्रथमावगाद्यौ
मातुस्स्तनाविव शिशोरमृतायमानौ ।
प्राप्तौ परस्परतुलामतुलान्तरौ ते
 
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ १४ ॥
 
सत्त्वोत्तर सतत सेव्यपदाम्बुजेन
संसारतारकदयार्द्रगञ्चलेन ।
सौम्योपयन्तुमुनिना मम दर्शितौ ते
 
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ १५ ॥
 
श्रीश श्रिया घटिकया त्वदुपायभावे
 
प्राप्ये त्वयि स्वयमुपायतया स्फुरन्त्या ।
नित्याश्रिताय निरवद्यगुणाय तुभ्यं
 
स्यां किङ्करो वृषगिरीश न जातु माम् ॥ १६ ॥
इति श्रीवेंकटेशप्रपत्तिः
 
११