2026-03-08 05:41:54 by ambuda-bot
This page has not been fully proofread.
॥ श्रीवेंकटेशस्तोत्रम् ॥
श्रीवादिभीकर महागुरुभिरनुगृहीतम्
कमलाकुचचूचुककुङ्कुमतो
नियतारुणितातुलनीलतनो ।
कमलायतलोचन लोकपते
विजयीभव वेंकटशैलपते ॥ १ ॥
सचतुर्मुखषण्मुखपञ्चमुख-
प्रमुखाखिलदैवतमौलिमणे ।
शरणागतवत्सल सारनिधे
परिपालय मां वृषशैलपते ॥ २ ॥
अतिवेलतया तव दुर्विषहैः
अनुवेलकृतैरपराधशतैः ।
भरितं त्वरितं वृषशैलपते
परया कृपया परिपाहि हरे ॥ ३ ॥
अधिवेंकटशैलमुदारमतेः
जनताभिमताधिकदानरतात् ।
परदेवतया गदितान्निगमैः
कमलादयितान्न परं कलये ॥ ४ ॥
कलवेणुवावशगोपवधू-
शतकोटिवृतात्स्मर कोटिसमात् ।
प्रतिवल्लविकाभिमतासुखदात्
वसुदेवसुतान्न परं कलये ॥ ५ ॥
श्रीवादिभीकर महागुरुभिरनुगृहीतम्
कमलाकुचचूचुककुङ्कुमतो
नियतारुणितातुलनीलतनो ।
कमलायतलोचन लोकपते
विजयीभव वेंकटशैलपते ॥ १ ॥
सचतुर्मुखषण्मुखपञ्चमुख-
प्रमुखाखिलदैवतमौलिमणे ।
शरणागतवत्सल सारनिधे
परिपालय मां वृषशैलपते ॥ २ ॥
अतिवेलतया तव दुर्विषहैः
अनुवेलकृतैरपराधशतैः ।
भरितं त्वरितं वृषशैलपते
परया कृपया परिपाहि हरे ॥ ३ ॥
अधिवेंकटशैलमुदारमतेः
जनताभिमताधिकदानरतात् ।
परदेवतया गदितान्निगमैः
कमलादयितान्न परं कलये ॥ ४ ॥
कलवेणुवावशगोपवधू-
शतकोटिवृतात्स्मर कोटिसमात् ।
प्रतिवल्लविकाभिमतासुखदात्
वसुदेवसुतान्न परं कलये ॥ ५ ॥