This page has not been fully proofread.

श्री वेंकटेशकाव्यकलापे
 
घाटी ते विहगराजमृगाधिराज-
 
नागाधिराजगजराजह्याधिराजाः ।
स्वस्वाधिकारमहिमादिकमर्थयन्ते
 
श्री वेंकटाचलपते तव सुप्रभातम् ॥ १७ ॥
 
सूर्येन्दु भौमबुधवाक्पतिकाव्यसौरि-
स्वर्भानुकेतुदिविषत्परिषत्प्रधानाः ।
त्वद्दासदासचरमावधिदासदासाः
 
श्रीवेंकटाचलपते तव सुप्रभातम् ॥ १८ ॥
 
त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः
स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः ।
कल्पागमाकलनयाऽऽकुलतां लभन्ते
 
श्री वेंकटाचलपते तव सुप्रभातम् ॥ १९ ॥
 
वो पुरा शिखराणि निरीक्षमाणाः
स्वर्गापवर्गपदवीं परमां श्रयन्तः ।
 
मर्त्या मनुष्यभुवने मतिमाश्रयन्ते
 
श्री वेंकटाचलपते तव सुप्रभातम् ॥ २० ॥
 
श्री भूमिनायक दयादिगुणामृताब्धे
देवाधिदेव जगदेकशरण्यमूर्ते ।
श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घे
 
श्री वेंकटाचलपते तव सुप्रभातम् ॥ २१ ॥
 
श्रीपद्मनाभ पुरुषोत्तम वासुदेव
 
वैकुण्ठ माधव जनार्दन चक्रपाणे ।