किञ्चित् प्रास्ताविकम् अस्याः सुधर्मेन्द्रमहोदयनामिकाया: लघुकृते: अलंकार- शास्त्रैकदेशलक्षणग्रन्थरूपाया: लक्ष्यरूपा: श्रीसुधर्मेन्द्रतीर्थमहोदयाः पूर्वाश्रमे भारद्वाजगोत्रोद्भवाः श्रीगणेशाचार्यनाम्ना प्रसिद्धवैया- करणा: श्रीसुज्ञानेन्द्रतीर्थश्रीपादानां प्रीत्यादरभाजनान्यभूवन् । श्रीसुज्ञानेन्द्रतीर्थगुरुभ्य एव स्वीकृततुर्याश्रमा: मंत्रालयक्षेत्रे बहुवर्षपर्यन्तं श्रीमूलरामपूजां श्रीगुरुराजसेवां च निर्वहन्त एते आचार्येभ्यः त्रिंशाः परमहंसा: हंसनामकपरमात्मन: दिग्विजय- विद्यासिंहासनं पर्यभूषयन् मंत्रालयक्षेत्रे गुरुगजसन्निधावेव वृन्दावनं प्रविश्य हरिध्यानपरायणा अभवन् । एतेषां महानुभावानां परमानुप्रभाजनीभूताः काव्य- शास्त्रोभयनदीष्णाः श्रीकृष्णावधूतपण्डिताः श्रीगुरुसार्वभौम राघवेन्द्रतीर्थकर्मन्दिनामन्तरङ्गभक्ता: माकिं षष्टितोऽप्याधिकान् ग्रन्थान् निरमासिषुः । तेषु मंदारमरंदचम्पू: राघवेन्द्रपटलम्, सुलभव्याकरणम्, तर्कसंग्रहव्याख्यारूप: पदार्थसागर: इत्यादयो- ऽनेके ग्रन्थाः सुग्रहा: सुज्ञानप्रदाश्च वर्तन्ते । अनेके ग्रन्थाः मुद्रा- पिताश्च विराजन्ते । प्रकृतं सुधर्मेन्द्रमहोदयनामकमिदं लघुलक्षणकाव्यम् लक्ष्य- भूतानां तेषामेवाराधनमहोदये तदनुग्रहाशंसया इदंप्रथमतया संशोध्य मुद्रापयित्वा संप्रकाश्यते । अस्य ग्रन्थस्य संशोधनसमये एका मातृका श्रीगुरुसार्वभौमसंस्कृतविद्यापीठीया अन्या च श्री राजा एस्. गिरि आचार्याणां चेति द्वे मातृके समुपयुक्ते । तद्दातृभ्यः कृतज्ञतामावेद्य, एतद्द्रन्थमुद्रापणानुज्ञां दत्तवद्भ्यः श्रीश्रीसुशमीन्द्र- तीर्थश्रीचरणेभ्य: प्रणतितती: समर्पयाम: । एतद्गन्थावलोक- यितृभ्यः श्री गुरुवर्याः श्री सुधर्मेन्द्रतीर्थमहोदया: नित्यमहोभाग्यं वितरन्तु, श्री राघवेन्द्रतीर्थगुर्वन्तर्यामी भारतीशान्तर्गतः श्री मूलरामचन्द्रः तान् सकलभाग्यप्रदानपूर्वकं रक्षत्विति संप्रार्थयामहे । मंत्रालय क्षेत्रम् भाववत्सरीय शुक्ला षष्ठी 7-1-1995 विदुषां वशंवदाः साणूरु भीमभट्टाः राजा एस्. पवमानाचार्या: ॥ श्रीः ॥ श्री कृष्णावधूतकवीशविरचितः ॥ सुधर्मेन्द्रमहोदयः ॥ श्री रामाय नमः पुनः पुनरसौ दद्यात्समुद्यद्धियं वाणीञ्चामृतधोरणीं गुणलवान् स्तोतुं गुरोः प्रारभे । यस्यालं जगति प्रकृष्टयशसां घाटीभिरापाण्डरे शेकुर्वस्तुविवेचने न कवयः स्तोतुं गुणान् किं पुनः ॥ १ ॥ राम त्वत्करुणामबाघसरणां याचेऽद्य पूर्वाधिकां कस्ते वत्स समागतो हि समयः चिन्ताप्रदस्तादृशः । कांश्चित् स्तोतुमहं यते गुणलवान् मन्दस्सुधर्मेन्द्रगान् इत्याकर्ण्य करं स मूर्ध्नि निदधौ स्तोतुं ततः प्रोत्सहे ॥ २ ॥ मोदध्वं कवितालतामृतरसं संसेव्य मे सूरयः पूर्वेषां विदुषां प्रबन्धरचना किं नास्ति लोकत्रये । निस्साराश्रयणा पुरातनकृतिः किं वर्णनीयं परं सैषा मे सरसाश्रिता खलु यया भद्रा सुधर्मेन्द्रभूः ॥ ३ ॥ कैलासीयति भूधरान् सुरगिरौ हर्म्यायति प्रेयसी- दर्शं पश्यति चन्द्रिकां निजसभाचारं चरत्यम्बरे । दिक्कान्तासु दुकूलति स्तनतटीष्वासाम्पटीरायते नर्नर्ति त्रिदिवे नटीव नितरां कीर्तिस्सुधर्मेन्द्रभू: ॥ ४ ॥ सुधर्मेन्द्रमुपाश्रित्य शोभतां कविता मम । सुदृढोपघ्नसम्बद्धा सुदृढं शोभते लता ॥ ५ ॥ सत्कवेः काव्यमाश्रित्य नेता कल्पं स जीवति । काव्यञ्चापि महानेतृसंसर्गाच्चिरजीवितम् ॥ ६ ॥ सत्कवेर्वायादर्शमवलम्ब्य यशोऽमलम् । नायकस्य कवेर्वापि चिरं जीवति निश्चलम् ॥ ७ ॥ अतोऽहं त्रैलोक्यप्रकटितसुधर्मेन्द्रयतिनो मुहुः श्रावं श्रावं गुणमणिमनर्घ्यं चिरतरम् । यते स्तोतुं कृष्णः कविरहह मुग्धोऽपि बहुधा प्रबन्धानां कर्ता रघुपतिपदैकोरुशरण: ॥ ८ ॥ सारस्याद्वा कवेर्नेतुर्गौरवाद्वा विमत्सरात् । सारस्याद्बा दयालुत्वात्स्वीकुर्वन्तु कृतिं बुधाः ॥ ९ ॥ आदौ काव्यसामान्यलक्षणम् । सालङ्कारौ च सगुणौ शब्दार्थौ दोषवर्जितौ । काव्याम्नायानुरोधेन निबद्धौ काव्यमिष्यते ॥ अत्र दोषपदेन श्रुतिकटुत्वन्यूनोपमादयो ग्राह्याः । तेन न भारतप्रदिष्वतिव्याप्तिः । शब्दार्थयोरविनाभावात् द्विवचननिर्देशः । काव्याम्नायानुरोधेनेति स्वरूपकथनम् ॥ अथ शब्दार्थस्वरूपे निरूप्येते- अकारादिक्षकारान्तवर्णात्मा शब्द इष्यते । स शब्दो द्विविधः प्रोक्तः पदवाक्यविभेदतः ॥ सुप्तिङन्यतरस्यापि प्रकृतिः पदमीरितम् । अन्यतरग्रहणेन न परस्पराव्याप्तिः ॥ तिङ्सुबन्तोभयपदसमूहो वाक्यमिष्यते ॥ समासव्यावृत्त्यर्थमन्तग्रहणम् । तिङन्तसमुदायस्सुबन्तसमु- दायस्तदुभयसमुदायश्चेति वाक्यं त्रिविधम् । तिङन्तसमुदायो यथा–पचति भवतीति । पाकानुकूला कृतिरस्तीत्यर्थः । पाको भवतीति यावत् । सुबन्तसमुदायो यथा–घटः पटश्च जात इत्यादि । तदुभयसमुदायो यथा–गां विसृजाश्वं बधानेति । पदन्तु त्रिविधं शक्तलक्षकव्यञ्जकात्मना । साक्षात्सङ्केतितार्थं यदभिधत्ते हि वाचकम् ॥ अन्यानुसन्धानमन्तरा विवक्षितार्थबोधजनकं पदं शक्तम् । लक्षके व्यञ्जके च शक्यार्थानामनुसंधानानन्तरमेव विवक्षितार्थ- बोधोदयात्तद्वारणायान्तरान्तम् ॥ व्यञ्जनालक्षणाभ्यां तद्बोधे व्यञ्जकलक्षके ॥ लक्षणया विवक्षितार्थबोधजनकं पदं लक्षकम् । व्यञ्जनया विवक्षितार्थबोधजनकं पदं व्यञ्जकमित्यर्थः । त्रितयं यथा– सुधर्मेन्द्रश्चन्द्रो निवसतु चिराय क्षितितले सहस्राक्षस्साक्षादवतरित उर्वीसुरतया । रघूत्तंसस्यार्चा पुनरपि विधातुं किमु न चे - त्सुधर्मेन्द्रेत्याख्यां न भजति कुतोऽन्यो भुवि जनः ॥ १० ॥ अत्र "सर्वे देवा यतिनि सन्निविष्टाः तत्रापि हंसे परमहंसे विशेषात् । तस्मादस्मिन् ध्याते पूजिते च सर्वे देवा ध्यात- पूजास्ततो भावयेत्सर्वदेवमयत्वतो यति"मिति महाहंसो[^1]पनिष- दुक्तेरिन्द्रादित्वाद्युक्तिः । अत्र सहस्राक्षादिपदं शक्तम् । चन्द्र- पदस्य सामानाधिकरण्येनान्वयबाधात्तत्सादृश्यविशिष्टे लक्षणा । ततश्च सुधर्मेन्द्रचन्द्रयोरभेदान्वयः । पुनरितिपदन्तु पूर्वमिन्द्रो जयतीर्थगुरुत्वेनावतीर्य रघुपतिपूजामकरोदित्यर्थस्य व्यञ्जकम् । व्यञ्जकं पदं वाक्यञ्च भवति । शक्तं लक्षकञ्च पदमेव । न तु वाक्यम् । तत्र व्यञ्जनयैव निर्वाहात् ॥ अथ शब्दवृत्तिनिरूप्यते- या शब्दमात्रव्यापाररूपिणी शब्दवृत्तिका । कैशिक्यादिवारणाय मात्रपदम् ॥ अभिधा लक्षणा चैव व्यञ्जना चेति सा त्रिधा । व्यापारो वस्तुधीहेतुर्मुख्यः शब्दगतेऽभिधा ॥ - [^1]एतन्नामकोपनिषन्मृग्या । एतद्वाक्यवृन्दं समुपलभ्यमानोप- निषत्संग्रहादिपुस्तकेषु नोपलभ्यते । किंतु प्रसिद्धेयमुपनिषत् । अन्यवृत्त्यसहायत्वे सति वस्तुज्ञानहेतुत्वं शक्तेः लक्षणम् । लक्षणाव्यञ्जनावारणाय सत्यन्तम् । अनेकव्यक्तिकद्रव्यस्थले विवक्षानुसारेण जातौ व्यक्तौ वा शक्तिः । एकव्यक्तिकद्रव्य- स्थले व्यक्तावेव । अनेकव्यक्तिकगुणादिस्थलेऽपि व्यक्तावेव । तत्र जात्यभावात् । एतद्विवरणं मत्कृतमन्दारमरन्दे [^1]द्रष्टव्यम् । शक्तिग्रहस्तु व्याकरणादिना भवति । तदुक्तं पूर्वैः– [^2]शक्तिग्रहं व्याकरणोपमान - कोशाप्तवाक्यात् व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ॥ इति । रूढिर्योगो योगरूढिरिति सा त्रिविधा मता । रूढिस्त्वव्यवधानेन व्यापारोऽर्थस्य बोधकः ॥ अवयवार्थानुसन्धानमन्तरा विवक्षितार्थबोधकः व्यापारो रूढिः ॥ पदं रूढं बुधाः प्रोचुस्ताह्ग्रढिमुपाश्रितम् । यथा- गुरुः सुधर्मेन्द्र उदेतुकामं गुणैर्विनिद्रैर्गणनादरिद्रैः । - [^1]मन्दारमरन्दचम्पूरित्येतैरेव कविभिर्विरचितो ग्रन्थः । परन्तु तत्र श्लोकरूपे इदानीं मुद्रिते एतद्विवरणं न दृश्यते । [^2]मुक्तावल्यां शब्दपरिच्छेदे उद्धृतमेतत्पद्यम् । मुदं जनानां जनयन्नजस्रं भूमौ दधौ यः खलवादिशिक्षाम् ॥ ११ ॥ अत्र गुणादिपदानि रूढानि ॥ योगोऽवयबोधेन स्यादर्थस्याभिधायकः । अवयवार्थानुसन्धानपूर्वकं अर्थबोधको व्यापारो योगः । यौगिकं कथ्यते प्राज्ञैः योगेन सहितं पदम् । तर्हि व्यापारद्वयेनार्थबोधे वाक्यभेदापत्तिरिति चेदिष्टापत्तिः, लौकिकवाक्यानां वक्तृविवक्षाधीनत्वात् । अर्थशक्तिमूलका व्यञ्जना यथा- नहि प्रियस्फुरत्कीर्ते जैत्रयात्रोन्मुखो भव । इति वादिवधूः प्रोचे सुधर्मेन्द्रे विराजति ॥ १२ ॥ अत्र वाक्यार्थशक्त्या त्वं सुधर्मेन्द्रसमीपे गतश्चेत् सर्ववादिजयाय प्रवृत्तः सः त्वां सर्वथा जेष्यति । ततस्तव प्रवर्धमानकीर्तेरप- यशःप्राप्तिर्भवतीति वस्तु व्यज्यते । अत्रेदं रहस्यम्–व्यञ्जना शब्दस्यैव कल्पनीया नत्वर्थस्य । नहि प्रियेत्यादौ व्यञ्जनाया अर्थवृत्तित्वेन निर्वाहेऽपि हंसो जयति सामोदेत्यादौ अप्राकरणि- कार्थबोधाय शब्दवृत्तित्वमवश्यमङ्गीकरणीयम् । उभयवृत्तित्व- कल्पने गौरवेण लाघवाच्छब्दवृत्तित्वमेव कल्प्यम् । सा त्वेकैव नानार्थस्थले शब्दसामर्थ्येनैव व्यञ्जनया वक्तृतात्पर्यप्रतीतिरिति शब्दशक्तिमूलका । नहि प्रियेत्यादावर्थसामर्थ्येनैव वक्तृ- विवक्षितापजयाशङ्काप्रतीतेः अर्थशक्तिमूलका । उभयत्रापि व्यञ्जनया अर्थप्रतिपत्तौ शब्दः सहकारी । शब्दशक्तिमूलक- व्यञ्जनास्थले न लक्षणया निर्वाहः । वाच्यार्थबाधाभावात् । नाप्यनुमानेन चारितार्थ्यम् । औपम्यादिसाधकलिङ्गाभावात् । अर्थशक्तिमूलकव्यञ्जनास्थलेऽपि न लक्षणयोपपत्तिः । वाच्यार्थ- बाधाभावात् । नाप्यनुमानेन निर्वाहः । व्यंग्यव्यञ्जकयोः व्याप्त्यभावात् । तथाहि इयं वादिवधूः पत्यपजयाशङ्किनी नहि प्रियेत्यादिवाक्यवत्त्वात्सम्प्रतिपन्नवदित्यादिप्रयोगः कल्पनीयः । पत्यपजयाशङ्काभावेऽपि प्रियविरहमसहमानाया ईदृशोक्तिसम्भ- वात् व्यभिचारः[^1] । अतोऽनियतकार्यप्रतीतिर्व्यञ्जनयैव ॥ किञ्च एकस्मादेवार्थाद्वक्तृविवक्षानुसारेणानेकव्यंग्यार्थप्रतीति रनुमानरीतिविरुद्धा । नात्राभिधा । तस्याः संकेतितार्थ एव कुण्ठित- त्वात् शक्तिग्राहकाम्नायाभावाच्चेति ध्येयम् ॥ ॥ इति शब्दनिरूपणम् ॥ - [^1]अस्यानुमानस्य विरहिण्युक्ते वचने व्यभिचरितत्वात् इत्यभिप्रायः । अर्थस्तु त्रिविधः शक्यलक्ष्यव्यंग्यविभेदतः । शाब्दबोधजनकतासमानाधिकरणशक्तिविषयत्वं शक्तत्वम् । शाब्दबोधविषयतासमानाधिकरणशक्तिविषयत्वं शक्यत्वमिति शक्तशक्ययोर्भेदः । एवमग्रेऽपि । एवं त्रिविधोऽप्यर्थः वक्तृ- बोद्धव्यविशेषादिज्ञानादर्थान्तरस्य व्यञ्जको भवति । तदुक्तम् – "[^1]वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः । प्रस्तावदेशकालादेः विशेषात्प्रतिभाजुषाम् । योऽर्थस्यान्यार्थधीहेतुर्व्यापारी व्यञ्जनैव सा ॥" इति । नहि प्रियेत्यादौ बोद्धव्यविशेषस्य श्रीसुधर्मेन्द्रगुरुनिष्ठसकल- वादिजयदक्षाखिलविद्यावैशद्यरूपार्थस्य ज्ञानाद्वक्तृनिष्ठपत्यपजया- शङ्का व्यज्यते ॥ एवमन्यत्र यथासम्भवं द्रष्टव्यम् । इदमेव शक्यार्थस्य व्यञ्जकत्वे उदाहरणम् । लक्ष्यार्थस्य व्यञ्जकत्वन्तु पूर्वमेव तत्र तत्र द्रष्टव्यम् । यथा वा- वदाम्येतद्धीमन् किमिति कृपणानर्थयसि तान् व्रज त्वं जङ्घालुर्गुरुवरसुधर्मेन्द्रचरणम् । - [^1]काव्यप्रकाशस्था एते श्लोकाः कविभिरेतैरेव कृतायां मंदार- मरंदचम्प्वां समुद्धृताः । पुटम् १८१ निर्णयसागरयन्त्रालये १९२४ तमवर्षे मुद्रितं पुस्तकम् । प्रदानाद्यस्याब्धिः शममयति मज्जीवनमिति पुरोधायेवाभ्रं जिगमिषुबुधानां प्रसरति ॥ १३ ॥ अत्र किमिति कृपणानित्यादिना कथने सिद्धे वदामीतिवचनमनुप- योगबाघितं सत्, उपदेशस्य सम्यक्त्वे पर्यवस्यति । ततस्तत्र लक्षणा । अनेन सर्वेऽपि बुधाः श्रीसुधर्मेन्द्रमाश्रित्य दारिद्र्यं जहुः । त्वमपि तथा कुरुषे चेत् छिन्नदारिद्र्यो भविष्यसि । चिन्तां मा गा इत्यादिशिक्षादानं व्यज्यते ॥ व्यंग्यार्थस्य व्यञ्जकत्वं यथा - चातुर्यं किमु वर्ण्यते गुरुवरश्रीमत्सुधर्मेन्द्रगं द्रव्योत्सर्जनमार्जनं यदकरोत् निर्बाधभाग्योदयः । यत्प्रत्यर्थिजनेषु जन्मसहजं वीक्ष्यैव दैन्यं सुहृत् दारिद्र्यं सहते हि केवलममून्मत्वा शरण्यानिति ॥ १४ ॥ अत्रोत्तरार्धे उत्प्रेक्षालङ्कारेण केवलपदेन अन्यत्र दारिद्र्यं निषिध्य प्रतिवादिष्वेव स्थापनात् परिसंख्यारूपार्थालङ्कारो व्यज्यते । तेन प्रतिवादिनां श्रीसुधर्मेन्द्रभयेन खिन्नत्वमितरेषां तदाश्रयेण सौख्यं व्यज्यते । तेन श्रीसुधर्मेन्द्रगुरोर्लोकोत्तरत्वं व्यज्यते । स्वतो विरुद्धयोस्त्यागार्जनयोः स्वात्मकैकाधिकरणप्रापणाच्चातुर्यम् ॥ समस्तदेवसान्निध्यसिद्धिभाजो जगद्गुरोः । पावित्र्यं व्रजताद्वाणी सुधर्मेन्द्रस्य कीर्तनात् ॥ १५ ॥ यथा तुष्यन्ति विबुधाः सुधर्मेन्द्रमहोदयात् । तथा कृष्णकवीशस्य सुधर्मेन्द्रमहोदयात् ॥ १६ ॥ ॥ इति श्रीकृष्णावधूतकवीशविरचितः सुधर्मेन्द्र महोदयः समाप्तः ॥ को दामत्वमवाप वार्धिमथने[^1] मन्थानतां[^2] चाप को मन्थानो विधृतश्च[^3] केन विभुना कोऽभूत्तमोघ्नस्ततः ।[^4] कस्तत्रोत्थविषं[^5] पपौ सुरगणे दत्तञ्च केनामृतम्[^5] तत्प्रश्नोत्तरमध्यवर्णघटिते भूयात्सुभक्तिर्मम ॥ वाहीकृतमहाधेनुगणाधिपविनायकौ[^7] । भवतां भवतां भूत्यै पार्वतीपरमेश्वरौ ॥ - [^1]वासुकि: - सु [^2]भूधरः - ध [^3]कूर्मेण - र्मे [^4]चन्द्रमाः - न्द्र [^5]सुयोगी - यो [^6]योगीशेन - गी सुधर्मेन्द्रयोगी। सुधर्मेन्द्रयोगिनि मम सुभक्तिर्भूयात् इति कविराशास्ते । [^7] वाहीकृतः महाघेनुगणाधिपः नन्दी, एवं वाहीकृतः वीनां पक्षिणां नायकः गरुडः याभ्यां पार्वती - परमेश्वराभ्यां तथाभूतौ शम्भुविष्णू ।