श्रीः । श्रीपुष्पदन्तविरचितं महिम्नस्तोत्रम् । मधुसूदनसरस्वतीकृतशिवविष्ण्वर्थकव्याख्यासहितम् । ॐनमः शिवाय ।
विश्वेश्वरं गुरुं नत्वा महिम्नाख्यस्तुतेरयम् ।
पूर्वाचार्यकृतव्याख्यासंग्रहः क्रियते मया ॥ १ ॥
एवं किलोपाख्यायते – कश्चित्किल गन्धर्वराजः कस्यचिद्राज्ञः प्रतिदिनं प्रमदवनकुसुमानि हरन्नासीत् । तज्ज्ञानाय शिवनिर्मा- ल्यलङ्घनेन मत्पुष्पचौरस्यान्तर्धानादिका सर्वापि शक्तिर्विनङ्क्ष्य- तीत्यभिप्रायेण राज्ञा शिवनिर्माल्यं पथि निक्षिप्तम् । तदप्रतिसंधाय च गन्धर्वराजस्तत्र प्रविशन्नेव कुण्ठितशक्तिर्बभूव । ततश्च शिवनिर्मा- ल्योल्लङ्घनेनैव ममैतादृशं वैक्लव्यमिति प्रणिधानेन विदित्वा परमकारु- णिकं भगवन्तं सर्वकामदं तमेव तुष्टाव । ननु स्तुतिर्नाम गुणकथनं, तच्च गुणज्ञानाधीनम्, अज्ञातस्य तस्य कथनासंभवात्, तथाच भगवतो गुणानामनन्तत्वेन ज्ञातुमशक्यत्वा- त्कथं तत्कथनरूपा स्तुतिरनुरूपा भवेत्, अननुरूपकथनं चोपहा- सायैवेति या शङ्का तदपनोदनव्याजेन स्वस्यानौद्धत्यं दर्शयन्नेव भगवन्तं स्तोतुमारभते— महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथावाच्यः सर्वः स्वमतिपरिणामावधि गृण- न्ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ १ ॥ महिम्नः पारमिति। हे हर, सर्वाणि दुःखानि हरतीति हरः । योग्यं संबोधनम् । सर्वदुःखहरत्वेनैव प्रसिद्धोऽसि, न मम दुःखहरणे पृथग्व्यापारं करिष्यसीत्यभिप्रायः । हे सर्वदुःखहर, ते तव महिम्नः परं पारमवधिमविदुषः एतावानेव महिमेतीयत्तयाऽजानतः । कर्तृत्व- संबन्धे षष्ठी । अज्ञानत्कर्तृका स्तुतिर्यद्यसदृश्यननुरूपा । अयोग्येति यावत् । तत्तर्हि ब्रह्मादीनां सर्वज्ञानामपि गुणकथनरूपा गिरस्त्वयि विषयेऽवसन्नाः । अयोग्या एवेत्यर्थः। तैरपीयत्तयाऽज्ञानात् । इयत्ताया असत्वेन तदज्ञाने सार्वज्ञ्यव्याघातोऽपि न । सन्मात्रविषयत्वात्सर्वज्ञ- त्वस्य । अन्यथा भ्रान्तत्वप्रसङ्गात् । तथाच श्रीभागवते - 'विष्णोर्नु वी- र्यगणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसि' इति । अथेति पक्षान्तरे । यद्येवं ब्रूषे तर्हि स्वमतिपरिणामावधि स्वस्य मतिपरिणामो बुद्धिविषयता स एवावधिर्यत्रेति क्रिया- विशेषणम् । स्वबुद्ध्या यावद्विषयीकृतं तावद्गृणन् वाक्सृष्टिसा- फल्याय कथयन्सर्वोऽपि स्तोता अवाच्योऽनुपालम्भनीयः । 'सा वा- ग्यया तस्य गुणान्गृणीते करौ च तत्कर्मकरौ मनश्च । जिह्वा- ऽसती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः' इति च श्री- भागवतवचनात् । तर्हि 'नभः पतन्त्यात्मसमं पतत्रिणः' इति न्यायेन ममाप्येष परिकर आरम्भः स्तोत्रे स्तोत्रविषये निरपवादो- ऽखण्डनीयः । स्वबुद्ध्यनुसारेण योग्य इत्यर्थः । प्रथमार्धेन स्तु- तिनिराकरणव्याजेन सर्वदुरधिगममहिमत्वरूपा महती स्तुतिः कृता, उत्तरार्धेन स्तुतिसमाधानव्याजेन सर्वा स्तुतिरनुरूपेति महत्कौ- शलम् ॥ ॥ अन्यच्च गन्धर्वराजस्य महाकुशलत्वादेकेनैव श्लोकेन यथाश्रुति वक्ररीत्या च हरिशंकरयोः स्तुतिस्तयोरभेदज्ञानायाभि- प्रेता । तत्र हरपक्षे यथाश्रुति व्याख्यातं, हरिपक्षेऽपि तदेव योजनी- यम् । संबोधनपदं तु अहरेति । हरतीति हरः संहर्ता तद्विरुद्धोऽहरः ।
पालयितेत्यर्थः । अथवाऽहः अहो परम परा मा लक्ष्मीर्यस्येति तथा हे लक्ष्मीपते । लक्ष्मीपतित्वान्ममालक्ष्मीं स्वत एव नाशयिष्यसीति योग्यं संबोधनम् । यदि ते महिम्नः त्वन्महिमसंबन्धिनी त्वन्महिम- विषया स्तुतिः । गिरो महिम्न इति योजनापेक्षया ते स्तुतिरित्येव समीचीनम्, तत्तर्हि अवसन्नाऽल्पा असदृश्यननुरूपाप्यस्तु, नत्वन्य- देवतानामनल्पाऽनुरूपापि । अत्र हेतुगर्भं विशेषणम् । तव कीदृशस्य । ब्रह्मादीनां स्तावकानां गिरः स्तुतिरूपायाः पारं विदुषः । स्तोतुः श्रमं स्तुतेर्गुणदोषौ च जानत इत्यर्थः । सर्वदेवस्तुत्यत्वेन निरतिश- यसार्वज्ञ्येन च तवैव सर्वोत्कृष्टत्वादित्यभिप्रायः । स्तुतिफलं दर्शयन् स्वस्य विनयातिशयं दर्शयितुमाह । अथ स्वं त्वां अतिपरिणामावधि अतिक्रान्तो बुद्धिपरिपाकावधिः सीमा यत्र तादृशं यथा स्यात्तथा स्वशक्तिमतिक्रम्यापि गृणन्स्तुवन् सर्वोऽपि जनः अवाच्य आभिमु- ख्येन वाच्यः ।संभाषणीयस्त्वयेत्यर्थः । यस्मादेवं सर्वथैवानुगृह्यते त्वया स्तोता अतएव ममापि स्तोत्रे स्तुतिकर्त्रे एषः परिकरो नमस्कारा- दिप्रबन्धः । कीदृशः । अनिरपवादः न विद्यतेऽतिशयेनापवादो दूषणं यस्मात्स तथा । अहरिति वीप्सनीयम् । अहरहः सर्वदेत्यर्थः । यद्विष- यकस्तुतिकर्तृत्वेनान्योऽपि सर्वदा नमस्यः किमु वक्तव्यं स सर्वदा सर्वेषां नमस्यतरो भवतीति भगवति रत्यतिशयो व्यज्यते । एवं यस्यायोग्यापि स्तुतिः सान्निध्यफला तस्य योग्या स्तुतिः किं वा न करिष्यतीति ध्वनितम् । हरपक्षेऽप्येवम् । तत्र परम श्रेष्ठेति संबोधनम् ॥ १ ॥ पुनरप्यस्तुत्यत्वेनैव भगवन्तं स्तौति पूर्वोक्तं स्वस्य ब्रह्मादि- साम्यमुपपादयन्--
अतीतः पन्थानं तव च महिमा वाङ्मनसयो-
रतव्द्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २॥
अतीत इति । पूर्वोक्तं संबोधनमावर्तनीयम् । तव महिमा सगुणो निर्गुणश्च वाङ्मनसयोः पन्थानं विषयत्वमतीतोऽतिक्रान्तः । चशब्दोऽवधारणे । अतीत एवेत्यर्थः । अनन्तत्वान्निर्धर्मकत्वाच्च । तथाच श्रुतिः 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति । वागविषयत्वे तत्र श्रुतेः प्रामाण्यं न स्यादित्याशङ्क्याह । यं श्रुतिरप्यपौरुषेय्यपि वेदवाणी चकितं भीतं यथा स्यात्तथा अभि- धत्ते तात्पर्येण प्रतिपादयति । सगुणपक्षे किंचिदप्ययुक्तं मा- भूदिति, निर्गुणपक्षे तु स्वप्रकाशस्यान्याधीनप्रकाशता मा भूदिति भयम् । केन प्रकारेण । अतद्व्यावृत्त्या सगुणपक्षे न तद्व्यावृत्तिरतद्व्या- वृत्तिस्तया । अभेदेनेत्यर्थः । 'सर्वं खल्विदं ब्रह्म' 'सर्वकर्मा सर्व- कामः' इत्यादिना सर्वाभेदेनैव भगवन्तं प्रतिपादयति न त्वेकैकशो महिमानं वदतीत्यर्थः । निर्गुणपक्षे तु न तत् अतत् । अविद्यातत्कार्या- त्मकमुपाधिद्वयमिति यावत् । तद्व्यावृत्त्या तत्परित्यागेन जहद[^१]जहल्लक्ष- णयेत्यर्थः । मायाविद्योपहितचैतन्यशक्तं तत्पदं तत्कार्यबुद्ध्याद्युपहि- तचैतन्यशक्तं त्वंपदमुपाधिभागत्यागेनानुपहितचैतन्यस्वरूपं स्व- प्रकाशमपि तदाकारवृत्तिमात्रजननेनाविद्यातत्कार्यनिवृत्त्या वोधय- तीवेति न तावता वाग्विषयत्वं मुख्यं तस्येत्यर्थः । अतएव स तादृशः सगुणो निर्गुणश्च महिमा कस्य स्तोतव्यः । कर्तरि पष्ठी । न केनापि स्तोतुं शक्य इत्यर्थः । सगुणस्य स्तोतव्यत्वाभावे हेतुमाह । कतिविधगुणः कतिविधा अनेकप्रकारा गुणा यत्र स तथा । अनन्त- त्वादेव न स्तुत्यर्ह इत्यर्थः । निर्गुणस्य स्तोतव्यत्वाभावे हेतुमाह— कस्य विषय इति । न कस्यापि विषयः निर्धर्मकत्वात् । अत एवाविष- यत्वान्न स्तुत्यर्ह इत्यर्थः। सगुणो ज्ञेयत्वेऽप्यनन्तत्वात् निर्गुणस्त्वेकरू- [^१] शक्त्युपस्थितार्थे किंचिदंशं परित्यज्य अवशिष्टार्थे लक्षणा जहजद- हल्लक्षणा --यथा तत्त्वमसीत्यादौ तत्त्वमिति पदोपस्थितयोः सर्वज्ञत्वकिंचि ज्ज्ञत्वांशयोः परित्यागपूर्वकं केवलचैतन्याभेदप्रतिपादनमित्याद्यूह्यम्
पोऽपि ज्ञेयत्वाभावान्न स्तुत्यश्चेत्तर्हि स्वमतिपरिणामावधि गृणन्निति पूर्वोक्तं विरुद्धयेतेत्यत आह - पदे त्विति । अर्वाचीने नवीने भक्तानु- ग्रहार्थं लीलया गृहीते वृषभपिनाकपार्वत्यादिविशिष्टे रूपे कस्य विदुषो मनो न पतति नाविशति, कस वचो नाविशति । अपितु सर्वस्यापि मनो वचश्च विशतीत्यर्थः । तत्र हिरण्यगर्भस्यास्मदादेश्च सममेव स्तुतिक- र्तृत्वमिति न पूर्वापरविरोधः ॥ हरिपक्षेप्येवम् । अथवा यं अतद्व्यावृ- त्त्या कार्यप्रपञ्चभेदाच्चकितं भीतं मद्भिन्नत्वेन कार्यप्रपञ्चं मापश्यत्विति शङ्कमानं श्रुतिरभिधत्ते इति पूर्ववत् । अर्वाचीने पदे तु कमलकम्बु- कौमोदकीरथाङ्गकमलालयाकौस्तुभाद्युपलक्षिते नवजलधरश्याम- धामनि श्रीविग्रहे वैकुण्ठवर्तिनि वेणुवादनादिविविधविहारपरायणे गोपकिशोरे वा वृन्दावनवर्तिनि कस्य मनो नापतति, कस्य वचश्च नापतति । अपगता ततिर्विस्तारो यस्मात्तदपतति । संकुचितमि- त्यर्थः । तव श्रीविग्रहानुचिन्तने तद्गुणानुकथने च विषयान्तरपरि- त्यागेन विलीयमानावस्थं मनो वचश्चैकमात्रविषयतया संकुचितं भवति । तव श्रीविग्रहे एवासक्तं भवतीति भावः ॥ २ ॥ नन्वेवं स्तुत्यत्वेऽपि हरिहरयोः सर्वज्ञयोरनभिनवया स्तुत्या न मनोरञ्जनं तद्विना न तत्प्रसादस्तं विना न फलमिति पुनरपि स्तुतेर्वैयर्थ्ये प्राप्ते सार्थक्यं दर्शयन्स्तौति—
मधुस्फीता वाचः परमममृतं निर्मितवत-
स्तव ब्रह्मन्किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन्पुरमथन बुद्धिर्व्यवसिता ॥ ३ ॥
मध्विति । हे ब्रह्मन् विभो, सुरगुरोर्ब्रह्मणोऽपि वाग्वाणी तव किं विस्मयपदं चमत्कारकारणं किम् । किंशब्द आक्षेपे । नेथर्त्यः । तत्र
हेतुगर्भविशेषणमाह । तव कीदृशस्य । वाचो वेदलक्षणा निर्मितवतो निःश्वासवदनायासेनाविर्भावितवतः । कीदृशीः । मधुवत्स्फीताः माधु-. र्यादिशब्दगुणालंकारविशिष्टत्वेन मधुराः । तथा परमममृतं निरति- शयामृतवदत्यास्वाद्याम् । एतेनार्थगतमाधुर्यमुक्तम् । परमेश्वरवाचां शब्दार्थगतयोर्निरतिशयमाधुर्ययोरपि मिथस्तारतम्यं मध्वमृतश- ब्दाभ्यां द्योत्यते । अयं च वाचामुत्कर्षो महान् यत्र शब्दगुणालंका- रातिशयं विनार्थगुणालंकारातिशय इति यत्र हिरण्यगर्भस्य वाण्यपि न चमत्कारकारणं तत्र का वार्ताऽस्मदादिवाण्या इत्यर्थः । तर्हि किं स्तुत्येत्यते आह—मम त्वित्यादि । हे पुरमथन त्रिपुरान्तक, भवतो गुणकथनपुण्येन एतां स्वां वाणीं पुनामि निर्मलीकरोमीत्यभिप्रा- येणैतस्मिन्नर्थे स्तुतिरूपे मम बुद्धिर्व्यवसितोद्यता नतु स्तुतिकौशले- न त्वां रञ्जयामीत्यभिप्रायेणेत्यर्थः । वाङ्नैर्मल्येन मनोनैर्मल्यं नान्तरी- यकमिति स्तुतेः सार्थक्यमुक्तम् ॥ हरिपक्षेप्येवम् । मथ्यतेऽस्मिन्द- यादीति मथनं गोकुलम्, अथवा मथ्यन्ते आपोऽमृतार्थमिति मथनः क्षीरोदः पुरं मन्दिरं गोकुलं क्षीरोदो वा यस्येति पुरमथनसंबोध- नार्थः । सर्वमन्यत्समानम् । अथवा हे ब्रह्मन्, वाचः सर्वस्या अपि पर- मममृतं निरतिशयसारं निश्चयेन मितवतः सम्यगनुभूतवतः सुर- गुरोर्हिरण्यगर्भादिसर्वदेवतोपाध्यायस्य तव मधुस्फीता मधुरिम्णा व्याप्ता अन्तरा कटुत्वलेशेनापि रहिता वागपि वाग्देवता सरस्वत्यपि किं विस्मयपदम्। नेत्यर्थः । तस्या मद्वाचश्च महदन्तरमतिप्रसिद्धमेव । यद्यप्येवं तथापि त्वदिच्छयैव ममेयं प्रवृत्तिरित्याह-ममत्वेतामिति । निजगुणकथनपुण्येन ममत्वेतां ममत्वे वर्तमानां संसारसंसर्गकलु- षितां वाणीं वाचं । एतस्य स्तुतिकर्तुरिति शेषः । पुनामि निष्कलुषां क- रोमीत्येतस्मिन्नर्थे हे पुरमथन, भवतो बुद्धिर्व्यवसिता यतोऽतोनाय- त्तैव मम प्रवृत्तिरित्यर्थः । श्रुतिश्च भवति 'एष उ ह्येव साधु कर्म कार- यति तं यमेभ्यो लोकेभ्य उन्निनीषते एष उ एवासाधु कारयति यमधो निनीषते' इति । स्मृतिश्च'अज्ञो जन्तुरनीशोऽयमात्मनः सुख-
दुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गे वा श्वभ्रमेव वा" इति । तेन परम- कारुणिकस्त्वं शरणागतवाणीपावनपुण्यहेतुस्तुतितत्परं लोकं कर्तुं स्वयमेव प्रयतमानो यया कयापि स्तुत्या प्रसीदसीत्यर्थः ॥ ३ ॥ एवं हरिहरयोः स्तुत्यत्वं सफलस्तुतिकत्वं च निरूप्य ये के- चित्पापीयांसस्तस्य सद्भावेऽपि विवदन्ते तान्निराकुर्वन्स्तौति -
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृ-
त्त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन्वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ ४ ॥
तवेति । हे वरद ईप्सितप्रद, यत्तव ऐश्वर्यं तद्विहन्तुं नि- राकर्तुं एके जडधियः केचिन्मन्दबुद्धयः व्याक्रोशीं विदधते । साक्षेपमुच्चैर्भाषणमाक्रोशस्तस्य व्यतिहारो व्याक्रोशी । अन्येन कर्तुमारब्धमन्यः करोति अन्येन चान्यः इति कर्मव्यतिहारः । व्याङ्पूर्वात्क्रोशेः 'कर्मव्यतिहारे णच् स्त्रियाम्' इति पाणिनि- स्मरणात् ततः स्वार्थे अञ् 'णचः स्त्रियामञ्' इति सूत्रात् । ततः स्त्रियां ङीप् । तां व्याक्रोशीमहमहमिकया कुर्वते यत्सर्वप्रमाणप्रमितं तदपि जिघांसन्तीति यत्तद्भ्यां मन्दबुद्धित्वं द्योतितम् । अतएव कर्त्र- भिप्राये क्रियाफले विदधातेरात्मनेपदम् । नहि तद्व्याक्रोशीविधानात्त- वैश्वर्यव्याघातः किंतु तेषामेवाधःपात इत्यर्थः । कीदृशं तवैश्वर्यम् । जगदुदयरक्षाप्रलयकृत् जगत आकाशादिप्रपञ्चजातस्योदयं सृष्टिं, रक्षां स्थितिं, प्रलयं संहारं च करोतीति तथा । अनेनानुमान- मुक्तम् । तच्च "अजन्मानो लोकाः" इत्यत्र व्यक्तं वक्ष्यते। तथा त्रयीवस्तु त्रय्याः त्रयाणां वेदानां तात्पर्येण प्रतिपाद्यं वस्तु "सर्वे वेदा यत्पदमा- मनन्ति" इति श्रुतेः । अनेनागमप्रमाणमुक्तम् । तथा गुणैः सत्वरजस्त- मोभिः ली(लयातै)लोपात्तैर्भिन्नासु पृथक्कृतासु । वस्तु वस्तुगत्या भेद
इत्यर्थः । तिसृषु तनुषु ब्रह्मविष्णुमहेश्वराख्यासु मूर्तिषु व्यस्तं वि- विच्य न्यस्तम् । प्रकटीकृतमितियावत् । उपलक्षणं चैतत्सर्वेषामवतारा- णाम् । एतेन प्रत्यक्षं प्रमाणमुक्तम् । तेन सर्वप्रमाणप्रमितमित्यर्थः । की- दृशीं व्याक्रोशीम् । अस्मिन्नभव्यानां अस्मिंस्त्रैलोक्येऽपि नास्ति भव्यं भद्रं कल्याणं येषां तेऽभव्यास्तेषां रमणीयां मनोहरां वस्तुतस्त्वरमणी- ममनोहराम् । अमनोहरेऽपि मनोहरबुद्धिभ्रान्तिरभाग्यातिशयात्तेषा- मित्यर्थः ॥ हरिपक्षेप्येवम् । अथवा अस्मिंस्तवैश्वर्ये अभव्यानां मध्ये जडधियो जडमतेरत्यन्तमपकृष्टस्येत्यर्थः । तस्य वस्तुतोऽरमणीं व्या- क्रोशीं विहन्तुं एके मुख्या रमणीयां व्याक्रोशीं विदधत इत्यर्थः । जडधिय इत्येकवचनेन पूर्वपक्षिणस्तुच्छत्वम्, एक इति बहुवच- नेन सिद्धान्तिनामतिमहत्त्वं सूचितम् ॥ ४ ॥ ये त्वात्मप्रत्यक्षमपह्नुवते त्रयीं चान्यथा वर्णयन्ति, तेऽनुमानेनैव निराकार्याः । तच्चानुमानं क्षित्यादिकं सकर्तृकं कार्यत्वात् घटवदिति जगदुदयरक्षाप्रलयकृदित्यनेन सूचितम् । तत्र पूर्वश्लोकोक्तव्याक्रोशी- बीजप्रतिकूलतर्कमुद्भावयन्तः पूर्वपक्षिणो निराकुर्वन्स्तौति । अथवा कीदृशीं व्याक्रोशीं विदधत इत्याकाङ्क्षायां तां वदन्स्तौति -
किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः
कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥ ५ ॥
किमिति । हे वरदेति पूर्वश्लोकात्संबोधनानुषङ्गः । त्वयि विषये कुतर्कस्तर्काभासः कांश्चिद्धतधियः कानपि दुष्टबुद्धीन् जगतो विश्व- स्यापि मोहायाऽन्यथाप्रतिपत्तये मुखरयति वाचालान्करोति । कीदृशे त्वयि । अतर्क्य तर्कागोचरमैश्वर्यं यस तस्मिन्सर्वतर्कागोचरे त्वयि यः कश्चित्तर्कः स्वातत्र्येणोपन्यस्यते स सर्वोप्याभास इत्यर्थः । प्रमा-
णानां स्वगोचरशून्यत्वात्स्वागोचरे प्रामाण्याभावो युक्त एवेति भावः । कुतर्कमेवाह —किमीह इत्यादिना । स धाता परमेश्वरस्त्रिभुवनं सृजतीति सिद्धान्तमनूद्य तत्र दूषणमाह । खलु किंतु का ईहा चेष्टा यस्येति किमीहः । तथा कः कायः शरीरं कर्तृरूपं यस्येति किं- कायः । क उपाय: सहकारिकारणमस्येति किमुपाय: । क आधारो- ऽधिकरणमयेति किमाघार: । किमुपादानं समवायिकारणं भुवना- कारेण निष्पाद्यमस्येति किमुपादानः । सर्वत्र किंशब्द आक्षेपे । इति- शब्दः प्रकारार्थः । चशब्दः शङ्कान्तरसमुच्चयार्थः । कुलालो हि घटं कुर्वन्स्वशरीरेण व्याप्रियमाणेन चक्रभ्रमणादिचेष्टया सलिलसूत्राद्यु- पायेन चक्रादावाधारे मृदमुपादानभूतां घटाकारां करोति, एवं जग- त्कर्तापि वाच्यः । तथाच कुलालादिवदनीश्वर एवेत्यभिप्रायः । घटा- दिदृष्टान्तेन खलु क्षित्यादेः सकर्तृकत्वं साध्यते । तथाच घटादिकर्तरि कर्तृत्वौपयिकं यावद्दृष्टं क्षित्यादिकर्तर्यपि तावदवश्यं स्वीकर्तव्यम्, दृष्टान्तस्य तुल्यत्वात् । तथाचोभयतःपाशा रज्जुः । तदङ्गीकारेऽस्म- दादितुल्यत्वादनीश्वरत्वं तदनङ्गीकारे च कर्तृत्वानुपपत्त्याऽसिद्धिरेवे- त्येवंरूपः कुतर्क इत्यर्थः । सिद्धान्तं वदन्कुतर्कं विशिनष्टि-अनवसर दुःस्थः । नास्त्यवसरोऽवकाशोऽस्येत्यनवसरः, अतएव दुःस्थो दुष्ट- त्वेन स्थितः । विचित्रनानाशक्तिमायावशेन सर्वनिर्मातरि सर्वतर्का- गोचरे त्वयि नास्ति कुतर्कावसर इत्यर्थः । तथाचोक्तम्- 'अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्' इति । नच घटादिकर्तरि याव- दृष्टं तावत्क्षित्यादिकर्तर्यपि साधनीयम्, व्याप्तिं विना सामानाधि- करण्यमात्रस्यासाधकत्वात् । अन्यथा महानसे धूमवह्न्योर्व्याप्तिग्रह- णसमये एव व्यञ्जनादिमत्त्वमपि दृष्टमिति पर्वतादावपि तदनुमानं स्यात् । तस्मात्साधर्म्यसमा जातिरेषा । स्वव्याघातकत्वादनुत्तरम् । पराक्रान्तं चात्र सूरिभिरित्युपरम्यते । हरिपक्षेऽप्येवम् ॥ ५ ॥
एवं प्रतिकूलतर्कं परिहृत्यानुकूलतर्कमुद्भावयन्स्तौति—
अजन्मानो लोकाः किमवयववन्तोऽपि जगता-
मधिष्ठातारं किं भवविधिरनादृत्य भवति ।
अनीशो वा कुर्याद्भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६॥
अजेति । हे अमरवर सर्वदेवश्रेष्ठ, अवयववन्तोऽपि सावयवा अपि लोकाः क्षित्यादयः किमजन्मानो जन्महीनाः । किंशब्द आक्षेपे । तेन न जन्महीनाः किंतु जन्या एवेत्यर्थः । तेन सावयवत्वेन क्षित्यादेर्न जन्यत्वहेतोरसिद्धत्वम् । 'यावद्विकारं तु विभागो लोकवत्' इति न्यायात् स्वसमानसत्ताकभेद प्रतियोगित्वेनैव जन्यत्वनियमाच्च । तथा जगतां क्षित्यादीनां भवविधिरुत्पत्तिक्रियाऽधिष्ठातारं कर्तारमनादृत्या- नपेक्ष्य किं भवति । अपेक्ष्यैव भवतीत्यर्थः । तेन कार्यत्वसकर्तृकत्वयो- रव्यभिचारान्नानैकान्तिकत्वं हेतोः । तथानीशो वा ईश्वरादन्यो वा यदि कुर्यात्तर्हि भुवनजनने कः परिकरः का सामग्री । अनीश्वरस्य स्वशरीररचनामप्यजानतो विचित्रचतुर्दशभुवनरचनाऽसंभवादीश्वर एव रचनां करोतीत्यर्थः । परिकरमिति पाठे को वानीश्वरो भुवन- जनने परिकरमारम्भं कुर्यात् । अपित्वीश्वर एव कुर्यादित्यर्थः । एते- नार्थान्तरता परिहृता । एवमनुमानदोषानुद्धृत्य शङ्कितदोषान्तरं नि- राकुर्वन्नुपसंहरति—यत इति । यत एवं सर्वप्रमाणसिद्धस्त्वं, अतस्ते मन्दा मूढा नतु विद्वांसः इमे ये त्वां प्रति संशेरते संदेहवन्तः कि- मुत विपर्ययवन्त इत्यर्थः। 'जन्माद्यस्य यतः' इति न्यायेन 'यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंवि- शन्ति । तद्ब्रह्म' 'आनन्दो ब्रह्मेति व्यजानात्' इत्यादिश्रुतिरेव परमे- श्वरे प्रमाणम् । अनुमानं त्वनुकूलतर्कमात्रं श्रुतेर्न स्वातन्त्र्येण प्रमा- णमिति द्रष्टव्यम् । हरिपक्षेऽप्येवम् ॥ ६ ॥
एवं तावत्प्रतिकूलतर्कं परिहृत्य भगवद्विमुखान्निरस्य सर्वेषां शास्त्रप्रस्थानानां भगवत्येव तात्पर्यं साक्षात्परम्परया वेति वदन्स्तौति --
त्रयीसांख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७ ॥
त्रयीति । हे अमरवर, नाना संकीर्णाः पन्थानः नानापथाः ऋज- वश्च कुटिलाश्च ऋजुकुटिलाः ऋजुकुटिलाश्च ते नानापथाश्चेति ऋजुकुटिलनानापथास्ताञ्जुषन्ते भजन्तीति तथा तेषां नृणामधि- कार्यनधिकारिसाधारणानां तत्तत्साधनानुष्ठानैः साक्षात्परम्परया वा त्वमेवैको गम्यः प्राप्यः नत्वन्यः कश्चिदित्यर्थः । अत्र दृष्टान्तमाह- पयसामर्णव इव । यथा ऋजुपथजुषा गङ्गानर्मदादीनां साक्षादेव स- मुद्रः प्राप्यः, यथा वा कुटिलपथजुषां यमुनासरय्वादीनां गङ्गादिप्र- वेशद्वारा परंपराया, एवं वेदान्तवाक्यश्रवणमननादिनिष्ठानां साक्षात्त्वं प्राप्यः,अन्येषां त्वन्तःकरणशुद्धितारतम्येन परम्परया त्वमेव प्राप्यः । चेतनत्वेनैव मोक्षयोग्यत्वात्परमात्माभ्युपगमाच्चेत्यर्थः । ननु ऋजु- मार्गे सति तं विहाय किमिति कुटिलमार्गं भजन्ते ऋजुमार्गस्यैव शीघ्रफलदायित्वादित्यत आह । प्रभिन्ने प्रस्थाने इदं परं पथ्यं अदः परं पथ्यमिति च रुचीनां वैचित्र्यात्तस्मिंस्तस्मिञ्शास्त्रप्रस्थाने इदमेव श्रेष्ठमिदमेव मम हितमितीच्छाविशेषाणामनेकप्रकारत्वात् प्राग्भवी- यतत्तत्कर्मवासनावशेव ऋजुत्वकुटिलत्वेनिश्चयासामर्थ्यात्कुटिलेऽपि ऋजुभ्रान्त्या प्रवर्तन्त इत्यर्थः । प्रस्थानभेदमेव दर्शयति । त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति । सर्वशास्त्रोपलक्षणमेतत् । तथाहि त्रयीशब्देन वेदत्रयवाचिना तदुपक्षिता अष्टादश विद्या अप्यत्र विवक्षिताः । तत्र ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद इति वेदाश्च -
त्वारः । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति वेदा- ङ्गानि षट् । पुराणानि न्यायो मीमांसा धर्मशास्त्राणि चेति चत्वार्यु - पाङ्गानि । अत्रोपपुराणानामपि पुराणेष्वन्तर्भावः । वैशेषिकशास्त्रस्य न्याये, वेदान्तशास्त्रस्य मीमांसायां, महाभारतरामायणयोः सांख्य- पातञ्जलपाशुपतवैष्णवादीनां च धर्मशास्त्रेष्विति मिलित्वा चतुदर्श विद्याः। तथाचोक्तम् 'पुराणन्यायमीमांसाधर्मशास्त्राङ्ग मिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश' इति । एता एव चतुर्भिरुपवेदैः सहिता अष्टादश विद्या भवन्ति । आयुर्वेदो धनुर्वेदो गान्धर्ववेदोऽर्थ- शास्त्रं चेति चत्वार उपवेदाः । ता एता अष्टादश विद्यास्त्रयी सांख्यमि• त्यनेनोपन्यस्ताः।अन्यथा न्यूनताप्रसङ्गात् । सर्वेषां चास्तिका नामेताव- न्त्येव शास्त्रप्रस्थानानि । अन्येषामप्येकदेशिनामेष्वेवान्तर्भावात् । ननु नास्तिकानामपि प्रस्थानान्तराणि सन्ति तेषामेतेष्वनन्तर्भावात्पृथग्ग- णयितुमुचितानि । तथाहि शून्यवादेनैकं प्रस्थानं माध्यमिकानाम् । क्ष- णिकविज्ञानमात्रवादेनापरं योगाचाराणाम् । ज्ञानाकारानुमेयक्षणिक- बाह्यार्थवादेनापरं सौत्रान्तिकानाम् । प्रत्यक्षस्वलक्षणक्षणिकबाह्यार्थ- वादेनापरं वैभाषिकानाम् । एवं सौगतानां प्रस्थानचतुष्टयम् । तथा दे- हात्मवादेनैकं प्रस्थानं चार्वाकाणाम् । एवं देहातिरिक्तदेहपरिणामा त्मवादेन द्वितीयं प्रस्थानं दिगम्बराणाम् । एवं मिलित्वा नास्तिकानां षट् प्रस्थानानि तानि कस्मान्नोच्यन्ते । सत्यम् । वेदबाह्यत्वात्तु तेषां म्लेच्छादिप्रस्थानवत्परम्परयापि पुरुषार्थानुपयोगित्वादुपेक्षणीयत्वमे- व । इह च साक्षाद्वा परम्परया वा पुमर्थोपयोगिनां वेदोपकरणानामेव प्रस्थानानां भेदो दर्शितोऽतो न न्यूनत्वशङ्कावकाशः ॥ अथ संक्षेपे- णैषां प्रस्थानानां स्वरूपभेदहेतुः प्रयोजनभेद उच्यते बालानां व्यु- त्पत्तये । तत्र धर्मब्रह्मप्रतिपादकमपौरुषेयं प्रमाणवाक्यं वेदः । स च मन्त्रब्राह्मणात्मकः। तत्र मन्त्रा अनुष्ठानकारणभूतद्रव्यदेवताप्रकाशकाः। तेऽपि त्रिविधाः ऋग्यजुःसामभेदात् । तत्र पादबद्धगायत्र्यादिच्छ-
न्दोविशिष्टा ऋचः 'अग्निमीळे पुरोहितम्' इत्याद्याः । ता एव गीति- विशिष्टाः सामानि। तदुभयविलक्षणानि यजूंषि । 'अग्नीदग्नीन्विहर' इत्यादिसंबोधनरूपा निगदसंज्ञामन्त्रा अपि यजुरन्तर्भूता एव । तदेवं निरूपिता मन्त्राः ॥ ब्राह्मणमपि त्रिविधम् । विधिरूपम्, अर्थवादरूपम्, तदुभयविलक्षणं च । तत्र शब्दभावना विधिरिति भाट्टाः । नियोगो विधिरिति प्राभाकराः । इष्टसाधनता विधिरिति तार्किकादयः । सर्वो विधिरपि चतुर्विधः । उत्पत्यधिकारविनियो- गप्रयोगभेदात् । त[^१]त्र देवताकर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः 'आग्नेयोऽष्टाकपालो भवति' इत्यादिः । सेतिक[^२]र्तव्यताकस्य करणस्य यागादेः फलसंवन्धबोधको विधिरधिकारविधिः 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इत्यादिः । अङ्गसंबन्धबोधको विधिर्विनियोग- विधिः 'व्रीहिभिर्यजेत', 'समिधो यजति' इत्यादिः । साङ्गप्रधानक- र्मप्रयोगैक्यबोधकः पूर्वविधित्रयमेलनरूपः प्रयोगविधिः । सच श्रौत इत्येके । काल्प इत्यपरे ॥ कर्मस्वरूपं च द्विविधम् । गुणकर्म अर्थकर्म च । तत्र ऋतुकारकाण्याश्रित्य विहितं गुणकर्म । तदपि चतुर्विधम् । उत्पत्त्याप्तिविकृतिसंस्कृतिभेदात् । तत्र 'वसन्ते ब्राह्म- णोऽग्नीनादधीत', 'यूपं तक्षति' इत्यादावाधानतक्षणादिना संस्का- रविशेषविशिष्टाग्नियूपादेरुत्पत्तिः । 'स्वाध्यायोऽध्येतव्यः,' 'गां पयो दोग्धि' इत्यादावध्ययनदोहनादिना विद्यमानस्यैव स्वाध्यायपयः- प्रभृतेः प्राप्तिः । 'सोममभिषुणोति', 'व्रीहीनवहन्ति', 'आज्यं विला- पयति' इत्यादावभिषवावघातविलापनैः सोमादीनां विकारः । 'व्रीही- न्प्रोक्षति', 'पत्न्यवेक्षते' इत्यादौ प्रोक्षणावेक्षणादिभिर्व्रीह्यादिद्रव्याणां संस्कारः। एतच्चतुष्टयं चाङ्गमेव । तथा क्रतुकारकाण्यनाश्रित्य विहि- तमर्थकर्म । तच्च द्विविधम् अङ्गं प्रधानं च । अन्यार्थमङ्गम् । अनन्यार्थं प्रधानम् । अङ्गमपि द्विविधं संनिपत्योपकारकमारादुपकारकं च । तत्र [^१] 'तत्र कर्मस्वरूप' इति पाठः । [^२] 'इतिकर्तव्यताकरणस्य' इति पाठः ।
प्रधानस्वरूपनिर्वाहकं प्रथमं यथाऽवहननप्रोक्षणादिफलोपकारि । द्वि- तीयं यथा प्रयाजादि । एवं संपूर्णाङ्गसंयुक्तो विधिः प्रकृतिः । विकला- ङ्गसंयुक्तो विधिर्विकृतिः। तदुभयविलक्षणो विधिर्दर्वीहोमः । एवमन्य- दप्यूह्यम् । तदेवं निरूपितो विधिभागः । प्राशस्त्यनिन्दान्यतरलक्ष- णया विधिशेषभूतं वाक्यमर्थवादः । सच त्रिविधः । गुणवादोऽनुवादो भूतार्थवादश्चेति । तत्र प्रमाणान्तरविरुद्धार्थबोधको गुणवादः 'आ- दित्यो यूपः' इत्यादिः । प्रमाणान्तरप्राप्तार्थबोधकोऽनुवादः 'अग्नि- र्हिमस्य भेषजम्' इत्यादिः । प्रमाणान्तरविरोधतत्प्राप्तिरहितार्थबो- धको भूतार्थवादः 'इन्द्रो वृत्राय वज्रमुदयच्छत्' इत्यादिः । तदु- क्तम् – 'विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्त- द्धानादर्थवादस्त्रिधा मतः' इति । तत्र त्रिविधानामप्यर्थवादानां विधिस्तुतिपरत्वे समानेऽपि भूतार्थवादानां स्व[^१]तःप्रामाण्यम् । देव- ताधिकरणन्यायात् । अबाधिताज्ञातार्थज्ञापकत्वं हि प्रामाण्यम् । तच्च बाधितविषयत्वाज्ज्ञापकत्वाच्च न गुणवादानुवादयोः । भूता- र्थवादस्य तु स्वार्थे तात्पर्यरहितस्याप्यौत्सर्गिक प्रामाण्यं न विह- न्यते । तदेवं निरूपितोऽर्थवादभागः । विध्यर्थवादोभयविलक्षणं तु वेदान्तवाक्यम् । तच्चाज्ञातज्ञापकत्वेऽप्यनुष्ठानाप्रतिपादकत्वान्न विधिः । स्वतः पुरुषार्थपरमानन्दज्ञानात्मकब्रह्मणि स्वार्थे उपक्रमोप- संहारादिषड्विधतात्पर्यलिङ्गवत्तया स्वतःप्रमाणभूतं सर्वानपि विधी- नन्तःकरणशुद्धिद्वारा स्वशेषतामापादयदन्यशेषत्वाभावाच्च नार्थ- वादः। तस्मादुभयविलक्षणमेव वेदान्तवाक्यम् । तच्च क्वचिदज्ञातज्ञा- पकत्वमात्रेण विधिरिति व्यपदिश्यते । विधिपदरहितमपि प्रमाण- वाक्यत्वेन च क्वचिद्भूतार्थवाद. इति व्यवहियत इति न दोषः । तदेवं त्रिविधं निरूपितं ब्राह्मणम् ॥ एवं च कर्मकाण्डब्र- ह्मकाण्डात्मको वेदो धर्मार्थकाममोक्षहेतुः । स च प्रयोगत्रयेण [^१] 'स्वार्थेऽपि' इति पाठः ।
यज्ञनिर्वाहार्थमृग्यजुःसामभेदेन भिन्नः । तत्र हौत्रप्रयोग ऋग्वेदेन, आध्वर्यवप्रयोगो यजुर्वेदेन, औद्गात्रप्रयोगः सामवेदेन । ब्राह्मयाज- मानप्रयोगौ त्वत्रैवान्तर्भूतौ अथर्ववेदस्तु यज्ञानुपयुक्तोऽपि शान्ति- कपौष्टिकाभिचारिकादिकर्मप्रतिपादकत्वेनात्यन्तविलक्षण एव । एवंच प्रवचनभेदात्प्रतिवेदं भिन्ना भूयसः शाखाः । एवंच कर्मकाण्डे व्या- पारभेदेऽपि स[^१]र्वासां वेदशाखानामेकरूपकत्वमेव ब्रह्मकाण्डमिति चतुर्णां वेदानां प्रयोजनभेदेन भेद उक्तः ॥ अथाङ्गानामुच्यते । तत्र शिक्षाया उदात्तानुदात्तस्वरितह्रस्वदीर्घप्लुतादिविशिष्टस्वरव्यञ्जना- त्मकवर्णोच्चारणविशेषज्ञानं प्रयोजनम् । तदभावे मन्त्राणामनर्थक- फलत्वात् । तथा चोक्तम् – "मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथे- न्द्रशत्रुः स्वरतोऽपराधात्" इति । तत्र सर्ववेदसाधारणी शिक्षा 'अथ शिक्षां प्रवक्ष्यामि' इत्यादिन[^२]वखण्डात्मिका पाणिनिना प्रकाशिता । प्रतिवेदशाखं च भिन्नरूपाः प्रातिशाख्यसंज्ञिता अन्यैरेव मुनिभिः प्रदर्शिताः । एवं वैदिकपदसाधुत्वज्ञानेनोहादिकं व्याकरणस प्रयोज- नम् । तच्च 'वृद्धिरादैच्' इत्याद्यध्यायाष्टकात्मकं महेश्वरप्रसादेन भगवता पाणिनिनैव प्रकाशितम् । तत्र कात्यायनेन मुनिना पा- णिनीयसूत्रेण वार्तिकं विरचितम् । तद्वद्वार्तिकोपरि च भगवता प तञ्जलिना महाभाष्यमारचितम् । तदेतत्रिमुनिव्याकरणं वेदाङ्ग- माहेश्वरमित्याख्यायते । कौमारादिव्याकरणानि तु न वेदाङ्गानि किंतु लौकिकप्रयोगमात्रज्ञानार्थानीत्यव गन्तव्यम् । एवं शिक्षाव्या- करणाभ्यां वर्णोच्चारणे पदसाधुत्वे च ज्ञाते वैदिकमन्त्रपदानामर्थ- ज्ञानाकाङ्क्षायां तदर्थं भगवता यास्केन 'समाम्नायः समाम्नतः (स व्या- ख्यातव्यः )' इत्यादि त्रयोदशाध्यायात्मकं निरुक्तमारचितम् । तत्र च नामाख्यातनिपातोपसर्गभेदेन चतुर्विधं पदजातं निरूप्य वैदि- [^१] 'सर्वात्मना' इति पाठः। [^२] ’पञ्चखण्डात्मिका’ इति पाठः।
कमन्त्रपदानामर्थः प्रदर्शितः । मन्त्राणां चानुष्ठेयार्थप्रकाशनद्वारेणैव करणत्वात्, पदार्थज्ञानाधीनत्वाच्च वाक्यार्थज्ञानस्य मन्त्रस्थपदा- र्थज्ञानाय निरुक्तमवश्यमपेक्षितम् । अन्यथानुष्ठानासंभवात् 'सृण्येव जर्भरी तुर्फरीतून' इत्यादीनामतिदुरूहाणां प्रकारान्तरेणार्थज्ञानस्यासं- भावनीयत्वाच्च । एवं निघण्ट्वादयोऽपि वैदिकद्रव्यदेवतात्मक पदार्थप - र्यायशब्दात्मका निरुक्तान्तर्भूता एव । तत्रापि निघण्टुसंज्ञकः पञ्चा- ध्यायात्मको ग्रन्थो भगवता यास्केनैव कृतः । अन्येप्यमरहेमचन्द्रा- दिप्रणीताः कोषाः सर्वे निघण्टुरूपत्वेन निरुक्तान्तर्गता द्रष्टव्याः । एवमृङ्मन्त्राणां पादबद्धच्छन्दोविशेषविशिष्टत्वात्तदज्ञाने च निन्दा- श्रवणाच्छन्दोविशेषनिमित्तानुष्ठानविशेषविधानाच्च छन्दोज्ञानाका- ङ्क्षायां तत्प्रकाशनाय 'धीश्रीस्त्रीम्' इत्याद्यष्टाध्यायात्मिका छन्दोवि- चितिर्भगवता पिङ्गलनागेन विरचिता । तत्र 'अथ लौकिकम्' इत्यन्तेनाध्यायत्रयेण गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगतीति सप्त छन्दांसि सर्वाणि सावान्तरभेदानि प्रसङ्गान्निरूपितानि । 'अथ लौकिकम्' इत्यारभ्याध्यायपञ्चकेन पुराणेतिहासादावुपयोगीनि लौकिकानि छन्दांसि प्रसङ्गान्निरूपितानि व्याकरणे लौकिकपद- निरूपणवत् । एवं वैदिककर्माङ्गदर्शादिकालज्ञानाय ज्योतिषं भग- वतालगधेन गर्गादिभिश्च प्रणीतं बहुविधमेव । एवं शाखान्तरीय- गुणोपसंहारेण वैदिकानुष्ठानक्रमविशेषज्ञानाय कल्पसूत्राणि । तानि च प्रयोगत्रयभेदास्त्रिविधानि । तत्र हौत्रप्रयोगप्रतिपादकान्याश्वला- यनसांख्यायनादिप्रणीतानि । आध्वर्यवप्रयोगप्रतिपादकानि बौधाय- नापस्तम्बकात्यायनादिप्रणीतानि । औद्गात्रप्रयोगप्रतिपादकानि तु लाट्या[^१]यनत्रीयायणादिभिः प्रणीतानि । एवं निरूपितः षण्णामङ्गानां प्रयोजनभेदः ॥ चतुर्णामुपाङ्गानामधुनोच्यते । तत्र सर्गप्रतिसर्गवंशम- न्वन्तरवंशानुचरितप्रतिपादकानि भगवता बादरायणेन कृतानि पुरा- [^१] 'लाह्यायनद्राह्मायणादिभिः' इति पाठः ।
णानि तानि च ब्राह्मं पाद्मं वैष्णवं शैवं भागवतं नारदीयं मार्कण्डेयं आ- ग्नेयं भविष्यं ब्रह्मवैवर्तं लैङ्गं वाराहं स्कान्दं वामनं कौर्मं मात्स्यं गारुडं ब्रह्माण्डं चेत्यष्टादश । एवमुपपुराणान्यप्यनेकप्रकाराणि द्रष्टव्यानि ॥ न्याये आन्वीक्षिकी पञ्चाध्यायी गौतमेन प्रणीता । प्रमाणप्रमेयसं- शयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वा- भासच्छलजातिनिग्रहस्थानाख्यानां षोडशपदार्थानामुद्देशलक्षणप- रीक्षाभिस्तत्त्वज्ञानं तस्याः प्रयोजनम् । एवं दशाध्यायं वैशेषिकशास्त्रं कणादेन प्रणीतम् । द्रव्यगुणकर्म सामान्य विशेषसमवायानां षण्णां भावपदार्थानामभावसप्तमानां साधर्म्यवैधर्म्याभ्यां व्युत्पादनं तस्य प्रयोजनम् । एतदपि न्यायपदेनोक्तम् ॥ एवं मीमांसापि द्विविधा । कर्ममीमांसा शारीरकमीमांसा च । तत्र द्वादशाध्यायी कर्ममीमांसा 'अथातो धर्मजिज्ञासा' इत्यादिः 'अन्वाहार्ये च दर्शनात्' इत्यन्ता भगवता जैमिनिना प्रणीता । तत्र धर्मप्रमाणं १, धर्मभेदाभेदौ २, शेषशेषिभावः ३, क्रत्वर्थपुरुषार्थभेदेन प्रयुक्तिविशेषः ४, श्रुत्यर्थ- पाठादिक्रमभेदः ५, अधिकारविशेषः ६, सामान्यातिदेशः ७, विशेषातिदेशः ८, ऊहः ९, बाधः १० तन्त्रं ११, प्रसङ्गश्च १२, इति क्रमेण द्वादशानामध्यायानामर्थाः । तथा च संकर्षकाण्डम- प्यध्यायचतुष्टयात्मकं जैमिनिना प्रणीतम् । तच्च देवताकाण्संज्ञया प्रसिद्धमप्युपासनाख्यकर्मप्रतिपादनत्वात्कर्ममीमांसान्तर्गतमेव ॥ तथा चतुरध्यायी शारीरकमीमांसा 'अथातो ब्रह्मजिज्ञासा' इत्यादिः 'अनावृत्तिः शब्दात्' इत्यन्ता जीवब्रह्मैकत्वसाक्षात्कारहेतुश्रवणा- ख्यविचारप्रतिपादकान्न्यायानुपदर्शयन्ती भगवता बाद्रायणेन कृता । तत्र सर्वेषामपि वेदान्तवाक्यानां साक्षात्परम्परया वा प्रत्यग- भिन्नाद्वितीये ब्रह्मणि तात्पर्यमिति समन्वयः प्रथमाध्यायेन प्रदर्शितः । तत्र च प्रथमपादे स्पष्टब्रह्मलिङ्गयुक्तानि वाक्यानि विचारितानि । द्वितीयपादे त्वस्पष्टब्रह्मलिङ्गयुक्तान्युपास्यब्रह्मविषयाणि । तृतीयपादे-
Sस्पष्ट ब्रह्मलिङ्गानि प्रायशो ज्ञेयब्रह्मविषयाणि । एवं पादत्रयेण वा- क्यविचारः समापितः । चतुर्थपादे तु प्रधानविषयत्वेन संदिह्यमा- नान्यव्यक्ताजादिपदानि चिन्तितानि ॥ एवं वेदान्तानामद्वये ब्रह्मणि सिद्धे समन्वये तत्र संभावितस्मृतितर्कादिविरोधमाशङ्क्य तत्परिहारः क्रियत इत्यविरोधो द्वितीयाध्यायेन दर्शितः । तत्राद्यपादे सांख्ययो• गकाणादादिस्मृतिभिः सांख्यादिप्रयुक्तैस्तर्कैश्च विरोधो वेदान्तसम- न्वयस्य परिहृतः । द्वितीये पादे सांख्यादिमतानां दुष्टत्वं प्रतिपा- दितं, स्वपक्षस्थापनपरपक्षनिराकरणरूपपक्षद्वयात्मकत्वाद्विचारस्य । तृतीये पादे महाभूतसृष्ट्यादिश्रुतीनां परस्परविरोधः पूर्वभागेन परिहृतः । उत्तरभागेन तु जीवविषयाणाम् । चतुर्थपादे इन्द्रियादि- विषयश्रुतीनां विरोधपरिहारः ॥ तृतीयाध्याये साधननिरूपणम् । तत्र प्रथमपादे जीवस्य परलोकगमननिरूपणेन वैराग्यं निरूपि- तम् । द्वितीयपादे पूर्वभागेन त्वंपदार्थः शोधितः । उत्तरभागेन च तत्पदार्थः । तृतीयपादे निर्गुणे ब्रह्मणि नानाशाखापठितः पुनरु क्तपदोपसंहारः कृतः। प्रसङ्गाच्च सगुणविद्यासु शाखान्तरीयगुणोपसं- हारानुपसंहारौ निरूपितौ । चतुर्थपादे निर्गुणब्रह्मविद्याया बहिरङ्ग- साधनान्याश्रमधर्मयज्ञदानादीनि, अन्तरङ्गसाधनानि शमदमनि- दिध्यासनादीनि च निरूपितानि ॥ चतुर्थेऽध्याये सगुणनिर्गुण- विद्ययोः फलविशेषनिर्णयः कृतः । तत्र प्रथमपादे श्रवणाद्यावृत्त्या निर्गुणं ब्रह्म, उपासनावृत्त्या सगुणं वा ब्रह्म साक्षात्कृत्य जीवतः पापपुण्यालेपलक्षणा जीवन्मुक्तिरभिहिता । द्वितीयपादे म्रियमाण- सोत्क्रान्तिप्रकारश्चिन्तितः । तृतीयपादे सगुणब्रह्मविदो मृतस्यो- तरमार्गोऽभिहितः । चतुर्थपादे पूर्वभागेन निर्गुणब्रह्मविदो विदे- हकैवल्यप्राप्तिरुक्ता । उत्तरभागेन सगुणब्रह्मविदो ब्रह्मलोके स्थिति- रुक्तेति । इदमेव सर्वशास्त्राणां मूर्धन्यं, शास्त्रान्तरं सर्वमस्यैव शेष- भूतमितीदमेव मुमुक्षुभिरादरणीयं श्रीशंकरभगवत्पादोदितप्रकारे-
णेति रहस्यम् ॥ एवं धर्मशास्त्राणि मनुयाज्ञवल्क्यविष्णुयमाङ्गि- रोवसिष्ठदक्षसंवर्तशातांतपपराशरगौतमशङ्खलिखितहारीतापस्तम्बोश- नोव्यासकात्यायनबृहस्पतिदेवलनारदपैठीनसिप्रभृतिभिः कृतानि व- र्णाश्रमधर्मविशेषाणां विभागेन प्रतिपादकानि । एवं व्यासकृतं महाभारतं, वाल्मीकिकृतं रामायणं च धर्मशास्त्र एवान्तभूतं स्पष्ट- मितिहासत्वेन प्रसिद्धम् । सांख्यादीनां धर्मशास्त्रान्तर्भावेऽपीह स्वशब्देनैव निर्देशात्पृथगेव संगतिर्वाच्या । अथ वेदचतुष्टयस्य क्रमेण चत्वार उपवेदाः । तत्रायुर्वेदस्याष्टौ स्थानानि भवन्ति सूत्रं शारीरमैन्द्रियं चिकित्सा निदानं विमानं कल्पः सिद्धिश्चेति । ब्रह्मप्र- जापत्यश्विधन्वन्तरीन्द्रभरद्वाजात्रेयाग्निवेश्यादिभिरुपदिष्टश्चरकेण सं- क्षिप्तः । तत्रैव सुश्रुतेन पञ्चस्थानात्मकं प्रस्थानान्तरं कृतम् । एवं वा- ग्भटादिभिरपि बहुधेति न शास्त्रभेदः ॥ कामशास्त्रमप्यायुर्वेदान्तर्ग- तमेव । सुश्रुतेन वाजीकरणाख्यकामशास्त्राभिधानात् । तत्र वात्स्या- यनेन पञ्चाध्यायात्मकं कामशास्त्रं प्रणीतम् । तस्य च विषयवैराग्य- मेव प्रयोजनं, शास्त्रोद्दीपितमार्गेणापि विषयभोगे दुःखमात्रपर्यवसा- नात् । चिकित्साशास्त्रस्य च रोगतत्साधनरोगनिवृत्तितत्साधनज्ञानं प्रयोजनम् ॥ एवं धनुर्वेदः पादचतुष्टयात्मको विश्वामित्रप्रणीतः । तत्र प्रथमो दीक्षापादः । द्वितीयः संग्रहपादः । तृतीयः सिद्धि- पादः । चतुर्थः प्रयोगपादः । तत्र प्रथमपादे धनुर्लक्षणमधिकारि- निरूपणं च कृतम् । तत्र धनुःशब्दश्चापे रूढोऽपि चतुर्विधायुध- वाची वर्तते । तच्च चतुर्विधं मुक्तं अमुक्तं मुक्तामुक्तं यन्त्रमुक्तं च । तत्र मुक्तं चक्रादि, अमुक्तं खड्गादि, मुक्तामुक्तं शल्यावान्तरभेदादि । यन्त्रमुक्तं शरादि । तत्र मुक्तमस्त्रमित्युच्यते । अमुक्तं शस्त्रमित्युच्यते । तदपि ब्राह्मवैष्णवपाशुपतप्राजापत्याग्नेयादिभेदादनेकविधम् । एवं साधिदैवतेषु समन्त्रकेषु चतुर्विधायुधेषु येषामधिकारः क्षत्रियकुमारा- णां तदनुयायिनां च ते सर्वे चतुर्विधाः पदातिरथगजतुरगारूढाः
दीक्षाभिषेकशकुनमङ्गलकरणादिकं च सर्वमपि प्रथमपादे निरूपि- तम् । सर्वेषां शस्त्रविशेषाणामाचार्यस्य च लक्षणपूर्वकं संग्रहणप्र कारो दर्शितः द्वितीये पादे । गुरुसंप्रदायसिद्धानां शस्त्रविशेषाणां पुनःपुनरभ्यासो मन्त्रदेवतासिद्धिकरणमपि निरूपितं तृतीयपादे । एवं देवतार्चनाभ्यासादिभिः सिद्धानामस्त्रविशेषाणां प्रयोगश्चतुर्थ - पादे निरूपितः । क्षत्रियाणां स्वधर्माचरणं युद्धं दुष्टदस्युचौरादिभ्यः प्रजापालनं च धनुर्वेदस्य प्रयोजनम् । एवं च ब्रह्मप्राजापत्यादिक- मेण विश्वामित्रप्रणीतं धनुर्वेदशास्त्रम् ॥ एवं गान्धर्ववेदशास्त्रं भर- तेन प्रणीतम् । तत्र नृत्यगीतवाद्यभेदेन वहुविधोऽर्थः प्रपञ्चितः॥ दे वताराधन निर्विकल्पकसमाध्यादिसिद्धिश्च गान्धर्ववेदस्य प्रयोजनम् । एवमर्थशास्त्रं च बहुविधं नीतिशास्त्रमश्वशास्त्रं गजशास्त्रं शिल्पशास्त्रं सूपकारशास्त्रं चतुःषष्टिकलाशास्त्रं चेति । ( ताश्चतुःषष्टिकलाः शैवा- गमोक्ताः- गीतम् १, वाद्यम् २, नृत्यम् ३, नाट्यम् ४, आलेख्यम् ५, विशेषकच्छेद्यम् ६, तण्डुलकुसुमबलिविकाराः ७, पुष्पास्तर- णम् ८, दशनवसनाङ्गरागा: ९, मणिभूमिकाकर्म १०, शयनर- चनम् ११, उदकवाद्यम् १२, उदक (घातः ) वादः १३, अद्भुत- दर्शनवेदिता १४, मालाग्रथनकल्पः १५, शेखरापीडयोजनम् १६, नेपथ्ययोगः १७, कर्णपत्रभङ्गाः १८, गन्धयुक्तिः १९, भूषणयो- जनम् २०, इन्द्रजालम् २१, कौचुमारयोगाः २२, हस्तलाघवम् २३, चित्रशाकापूपभक्तविकारक्रिया: २४, पानकरसरागासवयोज- नम् २५, सूचीवापकर्म २६, सूत्रक्रीडा २७, वीणाडमरुकवाद्या- नि २८, प्रहेलिकाप्रतिमालाः २९, दुर्वञ्चकयोगाः ३०, पुस्तकवाच- नम् ३१, नाटिकाख्यायिकादर्शनम् ३२, काव्यसमस्यापूरणम् ३३, पट्टिकावेत्रबाणविकल्पाः ३४, तर्कुकर्माणि ३५, तक्षणम् ३६, वास्तुविद्या ३७, रूप्यरत्नपरीक्षा ३८, धातुवादः ३९, मणिराग- ज्ञानम् ४०, आकरज्ञानम् ४१, बृक्षायुर्वेदयोगाः ४२, मेषकुक्क्रु-
टलावकयुद्धविधिः ४३, शुकसारिकाप्रलापनम् ४४, उत्सादनम् ४५, केशमार्जनकौशलम् ४६, अक्षरमुष्टिकाकथनम् ४७, म्ले- छितकविकल्पाः ४८, देशभाषाज्ञानम् ४९, पुष्पशकटिकानिमित्त- ज्ञानम् ५०, यन्त्रमातृका ५१, धरणमातृका ५२, असंवाच्यसं- पाट्यम् मानसीका व्यक्रियाविकल्पाः ५३, छलितकयोगाः ५४, अभिधानकोशछन्दोज्ञानम् ५५, क्रियाविकल्पाः ५६, ललितवि- कल्पाः ५७, वस्त्रगोपनानि ५८, द्यूतविशेषः ५९, आकर्षक्रीडा ६०, बालक्रीडनकानि ६१, वैनायकीविद्याज्ञानम् ६२, वैजयिक- विद्याज्ञानम् ६३, वैतालिकीविद्याज्ञानम् ६४, इति चतुःपष्टिकलाः) नानामुनिभिः प्रणीतं । तस च सर्वस्य लौकिकालौकिकतत्तत्प्रयोज- नभेदो द्रष्टव्यः । एवमष्टादश विद्यास्त्रयीशब्देनोक्ताः ॥ तथा सांख्यशा- स्त्रं कपिलेन भगवता प्रणीतम् । तत्र त्रिविधदुःखात्यन्तनिवृत्तिरत्य- न्तपुरुषार्थ इत्यादिषडध्यायाः । तत्र प्रथमेऽध्याये विषया निरूपिताः, द्वितीयेऽध्याये प्रधानकार्याणि, तृतीयेऽध्याये विषयवैराग्यम्, चतु- र्थेऽध्याये विरक्तानां पिङ्गलाकुर[^१]रादीनामाख्यायिकाः, पञ्चमेऽध्याये परपक्षनिर्जयः, षष्ठे सर्वार्थसंक्षेप: । प्रकृतिपुरुषविवेकज्ञानं सांख्य- शास्त्रस्य प्रयोजनम् ॥ तथा योगशास्त्रं भगवता पतञ्जलिना प्रणीतम् 'अथ योगानुशासनम्' इत्यादिपादचतुष्टयात्मकम् । तत्र प्रथमे पादे चित्तवृत्तिनिरोधात्मकं समाधिवैराग्यरूपं च तत्साधनं निरूपि- तम् । द्वितीये पादे विक्षिप्तचित्तस्यापि समाधिसिद्ध्यर्थं यमनिय- मासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि निरूपि- तानि । तृतीयपादे योगविभूतयः । चतुर्थपादे कैवल्यमिति । तस्य च विजातीय प्रत्यय निरोधद्वारेण निदिध्यासनसिद्धिः प्रयोजनम् ॥ तथा पशुपतिमतं पाशुपतं शास्त्रं भगवता पशुपतिना पशुपाशविमो- क्षणाय 'अथातः पाशुपतयोगविधिं व्याख्यास्यामः' इत्यादिपञ्चाध्यायं [^१.] ’कुमारादीनां’ इति पाठ: ।
विरचितम् । तत्राध्यायपञ्चकेनापि कार्यरूपो जीवः पशुः, कारणं पशुपतिरीश्वरः, योगः पशुपतौ चित्तसमाधानं, विधिर्भस्मना त्रिषव- णस्नानादिर्निरूपितः । दुःखान्तसंज्ञको मोक्षश्चास्य प्रयोजनम् । एते एव कार्यकारणयोगविधिदुःखान्ता इत्याख्यायन्ते ॥ एवं शैवं मन्त्र- शास्त्रमपि पाशुपतशास्त्रान्तर्गतमेव द्रष्टव्यम् ॥ एवं च वैष्णवनारदा- दिभिः कृतं पञ्चरात्रम् । तत्र वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाश्चत्वारः पदार्था निरूपिताः । भगवान्वासुदेवः परमेश्वरः सर्वकारणं त - स्मादुत्पद्यते संकर्षणाख्यो जीवस्तस्मान्मनः प्रद्युम्नस्तस्मादनिरुद्धो- ऽहंकारः । सर्वे चैते भगवतो वासुदेवस्यैवांशभूतास्तदभिन्ना एवेति तस्य वासुदेवस्य मनोवाक्कायवृत्तिभिराराधनं कृत्वा कृतकृत्यो भव- तीत्यादि च निरूपितम् । एवं वैष्णवमन्त्रशास्त्रं परिमितमपि पञ्च- रात्रमध्येऽन्तर्भूतम् । वामागमादिशास्त्रं तु वेदबाह्यमेव ॥ तदेवं दर्शि- तः प्रस्थानभेद । सर्वेषां संक्षेपेण त्रिविध एव प्रस्थानभेदः । तत्रार- म्भवाद एकः, परिणामवादो द्वितीयः, विवर्तवादस्तृतीयः । पार्थि- वाप्यतैजसवायवीयाश्चतुर्विधाः परमाणवो द्व्यणुकादिक्रमेण ब्रह्मा- ण्डपर्यन्तं जगदारभन्ते । असदेव कार्यकारणव्यापारादुत्पद्यत इति प्रथमः तार्किकाणां मीमांसकानां च । सत्वरजस्तमोगुणात्मकप्रधा- नमेव महदहंकारादिक्रमेण जगदाकारेण परिणमते, पूर्वमपि सू- क्ष्मरूपेण सदेव कार्यं कारणव्यापारेणाभिव्यज्यत इति द्वितीयः पक्षः सांख्ययोगपाशुपतानां, ब्रह्मणः परिणामो जगदिति वैष्णवानामपि । स्वप्रकाशपरमानन्दाद्वितीयं ब्रह्म स्वमायावशान्मिथ्यैव जगदाकारेण कल्प्यत इति तृतीयः पक्षो ब्रह्मवादिनाम् । सर्वेषां च प्रस्थानकर्तॄणां मुनीनां विवर्तवादपर्यवसानेनाद्वितीये परमेश्वरे एव वेदान्तप्रति- पाद्ये तात्पर्यम् । नहि ते मुनयो भ्रान्ताः सर्वज्ञत्वात्तेषां, किंतु ब- हिर्विषयप्रवणानामापाततः परमपुरुषार्थे प्रवशो न भवतीति ना- स्तिक्यनिवारणाय तैः प्रकारभेदाः प्रदर्शिताः । तत्र तेषां तात्पर्य-
मबुद्ध्वा वेदविरुद्धेऽप्यर्थे तेषां तात्पर्यमुत्प्रेक्षमाणास्तत्तन्मतमेवोपादे- यत्वेन गृह्णन्तो जना ऋजुकुटिलनानापथजुषो भवन्तीति न सर्वेषा- मृजुमार्गे एव प्रवेशो, नच विप[^१]र्ययेऽपि परमेश्वराप्राप्तिरन्तःकर- णशुद्धिवशेन पश्चादृजुमार्गाश्रयणादेवेत्यर्थः । हरिपक्षेऽप्येवम् ॥ ७॥ एवं सर्वशङ्कोद्धारेण हरिहरस्वरूपं निरूप्य तदेवार्वाचीनपदस्थं स्तौति --- महोक्ष: खट्वाङ्गं परशुरजिनं भस्म फणिनः कपालं चेतीयत्तव वरद तन्त्रोपकरणम् । सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ८ महोक्ष इति । हे वरद, तव परिपूर्णपरमेश्वरस्याप्येतत्तन्त्रोप- कारणं तन्त्रस्य कुटुम्बधारणस्योपकरणं साधनम् । तदेवाह । म- होक्षः महानुक्षा वृद्धवृषभः, खट्वाङ्गं खट्वाया अवयवः शस्त्रविशेषः कापालिकानां प्रसिद्धः, परशुः टङ्कः कुठारो वा, अजिनं चर्म, भस्म विभूतिः, फणिनः सर्पाः, कपालं मनुष्यशिरोस्थि चेति सप्तकम् । नन्वेवं दरिद्रस्तुष्टोऽपि किं दास्यतीत्यत आह – सुरा इत्यादि । सुरास्तु भवत्सेवया भवद्भ्रूप्रणिहितां भवतो भ्रूविक्षेपमात्रेण सम- र्पितां तां तामसाधारणीमृद्धिं संपत्तिं दधति धारयन्ति । त्वमति- दरिद्रस्त्वद्भक्तास्तु सर्वेऽसुरास्त्वत्प्रसादात्समृद्धा इति व्यतिरेकं तु- शब्द आह । यो ह्यन्यान्धनवतः करोति स तदपेक्षयाधिकधनवान्भ- वतीति प्रसिद्धं लोके । ननु तर्हीदृशोऽपि स्वयं कथं महोक्षादिमा- त्रपरिवार इत्यत आह – नहीत्यादि । हि यस्मात्स्व आत्मनि स्व- रूपे चिदानन्दघने आरमत्याक्रीडत इति तथा तं न भ्रमयति न मोहयति । विषयमृगतृष्णा विषया इन्द्रियार्थाः शब्दस्पर्शरूपरस- [^१.] 'न वा पर्यवसानेऽपि’ इति पाठः।
गन्धास्त एव मृगतृष्णा जलबुद्ध्या गृह्यमाणा मरीचिका । यथा मृग- तृष्णा रविरश्मिरूपा जलविरुद्धस्वभावापि भ्रान्त्या जलमयीवाभा- सते तथा विषया अपि दुःखरूपा भ्रान्त्या सुखरूपा आभासन्त इति रूपकार्थः । यत्र जीवोऽपि स्वात्मारामतां प्राप्तो न विषया- सक्तो भवति, तत्र किमु वक्तव्यं नित्यमुक्तः परमेश्वरो विषयैर्ना- भिभूयत इत्यभिप्रायः । तेन वृषभारूढा खट्वाङ्गपरशुफणिकपाला- लंकृतचतुर्भुजा चर्मवसना भस्माङ्गरागा विविधभूषणा माहेश्वरी मूर्तिर्गुरूपदेशेन ज्ञाता स्तुत्यादिभिराराध्येत्यर्थः । वस्तुतस्तु पुरुषप्रधानमहदहंकारतन्मात्रेन्द्रिय भूतानि महोक्षादिरूपेण गुप्तानि भगवन्तं महेश्वरमुपासत इत्यागमप्रसिद्धम् । तस्य जगत्कुटुम्बस्य तत्त्वान्येवोपकरणमिति निष्कर्षः । हरिपक्षे तु । महोक्षः अक्षश्चक्रं 'अक्षो रथावयवके च बिभीतके स्यादक्षाणि पण्डितजना विदुरिन्द्रि- याणि' इति धरणिः। महस्तेजोरूपं, भस्मफणिनः भस्मवच्छुभ्रस्य कोमलाङ्गस्य च फणिनः शेषस्याऽजिनं शरीरत्वक् खट्वा शय्या । तथा कपालं कं शिरः पाल्यतेऽनेनेति कपालं शिरउपधानं तस्यैव भस्म- फणिनोऽङ्गं किंचिदुच्छ्रितावयवविशेषः । अथवा केन जलेन पा- ल्यत इति कपालं पद्मं शङ्खो वा तस्मिन्पक्षे भस्म फणिनोऽङ्गं अजिनं च खट्वा, अङ्गं पर्यङ्कस्थानीयं अजिनं च तदुपरि आस्तृतवस्त्रस्था- नीयमिति बोद्धव्यम् । तथा परशुरिति परशुरामावताराभिप्रायेण । ह वरद, एतावत्तव तन्त्रोपकरणमित्यादिपूर्ववत् । अथवा विषयमृ- गतृष्णा अविद्यान्तःकरणोपरक्तं प्रतिविम्बकल्पं जीवं व्यामोहय त्यपि रामं अनन्तसत्यज्ञानानन्दात्मकत्वेन योगि[^१]नां रतिविषयं त्वां बिम्बकल्पं न मोहयति न स्वावरणांशेनाभिभवति । उपाधेः प्रति- बिम्बपक्षपातित्वात् । कीदृशी सा । स्वात्मा स्वः सच्चिदानन्दात्म- [^१] 'योगिनामविषयं' इति पाठः ।
कस्त्वमेवात्मा स्वरूपं यस्याः सा, तथा त्वय्यध्यस्ता सा स्वसत्ता- स्फूर्तिप्रदं त्वां कथं व्यामोहयेदित्यर्थः । अत्रापि चक्रादीनां भगव- द्विभूतित्वं विष्णुपुराणादौ प्रसिद्धम् ॥ ८ ॥ एवं स्तुत्ययोर्हरिहरयोर्निर्गुणं सगुणं च स्वरूपं निरूपितं, संप्रति स्तुतेः प्रकारं निरूपयन्स्तौति-
ध्रुवं कश्चित्सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्याघ्रौव्ये जगति गदति व्यस्तविषये ।
समस्तेऽप्येतस्मिन्पुरमथन तैर्विस्मित इव
स्तुवञ्जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥९॥
ध्रुवमिति । हे पुरमथन, तैः स्तुतिप्रकारैस्त्वां स्तुवन्न जिह्रेमि नाहं लज्जे । विसित इव जातचमत्कार इव । यथा कश्चिदद्भुतं दृष्ट्वा विस्मितस्तत्परवशत्वालोकोपहासमगणयित्वा विचेष्टते तथा- हमपि स्तोतुमयं न जानातीति जनो मामुपहसिष्यतीति लज्जा- मगणयन् त्वत्स्तुतौ प्रवृत्तोऽस्मीत्यर्थः । तैः कैः प्रकारैरित्याह – ध्रुव- मित्यादि । कश्चित्कोऽपि सांख्यपातञ्जलमतानुसारी सर्वं समग्रं ज- गद्ध्रुवं जन्मनिधनरहितं सदेव गदति । व्यक्तं वदतीत्यर्थः। नह्य- सत उत्पत्तिः संभवति न वा सतो विनाश इत्याविर्भावतिरोभावमा- त्रमुत्पत्तिविनाशशब्दाभ्यामभिलक्ष्यते । तेन परमेश्वरोऽपि तावन्मा- त्रस्येष्टे न त्वसत उत्पत्तेः, सतो वा विनाशस्येत्यभिप्रायः । इति सत्कार्यवाद एकः पक्षः । तथाऽपरोऽन्यः सुगतमतानुवर्ती सक- लमिदमध्रुवं क्षणिकमिति गदति । नहि सतः स्थिरत्वं संभवति । अर्थक्रियाकारित्वमेव सत्त्वम् । तच्च सदर्थस्सेक्ष[^१]णयोगेन न विलम्बे- नोत्पद्यते इति । एकस्मिन्क्षणे सर्वार्थक्रियासमाप्तेरुत्तरक्षणेऽसत्त्वमेव । [^१] 'सदर्थस्याक्षेपायोगेन' इति पाठः ।
तथाच परमेश्वरस्यापि क्षणिकविज्ञानसंतानरूपत्वादसावसत उत्प त्तेरीष्टे नतु सतः स्थिरत्वायेति द्वितीयः पक्षः सर्वक्षणिकतावा - दलक्षणः ॥ तदुभयपक्षासहिष्णुश्च परस्तार्किकः समस्तेऽप्येतस्मि - ञ्जगति ध्रौव्याघ्रौव्ये नित्यत्वानित्यत्वे व्यस्तविषये भिन्नधर्मवर्तिनी गदति ( आकाशादिचतुष्कपृथिव्यादिचतुष्कपरमाणवश्च नित्याः ) आकाशकालदिगात्ममनःपृथिव्यादिपरमाणवश्च नित्याः इति वा । कार्यद्रव्याणि चानित्यानि । तथा चानित्यानामुत्पत्तिविनाशयोरीष्टे परमेश्वरो नतु नित्यानामपीत्यर्थः । इत्येवं तृतीयः पक्षः । तथाच त्रिष्वप्येतेषु द्वैताङ्गीकारादद्वितीयसन्मात्ररूपस्य परमेश्वरस्य स्प र्शोऽपि नास्तीति सोपाधिकसंकुचितैश्वर्यरूपेण स्तुतिः सर्वथा ल- ज्जाकरीत्यर्थः । तर्हि किमिति न लज्जस इत्यत आह । ननु अहो खलु निश्चितं मुखरता वाचालता धृष्टा निर्लज्जा । तथाच मुखर- तैव लज्जामपहरतीत्यर्थः । एवं सर्वप्रकारप्रवादकवादादीनामा- भासत्वमुक्तम्, अद्वितीयवादस्यैव लज्जानास्पदत्वेन सत्यत्वमिति द्रष्टव्यम् । एतच्च 'त्वमर्कस्त्वं सोमः' इत्यादौ स्पष्टीकरिष्यते । हरिपक्षेऽप्येवम् । तत्र पुरमथनशब्दः प्राग्व्याख्यातः ॥ ९ ॥ एवं लोकनवकेन स्तुतिसामग्रीं निरूप्य स्तुतौ प्रस्तुतायां समस्तप्रभाववतामग्रेसरयोर्हरिविरंच्योरपि त्वत्प्रसादादेव त्वत्सा- क्षात्कार इत्येवं निरतिशयं माहात्म्यं प्रकटयन्स्तौति -
तवैश्वर्यं यत्नाद्यदुपरि विरंचिर्हरिरधः
परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः ।
ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश य
त्स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥१०॥
तवेति । हे गिरिश, तवानुवृत्तिः सेवा किं न फलति । अपितु सर्वमेव फलति । त्वत्साक्षात्कारपर्यन्तं फलं ददातीत्यर्थः । तत्रा-
न्वयव्यतिरेकाभ्यां कारणतां द्रढयितुं भगवदनुवृत्तिव्यतिरेके फल- व्यतिरेकमाह । यद्यस्मादनलस्कन्धवपुषस्तेजःपुञ्जमूर्तेस्तवैश्वर्यं स्थूलं रूपं परिच्छेत्तुमियत्तयावधारयितुमुपर्यूर्ध्वं विरंचिर्ब्रह्मा अधोऽधस्ताद्ध- रिर्विष्णुः यत्नात्सर्वप्रयत्नेन यावद्गन्तुं शक्तौ तावद्यातौ गतौ अनलं नाऽलम् । न परिच्छेत्तुं समर्थावित्यर्थः । यत्र स्थूलरूपमप्यपरि- च्छेद्यं तत्र दुरे सूक्ष्मरूपपरिच्छेदसंभावना । तेन त्वदनुवृत्तिं विना हरिविरंच्योः प्रसिद्धमहाप्रभावयोरपि त्वं न विज्ञेयस्तत्र का वार्ता - ऽन्येषामिति व्यतिरेकमुक्त्वाऽन्वयमाह । ततस्तस्मा (त्कारणा) - त्स्वयत्नवैफल्यादनन्तरं ताभ्यां हरिविरंचिभ्याम् । 'श्लाघह्नुङ्स्था- शपां ज्ञीप्स्यमानः' इति चतुर्थी । तयोर्ज्ञानायेत्यर्थः । कीदृशाभ्यां भक्तिश्रद्धाभरगुरुगृणद्भ्याम् । भक्तिरत्र कायिकी सेवा, श्रद्धास्तिक्य- बुद्धिः (मानसीसेवा), तयोर्भरोऽतिशयस्तेन गुरु श्रेष्ठं निरतिशयं यथा तथा गृणद्भ्यां स्तुवद्भ्यां वाचिकीं सेवां कुर्वद्भ्याम् । यद्धि गु- रुतरं भवति शिलोच्चयादि तत्पवनपर्जन्यादिभिर्न विक्रियामुपैति अलघुद्रव्यत्वात्, तथा स्तुतिरप्यतिगौरववती शिलोच्चयादिस्था- नीया पवनपर्जन्यस्थानीयैर्विघ्नैचालयितुं न शक्येति गुरुशब्देन ध्वनितम् । एवंरूपेण तवैश्वर्यं स्तुवद्भ्यां ताभ्यां किमित्याह । स्वयं तस्थे स्वयमेव नतु तयोः प्रयत्नेन तस्थे स्वमात्मानं प्रकाशयति स्म । अत्र तवैश्वर्यमिति कर्तृपदं द्रष्टव्यम् । 'प्रकाश- नस्थेयाख्ययोश्च' इत्यात्मनेपदम् । यद्वा गृणद्भ्यामिति कर्तरि तृतीया । तस्थे स्थितं निवृत्तमिति भावप्रत्ययः । ततस्तयोर्निवृत्तावपि किं तवानुवृत्तिर्न फलति । अपितु फलत्येवेत्यर्थः । तस्मादेव हरिविरं- चिभ्यामपि त्वदनुवृत्त्यैव त्वं साक्षात्कृतः का वार्ताऽन्येषामित्य- न्वय उक्तः । एवं त्वदनुवृत्तिरेव सर्वं फलतीत्यन्वयव्यतिरेकाभ्यां दृढीकृतम् ॥ हरिपक्षे तु गिरौ गोवर्धनाख्ये शेते गोपी रमयन्निति गिरिशः श्रीविष्णुः । अथवा गिरिं मन्दरं श्यति तनूकरोति क्षीरोदं
मथ्नन्निति गिरिशः । योजनिका पूर्ववत् । हरिः सर्पः शेषः विरंचि शेषाभ्यामपि त्वत्कृपयैव त्वं प्राप्त इति पूर्ववत्सर्वम् । अत्र 'अनिल' इति क्वचित्पाठः स न सांप्रदायिकः । तथा चान्यत्रोक्तम् 'नोर्ध्वं गम्यः सरसिजभुवो नाप्यधः शार्ङ्गपाणेरासीदन्तस्तव हुतवहस्क- न्धमूर्त्या स्थितस्य' इति ॥ १० ॥ अथ बलिरावणयोरसुरयोरपि भगवदनुग्रहं दर्शयन्स्तौति - अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं दशास्यो यद्बाहूनभृत रणकण्डूपरवशान् । शिरः पद्मश्रेणीरचितचरणाम्भोरुहवलेः स्थिरायास्त्वद्भक्तेत्रिपुरहर विस्फूर्जितमिदम् ११ अयत्नादिति । हे त्रिपुरहर, स्थिराया निश्चलायास्त्वद्भक्तेस्तव सेवायाः विस्फूर्जितमिदं प्रभावोऽयम् । किंविशिष्टायास्त्वद्भक्तेः । शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः । शिरांस्येव पद्मानि अर्थाद्रा- वणस्य तेषां श्रेणी पङ्किस्तया रचितः कल्पितश्चरणाम्भोरुहयोः पाद- पद्मयोर्बलिरुपहारो यस्यां सा तथा । रावणेन हि नवभिर्निजशिरोभिः स्वहस्तकृत्तैः शंभोरुपहारः कृत इति पुराणप्रसिद्धम् । किं तद्वि- स्फूर्जितमित्यत आह । यत् दशास्यो रावणो बाहून्विशतिभुजान् । कीदृशान् । रणाय युद्धाय कण्डूः खर्जूः । अतिस्पृहेति यावत् । तया परवशांस्तदधीनानभृत धृतवान् । रणकण्डूर्हि रणेनैव निवर्तते । रणसंभवाच्च सर्वदा कण्डूरेव तद्भुजेष्विति भावः । तर्हि रणं संपाद्य किमिति तत्कण्डूं न निवर्तयतीति चेन्न, प्रतिमल्लाभावा- दित्याह । त्रिभुवनं त्रैलोक्यमवैरव्यतिकरं न विद्यते वैरस्य विरोधस्य व्यतिकरः कारणं दर्पादि यत्र तत्तथा आपाद्य संपद्य । त्रैलोक्यव- र्तिनो वीरानिन्द्रादीन्स्वदास्यं नीत्वेत्यर्थः। तदप्ययत्नादयत्नेनैव । स्वयमेव रावणपराक्रमं श्रुत्वा सर्वे वीरा दर्पादि त्यक्तवन्त इत्यर्थः । तथा चानायासेनैव निर्जितत्रिजगतो रावणस्य भुजानां कण्डूर्नैव
शान्तेत्येष शौर्यातिशयो भगवद्भक्तेरेव प्रभाव इत्यर्थः । 'आसाद्य ' इति क्वचित्पाठः । तस्य प्राप्येत्यर्थः ॥ हरिपक्षे तु त्रीणि जाग्रत्स्व- प्नसुषुप्त्याख्यानि पुराणि भक्तानां जीवानां स्वसाक्षात्कारेण हर- तीति त्रिपुरहरो विष्णुः । हे त्रिपुरहर मोक्षदायक विष्णो, द- शास्यो यत्तादृशान् बाहून्भुजानभृत तत्त्वद्भक्तेरेव पूर्व कृताया इदानीं फलरूपेण परिणममानायाः, अतएव स्थिराया अनेककल्प- व्यवधानेऽपि यावत्फलपर्यन्तं स्थायिन्यास्तव सेवाया विस्फूर्जितमिदं नान्यस्य प्रभावोऽयमित्यर्थः । त्वदीयवैकुण्ठपुरद्वारपालस्य पार्षद- प्रवरस्य ब्रह्मशापव्याजेन त्वदिच्छयैवासुरीं योनिमनुभवतोऽपि रा- वणस्य त्वद्भक्तिप्रभावादेव निरतिशयं पौरुषमित्यर्थः । तथाच बलैर्वैरोचनेः त्वद्भक्तेर्विस्फूर्जितमिदं यागशालायां त्वदागमनत्वत्पा- णितोयदानत्वच्चरणाम्बुजस्पर्शनादि एतत्सर्वं सूचयन्संबोधयति । हे शिरःपद्मश्रेणीरचितचरणाम्भोरुह । अत्रापि बलेरिति संबध्यते । बलेः शिर एव पद्मश्रेणी पद्ममयी निःश्रेणिका पादविक्षेपभूमि- स्तस्यां रचितमर्पितं चरणाम्भोरुहं येन स तथा । योगपद्मपीठे हि भगवच्चरणारविन्दं तिष्ठतीति शास्त्रप्रसिद्धेः भगवच्चरणारविन्दा- धारत्वे बलेः शिरोऽपि पद्मपीठत्वेन निरूपितम् । शिरःशब्दस्य नित्यसापेक्षत्वाच्चात्र सापेक्षसमासो न दोषाय, देवदत्तस्य गुरु- कुलमितिवत् । बलिना खलु भगवद्वामनावतारप्रार्थनया पदत्रय- मिता भूमिर्देयेति प्रतिज्ञातं, तत्र पदद्वयेनैव सर्वस्मिञ्जगति भग- वताक्रान्ते स्वसत्यपालनाय तृतीयपदस्थाने स्वशिर एव बलिना दत्तं, तच्च भगवता स्वपादाम्बुजेनावष्टब्धमिति पुराणप्रसिद्धम् । नह्येतादृशः प्रसादो ब्रह्मादिभिरपि लब्धोऽस्ति । तस्माद्बलिकृताया- स्त्वद्भक्तेरेव प्रभावोऽयमित्यर्थः ॥ ११ ॥ एवं बलिरावणयोर्भक्तिवशादनुग्रहं प्रदर्श्य तयोरेव दर्पवशा- न्निग्रहं प्रदर्शयन्स्तौति-
अमुष्य त्वत्सेवासमधिगतसारं भुजवनं बलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः । अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्यासीद्ध्रुवमुपचितो मुह्यति खलः १२ अमुष्येति ॥ हे त्रिपुरहर, अमुष्य पूर्वश्लोकोक्तस्य राव- णस्य प्रतिष्ठा स्थितिः त्वयि अलसचलिताङ्गुष्ठशिरसि सति पातालेऽप्यलभ्या आसीत् । अलसं मन्दं यथा स्यात्तथा चलितं कम्पितमङ्गुष्ठशिरोऽङ्गुष्ठाग्रं येन स तथा तस्मिन् । चलितमिति ह्रस्वत्वं च कम्पतेश्चलतेर्मित्त्वानुशासनात् । तथाच तवाङ्गुष्ठ- कम्पनमात्रेणैव तस्य वीराभिमानिनोऽधःप्रवेशोऽशक्यप्रतीकार आसीदित्यर्थः । अमुष्य किं कुर्वतः । त्वदधिवसतावपि कैलासे तव मन्दिरेऽपि स्फटिकगिरौ भुजवनं भुजवृन्दं विंशतिसंख्याकं बलाद्विक्रमयतोऽतिशौर्येण व्यापारयतः । इममुत्पाट्य लङ्कायां नेष्यामीत्यभिप्रायेण भुजचेष्टां कुर्वत इत्यर्थः । कीदृशं भुजवनम् । त्वत्सेवासमधिगतसारं तव सेवया समधिगतः प्राप्तः सारो बलं येन तत्तथा । त्वत्प्रसादेनैव बलमासाद्य त्वद्गृहमुत्पाटयतीत्यहो कृतघ्न- ता मौढ्यं चेत्यभिप्रायः । एवं हि पुराणप्रसिद्धम् 'भगवत्प्रसादादा- सादितबलेन रावणेन स्वबलपरीक्षार्थं भगवन्निवासस्यापि कैलास- स्योत्पाटनमारब्धम् । ततश्च पार्वत्या भीतया प्रार्थितो भगवान्कै- लासस्याधोगमनार्थमङ्गुष्ठाग्रमात्रं शनैर्व्यापारयामास । तावन्मा- त्रेणैव क्षीणबलो रावणः पातालं प्रविवेश । पुनश्च भगवता करु- णया समुद्धृतः' इति । ननु भगवत्प्रसादाल्लब्धवरो रावणः कथं भगवन्तं तदानीं विस्मृतवानित्यत आह । ध्रुवं निश्चितं उपचितः समृद्धः सन् खलः कृतघ्नो मुह्यति कृतं विस्मरति । स्वोपचयहेतुमपि न गणयतीत्यर्थः ॥ हरिपक्षे तु । कैलासे केलिः क्रीडा सैव प्रयो
जनमस्येति कैलः कैलोऽसिः खड्गो यस्य सः कैलासिः । इच्छामात्रेण निर्जितसर्वशत्रोरपि तव क्रीडार्थमेव नन्दुकधारणमित्यर्थः । अमु- ष्य बलेः त्वदधिवसतौ त्वन्निवासे तव स्वत्वास्पदीभूतेऽपि त्रैलो- क्ये बलान्मदीयमिदं त्रैलोक्यमिति स्वत्वाभिमानाद्भुजवनं हस्तो- दकं विक्रमयतः मम स्वत्वत्यागपूर्वकमेतस्य प्रतिग्रहीतुः स्वत्वमुत्पादयामीत्यभिप्रायेण भगवतः पाणावुदकं प्रयच्छतः । कीदृशं भुजवनम् । त्वत्सेवया समधिगतः सारः सौभाग्यविशेषो येन तत्तथा । तव पाणिपद्मसंबन्धेनातितरां शोभमानमुदकमित्यर्थः । तथाच सर्वजगन्निवासस्य तब स्वत्वास्पदीभूतं यत्तत्स्वकीयमिति मत्वा तुभ्यं ददतो बलेर्महानेवापराधः । त्वया तु परमकारुणिकेन प्रतिज्ञातविक्रमत्रयमितभूमिदानेऽपि तस्यासामर्थ्यमासाद्य तस्य म[^१]त्ततानिवृत्तये योग्य एव दण्डः कृत इत्याह । त्वयि अलसच- लिताङ्गुष्ठशिरसि सति तस्य प्रतिष्ठा स्थितिः पातालेऽप्यलभ्यासीत् का वार्ता स्वर्गमर्त्ययोः । अथवा पाताले विद्यमानस्यापि बलेरि- न्द्रादिभिरप्यलभ्या प्रतिष्ठा कीर्तिरासीत् । तत्र सर्वदा भगवतः संनिहितत्वादिति भावः । अलसं सलीलं चलितः कम्पितोऽङ्गु- ष्ठः शिरसि अर्थाद्बलेर्येन तस्मिन् । तथा तृतीयविक्रमभूम्यर्थं बलिना शिरसि प्रसारिते तत्र च त्वदीयपादाङ्गुष्ठसंबन्धमात्रेणैव तस्य पातालप्रवेशो जात इत्यर्थः । ध्रुवमुपचित इत्यार्थान्तरन्यासः पूर्ववत् । अथवा खलोऽयमसुरो बलिरुपचितः मुह्यति । अतो मोहनिवृत्तयेऽपचितः कर्तव्य इति भगवतोऽभिप्रायवर्णनम् । 'यस्या- हमनुगृह्णामि तस वित्तं हराम्यहम्' इति भगवद्वचनात् ॥ १२ ॥ पूर्वत्र भगवद्विषये समुन्नतयोर्बलिरावणयोरत्यन्तमवनतिर्द- र्शिता । अधुना तत्रावनतयोरिन्द्रबाणयोरत्यन्तमुन्नतिं दर्शयन्ह - रिहरौ स्तौति — [^१] 'ममतानिवृत्तये' इति पाठः ।
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती- मध्यश्चक्रे बाणः परिजनविधेयत्रिभुवनः । न तच्चित्रं तस्मिन्वरिवसितरि त्वच्चरणयो- र्न कस्या उन्नत्यै भवति शिरसस्त्वय्यवनतिः १३ यदिति । सुत्राम्ण इन्द्रस्यर्द्धि संपत्तिं परमोच्चैः सतीमप्यध- श्चक्रे न्यक्कृतवान् । बाणो बलिसुतः । कीदृशः । परिजनविधेयत्रिभुवनः परिजनो दासस्तद्वद्विधेयं वश्यं त्रिभुवनं यस्य, परिजनानामिव विधेयं वश्यं त्रिभुवनं यस्येति वा । स तथा उच्चैः सतीं यदधश्चक्रे तदन्यत्र चित्रमपि तस्मिन्बाणे न चित्रं नाश्चर्यम् । कीदृशे । त्वच्च- रणयोर्वरिवसितरि नमस्कर्तरि । इन्द्रसंपत्तेरप्यधःकरणं त्वन्नम- स्कारस्य न पर्याप्तफलं किंत्वेकदेशमात्रमित्याह । न कस्या इति । त्वयि विषये शिरसो याऽवनतिर्नमस्क्रिया सा कस्यै उन्नत्यै न भवति । अपि तु सर्वामेवोन्नतिं मोक्षपर्यन्तां जनयितुं समर्था भवत्येवे- त्यर्थः । अवनतिरप्युन्नतिहेतुरित्यतिशयोक्तिसंकीर्णोऽयमर्थान्तर- न्यासः । सर्वोत्कृष्टत्वमचिन्त्यमहिमत्वं च भगवतः सूचयतीति भावः ॥ हरिपक्षे तु । हे परम वरद, सुत्राम्ण इन्द्रस्य बाणः शर एकोऽपि ऋद्धिं संपत्तिमुच्चैरधोऽपि सतीं त्रिभुवनव्यापिनीं चक्रे कृतवानितियत् तत्तस्मिन्सुत्राम्णि न चित्रमित्यादिपूर्ववत् । त्वत्प्र- सादादेव सर्वानसुरानेकेनापि बाणेन जित्वा त्रिभुवनराज्यं प्रा- प्तवानिन्द्र इत्यर्थः । अत्र बाण इति शस्त्रमात्रोपलक्षणम् । कीदृशो बाणः । परिजनवद्विधेयमायत्तं त्रिभुवनं यस्मात्स तथा । शेषं पूर्ववत् ॥ १३ ॥ अधुना कालकूटप्रलयजलयोः संहारं दर्शयन्शंकरनारायणौ स्तौति - अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा- विधेयस्यासीद्यस्त्रिनयन विषं संहृतवतः ।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥१४॥ अकाण्डेति । हे त्रिनयन, विषं समुद्रमथनोद्भुतं कालकू- टाख्यं गरलं संहृतवतः पीतवतस्तव कण्ठे यः कल्माषः कालिमा- सीत्स कालिमा तव कण्ठे श्रियं शोभां न कुरुते किम् । अपि तु कुरुत एवेत्यर्थः । ननु भगवानतिशयितविशेषदर्शी महानर्थहेतुकं विषं किमिति पीतवानित्यत आह । अकाण्ड इति । अकाण्डेऽस- मये ब्रह्माण्डक्षयो महाप्रलयो विषोर्मिवेगात्संभावितस्तस्माच्चकिता भीता देवाऽसुरा इन्द्रबलिप्रभृतयस्तेषु कृपा दया तया विधेयस्य वश्यस्य । अन्यस्यैतत्पाने सामर्थ्यं नास्तीति विश्वत्राणाय विषं स्वयमेव पीतवानित्यर्थः । ननु विषविकारात्कल्माषः कथं कण्ठे शोभां तनोतीत्यत आह । अहो इत्यादि । अहो आश्चर्ये । भुव- नभयभङ्गव्यसनिनः परमेश्वरस्य विकारोऽपि श्लाध्यः प्रशंसनीयः । भुवनस्य लोकस्य भयं त्रासस्तस्य भङ्गो निरन्वयनाशः स एव व्यसनं सर्वमन्यद्विहाय क्रियमाणत्वाद्व्यसनं तदस्यास्तीति तथा तस्य । तेन जगदुपकृतिकृतं दृषणमपि भूषणमेवेत्यर्थः ॥ हरि- पक्षे तु । हे त्रिनयन त्रयाणां लोकानां नयनवत्सर्वावभासक, 'तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम्' इति श्रुतेः । अकाण्डेऽकाले ब्रह्माण्डक्षयो महाप्रलयः । दैनं- दिनप्रलयजलपूरवेगात्संभावितस्तस्माच्चकिता ये देवासुराः स्वायं - भुवमनुप्रभृतयस्तद्विषयककृपावशीकृतस्य तव विषं जलं 'विषं क्ष्वेडं विषं जलम्' इत्यादिकोशात् । तच्च प्रलयकालीनं यज्ञवाराहरूपे- णावगाह्य पङ्कीकृत्य संहृतवतः शोषितवतः पङ्कव्यामिश्रणेन यः कल्माषो मलिनिमासीत्स कल्माषः स्तोतृभिर्वर्ण्यमानः अर्थात्स्तो- तॄणां कण्ठे श्रियं शोभां न कुरुते इति न । अपितु कुरुत एवेत्य- र्थः। अर्थान्तरन्यासः पूर्ववत् ॥१४॥
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः । स पश्यन्नीश त्वामितरसुरसाधारणमभूत् स्मरः स्मर्तव्यात्मा न हि विशिषु पथ्यः परिभवः १५ असिद्धार्था इति । हे ईश, यस्य स्मरस्य विशिखा वाणाः सदेवासुरनरे जगति देवासुरनरादिसहिते त्रैलोक्ये जयिन उत्सृष्टाः क्वचिदप्यसिद्धार्था अकृतकार्या न निवर्तन्ते । अपि तु सिद्धार्था एव नित्यं जयिन एव भवन्ति । जयिन इति स्मरस्य वा विशेषणम् । नित्यं जयशीलस्येत्यर्थः । स एतादृशपौरुषवा- नपि स्मरः यथान्ये देवा मम जय्यास्तथाऽयमपीतीतरदेवतुल्यं त्वां पश्यन् स्मर्तव्यात्माभूत् स्मर्तव्यः स्मरणीय आत्मा शरीरं यस्य स तथा । नष्ट इत्यर्थः । पश्यन्निति हेतौ शतृप्रत्ययः । लक्षण- हेतौ च शतुः स्मरणात् । 'तद्वैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे' इतिवत् । तेनेतरदेवसाधारणत्वेन त्वद्दर्शनमेवव्यवधानेन विनाश- हेतुः का वार्ता परिभवादेरिति भावः । तत्र कैमुतिकन्यायमाह । नहीत्यादि । हि यस्माद्वशिषु जितेन्द्रियेष्वन्येष्वपि परिभवस्ति- रत्कारः पथ्यो हितो न भवति । स्वनाशायैव संपद्यत इति यावत् । किं पुनः परमवशिनां वरे परमेश्वरे त्वयीत्यर्थः ॥ हरिपक्षे तु । हे इतरसुर सर्वविलक्षण देव, पूर्व स्मर्त- व्यात्मा स्मृतोऽपि स्मरः कामस्त्वां पश्यन्नभूज्जातः । त्वत्सका- शाज्जात इत्यर्थः । पितैव खलु पुत्रं जातमात्रमवलोकयति, अतः पुत्रोऽपि तमेवावलोकयतीति पश्यन्नभूदित्यनेन जन्यजनकभावो लभ्यते । कथं जातः । साधारणं तव तुल्यरूपं यथा स्यात्तथा । 'आत्मा वै पुत्रनामासि' इति श्रुतेः । तत्किं सर्वांशेन भगवत्तुल्यः, तथा च 'न तस्य प्रतिमाऽस्ति यस नाम महद्यशः', न त -
समश्चाभ्यधिकश्च विद्यते' इत्यादिश्रुतिविरोध इत्याशङ्क्य वैल- क्षण्यमाह । नहीत्यादि । वशिषु जितेन्द्रियेषु हि यत्स्मात्स्मरो न पथ्यो न हितः । तत्र हेतुः परिभवः परिभवत्यनर्थे योजयतीति परिभवः कामः । स खलु सर्वेषां संसारबन्धहेतुः, परमेश्वरस्तु
सर्वेषां संसारबन्धस्यात्यन्तोच्छेदहेतुरिति महद्वैलक्षण्यमित्यर्थः ।
असिद्धार्था इत्यादि पूर्ववत् ॥ १५ ॥
अथ जगद्रक्षणार्थे नर्तनावतरणे दर्शयन्हरिहरौ स्तौति –
मही पादाघाताद्व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६॥
महीति । हे ईश, जगद्रक्षायै त्वं नटसि नृत्यसि । संध्यायां जगन्ति जिघांसन्तं वरलब्धतत्कालबलं महाराक्षसं निजताण्डवेन मोहयसीत्यर्थः । त्वं तु जगतां रक्षायै नृ[^१]त्यसि, जगन्ति तु त्वत्ता- ण्डवेन संशयितानि भवन्तीत्याह । महीत्यादि । तव चरणाघातेन सहसा संशयपदं संकटं मही व्रजति । तथा विष्णोः पदमन्तरिक्षं भ्राम्यद्भुजपरिधरुग्णग्रहगणं भुजा एव परिघाः अतिसुवृत्तपीवरदृढ- दीर्घत्वात्तैर्भ्राम्यद्भिर्भुजरूपपरिघै रुग्णाः पीडिताः ग्रहगणा नक्षत्रस- मूहा यत्र तत्तथा संशयपदं व्रजतीत्यर्थः । तथा द्यौः स्वर्लोकः अनि- भृता असंवृता या जटास्ताभिस्ताडितं तटं प्रान्तदेशो यस्याः सा तथा मुहुर्दौस्थ्यं दुःस्थत्वं याति । एवं च क्रमेण त्रयाणां लोका- नामपि संशयो दर्शितः । नन्वसौ सर्वज्ञोऽप्यपायमपर्यालोचयन्नेव किमित्येवंविधताण्डवे प्रवृत्त इत्यत आह । नन्विति । ननु अहो विभुता परममहत्ता । प्रभुतेति यावत् । वामैव प्रतिकूलेव । [^१.] ’नटसि’ इति पाठः।
अनुकूलमाचरत्यपि किंचित्प्रतिकूलमवश्यमाचरतीत्येवंशब्दार्थः ॥ दृश्यते हि स्वल्पकेऽपि राजनि स्वदेशरक्षणाय सेनया सह संच- रति स्वदेशोपद्रवः, किमुत तादृशे महेश्वर इत्यर्थः । हरिपक्षे तु । हे ईश, त्वं जगद्रक्षायै नटसि नटवदाचरसि । नटशब्दादा- चारार्थे क्विपि प्रत्ययलोपे नटसीति रूपम् । मत्स्यादिभूमिकां भ - जसीत्यर्थः । कस्यामवस्थायां जगद्रक्षणार्थमवतरणमित्युच्यते । महीपादित्यादि । महीं पातीति महीपो राजा तस्मादाघातात्सा मही सह समकालमेव संशयपदं व्रजति । आ समन्ताद्धातो नाशोऽस्मा - दित्याघातो हिंस्रः । तथा च यदैव हिंस्रस्य राज्यं तदैव संकटं व्रजतीत्यर्थः । तथा च विष्णोः पदमधिष्ठानं यत्र भगवान्विष्णुः स्वविभूतिभिः सह पूज्यते तद्विष्णोः पदं देवयजनाख्यं यज्ञशा- लादि । तत्कीदृशम् । भ्राम्यद्भिर्भुजस्थपरिघैर्भुजरूपपरिधैर्वा रुग्णो भग्नो ग्रहगणः सवित्रादिरूपः सोम[^१]पात्रसमूहो यत्र तत्तथा यागा- दिशुभकर्माणि यदा ध्वस्यन्ते तदेत्यर्थः । तथा द्यौर्दौस्थ्यं याति । अनिभृतजटा: पाषण्डव्रतचिह्नभूतास्ताभिराताडितं अभावमिव ग- मितं तटं तुङ्गं पदं सत्यलोकाख्यं यस्याः सा तथा । पाखण्डिभिर्हि वैकुण्ठलोकोऽपि नाङ्गीक्रियते किं पुनरिन्द्रादिलोक इत्यर्थः । यदा चैवं तदा त्वं नटवदाचरसीत्यर्थः । तथाच भगवद्वचनं गीतासु-- 'यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥' इति । श्रीभागवते च - 'यर्ह्यालयेष्वपि सतां न कथा हरेः स्युः पाखण्डिनो द्विजजना वृषला नृदेवाः । स्वाहास्वधावषडिति स्म गिरो न यत्र शास्ता भविष्यति कलेर्भ- गवान्युगान्ते ॥' इत्यादि । नन्विच्छामात्रेणैव जगन्ति रक्षितुं क्षमोऽपि किं मत्स्यादिरूपैः क्लिश्यतीत्यत आह । नन्वित्यादि । ननु निश्चितं विभुता विभववत्ता । संपन्नतेति यावत् । वामैव [^१] 'पात्रविशेषसमूहो' इति पाठः ।
वक्रैव सत्यप्यृजौ प्रकारे वक्रेणैव प्रकारेण स्वसंपत्ति सफलयितुं संपन्नः कार्यं करोतीत्यर्थः । तेनाष्टविधमैश्वर्यमौत्प[^१]त्तिकं दर्शयन्भक्ता- नामभिध्यानाय तानि तानि श्रवणमनोहराणि चरितानि तेन तेना- वतारेण धत्ते भगवानिति भावः ॥ १६ ॥ अथ गङ्गया उद्धरणधारणे दर्शयन्हरिहरौ स्तौति -
वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ।
'जगद्द्वीपाकारं जलधिवलयं तेन कृतमि-
त्यनेनैवोन्ने॒यं धृतमहिम दिव्यं तव वपुः ॥ १७ ॥
वियदिति । हे ईश, अनेनैव लिङ्गेन तव दिव्यं दिवि भवं सर्वदेवनियन्तृ वपुः शरीरं धृतमहिम सर्वेभ्यो महत्तरं उन्नेयमूह- नीयम् । तब वपुषः सर्वमहत्तरत्वमेतावतापि निश्चेतुं शक्यं किमिति प्रमाणान्तरमत्रापेक्षितव्यमिति एवकारार्थः । इतिशब्दः प्रकारार्थे । एवंप्रकारेण लिङ्गेनेत्यर्थः । तमेव प्रकारं दर्शयति । वियदित्यादि । वियदाकाशं व्याप्नोत्याच्छादयतीति तथा तारागणेन नक्षत्रवृन्देन स्वान्तःपातिना गुणिता शुभ्रत्वादिगुणसजातीयत्वाद्व- र्धिता फेनोद्गमरुचिर्यस्य स तथा एतादृशो वारां प्रवाहः स तव शिरसि पृषतलघुदृष्टः पृषताद्विन्दोरपि लघुरल्पतरः पृषतलघुः स इव दृष्ट आलोकितः । तेन तु वारां प्रवाहेण जलधि- वलयं जगद्द्वीपाकारं कृतं जलधीनां वृन्दं जगद्भूलोको द्वीपाकारं जम्बूद्वीपादिसप्तकरूपं यस्मिंस्तत्तथा विहितम् । 'अगस्त्येन हि सप्तसु समुद्रेषु पीतेषु पुनर्भगीरथानीतगङ्गाप्रवाहेणैव तेषां पूरणं जातम्' इति पुराणप्रसिद्धम् । तथाच यो जलराशिस्तव शिरसि बिन्दोरप्यल्पो दृष्टः स एवात्र कियान्मन्दाकिनीनाम्ना वियद्व्या- [^१.] 'श्वर्यमात्ययिकं' इति पाठः ।
प्यास्ते, कियान्भागीरथीति गङ्गेति च प्रसिद्धो भूलोके सप्तसमु- द्रानापूर्यास्ते, कियांस्तु भोगवतीति संज्ञया पातालमभिव्याप्यास्ते इत्यनेन तव दिव्यवपुषो महत्त्वमनुमीयत इत्यर्थः ॥ हरिपक्षे तु । तारागणैर्गुणिताः फेना यस्याः सा तारागणगुणितफेना गङ्गा तस्या उद्गमे उद्भवे रुचिः शोभा यस्य स तथा शिरसि सर्वलो- कानां शिरःस्थानीये ब्रह्मलोके बलिछलनोत्क्षिप्तचरणाङ्गुष्ठनिर्भिन्न- ब्रह्माण्डविवरादागतो गङ्गोत्पत्तिहेतुर्वियद्व्यापको यो वारां प्रवाहः स ते त्वया पृषतलघुदृष्टः बिन्दोरपि लघुदृष्टः बिन्दोरपि लघु यथा स्यात्तथोपलब्ध इत्यर्थः । अनेनैव लिङ्गेन च तव दिव्यं वपुः बलिछलनार्थे दिव्याकाशे आविर्भावितं त्रैविक्रमं रूपं धृतम- हिमोन्नेयम् । शेषं पूर्ववत् ॥ १७ ॥ अथ लङ्कात्रिपुरदाहौ दर्शयन्हरिहरौ स्तौति – रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति । दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि- र्विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः १८ रथ इति । हे ईश ! त्रिपुरतृणं दिघक्षोस्तव कोऽयमाडम्बरवि- धिः त्रयाणां पुराणां समाहारस्त्रिपुरं तदेव तृणं अनायासनाश्यत्वात् । तद्दग्धुमिच्छोस्तव केयं महत्प्रयोजनमुद्दिश्येव संभ्रमरचना । नहि लौकिका अपि नखच्छेद्ये कुठारं परिगृह्णन्ति, अतस्तवात्यल्पे प्रयोजने न महान्प्रयास उचित इत्यर्थः । आडम्बरविधिमेव दर्श- यति । रथ इत्यादि । क्षोणी पृथ्वी रथरूपेण परिणता, शतघृति- र्ब्रह्मा यन्ता सारथिः, अगेन्द्रः पर्वतश्रेष्ठो मेरुः धनुः कोदण्डं, सोमसूर्यौ द्वे चक्रे, रथचरणं चक्रं तद्युक्तपाणिर्विष्णुः शरो बाणः, चतुर्थवाक्ये श्रुतोऽप्यथोशब्दः सर्वत्र वाक्यभेदाय योजनीयः ।
इतिशब्दः प्रकारार्थः । त्रिभुवनमपीच्छामात्रेण संहरतस्तवैवंप्रका- रेण सामग्रीसंपादनमाडम्बरमात्रमित्यर्थः । एवमाक्षिप्य परिहार - माह । विधेयैरित्यादि । खलु निश्चितं प्रभोरीश्वरस्य धियो बुद्धयः संकल्प विशेषाः परतन्त्राः पराधीना न भवन्ति, अपि तु स्वतन्त्रा एव । ताः कीदृश्यः । विधेयैः स्वाधीनैः पदार्थैः क्रीडन्त्यः खेलन्त्यः । नहि क्रीडायां प्रयोजनाद्यपेक्षास्ति । तस्माद्विचित्राणि वस्तूनि स्वाधी- नतया क्रीडासाधनीकृत्य क्रीडतस्तव सर्वाणि कार्याणि स्वेच्छामा- त्रेण कर्तुं क्षमस्य लौकिकवैदिकनियमानधीनबुद्धेर्न किंचिद्प्यनुचि- तमित्यर्थः ॥ हरिपक्षे तु । त्रीणि त्रिकूटगिरिशिखराणि पुराण्या- श्रयो यस्येति त्रिपुरं लङ्कापुरं तदेव तृणं तद्दग्धुमिच्छोस्तव कोऽयं श्रीरामरूपेण सुग्रीवसख्यसमुद्रबन्धनादिश्चाडम्बरविधिः । रथः क्षोणीत्यादिरूपकं । क्षोणीव रथः, शतधृतिरिव यन्ता, अगेन्द्र इव धनुः, चन्द्रार्काविव रथचक्रे, रथचरणपाणिरिव शरः, स्वतु- ल्यवीर्यो बाण इत्यर्थः । क्षोण्यादिसदृशरथाद्युपादानमेतादृशात्य- ल्पप्रयोजनायापेक्षितुमुचितं न भवतीत्यर्थः । शेषं पूर्ववत् ॥ १८ ॥ अथेन्द्रोपेन्द्रयोर्भक्तिं तत्फलं च दर्शयन्हरिहरौ स्तौति -
हरिस्ते साहस्रं कमलबलिमाधाय पदयो-
र्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९ ॥
हरिरिति । हे त्रिपुरहर, हरिर्विष्णुस्तव पदयोः साहस्रं सह- स्रसंख्यापरिमाणं कमलानां पद्मानां बलिमुपहारं । सहस्रकमलात्मकं बलिमित्यर्थः । आधाय समर्प्य तस्मिन्कमलसहस्रवलावेकोने सति एकेन कमलेन भक्तिपरीक्षार्थं त्वया गोपितेन हीने सति नियम- भङ्गो माभूदिति तत्पूरणार्थं तदा कमलान्तरमलभमानो निज-
मात्मीयं नेत्रकमलमेवोदहरदुत्पाटितवान् । यदैवं स्वनेत्रोत्पाटन- रूपं भजनं, असौ भक्त्युद्रेकः भक्तेः सेवाया अत्यन्तप्रकर्षः चक्रवपुषा सुदर्शनरूपेण परिणतिं गतः त्रयाणां जगतां रक्षायै जागर्ति । परि- पालनार्थं सावधान एव वर्तते इत्यर्थः । एवमाख्यायिका च पुराणप्रसिद्धा । तथा चैवंविधाचिन्त्यमाहात्म्यस्त्वमसीति भावः ॥ हरिपक्षे तु । त्रिपुरहरेति प्राग्व्याख्यातम् । हरिरिन्द्रस्तव पदयोः साहस्रं कमलबलिमाधाय । कीदृशं नेत्रकमलं नेत्राण्येव कमलानि यस्मिन्स तथा नेत्रसहस्रात्मकं कमलसहस्रबलिमित्यर्थः । युगप- न्नेत्रसहस्रव्यापारेण त्वच्चरणयोर्दर्शनरूपमाराधनं कृत्वेत्यर्थः । आ- राधनप्रयोजनमाह । निजमात्मानमेकः सहायान्तरशून्यः । अनेन तस्मिन्नेतल्लोकविलक्षणे स्वर्गलोके उदहरदुद्धृतवान् । स्वर्लोका- धिपतिमात्मानं कृतवानित्यर्थः । निजमुद्धर्तुं युगपन्नेत्रसहस्रेण त्वच्चरणावलोकने यत्प्रवणत्वं असौ भक्त्तयुद्रेकः चक्रवपुषा चक्रं सैन्यं ऐरावतोच्चैःश्रवःप्रभृति तद्रूपेण परिणतिं गतः परिणतः स- मुद्रमथनेन लक्ष्मीपीयूषादिप्रादुर्भावात् । त्रयाणां लोकानां रक्षायै जागर्तीत्यादिपूर्ववत् ॥ १९ ॥ एवं पूर्वश्लोकेषु परमेश्वराराधनादेव सर्वपुरुषार्थप्राप्तिरन्वयव्य- तिरेकाभ्यामुक्ता । तत्र केचिन्मीमांसकंमन्याः परमेश्वरनिरपे- क्षाकर्मजनितादपूर्वादेव शुभाशुभप्राप्तिरित्याहुस्तान्निराकुर्वन्हरिहरौ स्तौति -
क्रतौ सुप्ते जाग्रत्वमसि फलयोगे ऋतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां संप्रेक्ष्य क्रतुषु फलदानप्रतिभुवं
श्रुतौ श्रद्धां बद्ध्वा कृतपरिकरः कर्मसु जनः ॥२०॥
क्रताविति । हे त्रिपुरहरेति संबोधनं पूर्व श्लोकादनुषज्यते
क्रतौ यागादिकर्मणि आशुतरविनाशिस्वभावत्वात्सुप्ते लीने स्वकारणे सूक्ष्मरूपतां प्राप्ते ध्वस्ते सति । क्रतुमतां यागादिकर्मकारिणां का- लान्तरदेशान्तरभावितत्तत्फलसंबन्धे तन्निमित्तं त्वं जाग्रदसि प्रबुद्ध एव वर्तसे । वर्तमाने विहितेन शत्रा जागरणस्य सर्वदा- स्तित्वमुच्यते तेन सर्वदैवावहितोऽसीत्यर्थः । ननु लिङादिपद- वाच्यक्रियायाः स्वर्गादिसाधनत्वान्यथानुपपत्त्या कल्प्यमपूर्वमेव फलयोगाय जागर्ति किमीश्वरेणेत्यत आह । क्वेत्यादि । प्रध्वस्तं विनष्टं कर्म पुरुषस्य चेतनस्य फलदातुराराधनं विना क्व फलति । नक्कापीत्यर्थः । नहि लोके कुत्रापि विनष्टस्य कर्मणोऽपूर्वद्वारा फलजनकत्वं दृष्टम् । लोकानुसारिणी च वेदेऽपि कल्पना लोक- वदधिकरणन्यायात् । चेतनस्य तु राजादेराराधितस्य विनैवा- पूर्वं सेवादेः फलजनकत्वं दृश्यते । तत्र लोकदृष्टप्रकारेणैव वैदि- ककर्मणामपि फलजनकत्वसंभवे न लोकविरुद्धापूर्व फलदातृत्व- कल्पनावकाशः । अपूर्वं हि लोकसिद्धकारणान्तरनिपेरक्षं वा स्व- र्गादिफलं जनयेत्तत्सापेक्षं वा । आद्ये तत्फलोपभोगयोग्यदेहेन्द्रि- यादिकमपि नापेक्षेत । न चैतदिष्टं, सर्वस्यापि सुखदुःखादेः शरी- रसंयुक्तात्ममनोयोगादिदृष्टकारणजन्यत्वाभ्युपगमात् । द्वितीये तु लोकसिद्धदेहेन्द्रियाद्यपेक्षावदीश्वरापेक्षापि नियता, लोके तथादर्श- नात्। तस्माच्छ्रुतिन्यायसिद्धेश्वरपदार्थधर्मिबाघकल्पनाद्वरमपूर्वपदा- र्थस्य नैरपेक्ष्यधर्ममात्रबाधकल्पनम् । 'फलमत उपपत्तेः' इति न्या- यात् । इदं चापूर्वमभ्युपेत्य तत्सापेक्षत्वमीश्वरस्योक्तम् । वस्तु- तस्तु नापूर्वे किंचित्प्रमाणमस्ति । लिङादीनामिष्टाभ्युपायतावाचक- त्वात् । तदन्यथानुपपत्तेश्च श्रुतिन्यायसहस्रसिद्धपरमेश्वरेणैवोप- क्षयात् नापूर्वसिद्धिः । अपूर्वं च तत्फलदातृत्वं च द्वयं भवद्भिः कल्प्यम् । अस्माभिस्तु केवलमीश्वरः कल्प्यः । तस्य फलदातृत्वा- दिकं तु चेतनत्वाद्राजादिवल्लोक्सिद्धमेव । सर्वज्ञत्वेन च तत्तत्क-
र्मानुरूपफलदातृत्वान्न वैषम्यनैर्घृण्यादिदोषप्रसङ्गः । यत एवं त्व- मेव सर्वकर्मफलदाताऽतस्त्वां क्रतुषु श्रौतस्मार्तकर्मसु कालान्तर - फलसाधनेषु फलदानप्रतिभुवं फलदानाय लग्नकमिव संप्रेक्ष्य स- म्यक् श्रुतिस्मृतिन्यायैः प्रकर्षेण निश्चित्य कर्मफलदातुस्तव सद्भाव- प्रतिपादिकायां हि श्रुतौ 'एतस्य वा अक्षरस्य प्रशासने गार्गि द्या- वापृथिव्यौ विधृते तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः' 'कर्माध्यक्षः सर्वभूताधिवासः' 'एष उ ह्येव साधु कर्म कारयति तं यमुन्निनीषते एष उ एव वाऽसाधु' इत्यादिकायां श्रुतौ श्रद्धां बद्ध्वा अर्थवादत्वप्रयुक्तस्वार्थाप्रामाण्यशङ्कानिरासेन लोकसिद्धदृढतरन्या- यानुगृ[^१]हीततया देवताधिकरणन्यायेन स्वार्थे प्रामाण्यं निश्चित्य जनः श्रुतिस्मृतिविहितकर्माधिकारी कर्मसु श्रौतस्मार्तेषु कृतपरिकरः कृतः परिकर उद्यमो येन स तथा । कृतारम्भो भवतीत्यर्थः । प्रतिभू- सादृश्यं च एतावन्मात्रेणैव विवक्षितम् । यथा कश्चिदुत्तमर्णः प्रमाणनिश्चितं दीर्घकालावस्थानं स्वधनार्पणसमर्थं कंचित्प्रतिभुवं निरूप्य अधमर्णे पलायिते मृते वा एतस्मादेव कुशलिनः प्रति- भुवः सकाशात्स्वधनं प्राप्स्यामीत्यभिप्रायेण यस्मैकस्मैचिदधमर्णायर्णं प्रयच्छति तद्वदधमर्णस्थानीये कर्मणि प्रलीनेऽपि परमेश्वरादेव प्रतिभूस्थानीयात्तत्फलं प्राप्यामीत्यभिप्रायेणोत्तमर्णस्थानीयो यज- मानो निःशङ्कमेव कर्मानुतिष्ठतीति भावः ॥ हरिपक्षेप्येवं । शेषं पूर्ववत् । यद्वा सुजनः साधुजनः कर्म श्रुतिस्मृतिविहितं कर्माकृत कृतवान् । कीदृशः सुजनः । परिकरः परि सर्वतः कं सुखं राति ददातीति तथा सर्वेषां सुखकरः । अहिंसक इत्यर्थः । 'दृढपरिकरः' इति क्वचित्पाठः । तस्य दृढारम्भ इत्यर्थः । अयं च न सांप्रदायिकः ॥ २० ॥ [^१] 'गृहीतेन' इति पाठः ।
एवं भगवत्प्रसादेन क्रतुफलप्राप्तिमुक्त्वा विहितानां शुभफल- जनकत्वानुपपत्त्या धर्माख्यमपूर्वं द्वारत्वेन कल्पनीयमिति पक्षो निराकृतः । संप्रति विहिताकरणनिषिद्धकरणयोरशुभफलस्य भग- वत्प्रसादासाध्यत्वात्तदर्थमवश्यमधर्माख्यमपूर्वं कल्पनीयमिति शङ्कायां राजाज्ञालङ्घनादेरिव भगवदाज्ञोल्लङ्घनादखिलानर्थफलत्वं दृष्टद्वारेणैव भविष्यतीत्यभिप्रायेण भगवतोऽप्रसादेन क्रतुफलाप्राप्तिमनर्थप्राप्तिं च दर्शयन्हरिहरौ स्तौति –
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता-
मृषीणामार्त्विज्यं शरणद सदस्या: सुरगणाः ।
क्रतुभ्रेषस्त्वत्तः क्रतुफलविधानव्यसनिनो
ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥२१॥
क्रियेति । हे शरणद, दक्षो दक्षनामा प्रजापतिः स्वयं क्रिया- स्वनुष्ठेयासु दक्षः प्रवीणः । यज्ञविधौ कुशल इत्यर्थः । एतेन वि- द्वत्त्वमधिकारिविशेषणमुक्तम् । तथा तनुभृतां शरीरिणामधीशः स्वामी प्रजापतित्वात् । एतेन सामर्थ्यमधिकारिविशेषणमुक्तम् । एतादृशः क्रतुपतिर्यजमानः । तथा ऋषीणां त्रिकालदर्शिनां भृगु - प्रभृतीनामार्त्विज्यमृत्विक्त्वमध्वर्य्वादिरूपता । तथा सुरगणा ब्रह्मादयो देवगणाः सदस्याः सभ्या उपद्रष्टारः । एतादृशसर्वसाम- ग्रीसंपत्तावपि त्वत्तः परमेश्वरादप्रसन्नात्क्रतोयज्ञस्य भ्रेषः भ्रंशो जातः । कीदृशात् । क्रतुफलविधानव्यसनिनः क्रतोर्यज्ञस्य फलं स्वर्गादि तस्य विधानं निष्पादनं तेन व्यसनी तदेकनिष्ठस्तस्मात् क्रतुफलदातृस्वभावोऽपि त्वामवज्ञाय क्रतुभ्रंशहेतुतां नीत इत्यर्थः । एतदेव द्रढयन्नाह । ध्रुवमिति । ध्रुवं निश्चितं क्रतुफलदातरि पर- मेश्वरे विषये श्रद्धाविधुरं भक्तिरहितं यथा स्यात्तथानुष्ठिता मखा यज्ञा क्रतुर्यजमानस्याभिचाराय नाशायैव भवन्तीत्यर्थ॥ हरिपक्षे
तु । तनुभृतामधीशः क्रतुपतिः तनुं स्वशरीरमेव बिभ्रति पुष्ण- न्तीति तनुभृतो दैत्या देवबाह्यास्ते हि सुरनरपितृभ्यो न प्रयच्छ- न्ति सर्वहिंसया स्वशरीरमेव पुष्णन्ति तेषामधीशो राजा बलिः क्रतुपतिर्यजमानः, अथवा तनून्क्षीणान्बिभ्रति पुष्णन्ति ते तनु- भृतो वदान्यास्तेषामधीशो दातृ[^१]वीराग्रण्यो बलिः । कीदृशः । क्रिया- दक्षोदक्षः उत्कृष्टान्यक्षाणीन्द्रियाणि यस्य स उदक्षः क्रियादक्ष- श्चासावुदक्षश्चेति स तथा । सुरेषु देवेषु गण्यन्ते इति सुरगणा देवतुल्याः पुरुषाः सदस्याः । श्रद्धाविधुरत्वं च भगवदनुगृहीते- न्द्रादिदेवगणैः सह विरोधात् । स्वभक्तद्रोहो हि भगवतः स्वद्रो- हादप्यधिकः । शेपं पूर्ववत् ॥ २१ ॥ अथ ब्रह्ममारीचयोर्मृगरूपयोर्वधं दर्शयन्हरिहरौ स्तौति -
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुःपाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ २२ ॥
प्रजानाथमिति । हे नाथ नियामक, तव परमेश्वरस्य धनुः- पाणेः धृतपिनाकस्य मृगव्याधरभसः मृगान्विध्यतीति मृगव्याधो लुब्धकः तस्येव रभस उत्साहातिरेको मृगव्याधरभसः शर एव तथा आरोपितः स चार्द्रानक्षत्ररूपेण परिणत इति पुराणप्रसिद्धः । अमुं प्रजानाथं ब्रह्माणं दिवं स्वर्गं यातं प्राप्तमपि नक्षत्रमध्ये मृग- शिरोरूपेण परिणतमपि तथा सपत्राकृतं सह पत्रेण शरं शरीरे प्र- वेश्यातिव्यथां नीतः सपत्राकृतस्तादृशमिवात्मानं मन्यमानम् । रूप- कमेतत् । शरस्यार्द्रानक्षत्ररूपेण संनिधानमात्रं नतु ताडनमिति द्रष्टव्यम् । अथवा शरेण ताडित एव ब्रह्मा रुद्रस्य क्रोधोत्साहवि- [^१] 'दानवाग्रगण्यो' इति पाठः ।
शेष एवार्द्रानक्षत्ररूपेण परिणत इति पुराणान्तरप्रसिद्ध्या द्रष्टव्यम् । अतएव त्रसन्तं बिभ्यन्तमद्यापि न त्यजति । इदानीमपि धनु - ष्पाणिमेव त्वां सर्वदा दर्शयतीत्यर्थः । तस्यैतादृशदण्डार्हतामाह । स्वामात्मीयां दुहितरं पुत्रीं रोहिद्भूतां लज्जया मृगीभूतां ऋश्यस्य मृगस्य वपुषा शरीरेण रिरमयिषुं रमयितुमिच्छुम् । इयं चेलज्जया मृगीभूता तर्ह्यहमपि मृगरूपेणैनां भजिष्यामीति बुद्ध्या मृगरूपेण प्रसभं हठेनानिच्छन्तीमपि तां गतं रत्यर्थं प्राप्तम् । तस्य परमवशि- नोऽपि स्वमर्यादातिक्रमे कारणं वदन्विशिनष्टि । अभिकं कामु- कम् । कामेनाभिभूतत्वात्स्वमर्यादोल्लङ्घिनमित्यर्थः । एवंहि पु- राणेषु प्रसिद्धम् - 'ब्रह्मा स्वदुहितरं संध्यामतिरूपिणीमालोक्य काम- वशो भूत्वा तामुपगन्तुमुद्यतः । सा चायं पिता भूत्वा मामुपगच्छ- तीति लज्जया मृगीरूपा बभूव । ततस्तां तथा दृष्ट्वा ब्रह्मापि मृगरूपं दधार । तच्च दृष्ट्वा त्रिजगन्नियन्त्रा श्रीमहादेवेनायं प्रजानाथो धर्म- प्रवर्तको भूत्वाप्येतादृशं जुगुप्सितमाचरतीति महतापराधेन दण्ड- नीयो मयेति पिनाकमाकृष्य शरः प्रक्षिप्तः । ततः स ब्रह्मा व्रीडितः पीडितश्च सन् मृगशिरोनक्षत्ररूपो बभूव । ततः श्रीरुद्रस्य शरो- ऽप्यार्द्रानक्षत्ररूपो भूत्वा तस्य पश्चाद्भागे स्थितः । तथा चार्द्रामृगशि- रसोः सर्वदा संनिहितत्वाद्यापि न त्यजति' इत्युक्तम् । हरिपक्षे तु । हे नाथ, रोहिद्भूतां गतं प्रजानाथं दिवं यातमपि धनुष्पाणेस्तव मृगव्याधरभसोऽद्यापि न त्यजति । रोहितो हरिण्याः सकाशाद्भवतीति रोहिद्भूर्हरिणशावकः तस्य भावो रोहिद्भूता तां गतम् । हरिण - शावकत्वं प्राप्तमित्यर्थः । प्रजाः प्राणिनो नाथति उपतापयतीति प्रजानाथो राक्षसः स च प्रकृते मारीचाख्यस्तम् । किमर्थं तस्य मृगरूपधारणमित्यत आह । प्रसभमभिकं रिरमयिषुं प्रकृष्टा शौर्या- दियुक्ता सभा यस्य स प्रसभस्तं तादृशं, अभितः कानि शिरांसि यस्य सोऽभिको दशग्रीवस्तम् । सीतापहरणोपायेन क्रीडयितु-
मिच्छुम् । तथा स्वां दुहितरमयोनिजां कन्यां सीतां ऋश्यस्य वपुषा विचित्रमृगशरीरेण रिरमयिषुं प्रमोदयितुमिच्छुम् । विचि- त्रमृगरूपं मां दृष्ट्वा सीता स्त्रीस्वभावादतिमुग्धा मच्चर्मग्रहणार्थं श्री - रामं प्रेरयिष्यति । ततो रामे बहुदूरं मयाऽपसारिते लक्ष्मणे च तदुद्देशार्थं गते एकाकिनीं सीतां रावणः सुखेन हरिष्यतीत्यभि- प्रायेण धृतविचित्रमृगशरीरमित्यर्थः । अत एव बाणेन सपत्रा- कृतत्वाद्दिवं परलोकं यातम् । मृतमित्यर्थः । अमुं मृतमपि त्रसन्त- मद्यापि तव मृगव्याधरभसो न त्यजतीत्युत्प्रेक्षारूपो ध्वनिः । शेषं पूर्ववत् ॥ २२ ॥ परमवशिनां वरावपि श्रीराममहादेवौ लक्ष्मीपार्वत्यनुकम्पया स्त्रैणमिवात्मानं दर्शयत इति प्रतिपादयन्स्तौति —
स्वलावण्याशंसाधृतधनुषमह्नाय तृणव-
त्पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रैणं देवी यमनिरत देहार्धघटना-
दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ २३ ॥
स्वलावण्येति । हे पुरमथन, हे यमनिरत, यमनियमासना- द्यष्टाङ्गयोगपरायण । एतेन जितेन्द्रियत्वमुक्तम् । पुष्पायुधं कामं त्वया तृणवत्तृणमिव अह्नाय शीघ्रं प्लष्टं दुग्धं पुरः साक्षादेवाव्यव- धानेन दृष्ट्वा चाक्षुषज्ञानविषयीकृत्य । कीदृशं पुष्पायुधम् । स्व- लावण्याशंसाधृतधनुषं स्वस्याः पार्वत्याः यल्लावण्यं सौन्दर्यातिश- यस्तद्विषया आशंसा परमयोगिनमपि श्रीरुद्रमस्याः सौन्दर्यातिश- येन वशीकरिष्यामीति या प्रत्याशा तया निमित्तभूतया घृतं ध - नुर्येनेति तथा तम् । एतेन स्वलावण्यातिशयस्यापि श्रीरुद्र विषये- ऽकिंचित्करत्वमुक्तम् । तथा चैवं स्खलावण्यवैयर्थ्यं पुष्पायुधस्य तृणवद्दाहं च स्वयं साक्षात्कृत्वापि देवी पार्वती इयं चिरकालं
मामुद्दिश्य तपः कृतवती विरहदुःखं मा प्राप्नोत्विति करुणामात्रेण देहार्धघटनात् त्वया स्वशरीरार्धेऽवस्थापनाद्धेतोर्भ्रमबीजात् यदि त्वां सर्वयोगिनां वरं स्त्रैणं यद्ययं मदधीनो न भवेत्कथं मां स्व- शरीरार्धे स्थापयेदिति भ्रान्त्या स्त्रीसक्तं यद्यवैति विशेषादर्शनात्कल्प- यति तर्हि तदद्धा युक्तमेव तस्याः । अयुक्तस्यापि युक्तत्वे हेतुमाह । बतेत्यादि । हे वरद, अतिदुर्लभमपि स्वदेहार्धं दत्तमिति वरदेति योग्यं संबोधनम् । बत अहो, युवतयस्तरुण्य: मुग्धा अतत्त्वज्ञाः । स्वभावत एवेति शेषः । तथा च सहजानां युवतविभूषणानां प्रधानं मौग्ध्यमनुकुर्वन्त्याः स्वरूपतश्चितिरूपाया अपि देव्या मि - थ्याज्ञानं युक्तमित्यर्थः ॥ हरिपक्षे तु । हे अर्धघटनादव, घटनाया अर्धमित्यर्धघटना अर्धपिप्पलीवत् । तस्या दवो वनवह्निः । दाहक इति यावत् । सीतारूपाया लक्ष्म्याः रामरूपेणोचितात्संयोगात्स्वे- च्छयाऽर्धसंभोगं दत्त्वाऽविप्रलम्भं दत्तवानसीत्यर्थः । सा पूर्वश्लो- कोक्ता देवी सीतारूपा लक्ष्मीः । कीदृशी । यमनिरतदेहा अत्यन्त - पतिव्रता । तथा पुरमथनपुष्पा पुरस्य शरीरस्य मथनानि पीडकानि पुष्पाणि यस्याः सा तथा । पुष्पाणामपि स्प[^१]र्शासहा । अतिसुकुमा- राङ्गीत्यर्थः । त्वां श्रीरामरूपं यदि स्त्रैणमवैत्य[^२]वगच्छति तदद्धेत्या- दिपूर्ववत् । त्वां कीदृशम् । स्वलावण्याशं स्वकीयं लावण्यमत्र शौर्यादिगुणकृतं सौन्दर्यं तस्मिन्नाशा यस्य स स्वलावण्याशस्तम् । सीताया अनुद्धरणात्स्वस्य शौर्यादिग्रसिद्धिर्गच्छेदिति स्वकीर्तिर- क्षार्थिनमित्यर्थः । अत एव धृतधनुषं सज्जीकृतकोदण्डम् । इदमेकं भ्रमबीजमुक्तम् । भ्रमवीजान्तरमाह । अह्नाय तृणवत्पुरः प्लुष्टं दृष्ट्वा शीघ्रमेव तृणस्येव पुरो लङ्कायाः प्लुष्टं दाहम् । भावे क्तः । तथा युधं युद्धमपि दृष्ट्वा । आयुधशब्दस्य शस्त्रे युद्धे चानुशासनात् । तथा च स्वकीर्तिरक्षार्थमत्यन्तपतिव्रतायाश्च देव्याः कारुण्येन क्लेश- १. रतिः' इति पाठः । २ 'मेति प्रत्येति' इति पाठः ।
विमोचनार्थं सज्जीकृतकोदण्डं त्वामर्धघटनादेवमप्ययं यदि मद- धीनो न भवेत्तदा कथमेतादृशदुष्करकर्माणि मामुद्दिश्य कुर्यादिति भ्रमेण स्त्रीसक्तमिव कल्पयतीत्यर्थः । शेषं पूर्ववत् ॥ २३ ॥ अथ स्वयममङ्गलशीलतया क्रीडन्नपि भक्तानां मङ्गलमेव द - दासि, स्वयममङ्गलशीलानामपि भक्तानां त्वमेव मङ्गलमसीति च वदन् शंकरनारायणौ स्तौति –
स्मशानेष्वाक्रीडा मरहर पिशाचा: सहचरा-
श्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः ।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ २४ ॥
स्मशानेति । हे स्मरहर, हे वरद, तवाखिलमपि शीलं सर्वमपि चरितं एवंप्रकारेणामङ्गल्यं मङ्गलविपरीतं भवतु नाम । किं नस्तेन निरूपितेनेत्यर्थः । तथापि स्वयममङ्गलशीलोऽपि स्मर्तॄणां तव स्मरणकर्तॄणां त्वं परमं मङ्गलमेवासि निरतिशयं कल्याणमेव भ- वसि । तेनामङ्गलशीलोऽयं रुद्रो न मङ्गलकामैः सेवनीय इति भ्रमं परिहृत्य मनोवाक्कायप्रणिधानैः सर्वदा सर्वैः सेवनीयोऽसी- त्यर्थः । एवंपदसूचितममङ्गल्यं शीलमेव दर्शयति । स्मशानेष्वि- त्यादि । स्मशानेषु शवशयनेष्वासमन्तात्केलिः, पिशाचाः प्रेताः सहायाः, चिताभस्म शवदाहस्थं भस्माङ्गलेपोऽङ्गरागसाधनम्, नृक- रोटी मनुष्य शिरोस्थिसमूहः स्रङ्माला । अपिशव्दादन्यदप्यार्द्रचर्मादि ॥ हरिपक्षे तु । हे वरद, तव स्मर्तॄणाममङ्गल्यं शीलं भवतु नाम, तथापि तेषां त्वमेव परमं मङ्गलमसीत्यर्थः । तथाच गीतासु - 'अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः' इति । अथवा तव नामस्मर्तॄणामिति योज्यम् । नाममात्रं स्मरतां परनं मङ्गलमसि त्वां स्मरतां तु किमु वा-
च्यमित्यर्थः । कीदृशं नाम । अखिलं न खिलं फलरहितमखिलं सर्वदा सर्वत्र सफलमित्यर्थः । अत्यन्तपापित्वेन प्रसिद्धानामजामिलादी- नामपि त्वं नाममात्रस्य पुत्रनामत्वेन मरणव्यथया शिथिलकरणत्वेन च मन्दमुच्चारणेऽपि सर्वपापक्षयद्वारा परमपुरुषार्थप्राप्तिश्रवणात । अमङ्गल्यं शीलमेव दर्शयति स्मशानेष्वित्यादिरूपकेण । अत्य- न्ततिरस्कृतिवाच्यो ध्वनिरयं लक्षणामूलः । शवशयनतुल्येषु सर्वदा रोदनप्रधानेषु गृहेष्वा ईषत् क्रीडा । अल्पकालं वैषयिकतुच्छसु- खप्राप्तिरित्यर्थः । तथाच स्मरहरपिशाचा: सहचराः स्मरणं स्मरः शास्त्रीयो विवेकस्तं हरन्तीति स्मरहराः पिशाचतुल्याः पुत्रभा- र्यादयः पिशाचाः, स्मरहराश्च ते पिशाचाश्च स्मरहरपिशाचाः । यथा पिशाचाः स्वावेशेन ज्ञानलोपं कृत्वा पुरुषमनर्थे योजयन्ति तथा पुत्रभार्यादयोऽपि । तादृशाश्च वस्तुगत्या वैरिणोऽपि सहैव चरन्ति न क्षणमपि त्यजन्तीति सहचराः । तथा चिताभस्मतुल्य आलेपः । देहस्य विमूत्रपूयादिपूर्णत्वेनातिजुगुप्सितत्वात्तदालेपनस्याप्यति- जुगुप्सितत्वम् । तथा मनुष्यशिरोस्थिसमूहतुल्या माला पिशाच- तुल्यं भार्यादि विनोदहेतुत्वात् । अपिशब्दादन्यदपि सर्वं चरितं विषयसङ्गिनाममङ्गलमेव । एतादृशा अपि चेत्त्वां त्वन्नाम वा स्म- रन्ति तदा त्वमेव तेषां मङ्गल्यरूपेणाविर्भवसीत्यहोऽतिभक्तवात्स- ल्यमित्यर्थः । हरपक्षेप्येवं योजनीयम् ॥ २४ ॥ अतीतः पन्थानमित्यत्र हि पदार्थत्रयमुपन्यस्तं, कतिविधगुण इत्यनेन सगुणमैश्वर्यं, कस्य विषय इत्यनेनाद्वितीयं ब्रह्मस्वरूपं, पदे त्वर्वाचीन इत्यनेन लीलाविग्रहविहारादि । तत्र अजन्मानो लोका इत्यत्र सामान्यतः परमेश्वरसद्भावं दृढीकृत्य, तवैश्वर्यं यत्नाद्यदुप- रीत्यादिना सगुणमैश्वर्यं लीलाविग्रहविहारादिकं च वर्णितम् । संप्रत्यद्वितीयं ब्रह्मस्वरूपं वक्तव्यमवशिष्यते । तद्नभिधाने पूर्वो- क्तस्व सर्वस्यापि तुषकण्डजानवत्त्वप्रसङ्गान्निर्गुणब्रह्मस्वरूपस्यैव
सर्वश्रुतिस्मृतितात्पर्यविषयत्वेन सत्यत्वात्, सर्वस्यापि प्रपञ्चस स्व- प्नवन्मिथ्यात्वात् । तस्मान्निर्गुणब्रह्मनिरूपणायोत्तरग्रन्थारम्भः । तत्र पूर्वश्लोके त्वं परमं मङ्गलमसीत्युक्तम् । तत्रैवमाशङ्क्यते । मङ्गलं हि सुखम् । न चेश्वरस्य सुखखरूपत्वं संभवति, सुखस्य जन्यत्वा- द्गुणत्वाच्च, ईश्वरस्य नित्यत्वादद्रव्यत्वाच्च । नित्यज्ञानेच्छाप्रयत्नवा- नीश्वरो न सुखरूपो नापि सुखाश्रय इति तार्किकाः । क्लेशकर्मवि- पाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरश्चितिरूपो न सुखरूप इति पातञ्जलाः । तदेवं नाद्वितीय ईश्वरो नापि सुखस्वरूप इत्याशङ्क्य तस्याद्वितीयपरमानन्दरूपत्वे विद्वदनुभवरूपं प्रत्यक्षं प्रमाणं वद- न्स्तौति - मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदससिलोत्सङ्गितदृशः । यदालोक्याह्लादं ह्रद इव निमज्ज्यामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् २५ मन इति । हे वरद, यत्किमपि तत्त्वं इदंतया वक्तुमशक्यं सत्यज्ञानानन्तानन्दात्मकं वस्त्वालोक्य वेदान्तवाक्यजन्ययाऽख- ण्डाकारवृत्त्याऽपरोक्षीकृत्य यमिनः शमादिसाधनसंपन्नाः परमहंसाः अन्तराह्लादंं बाह्यसुखविलक्षणं निरतिशयमुखं दधति पूर्वं विद्यमा नमेव धारयन्ति न तूत्पादयन्ति नित्यत्वात् । तत्तत्वं किल भवानिति । किलेति प्रसिद्धौ । सत्यज्ञानानन्तानन्दात्मकत्वेनैव श्रु - तिषु प्रसिद्धो भवान्न तार्किकाद्युक्तप्रकारः । अतस्त्वं कथं परमं मङ्गलं न भवसीति वाक्यशेषः । तत्राह्लादस्य निरतियत्वं द- र्शयितुं दृष्टान्तमाह । अमृतमये ह्रदे निमज्ज्येव । यस्य खलु लेश- मात्रमपि स्पृष्ट्वा सकलसंतापोपशमेन सुखिनो भवन्ति, किमुत व- क्तव्यं तस्य निमज्जनरूपसर्वाङ्गसंयोगेनेति कारणातिशयात्कार्यस्या -
प्यतिशयः सूचितः । यद्यपि ब्रह्मानन्दस्य सर्वातिशयिनो न कोऽपि दृष्टान्तोऽस्ति तथापीषत्साम्येनापि लोकानां बुद्धिदार्ढ्यायैवमुक्तम् । एतादृशब्रह्मानन्दानुभवस्थासाधारणं कारणमाह । मन इत्यादिना । चित्ते हृदयाम्बुजे मनः संकल्पविकल्पात्मकमवधाय निरुध्य । वृ- त्तिशून्यं कृत्वेत्यर्थः । कीदृशं मनः । प्रत्यक् चक्षुरादीन्द्रियद्वारा बहिर्विषयप्रवृत्तिप्रतिकूलतया अन्तर्मुखतयैवाञ्चतीति प्रत्यक् । की- दृशा यमिनः । सविधं सप्रकारं यथा स्यात्तथा आत्तमरुतः । शास्त्रो- पदिष्टमार्गेणैव कृतप्राणायामा इत्यर्थः । अत्र सविधमित्यनेन यम- नियमादिसाधनानि सूच्यन्ते । आत्तमरुत इत्यनेन चतुर्थः कु- म्भकः । विषयेभ्य इन्द्रियाणां निवर्तनरूपः प्रत्याहारः प्रत्यक्पदेन सूचितः । चित्त इत्यनेन हृदयाम्बुजाख्यदेशसंब[^१]न्धात्समूहावलम्ब- नाख्या धारणोक्ता । अवधायेत्यनेन ध्यानसमाधी । तदुक्तं भगवता पतञ्जलिना – 'देशसंबन्धश्चित्तस्य धारणा । तत्र प्रत्ययैकतानता ध्या- नम् । तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः' इति । चि- त्तस्य वशीकरणार्थं मूलाधारस्वाधिष्ठानमणिपूरकानाहतविशुद्ध्या- ज्ञाख्यचक्राणामन्यतमे देशेऽवस्थापनं धारणेत्युच्यते । प्रत्ययस्य ए- कतानता (ए[^२]कविषयप्रवणता) विषयः प्रवाहः । स च द्विविधः । वि- च्छिद्यविच्छिद्य जायमानः संततश्चेति । तावुभौ क्रमेण ध्यानसमाधी भवतः । एतेनाष्टाङ्गयोगपरिपाको ब्रह्मसाक्षात्कारहेतुर्निदिध्यासन- रूपत्वेनोक्तः । एवं ब्रह्मानन्दानुभवस्य कारणमुक्त्वा कार्यमाह । प्रहृष्यद्रोमाणः प्रकर्षेण पुलकिताङ्गाः । तथा प्रमदसलिलोत्सङ्गि- तदृशः हर्षाश्रुपूर्णनेत्राः । एतदुभयं च यमिनामानन्दानुभवानुमाने लिङ्गमुक्तम् । अत्र प्रशब्देनोत्सङ्गितशब्देन च लौकिकसुखापे- क्षयाऽतिशयविशेषो व्यज्यते । यस्य च तत्त्वस्यालोकनमात्रे- [^१] 'संबन्धद्वारेण धारणोक्ता' इति पाठः । [^२] 'एकतानतैकविषयः' इति पाठः।
णाप्यन्ये परमाह्लादं बिभ्रति, तत्स्वयं परमाह्लादरूपं भवतीति किमु वक्तव्यमित्युक्तम् । 'विज्ञानमानन्दं ब्रह्म' 'आनन्दो ब्रह्मेति व्यजानात्' 'एष एव परम आनन्दः' 'यो वै भूमा तत्सुखं' 'कोह्यो- वान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्' इत्याद्याः श्रुतयश्चास्मिन्नर्थे प्रमाणत्वेन द्रष्टव्याः ॥ हरिपक्षेऽप्येवम् ॥ २५॥ एवमद्वितीये ब्रह्मणि परमानन्दरूपे सर्वात्मके विद्वदनुभवरूपं प्रत्यक्षं प्रमाणमुक्तम् । अधुना तस्यैवाद्वितीयत्वं तर्केणापि साध- यन्स्तौति—
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता विभ्रतु गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥२६॥
त्वमर्क इति । हे वरद, परिणताः परिपक्वबुद्धयस्त्वयि विषये एवं परिच्छिन्नामेवंप्रकारेण परिच्छिन्नत्वेन त्वां प्रतिपादयन्तीं गिरं वाचं बिभ्रतु धारयन्तु नाम । केन रूपेण परिच्छिन्नमित्यत आह । त्वमर्क इत्यादिना । अत्र सर्वत्र त्वंशब्दो वाक्यालंकारार्थः । उश- ब्दोऽवधारणे त्वमित्यनेन संबध्यते । चशब्दः समुच्चये । इतिशब्दः समाप्तौ । अर्कादयः प्रसिद्धाः । आत्मा क्षेत्रज्ञो यजमानरूपः । एते चाष्टौ श्रीरुद्रमूर्तित्वेनागमप्रसिद्धा वक्ष्यमाणभवादिनामाष्टक- सहिताश्चतुर्थ्यन्ता नमोन्ता अष्टौ मन्त्रा भवन्ति ते गुरूपदेशेन ज्ञा- तव्याः । एतदष्टमूर्तित्वं चान्यत्राप्युक्तम्– 'क्षितिहुतवहक्षेत्रज्ञाम्भ:- प्रभञ्जनचन्द्रमस्तपनवियदित्यष्टौ मूर्तीर्नमो भव बिभ्रते' इति । तेन सर्वात्मकमपि त्वामर्काद्यष्टमात्रमूर्ति वदन्तीत्यर्थः । अत्रापरि- णता इत्यस्मिन्नर्थे परिणता इति सोपहासं विभ्रत्विति लोटाननुम- तावप्यनुमतिप्रकाशनात्। तेन सर्वथानुचितमेवैतदित्यर्थः। बर्हि
किमुचितं ज्ञात्वा त्वयेदमनुचितमुच्यत इत्यत आह । नेत्यादिना । हि यस्मात् इह जगति तत्तत्त्वं वस्तु वयं न जानीमो यद्वस्तु त्वं न भवसि । त्वद्भिन्नमिति यावत् । अत्र स्वस्य प्रमाणकौशलेनो- त्कर्षं ख्यापयितुं विद्म इति बहुवचनम् । वयं तु त्वदभिन्नत्वेनैव युक्त्या सर्वं जानीम इत्यर्थः । एवं च तव सर्वात्मकत्वादर्कादि- विशेषरूपाभिधानं व्यर्थमेव । तथा च श्रुतिः - 'इन्द्रं मित्रं वरुण- मग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः' 'एष उ ह्येव सर्वे देवाः' इति च सर्वदेवभेदं वारयति । नहि सदतिरिक्तं किंचिदुपलभ्यते सद्रूपश्चा- त्मा त्वमेवेति तर्केणापि सिद्धमद्वैतम् । नच सर्वस्य ब्रह्मरूपत्वे घटा- दिज्ञानस्यापि ब्रह्मज्ञानस्वरूपत्वात्ततोऽपि मोक्षप्रसङ्ग इति वाच्यम् । अन्यानुपरक्तचैतन्यभावस्यैव मोक्षहेतुत्वात् । घटाद्याकारज्ञानस्य चाविद्यापरिकल्पितान्योपरक्तचैतन्यविषयत्वात् । अन्योपरक्तचैत- न्यस्य च सद्रूपेण चक्षुरादिविषयत्वेऽप्यन्यानुपरक्तसैतस्य न वे- दान्तवाक्यमात्रविषयत्वव्याघातः । ननु सर्वस्य सन्मात्रत्वेऽपि ना- द्वैतसिद्धिः । भिन्नानामपि सत्ताजातियोगेन सदाकारबुद्धिविषयत्व- संभवात् । अन्यथा द्रव्यगुणकर्मादिभेदव्यवहारोऽपि न स्यादिति चेन्न । द्रव्यं सद्गुणः सन्नित्यादिप्रतीतेर्द्रव्यत्वादिधर्मविशिष्टैकसन्मा- त्रविषयत्वमेव न तु द्रव्यादिधर्मिषु भिन्नेषु सत्ताख्यधर्मविषयत्वम्, धर्मिकल्पनातो धर्मकल्पनाया लघुत्वात् । एकस्मिन्नसति च सर्वा- भिन्ने मायिकनानात्वप्रतीत्युपपत्तेः । द्वौ चन्द्रावित्यत्रेव न पारमा- र्थिकभेदकल्पनावकाशः । तथाचायं प्रयोगः । अयं द्रव्यगुणादिभे- दव्यवहारः सर्वभेदानुगतजात्यात्मकैकवस्तुमात्रावलम्बनः । भेदव्य- वहारत्वाद्द्विचन्द्रभेव्यवहारवदिति । तस्मान्नाचेतनं सचेतनं वा किंचिदपि परमात्मनो भिन्नमुपपद्यते । 'स एष इह प्रविष्टः' 'अ- नेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि' इत्यादिश्रुत्या
प्रवेष्टुरविकृतस्यैव जीवरूपेण प्रवेशप्रतिपादनात् । तथा 'इदं सर्वे यदयमात्मा' इत्यादिश्रुत्या ब्रह्मैकोद्भवत्वब्रह्मसमान्यब्रह्मैकप्रलयत्वा- दिहेतुभिरूर्णनाभ्यादिदृष्टान्तेनाकाशादिप्रपञ्चस्य ब्रह्मात्मकत्वप्रति- पादनात् 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इति च कण्ठत एवाद्वितीयत्वोक्तेः । एवं च सदाकारप्रत्यक्षमभेदव्यवहारत्व- लिङ्गं सार्वात्म्यश्रुत्यन्यथानुपपत्तिश्चेति प्रमाणत्रयमुक्तम् । विस्तरेण चात्र युक्तयो वेदान्तकल्पलतिकायामनुसंधेयाः । तस्मान्न विद्म इत्यादिना साध्वेवोक्तमद्वितीयत्वम् ॥ हरिपक्षे तु । अर्कादिशब्देन तत्तदवच्छिन्ना देवतात्मान उच्यन्ते । 'य एवासावादित्ये पुरुष एत- देवाहं ब्रह्मोपासे' इत्यादिनाऽजातशत्रवे दृप्तबालाकिनोपदिष्टाः बृ- हदारण्यके कौषीतकिब्राह्मणे च प्रसिद्धाः । परिच्छिन्नत्वादिदोषे - णाब्रह्मत्वं चैषां तत्रैवाजातशत्रुणा प्रतिपादितम् । 'सहोवाचाजातश-
त्रुरेतावन्नून इत्येतावद्वृत्तिनैतावता तावद्विदितं भवति' इत्यादिना ।
अन्यत्सर्वे समानम् ॥ २६ ॥
एवं प्रत्यक्षानुमानार्थापत्तिभिरद्वितीयत्वं परमेश्वरस्य सर्वात्म- कत्वेन प्रसाध्य तदेवागमेनापि साधयन्स्तौति — अथवा क्रमेण पूर्व- श्लोकद्वये त्वंपदार्थं तत्पदार्थं च परिशोध्यानेन श्लोकेनाखण्डं वाक्यार्थं वदन्स्तौति – त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा- नकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति । तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् २७ त्रयीमिति । हे शरणद आर्ताभयप्रद, ओमिति पदं त्वां सर्वात्मानमद्वितीयं गृणाति अवयवशक्त्या समुदायशक्त्या च प्रतिपादयति । अतएवोंकारस्यावयवशक्त्या वाक्यत्वेऽपि समु-
दायशक्त्या पङ्कजादेरिव पदत्वमुपपन्नं योगरूढिस्वीकारात् । तदस्वीकारेऽपि 'सुप्तिङन्तं पदम्' इति वैयाकरणपरिभाषया पदत्वं 'कृत्तद्धितसमासाश्च' इत्यनेन समासस्यापि प्रातिपदिकसं- ज्ञाविधानात्सुबन्तत्वमुपपन्नमेव । कीदृशमोमिति पदम् । समस्तं अकारोकारमकाराख्यपदत्रयकर्मधारयसमासनिष्पन्नम् । एतेन समुदायशक्तिरुक्ता । तथा व्यस्तं भिन्नम् । अकार-उकार - मकारा- ख्यस्वतन्त्रपत्रयात्मकमित्यर्थः । एतेनावयवशक्तिरुक्ता । इदं च पदद्वयमभिधेयेऽपि योज्यम् । त्वां कीदृशम् । समस्तं सर्वात्मकं, तथा व्यस्तमध्यात्माधिदैवादिभेदेन भिन्नतया प्रतीयमानम् । तथाच व्यस्तमोमिति पदं व्यस्तं त्वां गृणाति, समस्तमोमिति पदं समस्तं त्वां गृणातीत्युक्तं भवति । एतदेव दर्शयति – त्रयी- मित्यादिना । त्रयीं देवत्रयं, तिस्रो वृत्तयो जाग्रत्स्वप्नसुषुप्त्याख्या अन्तःकरणस्यावस्थाः । एतच्च विश्वतैजसप्राज्ञानामप्युपलक्षणम् । त्रिभुवनं भूर्भुवःस्वः । एतदपि विराढिरण्यगर्भाव्याकृतानामुपल- क्षणम् । त्रयः सुराः ब्रह्मविष्णुमहेश्वराः । एतच्च सृष्टिस्थितिप्रलया- नामप्युपलक्षणम् । एतच्च सर्वमकाराद्यैस्त्रिभिर्वर्णैरभिदधदभिधावृ- त्या प्रतिपादयद्व्यस्तमित्यर्थः । एवमत्र प्रकारः । ऋग्वेदो जाग्रदव- स्था भूर्लोको ब्रह्मा चेति चतुष्टयमकारार्थः । तथा यजुर्वेदः स्वप्नावस्था भुवर्लोको विष्णुश्चेति चतुष्टयमुकारार्थः । तथा साम- वेदः सुषुप्त्यवस्था स्वर्लोको महेश्वरश्चेति चतुष्टयं मकारार्थः । इदं माण्डूक्यनृसिंहतापनीयाथर्वशिखादावन्यदप्युक्तं गुरूपदेशाज्ज्ञात- व्यम् । अतिरहस्यत्वान्नेह सविशेषमुच्यते । तस्मादध्यात्माधि- दैवाधिभूताधिवेदाधियज्ञादियावदन्यत्रोक्तमस्ति तत्सर्वमत्रोपसं- हर्तव्यं न्यूनतापरिहाराय । तथाच सर्वप्रपञ्चाकारेण व्यस्तं त्वां अकारोकारमकारैर्व्यस्तमोमिति पदमभिदधत्त्वां गृणावीति सं- बन्धः । तथा ती सर्वविकारातीतं तुरीयं अवस्था -
त्रयाभिमानिविलक्षणं तव धाम स्वरूपं अखण्डचैतन्यात्मकम् । तवेति राहोः शिर इतिवद्भेदोपचारेण षष्ठी । अणुभिर्ध्वनि- भिरवरुन्धानं स्वत उच्चारयितुमशक्यैरर्धमात्रायाः श्रुतोचारणवशेन निष्पाद्यमानैः सूक्ष्मशब्दैरवबोधं कुर्वत्प्रापयत् । समुदायशक्त्या बोधयदिति यावत् । अर्धमात्राया एकत्वेऽपि ध्वनिभिरिति बहुवचनं प्लुतोच्चारणे चिरकालमनुवृत्तायास्तस्या अनेकध्वनिरू- पत्वान्न विरुद्धम् । ध्वनीनां चाणुत्वाणुतरत्वाणुतमत्वादिकं गुरूपदे- शादधिगन्तव्यम् । तथाचार्घमात्रारूपेण समस्तमोमिति पदं समुदाय - शक्त्या सर्वविकारातीतं तुरीयं स्वरूपमभिधत् समस्तं त्वां गृणाती- ति संबन्धः । एवं च पदार्थाभिधानमुखेनाखण्डवाक्यार्थसिद्धिरर्था- दुक्ता । तथाहि स्थूलप्रपञ्चोपहितचैतन्यमकारार्थः, तत्र स्थूल- प्रपञ्चांशत्यागेन केवलचैतन्यमकारेण लक्ष्यते । तथा सूक्ष्मप्रपञ्चो - पहितचैतन्यमुकारार्थः, तत्र सूक्ष्मप्रपञ्चांशत्यागेनोकारेणोपलक्ष्यते । तथा स्थूलसूक्ष्मप्रपञ्चद्वयकारणीभूतमायोपहितचैतन्यं मकारार्थः, तादृशमायांशपरित्यागेन मकारेण चैतन्यमात्रं लक्ष्यते । एवं तुरी- यत्वसर्वानुगत्वोपहितचैतन्यमर्धमात्रार्थः तदुपाधिपरित्यागेनार्ध- मात्रया चैतन्यमात्रं लक्ष्यते । एवं चतुर्णां सामानाधिकरण्यादभेदबो- घे परिपूर्णमद्वितीयचैतन्यमात्रमेव सर्वद्वैतोपमर्देन सिद्धं भवति । लक्ष- णया परित्यक्तानां चोपाधीनां मायातत्कार्यत्वेन मिथ्यात्वात्, स्वरूप - बोधेन च स्वरूपाज्ञानात्मकमायातत्कार्यनिवृत्तेर्न पृथगवस्थानप्रसङ्गः। नह्यधिष्ठानसाक्षात्कारानन्तरमापतध्यस्तमुपलभ्यते त्रय्यादीनां वाक्यार्थबोधानुपयोगेप्युपासनायामुपयोगात्पृथगभिधानं द्रष्टव्यम् । तस्मात्सर्वं द्वितीयशून्यं प्रत्यगभिन्नं ब्रह्म प्रणववाक्यार्थ इति सिद्धम् । एतच्च सर्वेषां तत्त्वमस्यादिमहावाक्यानामुपलक्षणम् । तेषामपि प्रत्य- गभिन्नपरिपूर्णाद्वितीयब्रह्मप्रतिपादकत्वात् । यथा च शब्दादपरोक्ष-
निर्विकल्पकबोधोत्पत्तिस्तथा प्रपञ्चितमस्माभिर्वेदान्तकल्पलतिकाया- मित्युपरम्यते ॥ हरिपक्षेप्येवम् ॥ २७ ॥ एवं तावदद्वितीयब्रह्मवाचकत्वेन प्रणव उपन्यस्तः, एतस्य चार्था- नुसंधानं जपश्च समाधिसाधनत्वेन पतञ्जलिना सूत्रितः 'समाधिसि- द्विरीश्वरप्रणिधानात्' इति । 'ईश्वरप्रणिधानाद्वा' इति सूत्रान्तरं 'तस्य- वाचकः प्रणवः' 'तज्जपस्तदर्थभावनम्' इति सूत्राभ्यां प्रणवजपस्य प्रणिधानशब्दार्थत्वेन व्याख्यानात् । श्रुतौ च 'एतदालम्बनं श्रेष्ठमे- तदालम्बनं परम् । एतदालम्बनं ज्ञात्वा यो यदिच्छति तस्य तत् ॥' इत्यादिना तस्य सर्वपुमर्थहेतुत्वमुक्तम् । एतस्य चातिदुरूहार्थत्वेन स्त्रीशूद्राद्यनर्हत्वेन चासाधारणत्वात्सर्वसाधारणानि प्रसिद्धानि भग- वद्वाचकानि पदानि जपार्थत्वेन वदन् स्तौति-- भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां- स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् । अमुष्मिन्प्रत्येकं प्रविचरति देव श्रुतिरपि प्रियायास्मै धाम्ने प्रविहितनमस्योऽस्मि भवते २८ भव इत्यादि । हे शरणद, हे देव, इदं यदभिधानाष्टकं नामाष्टकं अमुष्मिन्नभिधानाष्टके विषये प्रत्येकमेकैकशः । प्रतिना- मेति यावत् । श्रुतिर्वेदः प्रविचरति प्रकर्षेण बोधकतया चरति । वर्तत इत्यर्थः । अपिशब्दात्स्मृतिपुराणागमादिकमपि । अथवा प्रणव इवामुष्मिन्नपि श्रुतिः प्रविचरतीति योज्यम् । यद्यप्यष्टाध्याया- र्थकाण्डे वह्निनामत्वेनैतानि समाम्नातानि तथापि वहेर्भगवद्वि- भूतित्वात्तन्नामत्वेऽपि न भगवन्नामत्वव्याघातः । यद्वा अमुष्मिन्ना- माष्टके देवानां ब्रह्मादीनामपि श्रुतिः श्रवणेन्द्रियं प्रविचरति साव- धानतया वर्तते । देवा अपि त्वन्नामश्रवणोत्सुकाः किं पुनरन्य इत्यर्थः । किं तन्नामाष्टकमित्यत आह । भव इत्यादि । महता महच्छब्देन सह वर्तत इति सहमहान्महादेवः तथैवागमप्रसिद्धेः ।
इतिशब्दः समाप्त्यर्थः । यस्य च नाममात्रमपि सर्वपुरुषार्थप्रदं स पुनः स्वयं कीदृश इति भक्त्युद्रेकेण प्रणमति । प्रियायेत्यादिना । अस्मै स्वप्रकाशचैतन्यरूपत्वेन सर्वदा परोक्षाय भवते महेश्वराय । कीदृशाय । धाम्ने सर्वेषां शरणभूताय चिद्रूपायेति वा । यो- ग्यमुपचारं किमपि कर्तुमशक्नुवन्नहं केवलं प्रविहितनमस्योऽस्मि प्रकर्षेण वाङ्मनःकायव्यापारातिशयेन विहिता नमस्या नमस्क्रिया येन स तथा । ( केवलं तुभ्यं कृतनमस्कारो भवामीत्यर्थः । ) प्रणिहितेति पाठेऽप्येवमेवार्थः ॥ हरिपक्षेऽप्येवम् । भवादीनां च हरिनामत्वं योगवृत्त्या संभवत्येव सहस्रनामस्तुतिपठितत्वाच्चेति द्रष्टव्यम् । अथवा यदिदमभिधानाष्टकं अमुष्मिन्प्रत्येकं देवश्रुतिरपि देवशब्दोऽपि प्रविचरति संबद्धो भवति । तथा च भवदेव इत्यादिरूपं तव रहस्यनामाष्टकमित्यर्थः । तथाच भवस्य रुद्रस्यापि देव आराध्य इत्यर्थः । एवमन्येष्वपि नामसु द्रष्टव्यम् ॥ २८ ॥ एवं जातभक्त्युद्रेको नमस्कारमेवानुवर्तयन्दुरूहमहिमत्वेन भगवन्तं स्तौति –
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो
नमः सर्वस्मै ते तदिदमितिसर्वाय च नमः ॥ २९ ॥
नम इति । हे प्रियदव अभीष्टनिर्जनवनविहार, ते तुभ्यं नेदि- ष्ठायात्यन्तनिकटवर्तिने, दविष्ठायात्यन्तदूरवर्तिने च नमोनमः । हे स्मरहर कामान्तक, क्षोदिष्ठाय क्षुद्रतराय महिष्ठाय महत्तराय च तुभ्यं नमोनमः । तथा हे त्रिनयन त्रिनेत्र, वर्षिष्ठाय अतिवृद्धाय वृद्धतरायेति वा यविष्ठाय युवतमाय च तुभ्यं नमोनमः । एवम- त्यन्तविरुद्धस्वभावस्याल्पबुद्धिभिः कथमपि स्वरूपनिर्णयासंभवात्स- र्वदा नमस्कार एव करणीय इति प्रदर्शनाय नमस्कारशब्दावृत्तिः ।
तथाच श्रुति:-- 'दूरात्सुदूरे तदिहान्तिके च' 'अणोरणीयान्महतो महीयान्' 'त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कु- मारी । त्वं जीर्णो दण्डेनाञ्चसि त्वं जातो भवसि विश्वतोमुखः' इत्यादि । तथा किंबहुना सर्वस्मै सर्वरूपाय तुभ्यं नमः । 'इदं सर्वे यदयमात्मा' इति श्रुतेः । ननु तर्हि सर्वविकाराभिन्नत्वादिना- शित्वप्रसङ्ग इत्याशङ्क्य, सर्वस्याध्यस्तत्वेन वास्तवभेदाभावात्सर्व बाधाधिष्ठानत्वेन च श्रुतिषु सामानाधिकरण्येन व्यपदेशादद्विती- यस्य ब्रह्मणो न विकारगन्धोऽपि संभाव्यत इत्यभिप्रायेण नम- स्कुर्वन्नाह – तदिदमिति सर्वाय च नम इति । तत्परोक्षमिदमपरो- क्षमित्यनेन प्रकारेणानिर्वाच्यं सर्वे यत्र स तदिदमितिसर्वस्तस्मै । बहुव्रीहावन्यपदार्थप्रधानत्वान्न सर्वनामता । तेन सर्वाधिष्ठानभूताय तुभ्यं नम इत्यर्थः ॥ हरिपक्षेप्येवम् । केवलं संबोधनत्रयमन्यथा व्याख्येयम् । प्रियाणि वैषयिकसुखानि वैराग्योद्बोधेन दुनोति नाशयतीति प्रियदवः । तथाच स्मरो वासना तं हरति स्वभक्त्यु- द्रेकेणेति स्मरहरः । तथा त्रयाणां लोकानां नयनवत्सर्वार्थावभासक- स्त्रिनयन इति प्रागपि व्याख्यातम् ॥ २९ ॥ अधुना पूर्वोक्तसर्वार्थसंक्षेपेण नमस्कुर्वन्स्तुतिमुपसंहरति-
बहलरजसे विश्वोत्पत्तौ भवाय नमोनमः
प्रचलतमसे तत्संहारे हराय नमोनमः ।
जनसुखकृते सत्वोद्रिक्तौ मृडाय नमोनमः
प्रमहसिपदे निस्त्रैगुण्ये शिवाय नमोनमः ॥ ३० ॥
बहलेति । विश्वोत्पत्तौ विश्वोत्पत्तिनिमित्तं बहलं तमःसत्वा- भ्यामधिकं रजो यस्य तस्मै उद्रिक्तरजसे भवत्यस्माज्जगदिति भवो ब्रह्ममूर्तिस्तस्मै तुभ्यं नमोनमः । तथा तत्संहारे तस्य विश्वस्य संहा- रनिमित्तं प्रबलं सत्वरजोभ्यामनभिभूतमुद्रिक्तं तमो यस्य तस्मै हरतीति हरो रुद्रमूर्तिस्तस्मै नमोनमः । तथा जनानां सुखकृते
सुखनिमित्तम् । कृतशब्दोऽव्ययो निमित्तवाची । सत्वस्योद्रिक्तावुद्रेके रजस्तमोभ्यामाधिक्ये स्थितायेत्यर्थाल्लभ्यते । 'सत्वोद्रेके' इति वा पाठः । अथवा सत्वोद्रिक्तौ सत्यां जनानां सुखं करोतीति जनसुखकृत्तस्मै । यद्वा सुखस्य कृतं करणम् । भावे क्तः । तस्मिन् तन्निमित्तम् । एवं व्याख्याने प्रक्रमभङ्गदोषो न भवति पूर्वपर्याय - द्वये उत्तरपर्याये च सप्तम्यन्तनिमित्तनिर्देशात् । मृडयति सुखयति मृडो विष्णुस्तस्मै । पालनस्यैवोद्देश्यत्वात्क्रमभङ्गेण पश्चान्निर्देशः । एवं गुणत्रयोपाधीनत्वान्निर्गुणं प्रणमति । प्रमहसिपदे निस्स्रैगुण्ये शि- वाय नमोनमः निर्गतं त्रैगुण्यं यस्मात्तन्निस्स्रैगुण्यं तस्मिन्पदे पद- नीये तत्पदप्राप्तिनिमित्तम् । कीदृशे । प्रमहसि प्रकृष्टं माययानभिभूतं महो ज्योतिर्यस्मिंस्तत्तथा । सर्वोत्तमप्रकाशरूपत्रिगुणशून्यमोक्षनि- मित्तमित्यर्थः । शिवाय निस्रैगुण्यमङ्गलस्वरूपाय 'शिवमद्वैतं च- तुर्थं मन्यन्ते' इति श्रुतेः । प्रमहसि पदे स्थितायेति वा । हरिपक्षे- प्येवम् ॥ ३० ॥ एवमस्तुत्यरूपेणैव भगवन्तं स्तुत्वा स्वसौद्धत्यपरिहारं 'मम त्वेतां वाणीम्' इत्यत्रोपक्रान्तमुपसंहरन्नाह -
कृशपरिणति चेतः क्लेशवश्यं क्व चेदं
क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः ।
इति चकितममन्दीकृत्य मां भक्तिराधा-
द्वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥ ३१ ॥
हे वरद सर्वाभीष्टदेत्युपसंहारे योग्यं संबोधनम् । तव पाद- योर्मद्वाक्यपुष्पोपहारं भक्तिराधात् त्वद्विषया रतिरर्पितवती । यथा पुष्पाणि मधुकरेभ्यः स्वमकरन्दं प्रयच्छन्त्यन्येषामपि दूरात् गन्ध- मात्रेण प्रमोदमादधति तथैतानि स्तुतिरूपाणि वाक्यानि भ- क्तिरसिकेभ्यो भगवन्माहात्म्यवर्णनामृतरसं प्रयच्छन्त्यन्येषा-
मपि श्रवणमात्रेणापि वस्तुस्वभाव्यात्सुखविशेषमाधतीति ध्वन- यितुं ज्ञापयितुं वाक्यपुष्पत्वेन निरूपितम् । तथा च वाक्या- न्येव पुष्पाणि तैरुपहारः पूजार्थमञ्जलिस्तमित्यर्थः । किं कृत्वा आधादित्यनेन हेतुना चकितं भीतं स्तुतेर्निवर्तमानं माममन्दी- कृत्य न मन्दममन्दं कृत्वा । बलात्स्तुतौ प्रवर्त्येत्यर्थः । तथा चान्य- मत्या प्रवृत्तस्य मम स्खलितेऽपि क्षन्तव्यमित्यभिप्रायः । इतिशब्देन सूचितं भयकारणमाह - कृशेत्यादिना । कृशा अल्पा परिणतिः परि- पाको यस्य तत्तथा । अल्पविषयमित्यर्थः । तादृशं मम चेतश्चित्तं ज्ञानं वा । तथा क्लेशानामविद्यास्मितारागद्वेषाभिनिवेशानां वश्यमाय - तम् । सर्वदा रागद्वेषादिदोषसहस्रकलुषितमित्यर्थः । क्लेशेनातिप्रयत्नेन वश्यमिति वा तेन त्वद्गुणवर्णनेऽत्यन्तायोग्यमित्यर्थः । गुणानां सीमा संख्यापरिणामयोरियत्ता तामुल्लङ्घयितुं शीलं यस्याः सा गुणसीमो- ल्लङ्घिनी शश्वदृद्धिः नित्या विभूतिः । तेनैतादृशदुर्वासनासहस्रकलु - षितमित्यल्पविषयं मम मनः क्व, अनन्ता नित्या तव परमा विभूतिर्वा क्व इत्यत्यन्तासंभावना मम भयहेतुरित्यर्थः । एतदवधारणे च तव भक्तिरेव कारणमिति भक्तेरत्यन्तासंभावितफलदानेऽपि सामर्थ्यं दर्शयति । यस्मादेवं तस्मात्सर्वापराधानविगणय्य परमकारुणिकेन त्वया त्वद्विषया भक्तिरेव ममोद्दीपनीयेति वाक्यतात्पर्यार्थः ॥३१॥
असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सार्वकालं
तदपि तव गुणानामीश पारं न याति ॥३२॥
असुरसुरमुनीन्द्रैरचिंतस्येन्दुमौले-
र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।
सकलगणवरिष्ठः पुष्पदन्ताभिधानो
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ॥ ३३ ॥
अहरहरनवद्यं धूर्जटे: स्तोत्रमेत-
त्पठति परमभक्त्या शुद्धचित्त: पुमान्य: ।
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र
प्रचुरतरधनायुः पुत्रवान्कीर्तिमांश्च ॥ ३४ ॥
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ ३५॥
दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः ।
महिम्नस्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥३६॥
इमे (३२–३६) श्लोकाः स्तोत्रान्तर्गताः सुगमाश्चेति सर्वं भद्रम् ॥
हरिशंकरयोरभेदबोधो भवतु क्षुद्रधियामपीति यत्नात् ।
उभयार्थतया मयेदमुक्तं सुधियः साधुतयैव शोधयन्तु ॥ १ ॥
यत्नतो वक्रया रीत्या कर्तुं शक्यं विधान्तरम् ।
यद्यपीह तथाप्येष ऋजुरध्वा प्रदर्शितः ॥ २ ॥
श्लोकानुपात्तमिह न प्रसङ्गात्किंचिदीरितम् ।
श्लोकोपात्तमपि स्तोकैरक्षरैः प्रतिपादितम् ॥ ३ ॥
महिम्नाख्यस्तुतेर्व्याख्या प्रतिवाक्यं मनोहरा ।
इयं श्रीमद्गुरोः पादपद्मयोरर्पिता मया ॥ ४ ॥
टीकान्तरं कश्चन मन्दधीरितः सारं समुद्धृत्य करोति चेत्तदा ।
शिवस्य विष्णोर्द्विजगोसुपर्वणामपि द्विषद्भावमसौ प्रपद्यते ॥ ५ ॥
भूतिभूषितदेहाय द्विजराजेन राजते ।
एकात्मने नमो नित्यं हरये च हराय च ॥ ६ ॥
इति श्रीमत्परमहंसश्रीमद्विश्वेश्वरसरस्वतीचरणारविन्दमधुपश्रीमधु- सुदनसरस्वतीविरचिता महिम्नस्तुतिव्याख्या संपूर्णा॥
कुसुम[^१]दशननामा सर्वगन्धर्वराजः
शिशुशशिधरमौलेर्देवदेवस्य दासः ।
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषा-
त्स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्नः ॥ ३७ ॥
सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः ।
व्रजति शिवसमीपं किंनरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥ ३८ ॥
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् ।
अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ॥ ३९ ॥
इत्येषा वाङ्मयी पूजा श्रीमच्छंकरपादयोः ।
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ ४० ॥
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।
यादृशोऽसि महादेव तादृशाय नमो नमः ॥ ४१ ॥
एककालं द्विकालं वा त्रिकालं य पठेन्नरः ।
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ४२ ॥
श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन
स्तोत्रेण किल्बिषहरेण हरप्रियेण ।
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३ ॥
इति श्रीपुष्पदन्तविरचितं शिवमहिम्नस्तोत्रं संपूर्णम् ॥ [^१] महिम्नस्तुतेरेकत्रिंशच्लोका एव श्रीमधुसूदनसरस्वत्याख्ययतिवरैर्व्या- ख्याताः । ततो द्वात्रिंशदादि षट्त्रिंशत्पर्यन्तं श्लोकान्संगृह्याग्रे व्याख्योपसंहारे 'इमे श्लोकाः स्तोत्रान्तर्गताः सुगमाश्चेति सर्वं भद्रं' इति लिखितमस्ति नाग्रे- तनानिक्लोपटया तथापि लोकपाठमनुसृत्यास्माभिरत्र संगृहीतानीति शम्॥