This page has been fully proofread twice.


325
वीणावंशाश्रयात्तुम्बं चुम्बत्युच्चै: कुचौ स्त्रियः ।
तत्तु नापितसंसर्गाद्रक्तं नक्तंचरो यथा ॥ ५ ॥
326
किंचिदाश्रय सौन्दर्याद्धत्ते शोभामसाध्वपि ।
कान्ताविलोचने न्यस्तं मलीमसमिवाञ्जनम् ॥ ६ ॥
327
आश्रयवशेन सततं गुरुता लघुता च जायते जन्तोः ।
विन्ध्ये विन्ध्यसमानाः करिणो बत दर्पणे लघवः ॥ ७ ॥
328
संसर्गाद्भवति हि साधुता खलानां
साधूनां न च खलसंगमात्खलत्वम् ।
आमोदं कुसुमभवं मृदेव धत्ते
मृद्गन्धं न च कुसुमानि धारयन्ति ॥ ८ ॥
329
असाधुः साधुर्वा भवति खलु जात्यैव पुरुषो
न सङ्गाद्दौर्जन्यं न हि सुजनता कस्यचिदपि ।
प्ररूढे संसर्गे मणिभुजगयोर्जन्मजनिते
मणिर्नाहेर्दोषान्स्पृशति न तु सर्पो मणिगुणान् ॥ ९ ॥
केषामप्येते ।
330
संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपत्त्रस्थितं राजते ॥
स्वातौ सागरशुक्तिसंपुटगतं तज्जायते मौक्तिकं
प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ॥ १० ॥
331
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
पुरुषविशेषं प्राप्ता भवन्ति योग्या अयोग्याश्च ॥ ११ ॥
एतौ विष्णुशर्मणः ।