Proofing

Sorry, you aren't authorized to use this feature.

This page has been fully proofread twice.

अनन्तरं तु श्रीसिद्धराजः प्रमोदमेदुरमना देवाचार्यप्रभावप्रभावनाचिकीमूर्ध्नि धारितसितातपत्रचतुष्टयः प्रकीर्णकप्रकरवीज्यमानः स्वयं दत्तहस्तावलम्बः पूर्यमाणेषु यमलशङ्खेषु रोदःकुक्षिम्भरिविभ्रमं बिभ्रति निस्वाननिस्वनैः स्फूर्जद्वर्यतूर्यपूर्यमाणदिगन्तराले वाहडनाम्नोपासकेन लक्षत्रयप्रमितद्रव्यव्ययकृतार्थीकृतार्थिसार्थे 'वादिचक्रवर्तिन् ! पादावधार्यतामि'ति स्तुतिव्रातैरमन्दजगदानन्दकन्दकन्दलानुकारिणि मङ्गले मुहुर्मुहुरुच्यमाने श्रीदेवाचार्यान् वाहडेन तेनैव कारितप्रासादे श्रीमन्महावीरनमस्करणपूर्वं वसतौ प्रावेशयत् । तत्पारितोषिके च नृपतिः सूरिभ्योऽनिच्छद्भ्योपि छालाप्रभृति ग्रामद्वादशकं ददौ । तदुपश्लोकनश्लोका एवम् --
 
१६१. वस्त्रप्रतिष्ठाचार्याय नमः श्रीदेवसूरये ।
यत्प्रसादमिवाख्याति सुखप्रश्नेषु दर्शनम् ॥
 
-- इति श्रीप्रद्युम्नाचार्यः ।
 
१६२. यदि नाम कुमुदचन्द्रं नाजेष्यद्देवसूरिरहिमरुचिः ।
कटिपरिधानमधास्यत्कतमः श्वेताम्बरो जगति ॥
 
-- इति हेमाचार्यः ।
 
१६३. भेजेऽवकीर्णतां नमः कीर्तिकन्थामुपार्ज्य यः ।
तां देवसूरिराच्छिद्य तं निर्ग्रन्थं पुनर्व्यधात् ॥
 
-- इति श्रीउदयप्रभदेवः ।
 
१६४. वादविद्यावतोऽद्यापि लेखशालामनुज्झताम् ।
देवसूरिप्रभोः साम्यं कथं स्याद्देवसूरिणा ॥
 
-- इति श्रीमुनिदेवाचार्यः ।
 
१६५ नग्नो यत्प्रतिभाघर्मात्कीर्तियोगपटं त्यजन् । ह्रियेवात्याजि भारत्या देवसूरिर्मुदेऽस्तु वः ॥
 
१६६. सत्रागारमशेषकेवलभृतां भुक्तिं तथा स्थापयन्नारीणामपि मोक्षतीर्थमभवत्तन्मुक्तियुक्तोत्तरैः ।
यः श्वेताम्बरशासनस्य विजिते नग्ने प्रतिष्ठागुरुस्तद्देवाद्गुरुतोऽप्यमेयमहिमा श्रीदेवसूरिप्रभुः ॥
 
-- इति मेरुतुङ्गसूरीणां द्वयम् ।
 
॥ इति देवसूरीणां प्रबन्धः ॥
 
११०) अथ श्रीपत्तनवास्तव्य उच्छिन्नवंशकः आभडनामा वणिक्पुत्रः कांस्यकारकहट्टे घर्घरकघर्षणं कुर्वंस्तत्र पञ्च विंशोपकानर्जयित्वा दिनव्ययं कुर्वाणो द्विसन्ध्यमपि प्रभुश्रीहेमसूरीणां चरणमूले प्रतिक्रामन् प्रकृतिचतुरतयाऽधीतागस्त्यबौद्धमतादिरत्नपरीक्षाग्रन्थो रत्नपरीक्षकाणां सान्निध्यात् तत्परीक्षादक्षः कदाचिच्छ्रीहेमचन्द्रमुनीन्द्रसन्निधौ धनाभावात्परिग्रहप्रमाणनियमान्सङ्कुचितान् गृह्णन् सामुद्रिकवेदिभिः प्रभुभिरायतौ तद्भाग्यवैभवप्रसरं विमृशद्भिस्तस्य लक्षत्रयद्रम्माणां परिग्रहप्रमाणं कारयद्भिः सन्तुष्टतया व्यवहरन्, कस्मिन्नप्यवसरे क्वापि ग्रामे यियासुरन्तरालेऽजाव्रजं व्रजन्तमालोक्यैकस्या अजायाः कण्ठे पाषाणखण्डं रत्नपरीक्षकतया रत्नजातीयं