पञ्चतन्त्रम् । अथ कथामुखम् ।
मनवे वाचस्पतये शुक्राय पराशराय ससुताय ।
चाणक्याय च विदुषे नमोऽस्तु नृपशास्त्रकर्तृभ्यः ॥ १ ॥
सकलार्थशास्त्रसारं जगति समालोक्य विष्णुशर्मापि ।
तन्त्रैः पञ्चभिरेतैश्चकार सुमनोहरं शास्त्रम् ॥ २ ॥
तद्यथानुश्रूयते । अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र सकलार्थिजनमनोरथकल्पद्रुमः प्रवरनरपतिमुकुटमणिमरीचिनिचयरञ्जित- चरणयुगलः सकलकलापारंगतः सकलार्थशास्त्रविदमरशक्तिर्नाम राजा बभूव । तस्य च त्रयः पुत्राः परमदुर्मेधसो वसुशक्तिरुग्रशक्तिरनेकशक्तिश्चेति नामानो बभूवुः । अथ तानर्थशास्त्रं प्रति जडानालोक्य स राजा सचिवानाहूय संप्रधारितवान् । ज्ञातमेव भवद्भिर्यथा ममैते पुत्राः परमदुर्मेधसः ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ।
तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी ॥ ३ ॥
वरं गर्भस्रावो वरमृतुषु नैवाभिगमनं
वरं जातप्रेतो वरमपि च कन्यैव जनिता ।
वरं वन्ध्या भार्या वरमगृहवासे निवसनं
न चाविद्वान् रूपद्रविणबलयुक्तोऽपि तनयः ॥ ४ ॥
तदेषां बुद्धिप्रबोधनं केनोपायेनानुष्ठीयते । इति । तत्र केचिदाहुः । देव द्वादशभिर्वर्षैः किल व्याकरणं श्रूयते । तद्यदि कथमपि ज्ञायते ततो धर्मार्थ- कामशास्त्राणि ज्ञेयानि । तदेतदतिगहनं धीमतामपि किं पुनर्मन्दबुद्धीनाम् ।
सुखोपविष्टं च तमाह राजा । ब्रह्मन् मदनुग्रहार्थमेतान् कुमारान् दुर्मे- धसस्त्वमर्थशास्त्रं प्रत्यनन्यसमान् कर्तुमर्हसि । अर्थमात्रया च त्वां संमान- यिष्यामीति । एवमभिहितवति पार्थिवे विष्णुशर्माप्युत्थाय तं राजानं विज्ञा- पितवान् । देव श्रूयतामयं मम वचनसिंहनादः । नाहमर्थलिप्सुरित्येवं ब्रवीमि । न च ममाशीतिवर्षस्य व्यावृत्तसर्वेन्द्रियस्य कश्चिदर्थोपभोगकालः । किं तु त्वद्धितार्थं बुद्धिपूर्वकोऽयमारम्भः । तल्लिख्यतामद्यतनो दिवसः । यद्यहं षण्मासाभ्यन्तरे तव पुत्रान्नीतिशास्त्रपारंगतान्न करोमि ततो मामर्हति भवान् मार्गसंदर्शनेन हस्तशतमपक्रामयितुमिति । एतामसंभाव्यां ब्राह्मणस्य प्रतिज्ञां श्रुत्वा ससचिवो राजा प्रहृष्टमना विस्मयान्वितः सबहुमानं तस्मै विष्णुशर्मणे कुमारान् समर्पितवान् । तेनापि कथाद्वारेण मित्रभेदमित्रप्राप्तिकाकोलूकीय- लब्धनाशापरीक्षितकारित्वानीति पञ्चतन्त्राणि परिकल्प्य राजपुत्रान्नीति- शास्त्रं ग्राहयितुमुपक्रान्तः । कथामुखमेतत् समाप्तम् ।
अथ मित्रभेदं नाम प्रथमं तन्त्रम् । अथेदमारभ्यते मित्रभेदं नाम प्रथमं तन्त्रम् । यस्यायं आद्यः श्लोकः ।
वर्धमानो महान्स्नेहः सिंहगोवृषयोर्वने ।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ १ ॥
राजपुत्रा आहुः । कथमेतत् । विष्णुशर्मा कथयति । अस्ति दक्षिणापथे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जितवृत्ति- र्वर्धमानको नाम सार्थवाहः प्रतिवसति स्म । तस्य कदाचिच्चित्तमुत्पन्नं यत्प्रभूतेऽपि वित्तेऽर्थवृद्धिः करणीयेति । उक्तं च
अलब्धमर्थं लिप्सेत लब्धं रक्षेदवेक्षया ।
रक्षितं वर्धयेन्नित्यं वृद्धं पात्रेषु निक्षिपेत् ॥ २ ॥
अलब्धलाभार्था लब्धपरिरक्षणी रक्षितविवर्धनी वर्धितस्य तीर्थप्रतिपादनी चेति लोकयात्रा । तत्रालभमानस्य न किंचिदस्ति । लब्धोऽप्यरक्ष्यमाणोऽर्थो बहूपद्रवतया सद्यो विनश्यति । अवर्धमानश्चार्थः शनैरप्युपयुज्यमानोऽ- ञ्जनवत् क्षीयते । अनुपयुज्यमानः प्रयोजनोत्पत्तौ तुल्योऽप्राप्तेनेति । अतः प्राप्तस्य रक्षणविवर्धनोपयोगाः कार्याः । उक्तं च
उपार्जितानामर्थानां त्याग एव हि रक्षणम् ।
तडागोदरसंस्थानां परीवाह इवाम्भसाम् ॥ ३ ॥
इत्येवं संप्रधार्य मथुरागामि भाण्डमुपसंगृह्य शुभे तिथौ गुरुजनानुज्ञातस्त- स्मान्नगराद्वाणिज्येन विनिर्गतः । तस्य च द्वौ वृषभौ वोढारावग्रधुरायां नन्दकसंजीवकनामानावभूताम् । अथ गच्छतस्तस्य महति वने दूरावरूढ- गिरिनिर्झरस्खलितवारिजनितकर्दममग्नैकचरणवैकल्याच्छकटस्य चातिभार- गुरुत्वात् कस्मिंश्चित्प्रदेशे कथमपि दैववशात्तयोर्वृषभयोः संजीवको युगभङ्गं कृत्वा निषसाद । तं च दृष्ट्वा वर्धमानकः सार्थवाहः परं विषादमगमत् । त्र्यहं चोदीक्ष्य यदासौ न वैकल्यतां लभते स्म तदा तस्य रक्षिपुरुषान्नि- योज्य शेषसार्थसंरक्षणार्थं बह्वपायं वनमिति मत्वा यथाभिलषितं दिगन्तरं
शेषतया सलिलमिश्रैः शिशिरतरवातैराप्यायितशरीरः कथंचिदुत्थाय शनैः शनैर्यमुनाकच्छमुपश्लिष्टः । तत्र च मरकतसदृशानि शष्पाग्राणि भक्षयन् स्वच्छन्दचारी कतिपयैरहोभिर्हरवृषभ इव पीनककुदधारी हृष्टपुष्टाङ्गो बलवान् संवृत्तः प्रत्यहं च वल्मीकशिखराणि शृङ्गाग्रघट्टनैरुल्लिखन्नदंश्चास्ते । अथ तस्मिन् वने नातिदूरे सर्वमृगपरिवृतः पिङ्गलको नाम सिंहो वनान्तरे निः- साध्वसमुच्चैः शिरो वहन् स्ववीर्यार्जितराज्यसुखमनुभवन्नास्ते । तथा च
एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रज्ञे ।
सत्त्वोच्छ्रिते मृगपतौ राजेति गिरः परिणमन्ति ॥ ४ ॥
नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः ।
विक्रमार्जितवित्तस्य स्वयमेव मृगेन्द्रता ॥ ५ ॥
स कदाचित्पिपासाकुलित उदकार्थी यमुनाकच्छमवातरत् । तेन चान- नुभूतपूर्वमकालप्रलयघनगर्जितमिव संजीवकस्य नर्दितं दूरादेवाश्रावि । तच्च श्रुत्वातीवक्षुभितहृदयः पानीयमपीत्वाकारमाछाद्य मण्डलवटप्रदेशे चतुर्मण्डलावस्थानेन तूष्णीमवस्थितः । चतुर्मण्डलावस्थानं त्विदम् । सिंहः सिंहानुयायी काकरवः किंवृत्त इति मण्डलानि । तत्र च सर्वेष्वेव ग्रामनगरपत्तनाधिष्ठानखेटखर्वटोद्यानाग्रहारकाननवनस्थानेष्वेक एव सिंहः स्थानीयो भवति । कतिपयाः सिंहानुयायिनस्तन्त्रधाराः । काकरववर्गा मध्यमवर्गाः । किंवृत्ता एवान्यस्थानवासिनः । तस्य च करटकदमनकना- मानौ द्वौ सृगालौ मन्त्रिपुत्रावास्ताम् । तौ च परस्परं मन्त्रयतः । तत्र दम- नकः करटकमब्रवीत् । भद्र करटक । अयं तावदस्मत्स्वामी पिङ्गलक उदक- ग्रहणार्थमभिप्रवृत्तः किंनिमित्तामिहावस्थितः । करटक आह । किमनेन व्यापारेणावयोः । उक्तं च
अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति ।
स एव निहतः शेते कीलोत्पाटीव वानरः ॥ ६ ॥
दमनक आह । कथमेतत् । सोऽब्रवीत् ।
रार्थं नगरमध्ये प्रविशन्ति । अथ तत्रैकस्य शिल्पिनोऽर्धस्फाटितः काष्ठस्त- म्भोऽर्जुनमयः खदिरकीलकेन मध्ये यन्त्रनिखातेनावष्टब्धोऽवतिष्ठते । तत्र कदाचिद्वनवासी महान् वानरयूथस्तरुशिखरप्रासादशृङ्गदारुनिचयेष्वितश्चेतश्च यथेच्छया क्रीडन्नागतः । तत्रैकस्तु वानर आसन्नविनाशः सहजचापलात् स्तम्भ उपविश्य तस्य रन्ध्रे विलम्बितवृषणः सन् केनायमस्थाने कीलको निखात इति पाणिभ्यां संगृह्योत्पाटयितुमारब्धः । स्थानाच्चलिते कीलके यद्वृत्तं तद्भवतानाख्यातमपि विदितमेव । इति प्रथमा कथा समाप्ता । अतोऽहं ब्रवीमि । अव्यापार प्राज्ञैः परिहर्तव्यः । इति । पुनश्चा- ब्रवीत् । आवयोस्तावद्भक्षितशेष आहारोऽस्त्येव । दमनक आह । कथमा- हारमात्रार्थी केवलं भवान् । सर्वस्तावत् प्रधानसेवां कुरुते विशेषार्थी । साधु चेदमुच्यते
सुहृदामुपकारकारणाद्द्विषतामप्यपकारकारणात् ।
नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥ ७ ॥
यस्मिञ्जीवति जीवन्ति बहवः स तु जीवति ।
बकोऽपि किं न कुरुते चञ्च्वा स्वोदरपूरणम् ॥ ८ ॥
अपि च
स्वल्पस्नायुवसावशेषमलिनं निर्मासमप्यस्थि गोः
श्वा लब्ध्वा परितोषमेति न च तत्तस्य क्षुधः शान्तये ।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ ९ ॥
लाङ्गूलचालनमधश्चरणावपातं भूमौ निपत्य वदनोदरदर्शनं च । श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
यज्जीव्यते क्षणमपि प्रथितं मनुष्यै-
र्विज्ञानविक्रमयशोभिरभग्नमानम् ।
तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञाः
काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १२ ॥
सुपूरा वै कुनदिका सुपूरो मूषकाञ्जलिः ।
सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ १३ ॥
अहितहितविचारशून्यबुद्धेः
श्रुतिसमयैर्बहुभिर्बहिष्कृतस्य ।
उदरभरणमात्रकेवलेच्छोः
पुरुषपशोश्च पशोश्च को विशेषः ॥ १४ ॥
गुरुशकटधुरंधरस्तृणाशी
समविषमेषु च लाङ्गलावकर्षी ।
जगदुपकरणं पवित्रयोनि-
र्नरर्पशुना स विशिष्यते गवेन्द्रः ॥ १५ ॥
करटक आह। आवां तावदप्रधानौ तत्किमावयोरनेन व्यापारेण । सोऽब्रवीत् । भद्र कियता कालेनाप्रधानोऽपि प्रधानो भवति । उक्तं च
न कस्यचित्कश्चिदिह प्रभावा-
द्भवत्युदारोऽभिमतः खलो वा ।
लोके गुरुत्वं विपरीततां च
स्वचेष्टितान्येव नरं नयन्ति ॥ १६ ॥
आरोप्यतेऽश्मा शैलाग्रं यथा यत्नेन भूयसा ।
निपात्यते सुखेनाधस्तथात्मा गुणदोषयोः ॥ १७ ॥
तद्भद्रात्मायत्तो ह्यात्मा सर्वस्य । करटक आह । अथात्र भवान् किं कर्तुमनाः । सोऽब्रवीत् । अयं तावत्स्वामी पिङ्गलको भीतो भीतपरिवारश्च मूढमतिः । सोऽब्रवीत् । कथं भवाञ् जानाति । दमनक आह । किमत्र ज्ञेयम् । उक्तं च
अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥ १८ ॥ तदेनं भयाकुलं प्राप्याद्यैव प्रज्ञाप्रभावेणात्मीयं करिष्यामि । करटकोऽ- ब्रवीत् । भद्र । अनभिज्ञो भवान् सेवाधर्मस्य । तत्कथमात्मीकरिष्यसि । दमनक आह । भद्र । कथमहं सेवानभिज्ञः । ननु मयैष सकलोऽनुजीवि- धर्मो विज्ञातः । उक्तं च
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥ १९ ॥
करटक आह । कदाचित्त्वामनवसरप्रवेशादवमन्यते स्वामी । सोऽ- ब्रवीत् । अस्त्येवम् । तथाप्यनुजीविना सांनिध्यमवश्यं करणीयम् । उक्तं च
आसन्नमेव नृपतिर्भजते मनुष्यं
विद्याविहीनमकुलीनमसंस्तुतं वा ।
प्रायेण भूमिपतयः प्रमदा लताश्च
यः पार्श्वतो वसति तं परिवेष्टयन्ति ॥ २० ॥
कोपप्रसादवस्तूनि विचिन्वन्तः समीपगाः ।
आरोहन्ति शनैर्भृत्या धुन्वन्तमपि पार्थिवम् ॥ २१ ॥
करटक आह । अथ भवांस्तत्र गत्वा किं वक्ष्यति । दमनक आह ।
उत्तरादुत्तरं वाक्यमुत्तरादेव जायते ।
सुवृष्टिगुणसंपन्नाद्बीजाद्बीजमिवापरम् ॥ २२ ॥
अपि च ।
अपायसंदर्शनजां विपत्ति-
मुपायसंदर्शनजां च सिद्धिम् ।
मेधाविनो नीतिविधिप्रयुक्तां
पुरः स्फुरन्तीमिव दर्शयन्ति ॥ २३ ॥
न चाहमप्राप्तकालं वक्ष्यामि । अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
अपि च ।
कल्पयति येन वृत्तिं सदसि च सद्भिः प्रशस्यते येन ।
स गुणस्तेन गुणवता विवर्धनीयश्च रक्ष्यश्च ॥ २६ ॥
करटक आह । दुराराध्या हि नरपतयः पर्वता इवाजस्रं प्रकृति- विषमा व्यालाकीर्णा रन्ध्रान्वेषिणश्छलग्राहिणश्च । कुतः
भोगिनः कञ्चुकासक्ता क्रूराः कुटिलगामिनः ।
फणिनो मन्त्रसाध्याश्च राजानो भुजगा इव ॥ २७ ॥
सोऽब्रवीत् । एवमेतत् । तथापि
राजानमपि सेवन्ते विषमप्युपमुञ्जते ।
रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः ॥ २८ ॥
अपि च ।
यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् ।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ २९ ॥
करटक आह । शिवास्ते पन्थानः सन्तु । यथाभिप्रेतमनुष्ठीयतामिति । ततो दमनकोऽपि तमामन्त्र्य शनैः पिङ्गलकसमीपं गतः । तत्र दूरादेवाग- च्छन्तं दमनकमवलोक्य पिङ्गलको द्वाःस्थानब्रवीत् । मा विचार्यतामपसार्यतां वेत्रलता । अयमस्माकं चिरन्तनो मन्त्रिपुत्रो दमनकः समागतः । अव्या- हतप्रवेशो ह्येष द्वितीयमण्डलभागिति । अथोपश्लिष्य दमनकः प्रणम्य पिङ्ग- लकनिर्दिष्टे चासन उपविष्टः । स च तस्य नखकुलिशालंकृतं दक्षिणपाणि- मुपरि दत्त्वा मानपुरःसरमब्रवीत् । अपि भवतः शिवम् । कस्माच्चिराद्दृ- ष्टोऽसि । दमनक आह । न किंचिद् देवपादानां मया प्रयोजनमस्ति । तथापि प्राप्तकालमवश्यममात्यैर्वक्तव्यमित्यागतोऽस्मि । यस्मान्न केनचिद् राज्ञामुपयोगकारणं नास्ति । उक्तं च दन्तस्य निष्कोषणकेन राजन् कर्णस्य कण्डूयनकेन वापि तृणेन कार्यं भवतीश्वराणां
कदर्थितस्यापि हि धैर्यवृत्ते-
र्न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।
अधोमुखस्यापि कृतस्य वह्ने-
र्नाधः शिखा यान्ति कदाचिदेव ॥ ३१ ॥
यदि कोकिलमेचकाञ्जनाभो
भुजगः पादतलाहतोऽप्यकाले ।
न करोत्यगुणं कयापि बुद्ध्या
किमसौ नष्टविषोऽभिसंधितव्यः ॥ ३२ ॥
तद् राजन्
विशेषज्ञो भव सदा राष्ट्रस्य च जनस्य च ।
तदन्तरज्ञानमात्रप्रतिबद्धा हि संपदः ॥ ३३ ॥
साधु चेदमुच्यते
कार्षकः सर्वबीजानि समालोड्य प्रवापयेत् ।
उत्पन्नबीजसद्भावं त्वङ्कुरेण विभावयेत् ॥ ३४ ॥
तत्सर्वदा विशेषज्ञेन स्वामिना भवितव्यम् । तथा च
स्थानेष्वेव नियोक्तव्या भृत्याश्चाभरणानि च ।
न हि चूडामणिः पादे प्रभवामीति बध्यते ॥ ३५ ॥
कनकभूषणसंग्रहणोचितो
यदि मणिस्त्रपुणि प्रतिबध्यते ।
न स विरौति न चापि न शोभते
भवति योजयितुर्वचनीयता ॥ ३६ ॥
बुद्धिमाननुरक्तोऽयमिहोभयमयं जडः ।
इति भृत्यविचारज्ञो भृत्यैरापूर्यते नृपः ॥ ३७॥
असमैः समीयमानः समैश्च परिहीयमाणसत्कारः ।
अधुरि विनियुज्यमानस्त्रिभिरर्थपतिं त्यजति भृत्यः ॥ ३८ ॥
अन्यच्च । देवपादानां वयमन्वयागता भृत्या आपत्स्वप्यनुगामिनः । यतो नास्माकमन्या गतिरस्ति । तदमात्यानां वचनम् । उक्तं च
सव्यदक्षिणयोर्यत्र विशेषो नास्ति हस्तयोः ।
कस्तत्र क्षणमात्रं वै विद्यमानगतिर्वसेत् ॥ ३९ ॥
निर्विशेषं यदा स्वामी समं भृत्येषु वर्तते ।
तत्रोद्यमसमर्थानामुत्साहः परिहीयते ॥ ४० ॥
वाजिवारणलोहानां काष्ठपाषाणवाससाम् ।
नारीपुरुषतोयानामन्तरं महदन्तरम् ॥ ४१ ॥
विशेषवचनेन तूच्यते ।
पाषाणभरसहस्रं यः स्कन्धेनाभिवाञ्छति हि वोढुम् ।
श्रममेति विनाशं वा सोऽबुद्धिस्तद्वद्वहन्नेव ॥ ४२ ॥
अङ्गुष्ठोदरमात्रं विशेषवित् प्राप्य पद्मरागमणिम् ।
मुखसंवाह्यमनुत्तरमर्थं किं तेन नाप्नोति ॥ ४३ ॥
तेन हि स्वामिगुणादेव भृत्यविशेषः । कथम् ।
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥ ४४ ॥
यच्च सृगालोऽयमिति मत्वा मनोपर्यवज्ञा क्रियते । तदप्ययुक्तम् । यतः
विष्णुः सूकररूपेण मृगरूपी महानृषिः ।
षण्मुखश्छागरूपेण पूज्यते किं न साधुभिः ॥ ४५ ॥
अपि च
नैतदेकान्ततः सिद्धं गृहजातश्चिरन्तनः ।
भृत्यः श्रेयस्करो नित्यममात्यो निभृतस्त्विति ॥ ४६ ॥
तथा हि
मूषिका गृहजातापि हन्तव्या सापकारिणी ।
उपप्रदानैर्मार्जारो हितकृत् प्रार्थ्यतेऽन्यतः ॥ ४७ ॥
एरण्डभिण्डार्कनलैः प्रभूतैरपि संभृतैः ।
दारुकृत्यं यथा नास्ति तथा नाज्ञैः प्रयोजनम् ॥ ४८ ॥
किं भक्तेनासमर्थेन किं शक्तेनापकारिणा ।
भक्तं शक्तं च मां राजन् यथावज्ज्ञातुमर्हसि ॥ ४९ ॥
अपि च अविज्ञानाद्राज्ञो भवति मतिहीनः परिजन- स्ततस्तत्प्राधान्याद्भवति न समीपे बुधजनः ।
बुधैस्त्यक्ते राज्ये भवति न हि नीतिर्गुणवती प्रनष्टायां नीतौ सनृपमवशं नश्यति कुलम् ॥ ५० ॥ पिङ्गलक आह । भद्र दमनक मैवं वोचः । चिरन्तनस्त्वमस्माकं मन्त्रि- पुत्रः । दमनक आह । देव किंचिद्वक्तव्यमस्ति । सोऽब्रवीत् । ब्रूहि यत्ते विवक्षितम् । दमनकोऽब्रवीत् । उदकग्रहणार्थं प्रवृत्तः स्वामी तत्किमिति पानी- यमपीत्वा विस्मित इवेह निवृत्यावस्थितः । पिङ्गलक आत्मप्रछादनार्थमाह । दमनक न किंचित्कारणमस्ति । सोऽब्रवीत् । देव यदि नाख्येयं नाम तत्तिष्ठतु । अथ पिङ्गलकस्तच्छ्रुत्वा चिन्तयामास । लक्षितोऽस्म्यमुना । योग्योऽयं दृश्यते । तत्किं भक्तस्यास्य निगूह्यते । कथयाम्येतस्याग्र आत्मनोऽभिप्रायम् । आह च । भो दमनक श्रूयतामयं महाशब्दो दूरात् । स आह । स्वामिन् व्यक्तं श्रुतः शब्दः । तत्किम् । पिङ्गलक आह । भद्र । अस्माद्वनादपक्रामितुमिच्छामि । यत्कारणम् । इदमपूर्वं सत्त्वं किंचिदिह प्रविष्टं यस्यायं महानपूर्वशब्दः श्रूयते । शब्दानु- रूपेण च सत्त्वेन भवितव्यं सत्त्वानुरूपेण च पराक्रमेण । तत्सर्वथा नेह स्थातव्यम् । दमनक आह । किं शब्दमात्रादेव भयमुपागतः स्वामी । तदप्य- युक्तम् । अपि च
अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽप्यरक्षितः ।
पैशुन्याद्भिद्यते स्नेहो वाग्भिर्भिद्येत कातरः ॥ ५१ ॥
तन्न युक्तं स्वामिनः शब्दमात्रादेव पूर्वोपार्जितमिदं वनं परित्यक्तुम् । इह हि शब्दा अनेकप्रकाराः श्रूयन्ते । ते तु शब्दा एव केवलाः । न तु भयका- रणम् । तद्यथा । मेघस्तनितवेणुवीणापणवमृदङ्गशङ्खघण्टाशकटकपाटयन्त्रा- दीनां शब्दाः श्रूयन्ते । न च तेभ्यो भेतव्यम् । उक्तं च
पूर्वमेव मया ज्ञातं पूर्णमेतद्धि मेदसा ।
अन्तः प्रविश्य विज्ञातं यथा चर्म च दारु च ॥ ५२ ॥
पिङ्गलक आह । कथमेतत् । दमनक आह । अथ सृगालभेरीकथा नाम द्वितीया कथा । अस्ति । कश्चिद्गोमायुः क्षुत्क्षामकण्ठ इतश्चेतश्चाहारक्रियार्थं परिभ्रमन् वने सैन्यद्वयस्यायोधनभूमिमपश्यत् । तत्र च महान्तं शब्दमशृणोत् । तद्भय- संक्षुभितहृदयश्चाचिन्तयत् किमिदम् । विनष्टोऽस्मि । कस्यायं शब्दः क्व वा
कीदृशं वा सत्त्वमिति । ततो यावदन्वेषयति तावद्गिरिशिखराकारां भेरीम- पश्यत् । तां च दृष्ट्वाचिन्तयत् । किमयं शब्दोऽस्याः स्वाभाविक उत परप्रेरित इति । अथ सा यदा वायुप्रेरितैर्वृक्षशाखाग्रैः स्पृश्यते तदा शब्दं करोति । अन्यथा तूष्णीमास्ते । स तु तस्याः सारासारतां ज्ञातुं समीपं गत्वा स्वयमेव कौतुकादुभयोर्मुखयोरताडयत् । अचिन्तयच्च । अहो चिरादेतन् महोद्भोज्यमु- पस्थितं मम । तन्नूनं प्रभूतमांसभेदोऽसृग्भिः परिपूरितं भविष्यतीति । ततो भेर्या मुखं विदार्यान्तः प्रविष्टः । परुषत्वाच्च चर्मणः कथमपि न दंष्ट्राभङ्ग- मवाप्तवान् । तस्मिन्नपि न किंचिदासादितवान् । प्रतिनिवृत्यान्तर्लीनमव- हस्याब्रवीत् । पूर्वमेव मया ज्ञातमिति । इति द्वितीया कथा समाप्ता । अतोऽहं ब्रवीमि । न शब्दमात्रादेव भेतव्यम् । किं तु यदि मन्यसे तद्यत्रायं शब्दस्तत्राहमेतत्स्वरूपं विज्ञातुं गच्छामीति । पिङ्गलकोऽब्रवीत् । किं भवांस्तदन्तिकमुत्सहते गन्तुम् । बाढमित्यसावाह । पिङ्गलक आह । भद्र यद्येवं तद्गच्छ शिवास्ते पन्थानः सन्त्विति । दमनकोऽपि तं प्रणम्य संजीवक- शब्दानुसारी प्रतस्थे । अथ दमनके गते भयव्याकुलितमनाः पिङ्गलकश्चिन्त- यामास । अहो न शोभनं कृतं मया यत्तस्य विश्वासं गत्वात्माभिप्रायो निवेदितः । कदाचिद्दमनकोऽयमुभयवेतनो भूत्वा ममोपरि दुष्टबुद्धिः स्यात् । उक्तं च । संमानितविमानिताः प्रत्याख्याताः क्रुद्धा लुब्धाः परिक्षीणाः स्वयमुपगताश्छद्मना प्रवारयितुं शक्याः । अत्यन्तास्वकाराभिन्यस्ताः समाहूय पराजितास्तुल्यकारिणः शिल्पोपकारे विमानिताः प्रवासोपतप्तास्तुल्यैरन्तर्हिताः प्रत्याहृतमानास्तथात्याहृतव्यवहारास्तत्कुलीनाशंसवः समवाये च स्वधर्मान्न चलन्ति । समन्ताच्चोपधाकृत्यास्त इति । सोऽयं प्रत्याहृतमानोऽहमिति मत्वा ममैवोपरि कदाचिद्विकारं भजेत अथवासामर्थ्याद्बलवता प्रत्यनुबद्धो ममैव मध्येनागच्छेत् । तथाप्यहं विनष्ट एव । तत्सर्वथास्मात्स्थानादन्यत्स्थानमाश्र- यामि । यावदस्य मया विज्ञातं चिकीर्षितमित्यवधार्य स्थानान्तरं गत्वा दमनकमार्गमवलोकयन्नेकाक्येवावतस्थे । दमनकोऽपि संजीवकसकाशं गत्वा वृषभोऽयमिति परिज्ञाय हृष्टमनाः पिङ्गलकाभिमुखः प्रतस्थे । पिङ्गलकोऽपि पूर्वस्थानमाश्रितवानाकारप्रच्छादनार्थम् । अन्यथायं दमनको मंस्यते । भीरुश्चायं भीरुपरिवारश्चेति । दमनकोऽपिन् पिङ्गलक गत्य प्रणम्योपविष्टः
पिङ्गलकः प्राह । किं दृष्टं भवता तत्सत्त्वम् । दमनक आह । दृष्टं स्वामि- प्रसादात् । पिङ्गलक आह । यथावद् दृष्टम् । दमनक आह । यथावदिति । सोऽब्रवीत् । न यथावद् दृष्टम् । यत्कारणं भवानप्रधानः शक्तिहीनत्वाच्च तवोपरि न कश्चित्तस्य प्रतिबन्धः । यस्मात्
तृणानि नोन्मूलयति प्रभञ्जनो
मृदूनि नीचैः प्रणतानि सर्वशः ।
समुच्छ्रितानेव तरून् प्रबाधते
महान् महत्स्वेव करोति विक्रमम् ॥ ५३ ॥
अपि च ।
गण्डस्थले मदकलो मदवारिलुब्ध-
मत्तभ्रमद्भ्रमरपादतलाहतोऽपि ।
कोपं न गच्छति नितान्तबलोऽपि नाग-
स्तुल्यं बलेन बलिनः प्रति कोपयन्ति ॥ ५४ ॥
दमनक आह । मया तावत्पूर्वमेवाभिज्ञातं यथैवं स्वामी वक्ष्यति । तत्किं बहुना । तमेवेह तव पादानां सकाशमानयामि । तच्च श्रुत्वा पिङ्गलक आह सहर्षम् । सहसानुष्ठीयताम् । दमनकोऽपि पुनर्गत्वा संजीवकं साक्षेप- माह । एह्येहि दुष्ट वृषभ स्वामी पिङ्गलकस्त्वां व्याहरति । किं निर्भीर्भूत्वा मुहुर्मुहुर्व्यर्थं नदसीति । ततः संजीवकोऽब्रवीत् । भद्र क एष पिङ्गलको नाम यो मां व्याहरति । ततः सविस्मयं विहस्य दमनकस्तमाह । कथं स्वामिनं पिङ्गलकमपि न जानासि । फलेन ज्ञास्यसीत्यब्रवीत् सामर्षम् । नन्वयं मृगराट् सर्वमृगपरिवृतो मण्डलवटाभ्याशे मानोन्नतचित्तः स्वामी पिङ्गलको महासिंहस्तिष्ठति । तच्छ्रुत्वा संजीवको गतासुमिवात्मानं मन्यमानः परं विषादमगमदाह च । यदि मयावश्यमेवागन्तव्यं तदभयप्रदानेन मे प्रसादः क्रियतामिति । दमनकस्तथा नामेति प्रतिपद्य सिंहसकाशं गत्वा निवेद्य तमर्थं लब्धानुज्ञो यथा प्रतिपन्नस्तं संजीवकं पिङ्गलकसमीपमुपनीत- वान् । संजीवकोऽपि तं सादरं प्रणम्याग्रतः सविनयं स्थितः । स च तस्य पीनवृत्तायतं नखकुलिशाभरणालंकृतं दक्षिणं पाणिमुपरि दत्त्वा मानपुरः- सरमब्रवीत् । अपि भवतः शिवम् । कुतस्त्वमस्मिन्विजने वने समायात इति । एवं पृष्टः संजीवको यथापूर्ववृत्तान्तमात्मनः सार्थवाहवर्धमानकाद्वि-
योगमाख्यातवान् । एतच्च श्रुत्वा पिङ्गलकेनाभिहितः । वयस्य न भेतव्यम् । मद्भुजपरिरक्षितेऽस्मिन्वने यथेप्सितमुष्यताम् । अपि च भवता मत्समीप- विहारिणाजस्रं भवितव्यम् । यत्कारणं वह्वपायमिदं वनमनेकरौद्रसत्त्वसङ्क- टत्वादिति । संजीवकेनाभिहितम् । यथा देव आज्ञापयति । एवमुक्त्वा पिङ्गलकः सर्वमृगपरिवृतो यमुनाकच्छमवतीर्य प्रकाममुदकपानं कृत्वा स्वैर- प्रचारं पुनस्तस्मिन्नेव वने शिबिरमनुप्रविष्टः । ततस्तयोः पिङ्गलकसंजीवकयोः प्रतिदिनं परस्परप्रीतिपूर्वकं कालोऽतिवर्तते । अनेकशास्त्रार्थप्रणिहितबुद्धित्वाच्च संजीवकेनानभिज्ञोऽपि वन्यत्वात् पिङ्गलकोऽल्पेनैव कालेन धीमान् कृतः । किं बहुना प्रत्यहं पिङ्गलकसंजीवकावेव रहस्यानि मन्त्रयेते । शेषः सर्वोऽपि मृगजनो दूरीभूतस्तिष्ठति । सिंहपराक्रमव्यापादनाहारविरहाच्च करटक- दमनकावेव क्षुधा बाधितावन्योन्यं चिन्तयतः । तत्र दमनकोऽब्रवीत । भद्र करटक । विनष्टावावाम् । तत्किमत्र कर्तव्यम् । आत्मना कृतोऽयं दोषः संजीवकं पिङ्गलकसकाशमानयता । उक्तं च
जम्बुको हुडुयुद्धेन वयं चाषाढभूतिना ।
दूतिका तन्त्रवायेन त्रयोऽनर्थाः स्वयंकृताः ॥ ५५ ॥
करटक आह । कथमेतत् । सोऽब्रवीत् । अथ परिव्राट्परवित्तापहृत्कथा नाम तृतीया ( क ) कथा । अस्ति कस्मिंश्चित् प्रदेशे परिव्राड् देवशर्मा नाम । तस्यानेकसाधूप- पादितसूक्ष्मवासोविशेषोपचयात् कालेन महत्यर्थमात्रा संवृत्ता। स च न कस्यचिद्विश्वासं याति । अथ कदाचिदाषाढभूतिर्नाम परवित्तापहृत्तामर्थ- मात्रां तस्य कक्षान्तरगतां लक्षयित्वा कथमियमर्थमात्रास्य मया परिहर्तव्येति वितर्क्य तस्य शुश्रूषामुपगतः कालेन च तं विश्वासमनयत् । अथ कदाचिदसौ परिव्राजकस्तीर्थयात्राप्रसङ्गे तेनाषाढभूतिना सह गन्तुमारब्धः । तत्र च कस्मिंश्चिद्वनोद्देशे नदीतीरे मात्रान्तिक आषाढभूतिमवस्थाप्यैकान्तमुदकग्रह- णार्थं गतः । अथ मेषजम्बुककथा नाम तृतीया (ख) कथा । तत्र चासौ तटाकतीरे महन् मेषयुद्धमपश्यत् । अनवरतयुद्धशक्ति- संपन्नयोश्च तयोः शृङ्गपञ्जरान्तरोद्भूतमसृग्बहु भूमौ
बद्धचित्तः पिशितलोभतया निर्बुद्धिरेको गोमायुस्तज्जिघृक्षुर्दूरमपसृतयोर्मेषयो- र्मध्यमनुप्रविष्टः पुनस्तयोः संश्लेषाभिघातात् पञ्चत्वमुपगतः । अथ परिव्राड् विस्मयाविष्टोऽब्रवीत् । जम्बुको हुडुयुद्धेनेति । इति तृतीया ( ख ) कथा समाप्ता । कृतशौचश्चागतस्तमुद्देशमाषाढभूतिमपि गृहीतार्थमात्रासारमपक्रान्तं नापश्यद्देवशर्मा । केवलं त्वपविद्धत्रिदण्डकाष्ठकुण्डिकापरिस्रवणकूर्चकाद्यप- श्यत् । अचिन्तयच्च । क्वासावाषाढभूतिः । नूनमहं तेन मुषितः । इत्युद्वि- ग्नमना उक्तवान् । वयं चाषाढभूतिनेति । इति तृतीया ( क ) कथा समाप्ता । अथ तन्त्रवायदूतिकाकथा नाम तृतीया ( ग ) कथा अथासौ कपालशकलग्रन्थिकावशेषस्तस्य पदपद्धतिमन्वेषयन् कंचिद्ग्रा- ममस्तंगच्छति रवौ प्रविष्टः । प्रविशन्नेकान्तवासिनं तन्त्रवायमपश्यदावासकं च प्रार्थितवान् । तेनापि तस्यात्मीयस्थानं निर्दिश्य भार्याभिहिता । यावदहं नगरं गत्वा मुहृत्समेतो मधुपानं कृत्वागच्छामि तावद् प्रमत्तया गृहे त्वया भाव्यम् । इत्यादिश्य गतः । अथ तस्य भार्या पुंश्चली दूतिकासंचो- दिता शरीरसंस्कारं कृत्वा परिचितसकाशं गन्तुमारब्धा यावत्तावदभिमुखोऽ- स्या भर्ता मदविलोपासमाप्ताक्षरवचनः परिस्खलितगतिरवस्रस्तवासाः समा- यातः । तं च दृष्ट्वा सा प्रत्युत्पन्नमतिः कौशलादाकल्पमपनीय पूर्वप्रकृतमेव वेषमास्थाय पादशौचशयनाद्यारम्भमकरोत् । कौलिकस्तु गृहं प्रविश्य तामाक्रोष्टुमारब्धः पुंश्चलि त्वद्गतमपचारं सुहृदो मे वर्णयन्ति । भवतु पुष्टं निग्रहं करिष्यामीत्यभिधाय लगुडप्रहारैस्तां जर्जरीकृतदेहां विधाय मध्य- स्थूणायां रज्ज्वा सुप्रतिबद्धां कृत्वा प्रसुप्तः । अत्रान्तरे सा दूतिका नापिती कौलिकं निद्रावशं विज्ञाय पुनरागत्येदमाह । तव वियोगानलदग्धोऽसौ मुमूर्षुर्वर्तते महानुभावः । तदहमात्मानं तव स्थाने बद्ध्वा त्वां मुञ्चामि । त्वं तत्र गत्वा देवदत्तं संभाव्य द्रुततरमागच्छ । इति सा नापिती तां बन्धना- द्विमोच्य कामुकसकाशं प्रेषितवती । तथानुष्ठितेऽसौ विमदः प्रतिबुद्धस्तथैव तामाक्रोष्टुमारब्धः। दूतिकां तु शङ्कितहृदयानुचितवाक्योदाहरणभीता न किंचिदूचे । सोऽपि भूयस्तां तदेवाह । अथ सा यावत् प्रत्युत्तरं न प्रयच्छति
तावत् स कुपितो दर्पान्मम वचस्युत्तरमात्रमपि न ददासीत्युक्त्वोत्थाय तीक्ष्णशस्त्रेण तस्या नासिकामच्छिनदाह च । तिष्ठैवंलक्षणा कस्त्वामधुना वार्त्तां पृच्छति । इत्युक्त्वा पुनरपि निद्रावशमुपागमत् । अथागता सा तन्त्रवायी दूतिकामपृच्छत् । का ते वार्त्ता किमयं प्रतिबुद्धोऽभिहितवान् । कथय कथयेति । दूतिका तु कृतनिग्रहा नासिकां दर्शयन्ती सामर्षमाह । पश्यसि का वार्त्तां । मां मुञ्च गच्छामीति । तथा त्वनुष्ठिते नासिका- मादायापक्रान्ता । तन्त्रवाय्यपि कृतकबद्धमात्मानं तथैवाकरोत् । कौलिकस्तु यथापूर्वमेव प्रतिबुद्धस्तामाक्रोशयत् । अथ सा सकोपं साधिक्षेपमिदमाह । अरे पाप को मां महासतीं विरूपयितुं समर्थः । शृण्वन्तु मे लोकपालाः । यद्यहं कौमारं भर्तारं मुक्त्वा नान्यं परपुरुषं मनसापि वेद्मि तदनेन सत्येनाव्यङ्गं मुखमस्तु । एवमुक्त्वा भूयोऽपि तमाह । पश्य रे पापिष्ठ मुखं तादृगेव संवृ- त्तम् । अथासौ मूर्खः कृतकवचनव्यामोहितचित्तः प्रज्वाल्योल्कामव्यङ्गमुखींं जायां दृष्ट्वा प्रोत्फुल्लनयनः परिचुम्ब्य हृष्टमनास्तां बन्धनादवमुच्य पादयोः पतित्वा पीडितं च परिष्वज्य शय्यामारोपितवान् । परिव्राजकस्त्वादित एवारभ्य सर्ववृत्तान्तमालोक्य तथैवास्ते । सा च दूतिका हस्तकृतनासापुटा स्वगृहं गत्वा- चिन्तयत् । किमधुना कर्तव्यं कथमेतन्महच्छिद्रं प्रच्छादयामीति । अथ तस्या भर्ता नापितोऽन्यतः प्रत्यूषस्यागत्य तां भार्यामाह । समर्पय भद्रे क्षुर- भाण्डं राजकुले कर्म कर्तव्यमिति । सा च गृहाभ्यन्तरस्थितैव क्षुरमेव प्राहि- णोत् । स च समस्तक्षुरभाण्डासमर्पणात् क्रोधाविष्टचित्तो नापितस्तमेव तस्याः क्षुरं प्रतीपं प्राहिणोत् । अथासावार्तरवमुच्चैः कृत्वा पाणिना नासापुटं प्रमृ- ज्यासृक्पातसमेतां नासिकां क्षिती प्रक्षिप्याब्रवीत् । परित्रायध्वं परित्रायध्वं पापेनानेनाहमदृष्टदोषा विरूपितेति । तथाभ्यागतै राजपुरुषैः प्रत्यक्षदर्शनां तां दृष्ट्वा विरूपां लगुडप्रहारैर्जर्जरीकृत्य पश्चाद्दृढं बद्ध्वा तया सह धर्मस्थान- मुपनीतो नापितः । पृच्छ्यमानश्च धर्माधिकृतैः किमिदं महद्विशसनं स्वदा- रेषु त्वया कृतमिति यदा बहुश उच्यमानो न किंचिदुत्तरं प्रयच्छति तदा धर्माधिकृताः शूलेऽवतंस्यतामित्याज्ञापितवन्तः । अथ तं वध्यस्थानं नीयमान- मालोक्य सर्ववृत्तान्तदर्शी परिव्राडधिकरणमुपगम्य धर्मस्थानाधिकृतानब्रवीत् । नार्हथैनमदोषकर्तारं नापितं शूले समारोपयितुम् । यत्कारणमिदमाश्चर्य- त्रयं श्रूयताम् ।
जम्बुको हुडुयुद्धेन वयं चाषाढभूतिना ।
दूतिका तन्त्रवायेन त्रयोऽनर्थाः स्वयंकृताः ॥ ५६ ॥
समुपलब्धतत्त्वार्थैश्चाधिकृतैः परित्रायितो नापित इति । इति तृतीया ( ग ) कथा सर्वा च तृतीया कथा समाप्ता । अतोऽहं ब्रवीमि । जम्बुको हुडुयुद्धेनेति । करटक आह । अथ किमत्र प्राप्तकालं भवान् मन्यते । दमनकोऽब्रवीत् । भद्रैवमप्यवस्थिते बुद्धिमतां प्रत्युद्धारसामर्थ्यमस्त्येव । उक्तं च
सन्नस्य कार्यस्य समुद्भवार्थ-
मागामिनोऽर्थस्य च संग्रहार्थम् ।
अनर्थकार्यप्रतिषेधनार्थं
यो मन्त्र्यतेऽसौ परमो हि मन्त्रः ॥ ५७ ॥
तदयं पिङ्गलको महाव्यसने वर्तते । तदस्मात्संजीवकाद्वियोज्यः । कस्मात् ।
व्यसनं हि यदा राजा मोहात्संप्रतिपद्यते ।
विधिना शास्त्रदृष्टेन भृत्यैर्वार्यः प्रयत्नतः ॥ ५८ ॥
करटक आह । कस्मिन् स्वामी पिङ्गलको व्यसने वर्तते । इह हि सप्त व्यसनानि राज्ञां भवन्ति । तथा हि
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् ।
महच्च दण्डपारुष्यमर्थदूषणमेव च ॥ ५९ ॥
दमनक आह । भद्रैकमेवेदं व्यसनं प्रसङ्गाख्यं सप्ताङ्गमिति । करटक आह । कथमेकमेवेदं व्यसनं भवति । दमनक आह । नन्विह पञ्च मूलव्यस- नानि । तद्यथा । अभावः प्रदोषः प्रसङ्गः पीडनं गुणप्रतिलोमत्वमिति । करटक आह । कस्तेषां प्रतिविशेषः । दमनक आह । तत्र प्रथमं तावत् स्वाम्यमात्यजनपददुर्गकोशदण्डमित्राणामेकतमस्याप्यभावे व्यसनमभाव इत्य- वगन्तव्यम् । यदा तु बाह्यप्रकृतयोऽन्तःप्रकृतयो वा प्रत्येकशो युगपद्वा प्रकुप्यन्ति तद्व्यसनं प्रदोष इति मन्तव्यम् । प्रसङ्गः पूर्वमुक्त एव । स्त्रियोऽक्षा मृगया पानमित्यादि । तत्र स्त्रियोऽक्षा मृगया पानमिति कामजो वर्गः । वाक्पारुष्यादिः कोपजो वर्गः । तत्र कामजैर्व्यवहितः कोपजेषु प्रवर्तते । सुबोध एव कामजो वर्गः । कोपजस्तु त्रिविधोऽपि विशेषवचनेनोच्यते ।
पराभिद्रोहबुद्धेरसमीक्षितमसद्दोषश्रावणं वाक्पारुष्यम् । निर्दयो वधबन्ध- छेदविधिरनुचितो दण्डपारुष्यम् । निरनुक्रोशतो वित्तलोभोऽर्थपारुष्यम् । एवं सप्तधा प्रसङ्गव्यसनं भवति । पीडनं पुनरष्टधा देवाग्न्युदकव्याधिमरक- विषूचिकादुर्भिक्षासुरीवृष्टिभिर्भवति । अतिवृष्टिरनावृष्टिरेवासुरीवृष्टिरुच्यते । तदेतद्व्यसनं पीडनं नाम मन्तव्यम् । अथ गुणप्रतिलोमता नामोच्यते । यदा संधिविग्रहयानासनसंश्रयद्वैधीभावानां षण्णां गुणानां प्रातिलोम्येन वर्तते संधौ प्राप्ते विग्रहं करोति विग्रहे प्राप्ते संधिं करोत्येवमेव शेषेष्वपि गुणेषु गुणप्रातिलोम्येन यदा वर्तते तदा तद्व्यसनं गुणप्रतिलोमतेत्यवगन्तव्यम् । तत्सर्वथायं संजीवकात् पिङ्गलको वियोज्यः । यस्मात् प्रदीपाभावात् प्रकाशाभावः । करटक आह । असमर्थो भवान् । तत्कथं वियोजयिष्यतीति । दमनकोऽब्रवीत् । भद्रोपायश्चिन्तनीयः । उक्तं च
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।
काकी कनकसूत्रेण कृष्णसर्पममारयत् ॥ ६० ॥
करटक आह । कथं चैतत् । सोऽब्रवीत् । अथ वायससर्पकथा नाम चतुर्थी कथा । अस्ति कस्मिंश्चित् प्रदेशे वृक्षः । तस्मिंश्च वायसदम्पती प्रतिवसतः स्म । तयोस्तु प्रसवकालेऽसंजातक्रियाण्येवापत्यानि तद्वृक्षविवरानुसारी कृष्णसर्पो भक्षयति स्म । ततस्तौ निर्वेदादन्यवृक्षमूलनिवासिनं प्रियसुहृदं गोमायुमपृच्छताम् । भद्र किमेवं गते प्राप्तकालं भवान्मन्यते । बालघाति- त्वाच्च वृद्धयोरभाव एवावयोः । सोऽब्रवीत् । नात्र विषये विषादः कार्यः । नूनं स लुब्धो नोपायमन्तरेण वध्यः स्यात् ।
भक्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान् ।
अतिलौल्याद्बकः पश्चान्मृतः कर्कटकग्रहात् ॥ ६१ ॥
वायसावाहतुः । कथं चैतत् । सोऽब्रवीत् । अथ बककुलीरककथा नाम पञ्चमी कथा । अस्ति कस्मिंश्चित् प्रदेशे नानाजलचरसनाथं सरः । तत्र च कृताश्रयः कश्चिद्बको वृद्धभावमुपागतो मत्स्यान् व्यापादयितुमसमर्थः सरस्तीरं गत्वो- द्विग्नमिवात्मानं दर्शयित्वावस्थितः । तत्रानेकमत्स्यपरिवृत एकः कुलीरकोऽ-
ब्रवीत् । माम किमद्याहारकृत्यं नानुष्ठीयते यथा पुरेति । बक आह । अहं मत्स्यादस्तेनोपाधिना विना युष्मान् ब्रवीमि । मया युष्मानासाद्य पूर्वं प्राणरक्षा कृता । सांप्रतं ममाद्य वृत्तिविच्छेदः । अतोऽहं विमनाः । सोऽब्रवीत् । माम केन कारणेन । बक आह । अद्य मत्स्यबन्धैरेतत्सरः- समीपेनातिक्रामद्भिरभिहितम् । बहुमत्स्योऽयं ह्रदोऽस्मिञ्जालं श्वः प्रक्षिपाम इति । तत्रैकोऽब्रवीत् । नगरसमीपेऽन्ये ह्रदा अनासादितास्तानासाद्यात्र पुनरागमिष्याम इति । तद्भद्र विनष्टा नाम यूयमहमपि वृत्तिछेदादुत्सन्न एवेति शोकेनाद्याहारनिवृत्तोऽस्मि । ततः कुलीरेण मत्स्यानां तन्निवेदितम् । ततः सर्वैर्मत्स्यैर्मिलित्वाभिहितो बको यथा । यत एवापायः श्रूयते तत एवोपायोऽपि लभ्यते । तदर्हस्यस्मान् परित्रातुम् । बक आह । अण्डजोऽ- हमसमर्थो मानुषविरोधे । किं त्वस्माद्ध्रदादन्यमगाधं जलाशयं युष्माने- कैकशः संक्रामयिष्यामि । ततस्तैर्भयाद्विश्वासमुपगतैस्तात भ्रातर्मातुल मां मां प्रथमतरं नयेत्यभिहितम् । अथासौ दुष्टमतिः क्रमेण तान्मत्स्यान्नीत्वा नातिदूरे शिलातले निक्षिप्यैकैकं भक्षयन् परं परितोषमुपागतः । कुलीरकस्तु मृत्युभयोद्विग्नो मुहुर्मुहुस्तं प्रार्थितवान् । माम मामपि तावदर्हसि मृत्युमुखा- त्परित्रातुमिति । स तु दुष्टात्माचिन्तयत् । निर्विण्णोऽस्म्यनेनैकरसेन मत्स्य- पिशितेन । एतदीयपिशितविशेषमपूर्वमास्वादयामि । ततः कुलीरमुत्क्षिप्य वियति गतः सर्वाण्यम्भःस्थानानि परिहृत्य यावत्तस्यां वध्यशिलायामव- तारयितुकामस्तावत्कुलीरकोऽपि पूर्वभक्षितमत्स्यास्थिराशिं दृष्ट्वैवाचिन्तयत् । भक्षिता अनेन दुरात्मना प्रज्ञापूर्वकं ते मत्स्याः । तत्किमधुना प्राप्त- कालम् । अथवा
अभियुक्तो यदा पश्येन्न कांचिद्गतिमात्मनः ।
युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ ६२ ॥
अनभिज्ञोऽपि बकः कुलीरकसंदंशग्रहस्य मौर्ख्यात् कुलीरकसकाशा- च्छिरश्छेदमवाप्तवान् । कुलीरकोऽपि मृणालसदृशीं बकग्रीवां गृहीत्वा शनैः शनैर्मत्स्यान्तिकमेव तत्रैव सरस्यागतः । तैश्चाभिहितः । भ्रातः क्वासौ माम इति । अथासावब्रवीत् । पञ्चत्वमुपगतः । तस्यैतद्दुरात्मनः शिरः । भक्षिता- स्तेनोपाधिना बहवः स्वयूथ्या वः । सोऽपि मत्सकाशाद्विनष्ट इति ।
अतोऽहं ब्रवीमि । भक्षयित्वा बहून्मत्स्यानिति । अथ वायसो जम्बुकमाह । आवयोः किं प्राप्तकालं मन्यसे । असावाह । कस्यचिद्ध- निकस्य राजामात्यादेः सुवर्णसूत्रमादाय तस्य कोटरे स्थाप्यताम् । तज्जि- घृक्षवस्तं कृष्णसर्पं व्यापादयिष्यन्ति । इत्युक्त्वा स सृगालोऽपक्रान्तः । अथ वायसौ तदाकर्ण्य सुवर्णसूत्रान्वेषिणावात्मेच्छयोत्पतितौ । ततश्च काकी किंचित् सरः प्राप्य यावत्पश्यति तावत्तन्मध्ये कस्यचिद्राज्ञोऽन्तःपुरं जलासन्न- न्यस्तकनकसूत्रमुक्ताहारवस्त्राभरणं जलक्रीडां करोति । अथ सा वायसी कनकसूत्रमेकमादाय वियता शनैरात्मानं दर्शयन्ती स्वमालयं प्रति प्रायात् । ततश्च कञ्चुकिनो वर्षधराश्च तन्नीयमानमवलोक्य गृहीतलगुडाः सत्वर- मनुययुः । काक्यपि सर्पकोटरे तत्कनकसूत्रं निक्षिप्य सुदूरतरमवस्थिता । अथ राजपुरुषा यावत्तं वृक्षमारोहन्ति तावत्कोटरगतः कृष्णसर्पः प्रसारि- तभोग आस्ते । तैश्चासौ लगुडप्रहारैर्घातितः । तत्कृत्वा कनकसूत्रमादाय यथाभिलषितं स्थानं गताः । वायसदम्पती अपि ततः परं सुखेन वसतः । इति चतुर्थी कथा समाप्ता । अतोऽहं ब्रवीमि । उपायेन हि यच्छक्यमिति । तन्न किंचिदिह बुद्धि- मतामसाध्यमस्ति । उक्तं च
यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।
पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ ६३ ॥
करटक आह । कथमेतत् । सोऽब्रवीत् । अथ सिंहशशककथा नाम षष्ठी कथा । अस्ति कस्मिंश्चिद्वनोद्देशे मदोन्मत्तो नाम सिंहः । स चाजस्रमेव मृगोत्सादनं कुरुते । अथ ते मृगाः सर्व एव मिलित्वा प्रणतचित्तास्तं मृग- राजं विज्ञापयामासुः । देव किमनेन परलोकविरुद्धेन स्वामिनो नृशंसेन निष्कारणं सर्वमृगोत्सादनकर्मणा कृतेन । वयं तावद्विनष्टा एव तवाप्या- हारस्याभावस्तदुभयत उपद्रवः । तत्प्रसीद वयमेव स्वामिन आहारार्थमे- कैकं वनचरं वारेण स्वजातिसमुत्थं प्रत्यहं प्रेषयामः । सिंहेनोक्तम् । एवम- स्त्विति । ततः प्रभृति प्रतिदिनं तैः प्रेषितमेकैकं मृगं भक्षयन् स्थितः । अथ
कदाचिज्जातिक्रमाच्छशकस्य वारः समायातः । स तु सर्वैर्मृगैः प्रेषितश्चिन्त- यामास । अन्तकरोऽयं मृत्युमुखप्रवेशः । किमधुना प्राप्तकालं ममेति । अथवा बुद्धिमतां किमशक्यम् । तत्सिंहमेवोपायेन व्यापादयामि । इति । तत आहारवेलातिक्रमं कृत्वा मन्दं मन्दमगच्छत् । सिंहोऽपि क्षुत्क्षामकण्ठः कोपाविष्टो भर्त्सयंस्तमाह । सुक्रुद्धैरपि किं क्रियतेऽन्यत्र प्राणवियोगात् । स त्वमद्य गतासुरेव । कथय कोऽयं तव वेलात्ययः । अथ प्रणम्य सविनयं शशकः प्रोवाच । स्वामिन्नायं ममापराधः । अहमागच्छन्पथि सिंहान्तरेण निरुध्य भक्षितुमुपक्रान्तः । ततो मयाभिहितम् । अहं स्वामिनो मदोन्मत्तस्य सिंहस्य भोजनार्थं गच्छामि । ततस्तेनाभिहितम् । चौररूपी स मदोन्मत्तः । ततस्तमाहूय द्रुतमागच्छ येन यः कश्चिदावयोर्मध्यात् पराक्रमेण राजा भविष्यति स सर्वानेवैतान्मृगान् भक्षयिष्यतीति । अतोऽहं स्वामिनं निवे- दयितुमागतोऽस्मि । तच्छ्रुत्वा सिंहः सकोपमाह । कथमन्योऽत्र मद्भुजपरि- रक्षिते वने सिंहः । सत्वरं गत्वा मम तं दुरात्मानं दर्शयस्वेति । शशक आह । यद्येवं तदागच्छतु स्वामी तं दर्शयामीति । असावपि शशकस्तं गृहीत्वा विमलजलसंपन्नं महान्तं कूपमत्र तं पश्येत्यदर्शयत् । ततः सोऽपि मूर्खः सिंह आत्मनः प्रतिबिम्बं जलमध्यगतं दृष्ट्वायमसौ सपत्न इति मत्वा- तिकोपवशात्सिंहनादं मुमोच । ततस्तत्प्रतिशब्देन द्विगुणतरो नादः कूपात्समुत्थितः । अथासौ तं नादमाकर्ण्य शक्ततरोऽयमिति मत्वा तस्यो- पर्यात्मानं निक्षिप्य पञ्चत्वमुपगतः । शशकोऽपि हृष्टमनाः सर्वान् मृगाना- नन्द्य तैः प्रशस्यमानो यथासुखं तत्र वने निवसति स्म । इति षष्ठी कथा समाप्ता । अतोऽहं ब्रवीमि । यस्य बुद्धिर्बलं तस्येति । तच्छ्रुत्वा करटक आह । यद्येवं तर्हि गच्छ शिवास्ते पन्थानः सन्तु । यथाभिप्रेतमनुष्ठीयतामिति । अथ दमनकः पिङ्गलकसमीपं गत्वा प्रणम्योपविष्टः । तेनाभिहितः । कुत आगम्यते भवता । चिराद् दृष्टोऽसि । सोऽब्रवीत् । देव । आत्ययिकं मन्य- मानो भर्त्रे निवेदयितुमागतोऽस्मि । न चायं मनोरथः संश्रितानाम् । किं चोत्तरक्रियाकालविनिपातभीतैर्निवेद्यते । तथा हि ।
अनियुक्ता हि साचिव्ये यद्वदन्ति मनीषिणः ।
अनुरागद्रवस्यैताः प्रणयस्यातिभूमयः ॥ ६४ ॥
अथ पिङ्गलकः श्रद्धेयवचनत्वात्तं सादरमाह । किं भवान् वक्तुमि- च्छतीति । सोऽब्रवीत् । अयं तावत्संजीवकस्तवोपरि द्रुग्धमतिः । विश्वा- सोपगतश्चायं मत्संनिधावाह । दृष्टास्य पिङ्गलकस्य मया सारासारता शक्ति- त्रयस्य । यत एनं हत्वा स्वयमेवाहं राज्यं प्रहीष्यामीति । एतच्च वज्राशनि- दुःसहतरं वचनं श्रुत्वा क्षुभितहृदयः पिङ्गलको मोहमुपागतो न किंचिदूचे । दमनकस्तु तस्याकारं दृष्ट्वैवमाह । अयं तावदेकमन्त्रिप्राधान्येन महान्दोष आपतितः । साधु चेदमुच्यते ।
अत्युच्छ्रिते मन्त्रिणि पार्थिवे च
विष्टभ्य पादावुपतिष्ठते श्रीः ।
सा स्त्रीस्वभावादसहा भरस्य
तयोर्द्वयोरेकतरं जहाति ॥ ६५ ॥
एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा
तं मोहात्छ्रयते मदः स च मदालस्येन निर्विद्यते ।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा
स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणानभिद्रुह्यति ॥ ६६ ॥
विषदिग्धस्य भक्तस्य दन्तस्य चलितस्य च ।
अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम् ॥ ६७ ॥
स चाधुना निरवग्रहः सर्वकार्येषु स्वेच्छया प्रवर्तते । तत्किमत्र युक्तम् । अपि च
कार्याण्यर्थोपमर्देन स्वनुरक्तोऽपि साधयन् ।
नोपेक्ष्यः सचिवो राज्ञा स तं मथ्नात्युपेक्षितः ॥ ६८ ॥
तच्च श्रुत्वा सिंहोऽब्रवीत् । अयं तावदसदृशो मम भृत्यः कथं ममो- परि विकरिष्यति । सोऽब्रवीत् । देव भृत्योऽभृत्य इत्यनैकान्तिकमेतत् । उक्तं च
न सोऽस्ति पुरुषो राज्ञां यो न कामयते श्रियम् ।
अशक्ता भग्नमानास्तु नरेन्द्रं पर्युपासते ॥ ६९ ॥
सिंह आह । भद्र तथापि तस्योपरि मम चित्तं न प्रदुष्यति । यत्कारणम् ।
अनेकदोषदुष्टोऽपि कायः कस्य न वल्लभः ।
कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः ॥ ७० ॥
दमनक आह । अत एवायं दोषः । व्युदस्य सर्वं मृगजनं स्वामिना यस्योपर्यास्था प्रतिबद्धा सोऽयमधुना स्वामित्वमभिवाञ्छति । अपि च
यस्मिन्नेवाधिकं चक्षुरारोपयति पार्थिवः ।
सुते वा स्वकुलीने वा स लक्ष्म्या हरते मनः ॥ ७१ ॥
यच्च महाकायोऽयमिति त्वमुपकाराय चिन्तयसि तदपि विपरीतमेव । यतः
किं गजेन प्रभिन्नेन गजकर्माण्यकुर्वता ।
स्थले वा यदि वा निम्ने श्रेयान्कृत्यकरश्च यः ॥ ७२ ॥
तेन हि देव नायमुपायः ।
सतां मतिमतिक्रम्य योऽसतां वर्तते मते ।
न स जीवयितुं शक्यः सर्वभक्ष इवातुरः ॥ ७३ ॥
यो न निःश्रेयसे ज्ञाने सुहृदां वर्तते वशे ।
अचिरात्स च्युतः स्थानाद्द्विषतां वर्तते वशे ॥ ७४ ॥
अप्रियस्यापि वचसः परिणामाविरोधिनः ।
वक्ता श्रोता च यत्रास्ति रमन्ते तत्र संपदः ॥ ७५ ॥
मूलभृत्योपरोधेन नागन्तून् प्रतिमानयेत् ।
नातः परतरोऽन्योऽस्ति राज्यभेदकरो गदः॥ ७६ ॥
सिंह आह ।
उक्तो भवति यः पूर्वं गुणवानिति संसदि ।
न तस्य वाच्यं नैर्गुण्यं प्रतिज्ञां परिरक्षता ॥ ७७ ॥
अन्यच्च मयायं शरणागत इति कृत्वाभयवाचं दत्त्वानीतो वर्धितश्च । तत्कथमयमकृतज्ञो द्रुह्यति । दमनक आह ।
दुर्जनः प्रकृतिं याति सेव्यमानोऽपि यत्नतः ।
स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव नामितम् ॥ ७८ ॥
अपि च
अपृष्टस्तस्य तद्भूयाद्यस्य नेच्छेत्पराभवम् ।
एष एव सतां धर्मो विपरीतो मतोऽन्यथा ॥ ७९ ॥
अन्यच्च । येनैतदभिहितम् ।
स्वजनोऽथ सुहृन्नृपो गुरुर्वा
पुरुषेणोत्पथगो निवारणीयः ।
विनिवर्तयितुं स चेदशक्यः
परतस्तस्य मनोऽनुगं विधेयम् ॥ ८० ॥
स तावद्द्रोही। किं तु
हितकृद्भिरकार्यमीहमानाः
सुहृदः क्लेशपरिग्रहान्निवार्याः ।
परिपूर्णमिदं हि साधुवृत्तं
कथितं सद्भिरसाधुवृत्तमन्यत् ॥ ८१ ॥
स स्निग्धोऽकुशलान्निवारयति यस्तत्कर्म यन्निर्मलं
सा स्त्री यानुविधायिनी स मतिमान्यः सद्भिरभ्यर्च्यते ।
सा श्रीर्या न मदं करोति स सुखी यस्तृष्णया नोह्यते
तन्मित्रं यदयन्त्रणं स पुरुषो यः खिद्यते नेन्द्रियैः ॥ ८२ ॥
सुप्तं वह्नौ शिरः कृत्वा भुजंगप्रस्तरे वरम् । अप्युपेक्षेत सन्मित्रं न पुनर्व्यसनोन्मुखम् ॥ ८३ ॥ तद्यदिदं संजीवकसंसर्गव्यसनं तद्देवपादानां । अथ बहुप्रकारं विज्ञप्यमाना अपि देवपादा मद्वचनमाक्षिप्य कामतः प्रवर्तते । तदु- त्तरत्रापचारे भृत्यदोषो न कार्य इति । उक्तं च
नृपः कामासक्तो गणयति न कार्य न च हितं
यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव ।
ततो मानाध्मातः पतति स यदा शोकगहने
तदा भृत्ये दोषान् क्षिपति न निजं वेत्स्यविनयम् ॥ ८४ ॥
सिंह आह । भद्र । एवमवस्थिते किमसौ प्रत्यादेश्यः । दमनक आह । कथं प्रत्यादिश्यते । कतर एष नयः ।
प्रत्यादिष्टस्त्वरते रिपुरपकर्तुं बलात् प्रहर्तुं वा ।
तस्मात् प्रत्यादेष्टुं न्याय्योऽरिः कर्मणा न गिरा ॥ ८५ ॥
सिंह आह । स तावच्छष्पभुग् वयं पिशितभुजस्तत्किमसौ ममापकर्तुं समर्थः । दमनक आह । एवमेतत् । स शष्पभुग् देवपादाः पिशितभुजः ।
सोऽन्नभूतो देवपादा भोक्तृभूताः । तथाप्यसौ यदि स्वयमनर्थं न करिष्यति ततोऽन्यस्मादुत्पादयिष्यति। सिंह आह । का शक्तिरस्य स्वतोऽपकर्तुं परतोऽप- कर्तुं वा । सोऽब्रवीत् । त्वं तावदजस्रमनेकमत्तगजगवयमहिषवराहशार्दूलचित्र- कयुद्धेषु नखदन्तसंनिपातकृतव्रणशबलतनुः । अयं पुनः सदा त्वत्समीपवासी प्रकीर्णविण्मूत्रः । तदनुषङ्गाच्च कृमयः संभविष्यन्ति । ते युष्मच्छरीरसामीप्यात् क्षतविवरानुसारिणोऽन्तः प्रवेक्ष्यन्ति । तथापि त्वं विनष्ट एव । उक्तं च
न त्वविज्ञातशीलाय कश्चिद्दद्यात् प्रतिश्रयम् ।
टिण्टिभस्य हि दोषेण हता मन्द विसर्पिणी ॥ ८६ ॥
पिङ्गलक आह । कथमेतत् । सोऽब्रवीत् । अथ यूकामत्कुणकथा नाम सप्तमी कथा । अस्ति कस्यचिद्राज्ञो वासगृहे सर्वगुणोपेतमनन्यसदृशं शयनम् । तत्र प्रच्छदपटैकदेशे मन्दविसर्पिणी नाम यूका प्रतिवसति स्म । सा च तस्य महीपते रक्तमास्वादयन्ती सुखेन चिरं कालं नयमाना तिष्ठति । अथ कदा- चित्तस्मिञ् छयने टिण्टिभो नाम मत्कुणो वायुना प्रेरितः संनिपतितः । स तु तच्छयनमतिसूक्ष्मोत्तरछदमुभयोपधानं जाह्नवीपुलिनविपुलं परममृदु सुरभिगन्धं दृष्ट्वा परं परितोषमुपगतः । तत्स्पर्शाकृष्टमना इतश्चेतश्च परिभ्रमन् कथमपि तया मन्दविसर्पिण्या दृष्टः । तया चाभिहितः । कुतस्त्वमस्मिन्न- योग्याधिवास आगतः । अपगम्यतामस्मादिति । सोऽब्रवीत् । आर्ये मया तावदनेकप्रकाराणि ब्राह्मणक्षत्रियविट्छूद्रान्तःस्थानि रुधिराण्यास्वादितानि । तानि तु रुक्षाणि पिछिलान्यतुष्टिकराण्यमनोज्ञानि । यः पुनरस्य शयनस्या- धिष्ठाता तस्यासंशयं मनोरमममृतोपमं चासृग्भविष्यति । अजस्रं भिषग्भिः प्रयत्नादौषधाद्युपक्रमाद्वातपित्तश्लेष्मनिरोधादनामयतया स्निग्धपेशलद्रवैः स- खण्डगुडदाडिमत्रिकटुकपटुभिः स्थलजजलजखेचरबलवत्प्रधानपिशितोपबृंहि- तैराहारैरुपचितं रुधिरं रसायनमिव मन्ये । तत्र सुरभि पुष्टिकरं चेच्छाम्यहं त्वत्प्रसादादास्वादयितुमिति । अतोऽसौ मन्दविसर्पिण्याह । असंभाव्यमेतत् त्वद्विधानामनग्निमुखानां दंशवृत्तीनाम् । अतोऽपगम्यतामस्माच्छयनादिति । ततः सोऽस्याः पादयोर्निपत्य पुनस्तदेव प्रार्थितवान् । सा तु दाक्षिण्यात् तथा मामेति प्रतिपन्ना । किं तु नैवाकाले न चातिमृदुभागे त्वयास्य प्रहर्त-
व्यमिति । सोऽब्रवीत् । कोऽस्य कालोऽनभिज्ञोऽहमपरिचितत्वात् । सा त्व- कथयत् । मधुपानश्रमागतनिद्रस्य गतिविलासनिर्भरसुतस्य च शनैर्मृदुतया भवता विचारणीयम् । मदश्रमनिद्रापरीतकाले नाशु प्रबुध्यत इति । तथैव च तेन प्रतिपन्नम् । एवं वर्तमाने प्रथमप्रदोष एव तेन कालानभिज्ञेन बुभुक्षया चार्तेन सुप्तमात्र एव पृष्ठप्रदेशे दृष्टो राजा । असावपि पार्थिव उल्मुकदग्ध इव ससंभ्रममुत्थायाह । अरे दष्टोऽस्मि केनापि निरूप्यतामिति । अथ मत्कुणश्चकितत्वाद्राजवचनं श्रुत्वा शयनादवतीर्यान्यद्विवरं प्रविष्टः । शय्या- पालैरपि स्वाम्यादेशाद्दीपिकामादाय सुनिपुणमन्विषद्भिर्वस्त्रं संपरिवर्तयद्भि- रन्तर्लीना मन्दविसर्पिणी दृष्टा व्यापादिता च । इति सप्तमी कथा समाप्ता । अतोऽहं ब्रवीमि । न त्वविज्ञातशीलायेति । आख्याते चाख्याने पिङ्गलक आह । भद्र कथमसौ ज्ञातव्यो मया द्रोहबुद्धिरिति कश्चास्य युद्ध- मार्ग इति । दमनकोऽब्रवीत् । अन्यदासौ स्रस्ताङ्गो देवपादान्तिकमागच्छति । अद्य यदि शृङ्गाग्रप्रहरणाभिमुखो युद्धचित्तः सचकितो दिशोऽवलोकयंश्चो- पश्लिष्येत् तद्देवपादैरवगन्तव्यं द्रुग्धबुद्धिरयमिति । एवमुक्त्वा सिंहं विकृत- हृदयं विधाय दमनकः संजीवकसकाशं प्रायात् । तस्यापि मन्दगतिरधृति- परीतमिवात्मानमदर्शयत् । ततस्तेन सादरमभिहितः । भद्र भवतः कुशल- मिति । दमनकोऽब्रवीत् । कुतः खलु कुशलमनुजीविनाम् । कस्मात्
संपत्तयः परायत्ताः सदा चित्तमनिर्वृतम् ।
स्वजीवितेऽप्यविश्वासस्तेषां ये राजसंश्रिताः ॥ ८७ ॥
सुष्ठु चेदमुच्यते ।
आचार्या नरपतयश्च तुल्यशीला
न ह्येषां परिचितिरस्ति सौहृदं वा ।
शुश्रूषां चिरमपि संचितां प्रयत्नात्
संक्रुद्धा रज इव नाशयन्ति मेघाः ॥ ८८ ॥
अपि च कोऽर्थान् प्राप्य न गर्वितो भुवि नरः कस्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ।
कः कालस्य न गोचरान्तरगतः कोऽर्थी गतो गौरवं को वा दुर्जनवागुरानिपतितः क्षेमेण यातः पुमान् ॥ ८९ ॥ तत्सर्वथा
कः कालः कानि मित्राणि को देशः को व्ययागमौ ।
कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ ९० ॥
हृदयान्तर्निहितभावस्य तस्य वचनं श्रुत्वा संजीवकोऽब्रवीत् । भद्र । अथ किमत्र । स आह । यद्यपि राजविश्वासो न कथनीयस्तथापि भवांस्तावन्मत्सं- प्रत्ययादागतः स्थितश्च । तदवश्यं मया तव हितमाख्येयम् । अयं स्वामी पिङ्ग- लकस्तवोपरि द्रुग्धबुद्धिः । अनेन चाद्याभिहितम् । संजीवकं हत्वा स्वपरिवारं तदामिषेण तर्पयामीति । एतच्छ्रुत्वा संजीवकः परं विषादमगमत् । दमनक आह । यदत्र करणीयं तदहीनकालं संचिन्त्यतामिति । पूर्वकालं श्रद्धेयवचन- त्वाच्च दमनकस्य सुतरामाविग्नहृदयः परं भयमुपागतः संजीवक आह । सुष्ठु खल्विदमुच्यते ।
दुर्जनगम्या नार्यः प्रायेणापात्रभृद्भवति राजा ।
कृपणानुसारि च धनं देवो गिर्युदधिवर्षी च ॥ ९१ ॥
एवं चाचिन्तयत् । कष्टं भोः । किमिदमापतितं ममेति । अपि च
आराध्यमानो नृपतिः प्रयत्ना-
दाराध्यते नाम किमत्र चित्रम् ।
अयं त्वपूर्वः प्रतिमाविशेषो
यः सेव्यमानो रिपुतामुपैति ॥ ९२ ॥
तत्सर्वथाशक्योऽयमर्थः ।
निमित्तमुद्दिश्य हि यः प्रकुप्यति
ध्रुवं स तस्यापगमे प्रसीदति ।
अकारणद्वेषि मनो हि यस्य वै
कथं परस्तं परितोषयिष्यति ॥ ९३ ॥
साधु चेदमुच्यते । सरसि बहुशस्ताराछायां दशन परिवञ्चितः कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः । न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं
कुहकचकितो लोकः सत्येऽप्यपायमपेक्षते ॥ ९४ ॥ अथवा
व्यलीकमपरंपरेण न हि नाम नोत्पाद्यते
न चापि न भवन्त्यकारणवशेन रोषोद्गमाः ।
न तु प्रतिविशिष्टबुद्धिरसमीक्ष्य तत्त्वार्थत-
श्चिरानुगतसर्वभावहृदयो जनस्त्यज्यते ॥ ९५ ॥
अपि च
वैद्यविद्वज्जनामात्या यस्य राज्ञः प्रियंवदाः ।
आरोग्यधर्मकोशेभ्यः क्षिप्रं स परिहीयते ॥ ९६ ॥
आह च । किं मयापकृतं स्वामिनः पिङ्गलकस्य । दमनक आह । वयस्य निर्निमित्तापकारा हि पररन्ध्रान्वेषिणश्च राजानो भवन्ति । सोऽब्रवीत् । एवमेतत् । साधु चेदमुच्यते ।
भक्तानामुपकारिणां प्रियहितव्यापारयुक्तात्मनां
सेवासंव्यवहारतत्त्वविदुषां द्रोहच्युतानामपि ।
व्यापत्तिः स्खलितान्तरेषु नियता सिद्धिर्भवेद्वा न वा
तस्मादम्बुपतेरिवावनिपतेः सेवा सदाशङ्किनी ॥ ९७ ॥
स्वभावश्चायम् ।
भावस्निग्धैरुपकृतमपि द्वेष्यतामेति किंचि-
च्छाठ्यादन्यैरपकृतमपि प्रीतिमेवोपयाति ।
दुर्ग्राह्यत्वान्नृपतिमनसां नैकभावाश्रयाणां
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ९८ ॥
गुणा गुणज्ञेषु गुणीभवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः ।
सुस्वादुतोयप्रवहा हि नद्यः
समुद्रमासाद्य भवन्त्यपेयाः ॥ ९९ ॥
स्वल्पेऽपि गुणाः स्फीतीभवन्ति गुणसमुदितेषु पुरुषेषु ।
शशिनः श्वेतस्य गिरेः शिखरप्राप्ता इव मयूखाः ॥ १०० ॥
नश्यन्ति गुणशतान्यपि पुरुषाणामगुणवत्सु पुरुषेषु ।
अञ्जनगिरिशिखरेष्विव निशासु चन्द्रांशवः पतिताः ॥ १०१ ॥
कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु ।
वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥ १०२ ॥
नष्टमपात्रे दानं नष्टं हितमहि तबुद्धिविज्ञाने ।
नष्टं कृतमकृतज्ञे नष्टं दाक्षिण्यमगुणज्ञे ॥ १०३ ॥
अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
स्थलेऽब्जमवरोपितं बधिरकर्णजापः कृतः ।
श्वपुच्छमवनामितं सुचिरमूषरे वर्षितं
कृतान्धमुखमण्डना यदबुधो जनः सेवितः ॥ १०४ ॥
चन्दनतरुषु भुजंगा जलेषु कमलानि तत्र च ग्राहाः ।
गुणघातिनः खलु खला भोगेषु क्व नु सुखान्यविघ्नानि ॥१०५॥
केतक्यः कण्टकैर्व्याप्ता नलिन्यः पङ्कसंभवाः ।
विलासिन्यः सकुट्टिन्यः क्व रत्नमनुपद्रवम् ॥ १०६ ॥
दमनक आह । अयं तावत् स्वामी पिङ्गलक आदौ वाङ्मधुरः परि- णामे विषप्रतिमचित्तो मया ज्ञात इति । विचिन्त्य संजीवकोऽब्रवीत् । भद्र । एवमेवैतत् । मयैवैतदस्मादनुभूतम् । यथा
दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो
गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तोत्तरः ।
अन्तर्गूढविषो बहिर्मधुमयश्चातीव मायापटुः
को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥ १०७ ॥
आदावप्युपचारचाटुविनयालंकारशोभान्वितं
मध्ये चापि विचित्रवाक्यकुसुमैरभ्यर्चितं निष्फलैः ।
पैशुन्याविनयावमानमलिनं बीभत्समन्ते च यद्
दूरे वोऽस्त्वकुलीनसंगतमसद्धर्मार्थमुत्पादितम् ॥ १०८ ॥
कष्टं भोः । काहं शष्पभक्षः क्वायमामिषभक्षसिंहसंसर्गः । साधु चेद- मुच्यते । हुताशज्वालाभे स्थितवति रवावस्तशिखरे पिपासुः किञ्जल्कं प्रविशति सरोजं मधुकरः ।
तदन्तः संरोधं न गणयति संध्यासमयजं जनोऽर्थी नापायं विमृशति फलैकान्ततृषितः ॥ १०९ ॥
कमलमधुनस्त्यक्त्वा पानं विहाय नवोत्पलं
प्रकृतिसुभगां गन्धोद्दामामपास्य च मालतीम् ।
शठमधुकराः क्लिश्यन्तीमे कटाम्बुषु दन्तिनां
सुलभमपहायैवं लोकः कटेषु हि रज्यते ॥ ११० ॥
गण्डोपान्तेष्वचिरनिसृतं वारि मत्तद्विपानां
ये सेवन्ते नवमधुरसास्वादलुब्धा द्विरेफाः ।
ते तत्कर्णव्यजनपवनप्रेङ्खितैर्भिन्नदेहा
भूमिं प्राप्ताः कमलविवरक्रीडितानि स्मरन्ति ॥ १११ ॥
अथवा गुणवतामेवायं दोषः । यतः
स्वफलनिचयः शाखाभङ्गं करोति वनस्पते-
र्गमनमलसं बर्हाटोपः करोति शिखण्डिनः ।
चतुरगमनो यो जात्योऽश्वः स गौरिव वाह्यते
गुणवति जने प्रायेणैते गुणाः खलु वैरिणः ॥ ११२ ॥
नरेन्द्रा भूयिष्ठं गुणवति जनेऽत्यन्तविमुखाः
स्त्रियः प्रायो लोभाद्व्यसनिषु च मूर्खेष्वभिरताः ।
नराणां माहात्म्यं गुणत इति मिथ्या स्तुतिरियं
जनः प्रायेणायं न हि पुरुषतत्त्वं गणयति ॥ ११३ ॥
सिंहः पञ्जरयन्त्रणापरिभवप्रम्लानदीनाननै-
र्नागैरङ्कुशभिन्नमस्तकतटैर्मन्त्रालसैः पन्नगैः ।
विद्वद्भिश्च निराश्रयव्यसिनिभिः शूरैश्च भाग्यक्षतैः
कालः क्रीडनकैरिवात्मरुचितैः प्रेङ्खोलयन् क्रीडति ॥ ११४ ॥
तत्सर्वथा क्षुद्रमण्डलान्तरप्रविष्टस्य मे जीवितमेव नास्ति । उक्तं च
बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः ।
कुर्युर्दोषमदोषं वा उष्ट्रे काकादयो यथा ॥ ११५ ॥
दमनक आह । कथं चतत् । सोऽब्रवीत् । अथ सिंहानुचरोष्ट्रकथा नामाष्टमी कथा अस्ति कस्मिंश्चिद्देशे महोत्कटो नाम सिंहः प्रतिवसति स्म ।
तस्यानुचरास्त्रयो द्वीपिवायसगोमायवः । अथ तैस्तद्वनं भ्रमद्भिः सार्थवाह- परिभ्रष्ट उष्ट्रो दृष्टः । तं चाविज्ञातपूर्वरूपं हास्यजननं दृष्ट्वा सिंहः पृष्टवान् । इदमपूर्वं सत्त्वमिह वने पृच्छ्यताम् । कस्त्वं कुत आगत इति । ततोऽवगत- तत्त्वार्थो वायसोऽब्रवीत् । कथनकनामोष्ट्रोऽयमिति । ततस्तैर्विश्वास्य सिंह- सकाशमानीतः । तेनापि यथावृत्तमात्मनो वियोगः सार्थवाहात्समाख्यातः । सिंहेन चास्याभ्युपपत्तिरभयप्रदानं च दत्तम् । एवं च वर्तमाने कदाचित् सिंहो वन्यगजयुद्धरदनक्षतशरीरो गुहवासी संवृत्तः । पञ्चषट्सप्तदिवसाति- क्रान्ते च काले सर्व एव त आहारवैकल्यादात्यायिकमापतिताः । यतोऽव- सन्नास्ततः सिंहेनाभिहिताः । अहमनया क्षतरुजा न क्षमः पूर्ववदाहारं भवता- मुत्पादयितुम् । तद्यूयमात्मार्थेऽपि तावदभ्युद्यमं कुरुध्वमिति । ततस्ते प्रोचुः । एवं स्थितेषु देवपादेषु किमस्माकं पुष्ट्यर्थेन । इति सिंह आह । साध्वनु- जीविवृत्तं मदुपरि भक्तिश्च भवताम् । अतिशोभनमभिहितम् । शक्ता भवन्तः सजश्चाहम् । तन्ममैतदवस्थस्योपनयताहारमिति । यदा च न किंचिदूचुस्ते तदानेनाभिहिताः । किमनया व्रीडया । अन्विष्यतां किंचित्सत्त्वम् । अहमेत- दवस्थोऽपि युष्माकमात्मनश्चोत्पादयिष्ये प्राणयात्रार्थमिति । एवमुक्तास्तेऽप्यु- त्थाय वनान्तरं प्रविष्टा भ्रमितुमारब्धा यावन्न किंचित्सत्त्वं पश्यन्ति तावद्व्युदस्य कथनकं दुष्टमन्त्रमारब्धाः कर्तुम् । तत्र वायस आह । विना- शिता वयमनेन स्वामिना स्वाधीनेऽप्यर्थे । तावाहतुः । कथम् । सोऽब्रवीत् । इमं कथनकमेव हत्वा किं न प्राणयात्रां कुर्म इति । तावाहतुः । अयमस्माकं विश्वासोपगतः शरणागतो वयस्यत्वेऽनुज्ञातः । स आह । शष्पभुजः पिशिता- शिनश्च विषमसंबन्धाः । ततस्तावूचतुः । स्वामिनाप्यस्याभयप्रदानं दत्तम् । तेन चायुक्तमशक्यं चैतदिति । पुनरपि वायसोऽब्रवीत् । तिष्ठत यूयं यावदह- मेवैतदर्थं संप्रतिपादयिष्यामि । इत्युक्त्वा सिंहकाशमगमत् । सिंहेन चाभि- हितम् । अन्विष्टं युष्माभिं किंचित् सत्त्वमिति । काकोऽब्रवीत् । यस्य चक्षुर्बलं वा स्यात्सोऽन्विष्यतु । वयं तु सर्व एवाहारवैकल्यादन्धाः परि- क्षीणशक्तयश्च । किं तु प्राप्तकालमवश्यं विज्ञाप्यः स्वामी । विनाशितः स्वात्मनात्मा स्वाधीनेऽप्याहारे । सिंहोऽब्रवीत् । कथम् । काक आह । नन्वयं कथनक इति । सिंहः सकोपमाह । कष्टम् । नृशंसमेतत् । मयास्या- भ्युपपत्तिरभयं च दत्तम् । तत्कथं व्यापादयामि । अपि च
न गोप्रदानं न महीप्रदानं
न चान्नदानं हि तथा प्रधानम् ।
यथा वदन्तीह महाप्रदानं
सर्वप्रदानेष्वभयप्रदानम् ॥ ११६ ॥
काकोऽब्रवीत् । अहो स्वामिनो धर्मशास्त्रं प्रति प्रतिभा । एतदन्यदपि प्रधानं महर्षिवचनं यथा श्रेयसामर्थे पापीयान् समारम्भः । अपि चोक्तम्
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥ ११७ ॥
पुनश्चाह । मा स्वामी स्वयं व्यापादयतु । मयास्योपाधिना वध आरब्धः । सोऽब्रवीत् । कथमिव । वायस आह । अयं तावदेतदवस्थं स्वामिनमस्मांश्च दृष्ट्वा स्वयमेवात्मानमन्यपुष्ट्यर्थं स्वर्गगमनाय सत्वहिताय निवेदयति । ततो न दोषः । एवमभिहितवति वायसे सिंहो मतिभ्रममिवार्पितो न किंचिद- प्युदाहृतवान् । असावपि पुनस्तत्सकाशं गत्वा कृतकवचनैः प्रत्येकं विज्ञा- पितवान् । अहो स्वामिनो महत्यवस्था वर्तते । नासिकान्तप्राप्तजीवितस्ति- ष्ठति । तत्तेन विना कोऽस्माकमत्र कानने रक्षिता । तदस्य क्षुद्रोगात्पर- लोकप्रस्थितस्य स्वयं गत्वा स्वशरीरदानं कुर्मो येन स्वामिप्रसादस्यानृणतां गच्छामः । इति । ततः कृतसंविदः सह कथनकेन सिंहसकाशं गताः । अथ काकेनोक्तम् । देव । आहारो न प्राप्तः । अनेकोपवासक्लिष्टश्च स्वामी । तत्सर्वथा मदीयं मांसपभुज्यतामिति । अथासावाह । स्वल्पकायो भवान् । न युष्मच्छरीरोपभोगे कृतेऽप्यस्माकं किंचित्तृप्तिकारणं भवति । तस्मिं- श्चापयाते गोमायुरप्येवमभिहितवान् । अस्मान् मम विशिष्टतरं शरीरम् । तन्मत्प्राणैः क्रियतां प्राणयात्रेति । तमपि सिंहस्तथैवाभिहितवान् । अपयाते च तस्मिन् द्वीप्याह । आभ्यां मम विशिष्टतरं शरीरमिदमुपभुज्यतामिति । तमप्यसावाह । अल्पकायो भवानपीति । कथनकोऽचिन्तयत् । नैवात्र कश्चिद्विनाश्यते । तदहमप्येवमेव ब्रवीमि । तत उत्थाय सिंहान्ति- कमुपगम्याब्रवीत् । देव पथ्यो मम विशिष्टतरं शरीरम् । तस्मान्मच्छ- रीरेणात्मनः प्राणयात्रा क्रियतामिति । एवमभिवदन्नेवासौ द्वीपिगोमायुभ्यां विदारितोभयकुक्षिः सद्यः पञ्चत्वमुपगतो भक्षितश्चेति । इत्यष्टमी कथा समाप्ता ।
अतोऽहं ब्रवीमि । बहवः पण्डिताः क्षुद्रा इति । आख्याते चाख्यानके पुनर्दमनकं संजीवकोऽब्रवीत् । भद्र क्षुद्रपरिवारोऽयं राजा न शिवायाश्रि- तानाम् । उक्तं च
वरं गृध्रो हंसैः सलिलपरितुष्टैः परिवृतो
न हंसः क्रव्यादैः पितृवनविहंगैरकरुणैः ।
परीवारः क्षुद्रो दहति पुरुषं सद्गुणमपि
सहायैरक्षुद्रैर्भवति गुणहीनोऽपि गुणवान् ॥ ११८ ॥
तत्सोऽयं केनापि ममोपरि राजा विप्रकृतः । साधु चेदमुच्यते ।
मृदुना सलिलेन खन्यमाना-
न्यपकृष्यन्ति गिरेरपि स्थलानि ।
उपजापकृतोद्यमैस्तु तज्ज्ञैः
किमु चेतांसि मृदूनि मानवानाम् ॥ ११९ ॥
तदेवं गते किमधुना प्राप्तकालम् । अथवा किमन्यद्युद्धात् । तदाज्ञानु- वर्तनमयुक्तम् । उक्तं च
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य न्याय्यं भवति शासनम् ॥ १२० ॥
यान् यज्ञसङ्घैस्तपसा च लोकान्
स्वर्गैषिणो दानचयैश्च यान्ति ।
क्षणेन तानप्यभियान्ति धीराः
प्राणान् सुयुद्धेषु परित्यजन्तः ॥ १२१ ॥
प्राणाश्च कीर्तिश्च परिच्छदश्च
सर्वेऽपि युद्धेन हि रक्षणीयाः ।
युद्धे विशिष्टं मरणं नराणां
द्विषद्वशे जीवति यो मृतोऽसौ ॥ १२२ ॥
मृतः प्राप्स्यति वा स्वर्गं शत्रून् हत्वापि वा सुखम् ।
उभावपि हि शूराणां गुणावेतौ सुदुर्लभौ ॥ १२३ ॥
दमनक आह । भद्र । अनुपाय एषः । यत्कारणम् ।
शत्रोर्विक्रममज्ञात्वा वैरमारभते हि यः ।
स पराभवमाप्नोति समुद्र इव टिट्टिभात् ॥ १२४ ॥
संजीवक आह । कथं चैतत् । दमनकोऽब्रवीत् । अथ टिट्टिभसमुद्रकथा नाम नवमी कथा । अस्ति कस्मिंश्चित् समुद्रतीरैकदेशे टिट्टिभदम्पती प्रतिवसतः स्म । अथ कदाचिट्टिट्टिभी प्रत्यासन्नप्रसवा भर्तारमब्रवीत् । नाथ किंचित्प्रसवयोग्यं स्थानमन्विष्यताम् । असावकथयत् । नन्वेतदेव स्थानं वृद्धिकरमत्रैव प्रसू- ष्वेति । साब्रवीत् । अलमनेन सापायेन स्थानेन । कदाचित् समुद्रवेला जलप्लावनेन ममापत्यान्यपहरेत् । असावाह । भद्रे न शक्तो महोदधिर्मया सार्धमीदृशं वैरानुबन्धं कर्तुमिति । सा विहस्याब्रवीत् । बह्वसदृशं तव समु- द्वेण बलम् । कथमात्मनो न ज्ञायते सारासारता । उक्तं च
दुःखमात्मा परिच्छेत्तुमेवं योग्यो न वेति वा ।
अस्तीदृग् यस्य विज्ञानं स कृच्छ्रेऽपि न सीदति ॥ १२५ ॥
अपि च
मित्राणां हितकामानां यो वाक्यं नाभिनन्दति ।
स कूर्म इव दुर्बुद्धिः काष्ठाद्भ्रष्टो विनश्यति ॥ १२६ ॥
टिट्टिभ आह । कथं चैतत् । साब्रवीत् । अथ हंसकच्छपकथा नाम दशमी कथा । अस्ति कस्मिंश्चित् सरसि कम्बुग्रीवो नाम कच्छपः प्रतिवसति स्म । तस्य द्वौ सुहृदौ सङ्कटविकटनामानौ हंसौ । अथ कालविपर्यये द्वादशवार्षिक्य- नावृष्टिरापतिता । ततस्तयोर्मतिरुत्पन्ना । क्षीणतोयं जातमिदं सरः । अन्यं जलाशयं गच्छाव इति । किं पुनश्चिरपरिचितमिदं प्रियमित्रं कम्बुग्रीव- मामन्त्रयावहे । तथा चानुष्ठिते कच्छपेनाभिहितौ । कस्मान् ममामन्त्रणं क्रियते । यदि तु स्नेहोऽस्ति ततो मामप्यस्मान् मृत्युमुखात् त्रातुमर्हथः । यत्कारणं युवयोस्तावदाहारवैकल्यमेव केवलमस्मिन् स्वल्पोदके सरसि । ममात्र तु मरणमेव । तद्विचिन्त्यतामाहारप्राणवियोगयोः को गरीयान् । ताभ्यामभिहितम् । युक्तमात्थ । एवमेतत् । किं पुनः प्राप्तकालं भवाञ् जानाति । अवश्यं नयाव आवां भवन्तम् । त्वया पुनः पथि चापलान्न किंचि- द्वक्तव्यम् । तथेत्युक्ते कच्छपेन हंसौ यष्टिमानीयाहतुः । इमां तु यष्टिं मध्ये दशनैरापीडय । आवामप्यन्तयोर्गृहीत्वा व्योममार्गेण दूरं महत् सरो भवन्तं
नयावः । एवं च निष्पन्ने तज्जलाशयसंनिकृष्टनगरस्योपरिष्टान् नीयमानं कच्छपं दृष्ट्वा किमिदं शकटचक्रप्रमाणं पक्षिभ्यां वियता नीयत इति जनः सकलकलः संवृत्तः । तच्च श्रुत्वासन्नविनाशः कच्छपो यष्टिं त्यक्त्वाभिहित- वान् । कोऽयं कलकलः । इति ब्रुवन् वचनसमकालमेव काष्ठात् परिभ्रष्टो भूमौ निपतितः । मांसार्थिना च लोकेन पातसमकालमेव तीक्ष्णशस्त्रैः खण्डशो विभक्त इति । इति दशमी कथा समाप्ता । अतोऽहं ब्रवीमि । मित्राणां हितकामानामिति । पुनश्चाह ।
अनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥ १२७ ॥
टिट्टिभ आह । कथं चैतत् । साब्रवीत् । अथानागत विधातृ प्रत्युत्पन्नमतियद्भविष्यकथा नामैकादशी कथा अस्ति कस्मिंश्चिन्महाह्रदे महाकायास्त्रयो मत्स्याः प्रतिवसन्ति स्म । तद्यथा । अनागतविधाता प्रत्युत्पन्नमतिर्यद्भविष्यश्चेति । तत्रानागतविधात्रा तदुदकान्तर्गतेन कदाचित्तत्समीपे मत्स्यबन्धानामतिक्रामतां वचनं श्रुतम् । बहुमत्स्योऽयं ह्रदः । तदत्र श्वो मत्स्यबन्धनं कुर्मः । तच्च श्रुत्वानागतविधात्रा चिन्तितम् । अवश्यमेत आगन्तारः । तदहं प्रत्युत्पन्नमतिं यद्भविष्यं च गृहीत्वान्यमछिन्नस्रोतस्कं ह्रदं संश्रयामीति । ततो वयस्यावाहूय पृष्टवान् गम- नाय । तत्र प्रत्युत्पन्नमतिरब्रवीत् । यद्यत्र मत्स्यजीविनः समागमिष्यन्ति तदाहं तत्समयोचितकर्मणा केनाप्यात्मानं रक्षयिष्यामि । यद्भविष्यस्त्वासन्न- विनाशस्तद्वचनमनादृत्य गमनं प्रति निरारम्भ एवासीत् । एवं तौ तत्र स्थिरौ मत्वानागतविधाता नदीस्रोतः प्रविश्यान्यजलाशयं गतः । अन्येद्यु- श्चापयाते तस्मिन् परिजनसमेतैर्मत्स्यबन्धैरन्तःस्रोतो निरुध्य संवर्तजालं प्रक्षिप्य निःशेषमत्स्यानां बन्धः कृतः । एवं गते प्रत्युत्पन्नमतिर्मृतरूपं कृत्वा- त्मानं जालस्यान्तर्दर्शितवान् । तैश्च स्वयमेव मृतोऽसौ महामत्स्य इति मत्वा जालादाकृष्य स्रोतः समीपे स्थापितः । ततस्तु स उत्प्लुत्यान्यं जलाशयं सह- सैव गतः । यद्भविष्यस्तु किंकर्तव्यतामूढ इतस्ततो भ्रमञ्जालैर्बद्ध्वा लगुडै- र्व्यपादितः । इत्येकादशी कथा समाप्ता ।
अतोऽहं ब्रवीमि । अनागतविधाता चेति । टिट्टिभ आह । भद्रे किं मां यद्भविष्यवन् मन्यसे । तन्न भीः कार्या। मद्भुजपरिरक्षितायाः कस्ते परा- भवं कर्तुं समर्थः । अथ टिट्टिभी तत्रैव प्रसूता । श्रुतपूर्वतदालापेन समुद्रे- णापि तत्प्रति जिज्ञासयाण्डान्यपहृतानि । पश्यामि तावदयं किमारभत इति । अथ टिट्टिभी शून्यमपत्यस्थानं दृष्ट्वा शोकार्ता भर्तारमाह । इदं तत्कष्टमापतितं मम मन्दभाग्यायाः यत्पूर्वं मया तवोक्तं स्थानाश्रयवैषम्याद- पत्यनाश इति । टिट्टिभ आह । ममापि तावद्भद्रे दृश्यतां सामर्थ्यमिति । ततस्तेन पक्षिसमाजं कृत्वा निवेदितं तदपत्यहरणजं दुःखम् । तत्रैकेन पक्षि- णाभिहितम् । असमर्था वयं महोदधिविग्रहस्य । किं पुनरत्र प्राप्तकालम् । सर्व एव वयमाक्रन्देन गरुत्मन्तमुद्वेजयामः । स एव नो दुःखमपनेष्यति । इति संप्रधार्य गरुडसकाशं गताः । असावपि देवासुरसङ्ग्रामनिमित्तं समा- हूतो भगवता नारायणेन । ततस्तस्मिन्नेव समये तैः पक्षिभिर्निवेदितं समुद्र- कृतमपत्यहरणवियोगदुःखं स्वामिने पक्षिराजाय यथा देव त्वयि नाथे प्रतपति चञ्चुभरणमात्रजीविनो भोजनदौर्बल्यादस्मान् परिभूय समुद्रः शिशूनपहृतवान् । गरुडश्च तत्स्वयूथ्यव्यसनं दृष्ट्वा मन्युमाजगाम । देवोऽपि नारायणस्त्रैकाल्यदर्शनसामक्ष्यात् तस्यान्तर्गतं मत्वा स्वयमेव तत्सकाश- मगमत् । अथ देवं दृष्ट्वा सुतरामाविग्नहृदयोऽब्रवीत् । युक्तं त्वया नाथेन सता समुद्रापसदान्ममायं पराभव इति । ज्ञात्वा च देवः परिहस्य समुद्र- स्येदमुवाच । समर्पयाधुनाण्डानि टिट्टिभस्येति । अन्यथा त्वामाग्नेयास्त्रप्रता- पितमनेकवडवामुखसहस्रपरिक्षीणतोयं स्थलतां नयामीति । ततो देवाज्ञया समुद्रेण सभयेन तान्यण्डानि समर्पितानि । इति नवमी कथा समाप्ता अतोऽहं ब्रवीमि । शत्रोर्विक्रममज्ञात्वेति । अवगतार्थश्च संजीवकस्त- मपृच्छत् । वयस्य कथय कस्तस्य युद्धमार्ग इति । सोऽब्रवीत् । अन्यदासौ स्रस्ताङ्गः शिलातलमाश्रितस्त्वदुन्मुखः प्रतीक्षते । अद्य यदि प्रथममेव समुन्नतलाङ्गूलः संयतचतुश्चरणो विवृतास्यः स्तब्धकर्णश्च दूरादेव त्वत्सं- मुखमीक्षमाणस्तिष्ठति तदा ज्ञात्वायं ममोपरि दुरघमतिरिति त्वमपि व्यव- हरिष्यसि । एवमुक्त्वा दमनकः करटकसमीपं गतः । तेन चाभिहितः ।
किमनुष्ठितं भवता । सोऽब्रवीत् । निष्पन्नोऽसावन्योन्यं भेदः । फलेन ज्ञास्यसि । कश्चात्र विस्मयः । उक्तं च ।
भिनत्ति सम्यक् प्रहितो भेदः स्थिरमतीनपि ।
भूधरान् संहतशिलान् महानिव रयोऽम्भसाम् ॥ १२८ ॥
इत्युक्त्वा दमनकः करटकेन सह पिङ्गलकसमीपं गतः । संजीवकोऽ- प्युद्विग्नमना मन्दं मन्दं गत्वा तदवस्थं यथापूर्वाख्याताकारं सिंहं दृष्ट्वा तत्स- काशमेवोपश्लिष्टश्चिन्तयामास । साध्विदमुच्यते ।
अन्तर्गूढभुजंगमं गृहमिव व्यालाकुलं वा वनं
ग्राहाकीर्णमिवाभिरामकमलच्छायासनाथं सरः ।
नित्यं दुष्टजनैरसत्यवचनैः क्षुद्रैरनार्यीकृतं
दुःखेनेह विगाह्यते सुचकितै राज्ञां मनः सेवकैः ॥ १२९ ॥
इत्यात्मनस्तथैव यत्नमास्थितः । पिङ्गलकोऽपि तथाविधं तं विलोक्य दमनकवाक्यं श्रद्दधानः कोपात्तस्योपरि संनिपतितः । अथ संजीवको नख- कुलिशाग्रावलुञ्चितपृष्ठः स्वशृङ्गाग्रप्रहारेण तस्योदरमुल्लिख्य तस्मात् कथम- प्युत्थितः । पुनरपि च तयोर्बद्धामर्षयोः परस्परं महद्युद्धमभवत् । उभावपि च तौ पुष्पितपलाशतुल्यौ दृष्ट्वा साधिक्षेपं करटको दमनकमाह । धिग्दुरात्मन् सर्वमाकुलितं त्वयैतन् मूर्खतया ।
कार्याण्युत्तमदण्डसाहसफलान्यायाससाध्यानि ये
प्रीत्या संशमयन्ति नीतिकुशलाः साम्नैव ते मन्त्रिणः ।
निःसाराल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमै-
स्तेषां दुर्नयचेष्टितैर्नरपतेरारोप्यते श्रीस्तुलाम् ॥ १३० ॥
तन्मूर्ख
साम्नैव हि प्रयोक्तव्यमादौ कार्यं विजानता ।
सामसिद्धा हि विधयो न प्रयान्ति पराभवम् ॥ १३१ ॥
नोन्मयूखेन रत्नेन नातपेन न वह्निना ।
साम्नैव विलयं याति विद्वेषप्रभवं तमः ॥ १३२ ॥
सामादिर्दण्डपर्यन्तो नयो दृष्टश्चतुर्विधः ।
तेषां दण्डस्तु पापीयांस्तस्मात्तं परिवर्जयेत् ॥ १३३ ॥
अपि च
ये सामदानभेदास्ते किल बुद्धेरनावृतं द्वारम् ।
यस्तु चतुर्थ उपायस्तमाहुरार्याः पुरुषकारम् ॥ १३४ ॥
द्विपाशीविषसिंहाग्निजलानिलविवस्वताम् ।
बलं बलवतां दृष्टमुपायाक्रान्तिनिष्फलम् ॥ १३५ ॥
प्रवृत्ता बहवः शूराः प्रांशवः पृथुवक्षसः ।
चक्षुष्मन्तोऽप्यबालाश्च किमित्यनुगता गतम् ॥ १३६ ॥
यदपि च मन्त्रिपुत्रोऽहमित्यवलेपादतिभूमिं गतोऽसि तदप्यात्म- विनाशाय ।
यां लब्ध्वेन्द्रियनिग्रहो न महता भावेन संपद्यते
या बुद्धेर्न विधेयतां प्रकुरुते धर्मे न या वर्तते ।
लोके केवलवाक्यमात्ररचना यां प्राप्य संजायते
या नैवोपशमाय नापि यशसे विद्वत्तया किं तया ॥ १३७ ॥
शास्त्रे चाभिहितः पञ्चाङ्गो मन्त्रस्तद्यथा । कर्मणामारम्भोपायः पुरुष- द्रव्यसंपद् देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिश्चेति । सोऽय- मधुना स्वामिनो महात्ययो वर्तते । तदत्र विनिपातप्रतीकारश्चिन्त्यताम् । अपि च मन्त्रिणां भिन्नसंधाने भिषजां सांनिपातिके । कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥ १३८ । तन्मूर्ख विपरीतबुद्धिरसि । विद्वन्मानित्वादात्मनोऽनर्थमुत्पादयसि । साधु चेदमुच्यते ।
ज्ञानं मदोपशमनं मन्दानां कुरुते मदम् ।
चक्षुःप्रबोधनं तेज उलूकानामिवान्ध्यकृत् ॥ १३९ ॥
तं च कृच्छ्रावस्थागतं स्वामिनं दृष्ट्वा करटकः परं विषादमगमत् । आह च । कष्टमिदमापतितं स्वामिनोऽनयोपदेशात् । अथवा साध्विदमुच्यते ।
नराधिपा नीचमतानुवर्तिनो
बुधोपदिष्टेन पथा न यान्ति ये ।
विशन्ति ते दुर्गममार्गनिर्गमं
समस्तसंबाधमनर्थपञ्जरम् ॥ १४० ॥
तन्मूढ सर्वस्तावत् स्वामिनो गुणवत्परिग्रहं करोति । त्वद्विधेन तु पिशुनवचसा भेदः कृतः स्वामिनो मित्रविश्लेषश्च । कुतः स्वामिनो गुणवत्स- हायसंपत् । उक्तं च
गुणवानप्यसन्मन्त्री नृपतिर्नाधिगम्यते ।
प्रसन्नस्वादुसलिलो दुष्टग्राहो यथा ह्रदः ॥ १४१ ॥
त्वं तु प्रायश आत्मविभूत्यर्थं विविक्तमेव राजानं कर्तुमिच्छसि । तन्मूर्ख किं न वेत्सि ।
आकीर्णः शोभते राजा न विविक्तः कदाचन ।
ये तं विविक्तमिच्छन्ति ते तस्य रिपवः स्मृताः ॥ १४२ ॥
त्वं चैतन्नावबुध्यसे । तदसंशयाकृतिविसंवाद एव प्रजापतेः । कस्मात्
परुषे हितमन्वेष्यं तच्चेदस्त्यमृतं हि तत् ।
मधुरे शाठ्यमन्वेष्यं तच्चेदस्ति विषं हि तत् ॥ १४३ ॥
यदपि च परसुखोपभोगेर्ष्यया दुःखितोऽसि तदपि न साधु लब्धस- द्भावेषु मित्रेष्वेवं वर्तितुम् । यतः
शाठ्येन मित्रं कपटेन धर्मं
परोपतापेन समृद्धिभावम् ।
सुखेन विद्यां परुषेण नारीं
वाञ्छन्ति ये नूनमपण्डितास्ते ॥ १४४ ॥
तथा
यैव भृत्यगता संपद्विभूतिः सैव भूपतेः ।
रत्नोद्भासिभिरुद्भूतैः कस्तरङ्गैर्विनोदधिः ॥ १४५ ॥
यश्च स्वामिनो लब्धप्रसादो भवति स नितरां विनीततरः स्यात् । उक्तं च
यथा यथा प्रसादेन भर्ता भृत्यस्य वर्तते ।
तथा तथा सशङ्कस्य गतिर्निम्नैव शोभते ॥ १४६ ॥
तल्लघुधर्मोऽसि । उक्तं च महान् प्रणुन्नो न जहाति धीरतां न कूलपातैः कलुषो महार्णवः ।
लघोर्विकारस्तनुनापि हेतुना चलन्ति दर्भाः शिथिलेऽपि मारुते ॥ १४७ ॥ अथवा स्वामिन एवैष दोषो यद्युष्मद्विधैर्मन्त्रमात्रव्यपदेशकेवलोपजी- विभिः षाड्गुण्योपायेऽत्यन्तबाह्यैस्त्रिवर्गप्राप्त्यर्थमसमीक्ष्य मन्त्रयते । साधु चेदमुच्यते ।
चित्रस्वादुकथैर्भृत्यैरनायासितकार्मुकैः ।
ये रमन्ते नृपास्तेषां रमन्ते रिपवः श्रिया ॥ १४८ ॥
तत्सर्वथा विभावितं त्वयात्मीयमन्वयागतं मन्त्रित्वमनेनानुष्ठानेन । नूनं तव पिताप्येवंलक्षण एवासीत् । कथं पुनरेतज्ज्ञायते । यतः
अवश्यं पितुराचारं पुत्रः समनुवर्तते ।
न हि केतकवृक्षस्य भवत्यामलकीफलम् ॥ १४९ ॥
न च स्वभावगम्भीराणां विदुषां परेणागमरन्ध्रान्तरं लभ्यते बहुना कालेनापि यदि स्वयमेव चापलादात्मनश्छिद्रं न प्रकाशयेयुः । साधु चेद- मुच्यते ।
यत्नादपि कः पश्येच्छिखिनामाहारनिःसरणमार्गम् ।
यदि जलदध्वनिमुदितास्त एव मूढा न नृत्येयुः ॥ १५० ॥
तत्सर्वथा किं तवोपदेशेनापसदस्य । उक्तं च
नानाम्यं नाम्यते दारु न शस्त्रं वहतेऽश्मनि ।
सूचीमुखं विजानीहि नाशिष्यायोपदिश्यते ॥ १५१ ॥
दमनक आह । कथं चैतत् । करटक आह । अथ शाखामृगखद्योतपक्षिकथा नाम द्वादशी कथा । अस्ति कस्मिंश्चिद्वनोद्देशे वानरयूथम् । तत्र कदाचिद्धेमन्तकाले शीतार्तमतिविह्वलतया खद्योतं दृष्ट्वाग्निरयमिति मत्वाहार्यैः शुष्कदारुतृणपर्णै- राछाद्य प्रसारितभुजं कक्षकुभिवक्षःप्रदेशान् कण्डूयमानं तापमनोरथसुखं किलानुभवति स्म । अथ तत्रैकः शाखामृगो विशेषतः शीतार्तस्तद्गतमना मुहुर्मुहुस्तमेव मुखेनोपाधमत् । अथ सूचीमुखो नाम पक्षी तद्दृष्ट्वा वृक्षादव- तीर्याभिधत्ते । भद्र मा क्लिश्यतां नायं वह्निः खद्योतोऽयमिति । अथासौ तद्वचनमनादृत्य पुनर्धमति । पुनश्च तेनासकृन्निवार्यमाणोऽपि नैव शाम्यति ।
किं बहुना तावत्तेन कर्णाभ्याशमागत्यागत्य प्रबलमुद्वेजितो यावत्तेन कुपितेन सहसा गृहीत्वा शिलायामाविध्य विगतप्राणः कृतोऽसौ । इति द्वादशी कथा समाप्ता । अतोऽहं ब्रवीमि । नानाम्यं नाम्यते दार्विति । अथवा
किं करिष्यति पाण्डित्यमपात्रे प्रतिपादितम् ।
सपिधाने धृतः कुम्भे प्रदीप इव वेश्मनि ॥ १५२ ॥
तन्नूनमपजातस्त्वम् । उक्तं च
जातः पुत्रोऽनुजातश्च अभिजातस्तथैव च ।
अपजातश्च लोकेऽस्मिन् मन्तव्याः शास्त्रदृष्टिभिः ॥ १५३ ॥
मातृतुल्यगुणो जातस्त्वनुजातः पितुः समः ।
अभिजातोऽधिकस्तस्मादपजातोऽधमाधमः ॥ १५४ ॥
साधु चेदमुच्यते ।
प्रज्ञयातिविसारिण्या यो धनेन बलेन च ।
धुरं वहति गोत्रस्य जननी तेन पुत्रिणी ॥ १५५ ॥
अपि च
आपातमात्रसौन्दर्यं कुत्र नाम न विद्यते ।
अत्यन्तप्रतिपत्त्या तु दुर्लभोऽलंकृतो जनः ॥ १५६ ॥
तन्मूर्ख न किंचिदभिवदसि । उक्तं च
भिन्नस्वरमुखवर्णः शङ्कितदृष्टिः समुत्पतितदेहः ।
भवति हि पापं कृत्वा स्वकर्मसंत्रासितः पुरुषः ॥ १५७ ॥
साधु चेदमुच्यते ।
दुष्टबुद्धिरबुद्धिश्च द्वावेतौ धिङ्मतौ मम ।
तनयेनातिपाण्डित्यात् पिता धूमेन मारितः ॥ १५८ ॥
दमनक आह । कथं चैतत् । करटकोऽब्रवीत् । अथ धर्मबुद्धिदुष्टबुद्धिकथा नाम त्रयोदशी कथा । अस्ति कस्मिंश्चिन्नगरे वणिक्पुत्रौ प्रियसुहृदौ धर्मबुद्धिदुष्टबुद्धि- नामानौ स्तः । तावर्थोपार्जननिमित्तं विप्रकृष्टं देशान्तरं गतौ । अथ तत्र धर्मबुद्धिर्नाम यः सार्थवाहसुतस्तेन कस्यचित्साधोः पूर्वस्थापितं कलशिकागतं
स्वभाग्यप्रचोदितं रौप्यदीनारसहस्रं प्राप्तम् । स तु दुष्टबुद्धिना सह संप्रधार्य कृतार्थावावां तद्गृहीत्वा स्वनगरं गच्छाव इति निश्चित्य प्रत्यागतौ । अधि- ष्ठानसमीपे धर्मबुद्धिनाभिहितम् । दीनारा अर्धविभागेन विभज्यन्तां स्वगृ- हान् प्रविशावोऽधुना सुहृत्स्वजनादिसमक्षमुज्ज्वलं वत्स्यावः । अथ दुष्ट- बुद्धिरन्तःकुटिलहृदयः स्वार्थसिद्धये तमाह । भद्र वित्तशेषो यावदावयोः सामान्यस्तावदविच्छिन्नः स्नेहसद्भावः । किं त्वेकमेकं शतं गृहीत्वा शेषमिहैव भूमौ निक्षिप्य स्वगृहं प्रविशावो भूयोऽपि प्रयोजने संजाते तन्मात्रं समेत्या- स्मात् स्थानान्नेष्यावः । तेनोक्तम् । यथाह भवान् । तथा चानुष्ठिते शेषं वृक्षमूले भूमौ सुगुप्तं कृत्वा स्वगृहं प्रविष्टौ । अथ तद्वर्षाभ्यन्तरे दुष्टबुद्धिरस- द्व्ययव्यसनित्वाद्भाग्यछिद्रतया च क्षीणप्रत्यंशः पुनरपि च निधितो धर्मबुद्धि- ना सहापरं शतं शतं विभक्तवान् । तदपि द्वितीयवर्षाभ्यन्तरे तथैव क्षीणम् । एवं गते दुष्टबुद्धिश्चिन्तयामास । यदि पुनस्तेन सह शतं विभजामि ततः शेषैश्चतुर्भिः शतैरपहृतैरपि किमल्पैः । शेषैः पड्भिरपहृतैः समस्तान्येवासाद- यामि । इति निश्चित्यैकाकी भूत्वा तामर्थमात्रामपनीय तं भूप्रदेशं समीकृत- वान् । अतिक्रान्ते च मासमात्रे स्वयं गत्वा धर्मबुद्धिमभिहितवान् । भद्र । अस्ति मे व्ययः । एहि समविभागं शेषस्य वित्तस्य कुर्व इति । प्रतिपन्ने च धर्मबुद्धिना सह गत्वा तमेवोद्देशं खातकर्म कर्तुमारब्धः । खन्यमाने च भूभागे यदासावर्थो न दृश्यते तदा प्रथमतरं धृष्टतया दुष्टबुद्धिः पाषाणेना- त्मनः शिरोऽताडयदब्रवीच्च ससंभ्रमम् । भो धर्मबुद्धे त्वयैवापहृत- मेतद्धनं नान्येन । तत् प्रयच्छ मे तस्यार्धम् । स आह । नैतच्चौर्यकर्माचरामि त्वयापहृतमिति । एवं परस्परं विवदमानौ राजकुलमुपागतौ । आवेदिते च तस्मिन्नर्थेऽवगतेऽव्यक्तव्यवहारदुश्छेदतया धर्माधिकृतैः संनिरुद्धौ । पञ्चरात्रा- भ्यन्तराच्च दुष्टबुद्धिनाधिकृतानां प्रतिज्ञातम् । साक्षी ममास्त्यत्र व्यवहारे दीना- राणाम् । इदानीं पृच्छ्यतामिति । तैस्तु व्यवहारनिवर्तनार्थं पृष्टः । कस्ते साक्षी दर्शयस्वेति । सोऽब्रवीत् । यस्यैव वृक्षस्य मूले स्थापितं द्रव्यं स एव वृक्षः साक्षीति । अथ तैर्धर्माधिकृतैर्विस्मयादभिहितम् । कथं वनस्पतिर्मन्त्रयिष्यति । भवतु परस्मिन् दिने प्रतिपादयिष्यतीति । कृतप्रतिभुवौ द्वावपि स्वगृहं विस- र्जितौ । अथ दुष्टबुद्धिना स्वगृहं गत्वा पिता याचितः । तात मद्धस्तगतास्ते दीनाराः । किं तु तव वाङ्मात्रावबद्धास्तिष्ठन्ति । पिताह । किमत्र कार्यम् ।
स आह । अस्मिन् वृक्षकोटरेऽद्य रात्रौ प्रविश्यादृश्यीभूय स्थीयताम् । प्रात- धर्माधिकृतैः पृष्ठे वक्तव्यम् । धर्मबुद्धिना तद्धनं गृहीतमिति । ततस्तेनाभिहि- तम् । पुत्र विनष्टावावाम् । यत्कारणम् । अनुपाय एषः । साधु चेदमुच्यते ।
उपायं चिन्तयेत्प्राज्ञो ह्यपायमपि चिन्तयेत् ।
पश्यतो बकमूर्खस्य नकुलैक्षिताः सुताः ॥ १५९ ॥
सोऽब्रवीत् । कथं चैतत् । पिताह । अथ बकसर्पनकुलकथा नाम चतुर्दशी कथा । अस्ति कस्मिंश्चिदर्जुनवृक्षे बकदम्पती प्रतिवसतः स्म । तत्र च तद्वृक्ष- विवरानुसारी महाकायः सर्पो यावन्ति बकापत्यानि भवन्ति तावन्त्येवासं- जातपक्षाणि भक्षयति स्म । तेन च निर्वेदेन नष्टसंज्ञ आहारक्रियामुत्सृज्य सर- स्तीरं गत्वा बको विमनस्क आस्ते । अथ तत्रैकः कुलीरकस्तं दृष्ट्वाह । माम किमद्योद्विग्नो भवानिति । स तु तस्मै यथावृत्तमपत्यभक्षणमाख्यातवान् । कुलीरकस्तु तं समर्थितवान् । भद्र अहमुपायं तद्वधाय ते कथयामि । येयं नकुल- वसतिरेतत्प्रभृत्यविछिन्नपरंपरया सर्पविवरं यावन् मत्स्यपिशितं प्रकीर्यताम् । ततस्तदाहारलुब्धैर्नकुलैरयमागत्यात्र द्रष्टव्यः स्वभावविद्वेषाद्व्यापादयितव्यश्च । तथा चानुष्ठिते नकुलैर्मत्स्यमांसमार्गानुसारिभिः पूर्ववैरक्रियामनुस्मरद्भिः सर्पं व्यापाद्य पूर्वदृष्टमार्गमाधावद्भिस्तद्वृक्षे बकावासं गत्वा बकापत्यानि भक्षितानि । इति चतुर्दशी कथा समाप्ता । अतोऽहं ब्रवीमि । उपायं चिन्तयेत्प्राज्ञ इति । एतच्छ्रुत्वापि लोभा- क्रान्तेन दुष्टबुद्धिना बलाद्रात्रौ नीत्वा पिता वृक्षकोटरे स्थापितः । अथ प्रभातसमये धर्माधिकरणप्रकृतिप्रत्यक्षं धर्मशास्त्रवचनाभिश्राविताद्वनस्पते- र्निःसृता वाक् । धर्मबुद्धिनैतद्धनमपहृतम् । तच्च श्रुत्वा धर्मबुद्धिरचिन्तयत् । कथमेतदसत्यमलौकिकमापतितम् । तदहमिममेव वृक्षमारुह्य निरीक्षयामि । इति निरीक्ष्याहार्यैः शुष्कदारुपर्णनिचयैर्वृक्षविवरमापूर्याग्निमादीपयितुमारब्धः । अथ ज्वलति तस्मिन्नर्धदग्धशरीरः स्फुटितदृष्टिः करुणमाक्रन्दन्दुष्टबुद्धिपिता किंचि- च्छेषजीवितो वृक्षकोटरान्निःसृत्य भूमौ निपतितः । ततः सविस्मयं सर्वैर्दृष्टः
पृष्टश्च । भोः किमिदम् । ततोऽसावब्रवीत् । अहमनेन दुष्पुत्रेण दुष्टबुद्धिनावस्था- मिमां प्रापित इति । एवमभिवदन् पञ्चत्वमुपगतः । अथ तै राजाधिकृत- स्तमर्थं ज्ञात्वा धर्मबुद्धये तद्धनं दापयित्वा दुष्टबुद्धिः शूले निक्षिप्तः । इति त्रयोदशी कथा समाप्ता । अतोऽहं ब्रवीमि । दुष्टबुद्धिरबुद्धिश्चेति । आख्याते चाख्यानके पुनः कर- टको दमनकमब्रवीत् । धिङ्मूर्खातिपाण्डित्येन त्वया दग्धः स्ववंशः । साधु चेदमुच्यते ।
लवणजलान्ता नद्यः स्त्रीभेदान्तानि बन्धुहृदयानि ।
पिशुनजनान्तं गुह्यं दुष्पुत्रान्तानि च कुलानि ॥ १६० ॥
अपि च यस्य तावन् मनुष्यस्यैकस्मिन्नेव मुखे जिह्वाद्वयं भवति कस्तस्य विश्वासमियात् । उक्तं च
द्विजिह्वमुद्वेगकरं क्रूरमेकान्तनिष्ठुरम् ।
खलस्याहेश्च वदनमपकाराय केवलम् ॥ १६१ ॥
तन्ममाप्यनेन तव चरितेन भयमुत्पन्नम् । कस्मात्
मा गाः पिशुनविस्रम्भं ममायं पूर्वसंस्तुतः ।
चिरकालोपचीर्णोऽपि दशत्येव भुजंगमः ॥ १६२ ॥
विद्वानृजुरभिगम्यो विदुषि शठे चाप्रमादिना भाव्यम् ।
ऋजुमूर्खस्त्वनुकम्प्यो मूर्खशठः सर्वथा वर्ज्यः ॥ १६३ ॥
तन्न केवलमात्मीयवंशविनाशस्त्वया प्रयतितः किं पुनरधुना स्वामिनोऽ- पि व्यभिचरितम् । तद्यतस्त्वं स्वं स्वामिनमिमां दशां नयसि तस्य तवान्य- स्तृणभूतः । उक्तं च
तुलां लोहसहस्रस्य यत्र खादन्ति मूषकाः ।
गजं तत्र हरेच्छ्येनो दारके कोऽत्र विस्मयः ॥ १६४ ॥
दमनकोऽब्रवीत् । कथं चैतत् । सोऽब्रवीत् । अथ लोहभक्षकमूषककथा नाम पञ्चदशी कथा । अस्ति कस्मिंश्चिदधिष्ठाने क्षीणविभवो वणिक्पुत्रः । स देशान्तरमर्थो- पार्जननिमित्तं प्रस्थितः । तस्य च गृहे पूर्वपुरुषोपार्जिता लोहपलसहस्रघटिता तुलास्ति । स चान्यस्मिन् वणिक्पुत्रके तां निक्षिप्य देशान्तरमर्थोपार्जनाय
प्रायात् । स च मन्दभाग्यतया बहुनापि कालेन न किंचित् प्राप्य प्रत्याग- तस्तां निक्षिप्तां तुलां तस्मात् प्रार्थितवान् । असावपि लुब्धोऽब्रवीत् । सा तुला मूषकैर्भक्षितेति । अथासावचिन्तयत् । विस्मयनीयमेतत् । कथं लोहसह- स्रमयीं तुलां मूषका भक्षयिष्यन्तीति । अन्तर्लीनमवहस्याब्रवीत् । अवश्य- मेतदेवम् । यत्कारणम् । वृष्यं स्वादु मृदु च लोहं कथमाखवो न भक्षयिष्यन्ति। इति प्रतिपन्नवाक् । असावपि सुपरितुष्टहृदयः पाद्यादिपुरःसरां तस्य पूजां कर्तुमारब्धवान् भोजनं च प्रार्थितवान् । तस्य च नातिदूरे नदी । तत्र स्नाना- भ्युद्यतस्य च तस्य स्वीयं पुत्रमेकमामलकस्नानशाटिकासमेतं पृष्ठतः प्रेषितवान् । असावपि स्नात्वा प्रत्यागच्छंस्तं दारकमन्यस्मिन् मित्रगृहे सुगुप्तं कृत्वा तद्गृहमागतः । पृष्टश्च तेन वणिजा । क्वासौ दारकस्तवानुपदप्रेषितः । इह न प्रविष्ट इति । अथ सोऽब्रवीत् । श्येनेनापहृत इति । तच्छ्रुत्वा परमाविग्नो निर्दयीभूतश्च तं बाहौ गृहीत्वा धर्मस्थानमुपनीतवान् । आह च । परि- त्रायध्वं परित्रायध्वमनेन दुरात्मना मे दारकः क्वापि गोपित इति । पृष्टश्चासौ धर्माधिकृतैः । किमेतत् । कथ्यतामिति । स विहस्याब्रवीत् । श्येनेनापहृत इति । ततस्तैर्विस्मितमनोभिरभिहितः । अलौकिकमेतत् । कथं श्येनो दारक- मपहरिष्यतीति । स आह । किमत्र चित्रम् ।
तुलां लोहसहस्रस्य यत्र खादन्ति मूषकाः ।
गजं तत्र हरेच्छ्येनो दारके कोऽत्र विस्मयः ॥ १६५ ॥
तच्छ्रुत्वा तैरधिगतवृत्तान्तैरुक्तम् । समर्पयास्य लोहसहस्रतुलामय- मपि दारकमानेष्यतीति । ततस्तौ तथानुष्ठितवन्तौ । इति पञ्चदशी कथा समाप्ता । अतोऽहं ब्रवीमि । तुलां लोहसहस्रस्येति । तत्किं पशोरिव निःसंज्ञ- स्योपदिष्टेन । श्रुतवति प्रज्ञा जले तैलं रक्ते विषं सत्सु संगतं प्रेम प्रियासु गुह्यमविनीतेषु विसर्पितं कीर्तिमतां च लोके साधुजन्म । कस्मात् ।
न जातिधर्मः पुरुषस्य साधुता
चरित्रमूलानि यशांसि देहिनाम् ।
अकीर्तिरापच्छतजालकर्षणी
कृतघ्नमन्वेति परत्र चेह च ॥ १६६ ॥
यच्चाजस्रं परार्ध्यगुणपरोऽसि तदपि त्वां प्रकृतिराकर्षति । कथम्
प्रायेणेह कुलान्वितं कुकुलजाः स्त्रीवल्लभं दुर्भगा
दातारं कृपणा ऋजूननृजवस्तेजस्विनं पूतराः ।
वैरूप्योपहताश्च कान्तवपुषं सौख्यस्थितं दुःस्थिता
नानाशास्त्रविशारदं च पुरुषं निन्दन्ति मूर्खाः सदा ॥ १६७ ॥
अथवा
तस्योपदेशः सफलः सकृदुक्तं हि वेत्ति यः ।
त्वं तु पाषाणनिश्चेष्ट उपदेशेन किं तव ॥ १६८ ॥
किं च मूर्ख त्वया सह संवासोऽपि न श्रेयान् । अन्यथा कदाचित्त्वत्संप- र्कादस्माकमप्यनर्थः स्यात् । उक्तं च
लभते पुरुषास्तांस्तान् गुणदोषान् साध्वसाधुसंपर्कात् ।
नानादेशविचारी पवन इव शुभाशुभान् गन्धान् ॥ १६९ ॥
पैशुन्यमात्रकुशलः सौहार्दस्य विनाशकः ।
प्रमाणं त्वादृशो यत्र तत्कार्यं न शुभं भवेत् ॥ १७० ॥
अपि च पिशुनानां न किंचित्स्वार्थमुपपद्यते विनाशादृते । अन्त्या- स्वप्यवस्थासु नैवाकार्यं व्यवस्यन्ति साधवः कर्तुम् । तथा हि
यदकार्यमकार्यमेव त-
न्न बुधस्तत्र मतिं प्रयोजयेत् ।
परयापि तृषा प्रबाधितै-
र्न हि रथ्यागतमम्बु पीयते ॥ १७१ ॥
इत्युक्त्वा तत्सकाशादपेतः करटकः । अथ पिङ्गलकः संजीवकं व्यापाद्य प्रशान्तकोपोऽसृग्दिग्धं पाणिं प्रमृज्यातिशोकार्तः संनिःश्वस्य सपश्चात्तापमिदमब्रवीत् । कष्टं महदिदमकृत्यं मया कृतं द्वितीयमिव शरीरं संजीवकं व्यापादयता । उक्तं च
भूम्येकदेशस्य गुणान्वितस्य
भृत्यस्य वा बुद्धिमतः प्रणाशे ।
भृत्यप्रणाशो मरणं नृपाणां
नष्टापि भूमिः सुलभा न भृत्याः ॥ १७२ ॥
तं चैवमधृतिपरीतं प्रलपन्तं पिङ्गलकं दृष्ट्वा शनैरुपश्लिष्य दमनकोऽ- ब्रवीत् । कतर एष न्यायो नयो वा यत् सपत्नं हत्वाधृतिः क्रियते । उक्तं च
पिता वा यदि वा भ्राता पुत्रो वा यदि वा सुहृत् ।
प्राणद्रोहकरा राज्ञा हन्तव्या भूतिमिच्छता ॥ १७३ ॥
राजा घृणी ब्राह्मणः सर्वभक्षः
स्त्री चावशा दुष्प्रकृतिः सहायः ।
प्रेष्यः प्रतीपोऽधिकृतः प्रमादी
त्याज्या अमी यश्च कृतं न वेत्ति ॥ १७४ ॥
गच्छ दूरमपि यत्र नन्दसि
पृच्छ बालमपि पण्डितं जनम् ।
देहि देहमपि याचितोऽर्थिने
छिन्धि बाहुमपि दुष्टमात्मनः ॥ १७५ ॥
न चायं धर्मो राज्ञां यः किल प्राकृतपुरुषाणां साधारणः । उक्तं च
न मनुष्यप्रकृतिना शक्यं राज्यं प्रशासितुम् ।
ये हि दोषा मनुष्याणां एव नृपतेर्गुणाः ॥ १७६ ॥
अपि च
सत्यानृता च परुषा प्रियवादिनी च
हिंस्रा दयालुरपि चार्थपरा वदान्या ।
नित्यव्यया प्रचुरचित्रधनागमा च
वेश्याङ्गनेव नृपतिनीतिरनेकरूपा ॥ १७७ ॥
इति दमनकेन परितोषितः स्वां प्रकृतिमापन्नः पिङ्गलकः पूर्ववद्दमनक- साचिव्येन राज्यसुखमनुभवन्नास्ते । इति मित्रभेदं नाम प्रथमं तन्त्रं समाप्तम् ।
अथ मित्रप्राप्तिर्नाम द्वितीयं तन्त्रम् । अथेदमारभ्यते मित्रप्राप्तिर्नाम द्वितीयं तन्त्रम् । यस्यायमाद्यः श्लोकः ।
असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः ।
साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥ १ ॥
राजपुत्रा ऊचुः । कथमेतत् । विष्णुशर्मा कथयति । अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे महान् स्कन्धशाखोपचितः शाल्मलिवृक्षः । तत्र नानादिग्देशादागत्य रात्रौ पक्षिणो निवसन्ति । तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित् प्रातःसमय आहारार्थ- मुच्चलित उग्ररूपं स्फुटितकरचरणमतिपरुषशरीरं जालहस्तं सलगुडं द्वितीयमिव कालं पक्षिबन्धव्याधं तद्वृक्षाभ्याशमुपगतमपश्यत् । तं दृष्ट्वा शङ्कितमना अचिन्तयत् । किमयं दुरात्मा चिकीर्षति । किं ममैवानर्थायाहोस्वित् कश्चिदन्यो- ऽस्याध्यवसायः । इति पश्यन्नवस्थितः । असावपि लुब्धकस्तत्र वृक्ष आगत्य जालं वितत्य धान्यकणानवकीर्य नातिदूरे निभृतमवस्थितः । अथ तत्र चित्र- ग्रीवो नाम कपोतराजः कपोतसहस्रपरिवारो नभसि परिभ्रमंस्तान् कणानपश्यत् प्रलोभितमतिराहारनिमित्तं जालमपतत् सपरिवारो निःशेषं स्नायुपाशैर्बद्धश्च । लुब्धकोऽपि तं दृष्ट्वा प्रहृष्टमना लगुडमुद्यम्याधावत् । चित्रग्रीवोऽपि स्वानु- चरानितश्चेतश्च परिभ्रमतो दृष्ट्वा तैर्विचित्रचञ्चुचरणैराकृष्यमाणे जाले तानब्र- वीत् । अपाय एष महानस्माकमापतितः । एक एवात्रोपायः । सर्वैरप्येकचित्त- र्भूत्वा खमुत्पत्य सुदूरं गम्यताम् । अन्यथाशक्यं जालमपहर्तुमिति । तथा च तैर्जीवितार्थिभिरनुष्ठितम् । जालमपहृत्येषुक्षेपमात्रं नभसो मार्गमुत्सृज्य वियति प्रस्थिताः । लुब्धकोऽपि जालं पक्षिभिर्नीयमानं दृष्ट्वाभूतपूर्वमिदमिति चिन्तय- न्नूर्ध्वाननो धावन्नेवमवधारयामास ।
संहतास्तु हरन्तीमे मम जालं विहंगमाः ।
यदा तु विवदिष्यन्ति वशमेष्यन्ति मे तदा ॥ २ ॥
चित्रग्रीवोऽपि तं क्रूरमनुयान्तं दृष्ट्वा शीघ्रं गन्तुमारब्धः । लघुपतनको- ऽप्याहारचिन्तामुत्सृज्य कौतुकात् कपोतवृन्दमेवानुगतश्चिन्तयति । कथमयं
दुरात्मा कपोतान् प्रति करिष्यतीति । चित्रग्रीवोऽपि तदभिप्रायं ज्ञात्वा सहाया- नाह । अयं दुरात्मा बद्धाशोऽनुधावति लुब्धकः । अतोऽस्माकमदर्शनमेव श्रेयः । सुदूरमुत्पत्य गिरितरुविषमभूभागानामुपरि गम्यतामिति । अथान्तर्हिता जालं गृहीत्वा पक्षिणः । अथ लुब्धकोऽपि तान् दृष्टेरगोचरतां गतान् विज्ञाय निराशः प्रतिनिवृत्तः । चित्रग्रीवोऽपि तं प्रतिनिवृत्तं दृष्ट्वा तानब्रवीत् । भो निवृत्तः स दुरात्मा लुब्धकः । तदस्माकमपि प्रतिनिवृत्य गन्तुं श्रेयो महिलारोप्यमेव । तत्र प्रागुत्तरदिग्भागे मम प्रियसुहृद्धिरण्यको नाम मूषकः प्रतिवसति । तत्सकाशम- विलम्बितं गच्छामः । सोऽस्माकं पाशांश्छेत्स्यति समर्थश्चायमापद्विमोक्षणायेति । तथेति ते हिरण्यकबिलसमीपं प्राप्य संनिपतिताः । हिरण्यकोऽपि नीतिज्ञोऽपाय- शङ्कया शतमुखबिलं कृत्वा तत्र निवसति । पक्षिपातचकितहृदयो हिरण्यको निभृतमवस्थितः । चित्रग्रीवोऽपि बिलमुखमारोप्यैवमाह। भद्र हिरण्यक । इत- स्तावदिति । तच्च श्रुत्वा बिलदुर्गान्तर्गत एव हिरण्यकोऽब्रवीत्। को भवा- निति । असावप्याह । चित्रग्रीवोऽहं तव सुहृदिति । सोऽपि तदाकर्ण्य पुल- किततनुः प्रहृष्टात्मा ससंभ्रमं निर्गत्य चित्रग्रीवं सपरिवारं पाशबद्धमालोक्य सविषादमाह । भद्र किमिदम् । कथय कथयेति । स आह । भद्र विद्वानसि किमनेन पृष्टेन । उक्तं च
यस्माच्च येन च यदा च यथा च यच्च
यावच्च यत्र च शुभाशुभमात्मकर्म ।
तस्माच्च तेन च तदा च तथा च तच्च
तावच्च तत्र च कृतान्तवशादुपैति ॥ ३ ॥
हिरण्यक आह । एवमेतत् ।
सदशाद्योजनशतात् पश्यतीहामिषं खगः ।
स एव काले संप्राप्ते पाशबन्धं न पश्यति ॥ ४ ॥
शशिदिवाकरयोर्ग्रहपीडनं
गजभुजङ्गमयोरपि बन्धनम् ।
मतिमतां च निरीक्ष्य दरिद्रतां
विधिरहो बलवानिति मे मतिः ॥ ५ ॥
व्योमैकान्तविहारिणोऽपि विहगाः संप्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाधसलिलान् मीनाः समुद्रावपि ।
दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥ ६ ॥ एवमुक्त्वा हिरण्यकश्चित्रग्रीवस्य पाशं छेत्तुमारब्धः । चित्रग्रीव आह । भद्र मैवं कुरु । प्रथमं मम परिजनस्य पाशाश्छिद्यन्तां तदनु ममापि च । एवं द्वितीय तृतीये हिरण्यकः कुपितोऽब्रवीत् । भद्र कथं स्वव्यसनोपेक्षां कृत्वा परस्य व्यसनमोक्षः क्रियत इति । सोऽब्रवीत् । भद्र न मन्युः कार्यः । अन्यानपि परित्यज्य ममाश्रिता एते सर्वे वराकाः । तत्कथमेतावन्मात्रमपि संमानं न करोमि । तद्यावयं भवान् मम पाशं न छिनत्ति तावदश्रान्तमेषां छेत्स्यसि । आदौ च मम छिन्ने कदाचिद्भवाञ्छ्रममियात् । तच्चासाधु । यत एवं मयाभिहितम् । तच्छ्रुत्वा प्रहृष्टो हिरण्यकः प्राह । मया तव परीक्षेयं कृता ॥ साध्वाश्रयणीयगुणोपेतोऽसि ।
कारुण्यं संविभागच यथा भृत्यपु लक्ष्यते ।
चित्तेनानेन ते शक्या त्रैलोक्यस्यापि नाथता ॥ ७ ॥
एवमुक्त्वा सर्वेषां पाशछेदः कृतः । मुक्तबन्धनस्तु चिलग्रीवो हिरण्य- कमापृच्छ्य संप्रेषित उत्पत्य सपरिवारः स्वाश्रयं ययौ । हिरण्यकोऽपि स्वं दुर्गं प्रविष्टः । लघुपतनकोऽपि सर्वं तं चित्रग्रीवबन्धमोक्षं विलोक्य साश्चर्यं व्यचिन्तयत् । अहो बुद्धिरस्य हिरण्यकस्य शक्तिश्च दुर्गस्य सामग्री च । तन्ममापि युक्तं हिरण्यकेन सह चित्रग्रीववत् प्रीतिकरणम् । येनास्माकमपी- दृशानि पाशबन्धनव्यसनान्युत्पद्यन्त इति । एवं संप्रधार्य तस्मात्पादपाद- वतीर्य बिलद्वारमाश्रित्य पूर्वोपलब्धनामानं हिरण्यकं समाहूतवान् । भद्र हिरण्यक इतस्तावदिति । तच्छ्रुत्वा हिरण्यको व्यचिन्तयत् । किमन्योऽपि कश्चित् सावशेषबन्धनः कपोतोऽवतिष्ठते यो मां व्याहरति । आह च । भोः को भवान् । स आह । लघुपतनको नाम वायसोऽहम् । तच्छ्रुत्वा हिरण्य- कोऽभ्यन्तरात्तं दरीद्वारगतं वायसं दृष्ट्वाब्रवीत् । अपगम्यतामस्मात् स्थाना- दिति । वायसोऽब्रवीत् । अहं चित्रग्रीवमोक्षणं त्वत्सकाशाद्दृष्ट्वा त्वया सह मित्रत्वमिच्छामि । तत् कदाचिन्ममापीदृग्व्यसने जाते तव पार्श्वान्मुक्ति- र्भवति । तन्मामवश्यं मैत्र्येणानुग्रहीतुमर्हति भवान् । हिरण्यको विहस्याह । का त्वया सह मम मैत्री ।
यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत् ।
नोदके शकटं याति न नावा गम्यते स्थले ॥ ८ ॥
यद्येन युज्यते लोके बुधस्तत्तेन योजयेत् ।
अहमन्नं भवान् भोक्ता कथं प्रीतिर्भविष्यति ॥ ९॥
वायस आह ।
भक्षितेनापि भवता नाहारो मम पुष्कलः ।
त्वयि जीवति जीवेयं चित्रग्रीव इवानघः ॥ १० ॥
तेन हि न युक्तं प्रार्थयमाने मयि भवतोऽनादरं कर्तुम् ।
तिरश्चामपि विश्वासो दृष्टः समयनिश्चयः ।
सतां हि साधुशीलत्वात्त्वच्चित्रग्रीवयोरिव ॥ ११ ॥
साधोः प्रकुपितस्यापि न मनो याति विक्रियाम् ।
न हि तापयितुं शक्यं समुद्राम्भस्तृणोल्कया ॥ १२ ॥
गुणा अनुक्ता अपि ते स्वयं यान्ति प्रकाशताम् ।
छाद्यमानापि सौगन्ध्यमुद्वमत्येव मालती ॥ १३ ॥
तच्छ्रुत्वा हिरण्यकोऽब्रवीत् । भद्र स्वभावचपलस्त्वम् । उक्तं च
आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति ।
तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम् ॥ १४ ॥
तदपगम्यतामस्माद्दुर्गोपरोधस्थानादिति । सोऽब्रवीत् भद्र चपलो न चपल इति किमनेन निष्ठुरवचनेन । निश्चयोऽयं मया तावद्भवद्गुणाकृष्टेन त्वया सह मैत्र्यमवश्यं कर्तव्यमिति । हिरण्यक आह । भोस्त्वया वैरिणा सह कथं मैत्रीं करोमि । उक्तं च
शत्रुणा न हि संदध्यात् सुश्लिष्टेनापि संधिना ।
सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ १५ ॥
वायस आह । भोस्त्वया सह मम दर्शनमपि नास्ति कुतो वैरम् । तत्किमनुचितं वदसि । ततो विहस्य हिरण्यकोऽब्रवीत् । भद्र । इह तावल्लोके द्वे वैरे शास्त्रदृष्टे सहजं कृत्रिमं च । तत्सहजवैरी त्वमस्माकम् । वायस आह । भो द्विविधस्यापि वैरस्य लक्षणं श्रोतुमिच्छामि। तत्कथ्यताम् । स आह । भोः कारणेन निर्वृत्तं कृत्रिमम् । तत्तदर्होपकारकरणाद्गच्छति । स्वाभावि- कं च पुनः कथमपि नापगच्छति। तच्च स्वाभाविकं वैरं द्विविधं भवत्येकाङ्गवै-
रमुभयवैरं च । वायस आह । कस्तयोर्विशेषः । सोऽब्रवीत् । यो विहन्यात्पर- स्परमन्योन्येन भक्ष्यते परस्परापकारात्तदुभयवैरं यथा सिंहगजानाम् । यः पूर्वमेव हत्वा भक्षयति न चासौ तस्यापकरोति न हिनस्ति न भक्षयति । तदेकाङ्गवैरमकस्माद्यथाश्वमहिषाणां मार्जारमूषकाणामहिनकुलानाम् । किमश्वो महिषस्य सर्पो वा बभ्रोर्मूषको वा मार्जारस्यापकरोति । तत्सर्वथा किमशक्येन समयकारणेन । अपि च
सुहृदयमिति दुर्जनेऽस्ति काशा
बहु कृतमस्य मयेति लुप्तमेतत् ।
स्वजन इति पुराण एष शब्दो
धनलवमात्रनिबन्धनो हि लोकः ॥ १६ ॥
अन्यच्च
इष्टो वा बहुसुकृतोपलालितो वा
श्लिष्टो वा व्यसनशताभिरक्षितो वा ।
दौःशील्याज्जनयति नैव जात्वसाधु-
र्विस्रम्भं भुजग इवाङ्कमध्यसुप्तः ॥ १७ ॥
महताप्यर्थसारेण यो विश्वसिति शत्रुषु ।
भार्यासु च विरक्तासु तदन्तं तस्य जीवितम् ॥ १८ ॥
सकृद्दुष्टं तु यो मित्रं पुनः संधातुमिच्छति ।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ १९ ॥
अपराधो न मेऽस्तीति नैतद्विश्वासकारणम्।
विद्यते हि नृशंसभ्यो भयं गुणवतामपि ॥ २० ॥
वायस आह । श्रुतं मयैतत् । तथापि सर्वात्मना त्वया सह मैत्रीं करिष्यामि । शक्यं चैतत् । तथाहि ।
द्रवत्वात्सर्वलोहानां निमित्तान् मृगपक्षिणाम् ।
भयाल्लोभाच्च मूर्खाणां संगतं दर्शनात्सताम् ॥ २१ ॥
किंच
मृद्घटवत्सुखभेद्यो दुःसंधानश्च दुर्जनो भवति ।
सुजनस्तु कनकघटवद्दुर्भेद्यः संधनीयश्च ॥ २२ ॥
एतैर्गुणैरुपेतो भवदन्यः को मया प्राप्तव्यः । तथा त्वया समयो मे
युक्त एव स्यात् । नो चेदनाहारेणात्मानं तव द्वारि व्यापादयिष्यामि । तच्छ्रुत्वा हिरण्यकोऽब्रवीत् । प्रत्यायितोऽहं भवता । तद्भवतु भवतोऽभिमतम् । परं मया त्वद्बुद्धिपरीक्षणार्थमेतदभिहितं यथा यद्येवं मां विनाशयसि मा किल भवान् मंस्यतेऽज्ञोऽयं मया बुद्धिकौशलेनाभिहित इति । यत एतन्मया भवतः प्रदर्शित- मधुना त्वदङ्कगतं मे शिरः । एवमुक्त्वा निर्गन्तुमारब्धः । ईषच्चार्धनिर्गतः पुन- रेवावस्थितः । ततो वायसेनाभिहितः । भद्र किमद्यापि ममोपरि किचिदविश्वास- कारणं यद्दुर्गान्न निर्गच्छसि । सोऽब्रवीत् । अस्ति किंचिद्वक्तव्यम् । इह हि चित्तवित्ताभ्यां लोको यापयति । तयोर्वैरम् । चित्तसंगमं वृद्धये न पुनर्वित्तम् । प्रभूतानपि विनाशाय कश्चिल्लावकेभ्यस्तिलान् प्रयच्छति । किमसावुपकाराय न मूलोच्छित्तये ।
नोपकारः सुहृच्चिह्नं नापकारोऽरिलक्षणम् ।
प्रदुष्टमप्रदुष्टं वा चित्तमेवात्र कारणम् ॥ २३ ॥
नाहमुपलब्धचित्तस्त्वत्तो बिभमि । किं तु त्वदीयान्यमित्रपार्श्वात् कदा- चिन्मम विश्वस्तस्य विनाशः स्यादिति । अथासावाह ।
गुणवन्मित्रनाशेन यन्मित्रमुपलभ्यते ।
शालिस्तम्बविरोद्धारं श्यामाकमिव तत्त्यजेत् ॥ २४ ॥
तच्च श्रुत्वा सत्वरं निर्गत्य सादरं परस्परं समागतौ ।
प्रीति निरन्तरां कृत्वा दुर्भेदां नखमांसवत् ।
मूषको वायसश्चैव गतावेकारिमित्रताम् ॥ २५ ॥
सुमुहूर्तं च स्थित्वा हिरण्यको वायसं संभोज्य विसृज्य गृहं प्रविष्टः । वायसोऽपि स्वस्थानं गतः । लघुपतनकोऽपि किंचिद्वनगहनमनुप्रविश्य शार्दूल- व्यापादितमेकं वनमहिषं दृष्ट्वा तत्र प्रकाममाहारं कृत्वा मांसपेशीमादाय हिरण्य- कांतिकमेवागतस्तं चाहूतवान् । एह्येहि भद्र हिरण्यक भक्ष्यतामिदं मयोपनीतं मांसमिति । तस्यापि च कृते तेन हिरण्यकेनादृतेन भूत्वा श्यामाकतण्डुलानां निस्तुषाणां सुमहान् पुञ्जः कृतः । आह च । सखे भक्ष्यन्तामिमे स्वसामर्थ्येन मयोपनीतास्तण्डुला इति । ततस्तौ च परस्परं सुतृप्तावपि स्नेहसूचनार्थं भक्षित- वन्तौ प्रतिदिनं च तयोः कुशलप्रश्नैर्विश्रम्भालापैश्च लोकातीतस्नेहपुरःसरः कालोऽतिवर्तते । अथ कदाचिद्वायसः समागत्य हिरण्यकमाह । भद्र हिरण्यक
अहमस्मात्स्थानादन्यत्स्थानं गच्छामि । सोऽब्रवीत् । वयस्य किं निमित्तम् । असा- वकथयत् । निर्वेदात् । हिरण्यक आह । कस्ते निर्वेदः । स आह । प्रतिदिनं मे चञ्चुभरणमुत्पद्यते सततं दृष्टपाशबन्धनप्रत्यवायाः पतत्रिणो वित्रस्यन्ते । तद- लमीदृशेन प्राणधारणेन । हिरण्यक आह्व । तर्हि क्व यास्यसि । स आह । अस्तीतोऽविदूरे वनगहनमध्ये महासरः । तत्र चिरोपार्जितं मम प्रियमित्रं मन्थ- रको नाम कच्छपः प्रतिवसति । स च मत्स्याद्याहारविशेषेण मां संवर्धयिष्यति । तेन सह कालमनुद्वेगेन सुखं यापयिष्यामि । तच्छ्रुत्वा हिरण्यक आह । अह- मपि भवता सहागमिष्यामि । ममापीह निर्वेदोऽस्ति । वायस आह । किं भव- तोऽपि निर्वेदस्य कारणम् । हिरण्यक आह । भो बहुवक्तव्यमस्ति तत्रैव गत्वा ते सर्वं कथयिष्यामीति वचनसमकालमेव वायसश्चञ्च्वा मित्रं गृहीत्वा तं ह्रदं विपुलं प्राप्तवान् । अथ मूषकेण सह वायसमायान्तं दूराद्दृष्ट्वा मन्थरको देशका- लवित् कोऽयमिति विचिन्त्यात्मशङ्कया पुलिनादुत्प्लुत्याम्भसि निमग्नः । लघु- पतनकोप्युदकसंघट्टक्षुभितहृदयः किमिदमिति वितर्क्य हिरण्यकं पुनः पुलिनेऽ- वस्थाप्य विपुलं वृक्षमधिरूढो जिज्ञासुः । तत्रस्थश्चाब्रवीत् । भो मन्थरक । आगच्छागच्छ तव मित्रमहं लघुपतनको नाम वायसश्चिरात्सोत्कण्ठः समायातः । तदागत्यालिङ्ग्य माम् । तच्छ्रुत्वा निपुणतरं परिज्ञाय पुलकिततनुरानन्दाश्रुप्लु- तनयनः सत्वरं सलिलान्निष्क्रम्य न मया परिज्ञातोऽसीति ममापराधः क्षम्यता- मिति ब्रुवन् मन्थरको वृक्षोत्तीर्णं लघुपतनकमालिङ्गितवान् । ततश्च तेन तयोः सहर्षमातिथ्यं कृत्वा वायसः पृष्टः । वयस्य कुतस्त्वं कथं भवान् मूषकं गृहीत्वा निर्जनं वनमागतः । कश्चायं मूषकः । वायस आह । वयस्य अयं हिरण्यको नाम मूषकः । यस्य जिह्वासहस्रं स्यात् सोऽस्य दीर्घायुषो गुणविस्तरं यथाव- स्थितं ब्रूयात् । साधु चेदमुच्यते ।
आजीवितान्ताः प्रणयाः कोपाश्च क्षणभङ्गुराः ।
परित्यागाश्च निःसङ्गा न भवन्ति महात्मनाम् ॥ २६ ॥
इत्युक्त्वा यथावृत्तं तस्मै चित्रग्रीवमोक्षणमाख्यातवानात्मनश्च तेन सह संगतम् । मन्थरकोऽपि हिरण्यकगुणमाहात्म्यश्रवणविस्मितो हिरण्यकमपृच्छत् । अथ केन निर्वेदेन केन वा परिभवकारणेन स्वदेशमित्रबन्धुकलत्रादिपरित्यागो भवता व्यवसित इति । वायस आह । मयाप्ययं तदेवादौ पृष्ट आसीत् परमनेना-
भिहितं यद्बहु वक्तव्यमस्ति तत्रैव गतः कथयिष्यामि । ममापि न निवेदितम् । तद्भद्र हिरण्यक । इदानीं निवेद्यतामुभयोरप्यावयोस्तदात्मनो वैराग्यकारणम् । अथ हिरण्यकोऽकथयत् । अथ मूषक परिव्राट्कथा नाम प्रथमा कथा । अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे परिव्राजकावसथः । तत्र चूडाकर्णो नाम परिव्राट् प्रतिवसति स्म । स च भिक्षा- वेलायां तस्मान्नगरात् सखण्डगुडदाडिमगर्भाणां स्निग्धद्रव्यपेशलानामन्नविशेषाणां मिक्षाभाजनं परिपूर्णं कृत्वा तमावसथमवगम्य यथाविधि प्राणयात्रां कृत्वा तत्र भोजनशेषं मिक्षान्नं भिक्षापात्रे सुगुप्तं स्थापयित्वा प्रात्यूषिकपरिचारकार्थं तद्भिक्षापात्रं नागदन्तके विलम्ब्य रात्रौ स्वपिति । अहं च तदन्नमुत्प्लुत्य प्रत्यहं भक्षयामि सपरिजनस्तेन प्रवर्ते । एवं सुप्रयत्नमवस्थापितेऽपि तस्मिन्मया भक्षमाणे स परिव्राड् निर्विण्णो मत्प्रतिभयात् स्थानात् स्थानमुच्चैस्तरं परिसंक्र- मयति । तथापि तदहमनायासेनैव प्राप्नोमि भक्षयामि च । अथैवं गच्छति काले कदाचित् तस्य प्रियसुहृद् बृहत्स्फिग्नाम परिव्राजको प्राघूर्णकः समा- यातः । स चूडाकर्णस्तस्य स्वागतापचारं कृत्वा कृतयथोचितव्रतकालस्ततो रात्रौ खट्वासीनः शयनगतं बृहत्स्फिजमपृच्छत् । भवान् यतो मया वियुक्तस्तत आरभ्य केषु देशान्तरेषु तपोवनेषु वा परिभ्रान्त इति । असावकथयत् । अथ कदाचिदहं महाकार्तिक्यां महातीर्थवरे पुष्करे स्नानं कृत्वा महतो जन- समूहदोषाद्भवता वियुक्तः । ततोऽहं गङ्गाद्वारप्रयागवाराणस्यादिष्वनुकूलप्रति- कूलां जाह्नवीमनुपर्यटन् किंबहुना कृत्स्नं महीमण्डलं समुद्रपर्यन्तमवलोकितवान् । अर्धाख्याते च तस्मिंश्चूडाकर्णो मम त्रासार्थं मुहुर्मुहुर्जर्जरवंशेन भिक्षापात्रं ताडयन्नवादयत् । कथ्यमानविघ्ने च क्रियमाणे कुपितो बृहत्स्फिगुवाच। अह- मादृतो भूत्वा भवतः कथयामि किमिति भवाननादरो गर्वित इव मम कथायां विरक्तोऽन्यासक्तः । चूडाकर्णो लज्जित आह । भद्र न मन्युः कर- णीयो नाहं विरक्तः । किं तु पश्यायं मूषको मम महापकारी सदा प्रोन्नतस्थाने धृतमपि भिक्षापात्रमुत्प्लुत्यारोहति भिक्षाशेषं च तत्रस्थं भक्ष- यति न चाहमेनं शक्नोमि निवारयितुम् । तन्मूषकत्रासार्थमेतेन जर्जरेण भिक्षापात्रं मुहुर्मुहुस्ताडयामि। नान्यत् कारणमिति । सोऽब्रवीत् । किमेष
एककोऽत्र मूषक उतान्येऽपि मूषकाः । सोऽब्रवीत् । किमन्यैर्मूषकैः । एकोऽयं मां दुष्टो योगीवाजस्रं छलयति । तच्छ्रुत्वासावाह । न मूषकमात्रस्येदृशी शक्तिर्भवति । किं तर्हि कारणेनात्र भवितव्यम् । उक्तं च
नाकस्माच्छाण्डिली माता विक्रीणाति तिलैस्तिलान् ।
लुञ्चिताँल्लुञ्चितैरेव कार्यमत्र भविष्यति ॥ २७ ॥
चूडाकर्ण आह । कथं चैतत् । स आह । अथ लुञ्चिततिलकथा नाम द्वितीया कथा । अहं कदाचिदभ्यर्णासु वर्षासु कस्मिंश्चिदधिष्ठाने स्थितिग्रहणनिमित्तं कंचिद्ब्राह्मणमावासार्थं प्रार्थितवांस्तस्य च गृहेऽहं स्थितः । अथान्यस्मिन्नहनि प्रत्यूषे प्रबुद्धोऽहं जालकान्तरितयोर्ब्राह्मणब्राह्मण्योः संवादं दत्तावधानः शृणोमि । तत्र ब्राह्मणः प्राह । ब्राह्मणि श्वः पर्वकालो भविता । तत्र त्वया यथाशक्ति ब्राह्मणभोजनं कर्तव्यमिति । असावाह बहुपरुषाक्षरया गिरा। कुतस्ते ब्राह्म- णभोजनस्य शक्तिरत्यन्तदरिद्रस्येति । एवमुक्तोऽसौ कूपे प्रक्षिप्त इव न वचः किंचिदवोचत् । पुनरपि चिरादब्रवीत् । ब्राह्मणि नैतद्युज्यते वक्तुम् । दरिद्रैरपि स्वल्पाल्पेतरमपि समये पात्रे देयम् । उक्तं च
कर्तव्यः संचयो नित्यं न तु कार्योऽतिसंचयः ।
अतिसंचयशीलोऽयं धनुषा जम्बुको हतः ॥ २८ ॥
साब्रवीत् । कथं चैतत् । सोऽब्रवीत् । अथातिलुब्धशृगालकथा नाम तृतीया कथा । अस्ति कस्मिंश्चिदधिष्ठाने मांसवृत्तिर्व्याधः । स चैकदा प्रत्युषस्युत्थाय यन्त्रितसायको वने पापर्द्धिं कर्तुं प्रस्थितः । शीघ्रमेव मृगमेकं व्यापाद्य मांसमा- दाय प्रत्यागच्छन् महति तीर्थावतारेऽवतरन् महिषशावतुल्यमुद्धृतविषाणं कर्द- मपिण्डावलिप्तगात्रं सूकरमपश्यत् । तं दृष्ट्वाशुभनिमित्तप्रचोदितो भयमागतः प्रतिनिवृत्य च प्रतिबद्धगतिः सूकरेण मृगमांसं संकोचितकं भूमौ प्रक्षिप्य धनुरा- कृष्य तस्मै विषदिग्धमिषुं प्राहिणोज्जत्रुस्थाने विद्ध्वा परपार्श्वगतं च कृतवान् । सूकरेणापि प्रहारमूर्छितेनोत्तमं जवमास्थायावस्करप्रदेशे तथाभ्याहतो येन गता- सुस्त्रिधागतशरीरो भूतले निपतितः । अथ लुब्धकं व्यापाद्य सूकरोऽपि शरप्र-
हारवेदनया पञ्चत्वं गतः । अथानन्तरं क्षुत्क्षामकुक्षिर्दीर्घरावो नाम जम्बुक आहारार्थी परिभ्रमंस्तमुद्देशमागतस्तान् मृतान् मृगव्याधसूकरानपश्यत् । तांश्च दृष्ट्वा प्रहृष्टो व्यचिन्तयत् । भोः । अनुकूलो मे विधिः । तेनैतच्चिन्तितं भोजनं समुपस्थितम् । तदहं तथा भक्षयामि यथा बहून्यहानि मे प्राणयात्रा भवति ।
नान्नपानानि सततमुत्पद्यन्ते हि देहिनाम् ।
लब्ध्वा प्रभूतमन्नाद्यं क्रमशस्तूपयोजयेत् ॥ २९ ॥
तत्तावन् मृगसूकरव्याधान् कूटीकृत्यैनं स्नायुपाशं धनुष्कोटिगतं भक्ष- यामि । एवमुक्त्वा धनुष्प्रतिबन्धं मुखे प्रक्षिप्य स्नायुं भक्षयितुमारब्धः । ततश्च छिन्ने प्रतिबन्धे धनुषा तालुप्रदेशे निर्भिन्नः पञ्चत्वमुपगतः । इति तृतीया कथा समाप्ता । अतोऽहं ब्रवीमि । कर्तव्यः संचयो नित्यमिति । तच्च श्रुत्वा ब्राह्मण्याह । यद्येवं तदस्ति मे तिलस्तोकं तण्डुलस्तोकं च । स त्वं प्रत्युषस्युत्थाय समित्कुशा- द्यानयनार्थं वनं गच्छ । अहमपि सहानेन शिष्येण कामन्दकिना ब्राह्मणत्रयस्य साधयिष्यामि कृसरमिति । ततः प्रभाते तया ते तिला लुञ्चित्वा कामन्दकि- नाधिष्ठिताः परिपालयेति सूर्यातप आस्थापिताः । अत्रान्तरे तस्या गृहकर्मव्य- ग्रत्वात् तस्मिन्ननवहिते ते तिलाः शुनागत्य प्राश्य विट्टालिताः । तद्दृष्ट्वा साब्र- वीत् । कामन्दके न शोभनमापतितम् । विघ्नमुत्पन्नं ब्राह्मणतर्पणस्य । तथापि गच्छेमांस्तिलाँल्लुञ्चितानपि कृष्णतिलैः परावर्तयित्वा शीघ्रमागच्छ । कृष्णकृ- सरमेव करिष्यामि । तथा चानुष्ठिते यस्मिन्नेव गृहेऽहं भिक्षार्थमुपगतस्तस्मि- न्नेव गृहे कामन्दकिरपि तिलविक्रयार्थमनुप्रविष्टोऽकथयत् । गृह्यन्तामिमे तिलाः । परिवर्तमाने व्यवहारे गृहपतिः समायातः । तेनाभिहितम् । कथं तिलाः परि- वर्त्यन्ते । सा तमाह । समार्घास्तिला मया लब्धाः शुक्लाः कृष्णैः । ततोऽसौ विहस्याब्रवीत् । कारणेनात्र भवितव्यम् । अतोऽहं ब्रवीमि । नाकस्माच्छा- ण्डिली माता । इति । इति द्वितीया कथा समाप्ता । एवमाख्यायाब्रवीत् परिव्राट् । चूडाकर्ण । अत्राप्यनिवारितशक्तेर्मूषकस्य
भिक्षाभक्षणे केनापि कारणेन भवितव्यम् । अस्ति किंचित् खनित्रकमिति । स आह । बाढमस्ति । एषा सुहस्तिका सर्वलोहमयी । उपनीते च तस्मिन् कक्ष्यां बद्ध्वा संदष्टौष्ठपुटः पृष्टवान् । कतरस्तस्य संचरणमार्ग इति । आख्याते च तस्मिं- स्तेन खनित्रेण मद्विवरं खनितुमारब्धः । अहं चादावेव तयोरात्मगतमालापं श्रुत्वा- हारमुत्सृज्य कौतुकपरोऽवस्थित आसम् । यदा त्वसौ दुर्गान्वेषणं कर्तुमारब्ध- स्तदा मया ज्ञातम् । उपलब्धमनेन दुरात्मना मदीयविवरद्वारमिति । मयापि केनापि साधुना पूर्वस्थापितं सुवर्णमाप्तमासीत् । तत्प्राधान्याच्चाहं शक्तिम- न्तमात्मानं मन्ये । असावपि दुष्टो विवरानुसारात्तदुपलभ्य गृहीत्वा च धनं पुनरावसथं प्राप्तश्चूडाकर्णमब्रवीत् । इदं तस्य तद्ब्रह्मन् सुवर्णं हृदयस्याप्यसौ सामर्थ्यादशक्यमपि स्थानमुत्पतति । अर्धार्धं च विभज्य सुखासीनौ स्थितौ । तं चाहमात्मनोऽवसादं प्राप्याचिन्तयम् । कदाचिदिहस्थस्य मे प्रदीपमुज्ज्वाल्या- संशयमासाद्य मां हन्युः । इति तस्मात् स्थानादन्यद्दुर्गस्थानं कृतवान् । अन्ये च ये ममानुचरास्त आगत्य मामब्रुवन् । भद्र हिरण्यक त्वत्समीपवर्तिनो वय- मत्यन्त क्षुधार्ताः । ग्रासमात्रमप्यस्माकं नास्ति । अस्तंगतेऽपि दिवसे न किंचि- दस्माभिरासादितम् । तदर्हस्यद्यापि तावदस्मान् संतर्पयितुमिति । तथा नामेत्यु- क्त्वाहमावसथं तैः समं गतः । अथास्मत्परिग्रहशब्दमाकर्ण्य चूडाकर्णोऽपि भूयो भिक्षापालं जर्जरवंशेन ताडयितुं प्रवृत्तः । तेनाभिहितः । किमद्यापि निराकृते तस्मिन् मुहुर्मुहुश्चालयसि वंशम् । स्थीयतामलमिति । ततोऽसावाह । भद्र । एष ममापकारी मूषकः पुनः पुनरायाति । तद्भयादेतत् करोमि । ततो विहस्याभ्यागतः प्रोवाच । सखे मा भैषीर्वित्तेन सह गतोऽस्य कूर्दनोत्साहः । यतः सर्वेषामपि जन्तूनामियमेव स्थितिः । अथाहं तच्छ्रुत्वा कोपाविष्टो भिक्षा- पात्रमुद्दिश्य विशेषादुत्कूर्दितोऽप्राप्त एव भूमौ निपतितश्च । ततो मां दृष्ट्वा स मे शत्रुर्विहस्य चूडाकर्णमुवाच । सखे पश्य पश्य कौतूहलम् । उक्तं च यतः ।
अर्थेन बलवान् सर्वोऽप्यर्थाद्भवति पण्डितः ।
पश्येमं मूषकं पापं स्वजातिसमतां गतम् ॥ ३० ॥
तत्स्वपिहि त्वं गतशङ्कः । यदस्योत्पतने शक्तिकारणं तदावयोरेव हस्त- गतं जातम् । तच्छ्रुत्वाहं मनसा विचिन्तितवान् । सत्यमाहायम् । यतो ममाद्य
निजशक्तिहीनस्य सत्त्वोत्साहरहितस्याहारमप्युत्पादयितुमङ्गुलमात्रमप्युत्पतने शक्तिर्नास्ति । शृणोमि चानुचराणां परस्परालापम् । आगच्छत गच्छामः । अयमा- त्मनोऽप्युदरभरणे न समर्थः किं पुनरन्येषाम् । तत्किमनेनाराधितेन । ततोऽहं परिचिन्त्यैतावदिति स्वमालयं गतः । प्रभातसमये सर्व एव सपत्नसकाशं गता दरिद्रोऽसाविति वदन्तः । तथा प्रवृत्तानामनुचराणामेकोऽपि न मत्सकाशमाग- च्छत् । पश्यामि च । मां दृष्ट्वा संमुखं त एव मत्सपत्नैः सह परस्परं किलकिला- यन्तो हस्तास्फालनैर्ममानुचराः संक्रीडन्ति । चिन्तितं च मया यथा । एवमेतत् ।
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥ ३१ ॥
अपि च
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ।
विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ ३२ ॥
त्यजन्ति मित्राणि धनेन हीनं
पुत्राश्च दाराश्च सहोदराश्च ।
तमर्थवन्तं पुनरेव यान्ति
ह्यर्थोऽत्र लोके पुरुषस्य बन्धुः ॥ ३३ ॥
शून्यमपुत्रस्य गृहं हृच्छून्यं यस्य नास्ति सन्मित्रम् ।
मूर्खस्य दिशः शून्याः सर्व शून्यंं दरिद्रस्य ॥ ३४ ॥
तानीन्द्रियाण्यविकलानि तदेव नाम
सा बुद्धिरप्रतिहता वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः स एव
चान्यः क्षणेन भवतीत्यतिचित्रमेतत् ॥ ३५ ॥
तन्मादृशानां किं नाम तद्वरं स्यात् । यस्येदृशः फलविपाकः । तत्सर्वथा धनहीनस्य ममाधुना नेह श्रेयः । उक्तं च
वसेन् मानाधिकं वासं भग्नमानं न संश्रयेत् ।
मानहीनं सुरैः सार्धं विमानमपि वर्जयेत् ॥ ३६ ॥
एवमुक्त्वाप्यहं पुनरप्येवमचिन्तयम् । किमर्थितां कस्यचित्करोमि तदे-
तद्याञ्चाजीवनं कष्टतरम् । यतः
कुब्जस्य कीटखातस्य दावनिष्कुषितत्वचः ।
तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः ॥ ३७ ॥
कण्ठे गद्गदता स्वेदो मुखे वैवर्ण्यवेपथू ।
म्रियमाणस्य यान्येव तानि चिह्नानि याचतः ॥ ३८ ॥
दौर्भाग्यायतनं धियोऽपहरणं मिथ्याविकल्पास्पदं पर्यायो मरणस्य दैन्यवसतिः शङ्कानिधानं परम् । मूर्तं लाघवमाश्रयश्च विपदां तेजोहरं मानिनां अर्थित्वं हि मनस्विनां न नरकात् पश्यामि वस्त्वन्तरम् ॥ ३९ ॥ अपि च
निर्द्रव्यो ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो
निस्तेजाः परिभूयते परिभवान् निर्वेदमागच्छति ।
निर्विण्णः शुचमेति शोकमनसो बुद्धिः परिभ्रश्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ ४० ॥
अपि च
वरमहिमुखे क्रोधाविष्टे करौ विनिवेशितो
विषमपि वरं पीत्वा सुप्तं कृतान्तनिवेशने ।
गिरिचरतटादात्मा मुक्तो वरं शतधा गतो
न तु खलजनावाप्तैरर्थैः प्रियं कृतमात्मनः ॥ ४१ ॥
वरं विभवहीनेन प्राणैः संतर्पितोऽनलः ।
नोपचारपरिभ्रष्टः कृपणोऽभ्यर्थितो जनः ॥ ४२ ॥
अथ चैवं गते केन नामान्योपायेन जीवितं स्यात् । किं चौर्येण । तदपि परस्वादानात् कष्टतरं । यत्कारणम्
वरं कार्यं मौनं न च वचनमुक्तं यदनृतं
वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् ।
वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरति-
र्वरं भिक्षाशित्वं न च परधनास्वादनसुखम् ॥ ४३ ॥
अथ किमहं परपिण्डेनात्मानं यापयामि । कष्टं भोः । तदपि द्वितीयं मृत्युद्वारम् । यतः
रोगी चिरप्रवासी परान्नभोजी परावसथशायी ।
यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥ ४४ ॥
तत् सर्वथा तदेव बृहत्स्फिगपहृतं धनमात्मीकरोमि । मया हि तयो- र्दुरात्मनोरुपधानीकृता धनपेटिका दृष्टास्ति । तद्वित्तं स्वदुर्ग आनयामि येन भूयोऽपि मे वित्तप्रभावेनाधिपत्यं पूर्ववद्भवति । एवं च संप्रधार्य रात्रौ तत्र गत्वा निद्रावशमुपगतस्य तस्य मयोपश्लिष्टेन पेटिकायां यावच्छिद्रं कृतं तावत्प्र- बुद्धोऽसौ तापसः । ततश्च जर्जरवंशलगुडेन तेनाहं शिरसि ताडितः । कथंचि- दायुःशेषतया निर्गतोऽहं बिलमाविशं न मृतश्च । पुनरपि चिराद्बद्धाशः समा- श्वस्य दीनारान्तिकमुपश्लिष्टस्तेन निर्दयनैवं यष्ट्या शिरस्यभिहतो येनाद्यापि स्वप्नगतानामपि तादृशानामुद्विजे । पश्य चेमं तत्कालकृतं शिरसि मे व्रणम् । साधु चेदमुच्यते ।
सर्वप्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां
प्रत्यासन्नभयो न वेत्ति विधुरं स्वं जीवितं काङ्क्षति ।
उत्तीर्णस्तु ततो धनार्थमपरां भूयो विशत्यापदं
प्राणानां च धनस्य साधनधियामन्योन्यहेतुः पणः ॥ ४५ ॥
सोऽहं बहु विचिन्त्यास्तां धनमेतन्ममेति निवृत्तस्तृष्णातः । साधु चेद- मुच्यते ।
ज्ञानं चक्षुर्न तु दृक् शीलं सुकुलीनता न कुलजन्म ।
संतोषश्च समृद्धिः पाण्डित्यमकार्यविनिवृत्तिः ॥ ४६ ॥
सर्वाः संपत्तयस्तस्य संतुष्टं यस्य मानसम् ।
उपानद्गूढपादस्य ननु चर्मावृतैव भूः ॥ ४७ ॥
संतोषामृततृप्तानां यत् सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ ४८ ॥
न योजनशतं दूरं वाह्यमानस्य तृष्णया ।
संतुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः ॥ ४५ ॥
तत्सर्वथासाध्येऽर्थे परिच्छेद एव श्रेयान् । उक्तं च
को धर्मो भूतदया किं सौख्यमरोगता जगति जन्तोः ।
कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥ ५० ॥
इति । एवमवधार्याहं निर्जनवनमागतोऽपश्यं चित्रग्रीवं पाशबद्धमिति च तं मोक्षयित्वास्मत्पुण्योदयादनेन लघुपतनकेनाहं स्नेहानुवृत्त्यानुगृहीतः तावदत्रान्तर एष लघुपतनको ममान्तिकमागत्य पृष्टवानिहागमनाय । सोऽहम- नेनैव सार्धं भवदन्तिकमागतः । तदेतन्मम निर्वेदकारणम् । अपिच
समृगोरगसारङ्गं सदेवासुरमानुषम् ।
आमध्याह्नात् कृताहारं भवतीह जगत्त्रयम् ॥ ५१ ॥
कृत्स्नामपि महीं जित्वा निकृष्टां प्राप्य वा दशाम् ।
वेलायां भोक्तुकामेन लभ्या तण्डुलसेतिका ॥ ५२ ॥
तस्य कृते बुधः को नु कुर्यात्कर्म विगर्हितम् ।
यस्यानुबन्धः पापीयानधोनिष्ठो विपद्यते ॥ ५३ ॥
इति प्रथमा कथा समाप्ता । तच्च श्रुत्वा मन्थरकस्तं समाश्वासितवान् । भद्र नाधृतिः करणीया यत् स्वदेशपरित्यागो मया कृत इति । बुद्धिमांश्चासि । किं विमुह्यसे । अपि च
शास्त्राण्यधीत्यापि भवन्ति मूर्खा
यस्तु क्रियावान् पुरुषः स विद्वान् ।
संचिन्तितं त्वौषधमातुरं हि
किं नाममात्रेण करोत्यरोगम् ॥ ५४ ॥
न स्वल्पमप्यध्यवसायभीरोः
करोति विज्ञानविधिर्गुणं हि ।
अन्धस्य किं हस्ततलस्थितोऽपि
निवर्तयत्यर्थमिह प्रदीपः ॥ ५५ ॥
दत्त्वा याचन्ति पुरुषा हत्वा हन्यन्त एव हि ।
यातयित्वा च यात्यन्ते नरा भाग्यविपर्यये ॥ ५६ ॥
तदत्र वयस्य दशाविशेषेण वृत्तिः करणीया । न चैतदपि मन्तव्यम् ।
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।
एतज्ज्ञात्वा तु मतिमान्न स्वस्थानं परित्यजेत् ॥ ५७ ॥
तत्कापुरुषवृत्तमेतत् । न हि सतां कश्चित् स्वदेशविदेशयोर्विशेषः । यतः
को धीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतो
यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् ।
यद्दंष्ट्रानखलाङ्गलप्रहरणैः सिंहो वनं गाहते
तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्त्यात्मनः ॥ ५८ ॥
तद्भद्र नित्यमुद्योगपरेण भवितव्यम् । उद्युक्तानां धनं भोगाः क्व यास्य- न्तीति । अपि च
निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः ।
सोद्योगं स्वयमायान्ति सहायाश्च धनानि च ॥ ५९ ॥
उत्साहसंपन्नमदीर्घसूत्रं
क्रियाविधिज्ञं व्यसनेष्वसक्तम् ।
शूरं कृतज्ञं दृढसौहृदं च
लक्ष्मीः स्वयं वाञ्छति वासहेतोः ॥ ६० ॥
अव्यवसायिनमलसं दैवपरं साहसाच्च परिहीणम् ।
प्रमदेव हि वृद्धपतिं नेच्छत्यवगूहितुं लक्ष्मीः ॥ ६१ ॥
पटुरिह पुरुषः पराक्रमे । कुमतिरपि प्रभुरर्थसंचये ॥ न हि सदृशमतिं बृहस्पतेः । शिथिलपराक्रममेति सत्क्रिया ॥ ६२ ॥ अर्थरहितोऽपि भवान् प्रज्ञोत्साहशक्तिसंपन्नोऽसामान्यमनुष्यसदृशः कथम् ।
विनाप्यर्थैर्धीरः स्पृशति बहुमानोन्नतिपदं
परिष्वक्तोऽप्यर्थैः परिभवपदं याति कृपणः ।
स्वभावादुद्भूतां गुणसमुदयावाप्तिविपुलां
द्युतिं सैंहीं न श्वा कृतकनकमालोऽपि लभते ॥ ६३ ॥
उत्साहशक्तियुतविक्रमधैर्यराशि- र्यो वेत्ति गोष्पदमिवाल्पतरं समुद्रम् ।
वल्मीकशृङ्गसदृशं च सदा नगेन्द्रं लक्ष्मीः स्वयं तमुपयाति न दीनसत्त्वम् ॥ ६४ ॥
नात्युच्चशिखरो मेरुर्नातिनीचं रसातलम् ।
व्यवसायद्वितीयानां नात्यपारो महोदधिः ॥ ६५ ॥
सधन इति किं मदस्ते गतविभवः किं विषादमुपयांसि ।
करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ ६६ ॥
तत्सर्वथा जलबुद्बुदा इवास्थिराणि यौवनानि धनानि च । यतः
अभ्रच्छाया खलप्रीतिर्नवसस्यानि योषितः ।
किंचित्कालोपभोग्यानि यौवनानि धनानि च ॥ ६७ ॥
तद्भद्र हिरण्यक । एवं ज्ञात्वा हृतेऽप्यर्थे त्वया संतापो न करणीयः । उक्तं च
यदभावि न तद्भावि भावि यन्न तदन्यथा ।
इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ॥ ६८ ॥
तत्सर्वथा वृत्तिचिन्ताकुलतां परिभूय स्थीयताम् ।
येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः ।
मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति ॥ ६९ ॥
नैवार्थो व्यसनगतेन शोचितव्यो
हर्षो वा सुखमुपलभ्य न प्रयोज्यः ।
प्राक्कर्म प्रति जनितो हि यो विपाकः
सोऽवश्यं भवति नृणां शुभोऽशुभो वा ॥ ७० ॥
कर्तव्यः प्रतिदिवसं प्रसन्नचित्तैः
स्वल्पोऽपि व्रतनियमोपवासधर्मः ।
प्राणेषु प्रहरति नित्यमेव मृत्यु-
र्भूतानां महति कृतेऽपि हि प्रयत्ने ॥ ७१ ॥
दानेन तुल्यो निधिरस्ति नान्यः संतोषतुल्यं सुखमस्ति किं वा विभूषणं शीलसमं कुतोऽस्ति लाभोऽस्ति नारोग्यसमः पृथिव्याम् ॥ ७२ ॥
तत्किं बहुना स्ववेश्मेदं भवतः । निर्वृतेनानुद्विग्नेन च भूत्वा त्वया मयैव सह प्रीतिपूर्वमत्र कालो नीयताम् । तच्चानेकशास्त्रार्थानुगतं मन्थरकोक्तं श्रुत्वा लघुपतनको विकसितवदनः परितोषमुपगतोऽब्रवीत् । भद्र मन्थरक । साध्वाश्रय- णीयगुणोपेतोऽसि । भवता ह्येवं कृतहिरण्यकाभ्युपपत्तौ मम मनसः परमतुष्टि- रुत्पादिता । कोऽत्र विस्मयः । उक्तं च
सुखस्य मण्डः परिपीयते तै-
र्जीवन्ति ते सत्पुरुषास्त एव ।
हृष्टाः सुहृष्टैः सुहृदः सुहृद्भिः
प्रियाः प्रियैर्ये सहिता रमन्ते ॥ ७३ ॥
ऐश्वर्यवन्तोऽपि हि निर्धनास्ते
व्यर्थश्रमा जीवितमात्रसाराः ।
कृता न लोभोपहृतात्मभिर्यैः
सुहृत्स्वयंग्राहविभूषणा श्रीः ॥ ७४ ॥
सन्त एव सतां नित्यमापत्तरणहेतवः ।
गजानां पङ्कमग्नानां गजा एव धुरंधराः ॥ ७५ ॥
संरक्षणं साधुजनस्य नित्यं
कार्यं त्वया जीवितसंशयेऽपि ।
महोदयानां हि शरीरलाभे
फलं परानुग्रहमात्रमेव ॥ ७६ ॥
श्लाघ्यः स एको भुवि मानवानां
सोऽन्तं गतः सत्पुरुषव्रतस्य ।
यस्यार्थिनो वा शरणागता वा
नाशाविभङ्गाद्विमुखाः प्रयान्ति ॥ ७७ ॥
अथैवं जल्पतां तेषां चित्राङ्गो नाम मृगो लुब्धकत्रासितस्तृषार्तस्तं विपुलह्रदं समागतः । तं चायान्तं दृष्ट्वा ते भयचकितहृदयाः पलायितुमारब्धाः । तस्याभिद्रुतमुकाभिलाषिणोऽवसरतो वारिसंघट्टश्रवणान् मन्थरकः पुलिना- त्त्वरितमम्भसि निमग्नः । हिरण्यकोऽप्याविग्नमनास्तरुस्तम्भविवरमनुप्रविष्टः । लघु-
पतनकोऽपि किमेतदिति जिज्ञासुरुड्डीय विपुलवृक्षमारूढः । चित्राङ्गोऽप्यात्मश- ङ्कया तटनिकट एव स्थितः । अथ लघुपतनको वियदुत्पत्य योजनप्रमाणं भूम- ण्डलमवलोक्य पुनर्वृक्षमवलीनो मन्थरकमब्रवीत् । एह्येहि न ते कुतश्चिद्भयमि- ति । दृष्टं मया केवलं शष्पभुग् मृगो ह्रदमुदकार्थी समागतः । तच्छ्रुत्वा दीर्घ- दर्शी मन्थरकः समुत्तीर्णः । त्रयोऽपि ते विश्वस्तचित्ताः पुनस्तत्रैव समागताः । अथाभ्यागतवत्सलतया मन्थरकस्तं मृगमाह । भद्र पीयतामवगाह्यतां चोदकं प्रकामतः । कृतार्थो भवानिहागन्तुमर्हतीति । तद्वचनमाधाय चित्राङ्गश्चिन्तयामास । न ममैतेभ्यः सकाशात् स्वल्पमपि भयमस्ति । कस्मात् । कच्छपस्तावदुकगत एव शक्तिमान् मूषकवायसावपि मृतं क्षुद्रजन्तुं चैव भक्षयतः । तदेताननुसरामि इति मत्वा तैः सह संगतः । मन्थरकेण च स्वागताद्युपचारपुरःसरं समभिहित- श्चित्राङ्गः । अपि शिवं भवतः । कथ्यतामस्माकं कथमिदं वनगहनमागतोऽसि । इति । अथासावब्रवीत् । निर्विण्णोऽस्म्यनेनाकामविहारित्वेन । अश्ववारैः सार- मेयैर्लुब्धकैरितश्चेतश्च संनिरुध्यमानो भयान् महता जवेनातिक्रम्य सर्वानागतोऽ- त्राहमुदकार्थी । तदिच्छामि भवद्भिः सार्धं मैत्रीं कर्तुम् । तच्च श्रुत्वा मन्थरके- णाभिहितं । भद्र मा भैषीः स्ववेश्मेदं भवतो निर्विघ्नमत्र यथेप्सितमुष्यतामिति । ततस्तेषां सर्वेषां स्वेच्छया कृताहाराणामजस्रं विपुलवृक्षच्छायायां मध्याह्नवेलायां कृतसमागमानामनेकशास्त्रविवरणव्यापारसक्तचित्तानां परस्परं प्रीत्या कालोऽति- वर्तते । अथ कदाचित् समुचितवेलायां चित्राङ्गो नायातः । तं चापश्यन्तस्ते त- त्कालसमुपजातविपरीतनिमित्तव्याकुलितचित्तास्तस्याकुशलं मन्यमाना धृतिं न लेभिरे। तदा लघुपतनकं मन्थरक आह । त्वमभिज्ञोऽस्यस्य कर्मणः शक्तियुक्त- त्वात् । तदुपलभस्वोत्प्लुत्य यथावस्थितां चित्राङ्गवार्त्तामिति । तच्छ्रुत्वा लघुपतनक उत्पत्य नातिदूरे गत्वोदकावतारे कीलकावलम्बितदृढचर्मपाशावबद्धं चित्राङ्गम- पश्यत् । तं च समेत्य सविषादमब्रवीत् । भद्र कथमिमामापदं प्राप्तस्त्वमिति । चित्राङ्ग आह । भद्र नायमाक्षेपस्य कालः । संजातोऽयं तावन् मम मृत्युः । तन् मा विलम्बस्व यत्कारणं भवाञ्छक्तियुक्तो भवाननभिज्ञः पाशच्छेदनकर्मणः । त- दाशु गच्छ हिरण्यकमानय सोऽप्ययत्नेन पाशच्छेदनसमर्थ इति । अस्त्विति लघु- पतनकेन मन्थरकहिरण्यकान्तिके गत्वा चित्राङ्गबन्धनस्वरूपं निवेद्य चित्राङ्गपाश-
मोक्षणं प्रति चोदयित्वा क्षिप्रमेव हिरण्यक आनीतः। तदवस्थं चित्राङ्गं दृष्ट्वाधृति- परीतो हिरण्यकस्तमाह । वयस्य ज्ञानचक्षुरसि कथमिमामापदं प्राप्त इति । सोऽ- ब्रवीत् । वयस्य किमनेन पृष्टेन । बलवद्धि दैवम् । उक्तं च
किं शक्यं शुभमतिनापि तत्र कर्तुं
यत्वासौ व्यसनमहोदधिः कृतान्तः ।
रात्रौ वा दिवसवरेऽपि वा समग्रे
योऽदृश्यः प्रहरति तस्य को विरोधी ॥ ७८ ॥
अपि च
कृतान्तपाशबद्धानां दैवोपहतचेतसाम् ।
बुद्धयः कुब्जगामिन्यो भवन्ति विदुषामपि ॥ ७९ ॥
तत्साधो त्वमभिज्ञोऽसि नियतिविलसितानामतो द्रुतं छिन्द्धि पाशमिमं यवदसौ लुब्धकः क्रूरकर्मा नायातीति । एवमुक्तो हिरण्यकोऽब्रवीत् । भद्र मा भैषीर्न वर्तते मयि पार्श्वस्थे लुब्धकात् कश्चिदपायः । किंतु कौतुकात् पृच्छामि । नित्यं चकितचार्यसि कथं छलितः । सोऽब्रवीत् । यद्यवश्यं त्वया श्रोतव्यं तदा- कर्णय यथाहं पूर्वमनुभूतबन्धनव्यसनोऽपि दैववशात् पुनरधुना बद्धः । सोऽ- ब्रवीत् । कथय कथमत्रानुभूतबन्धनः पूर्वं भवान् । चित्राङ्गोऽब्रवीत् । अथ हरिणपूर्वबन्धनकथा नाम चतुर्थी कथा । पूर्वमहं षण्मासजातः शिशुः । सर्वेषामग्रतो विहरामि । लीलया च दूरं गत्वा स्वयूथं प्रतिपालयामि । अस्माकं च द्वे गती ऊर्ध्वाञ्जसी च । तयोरहमा- ञ्जसीं वेद्मि न चोर्ध्वाम् । अथ कदाचिद्विचरन् यावन् मृगगणान्नानुपश्यामि तावत् सुतरामाविग्नहृदयः क्व ते गता इति दिशो विलोकयन्नग्रतः स्थितान् पश्यामि । तेः ह्यूर्ध्वगत्या जालं व्यतिक्रम्य सर्वेऽपि पुरतो गता मामेव वीक्षमाणास्तिष्ठन्ति । अहं चोर्ध्वगतेरनभिज्ञतयाञ्जस्या गत्या निष्पतितो जालेनाकुलीकृतः । अथ व्याधेनागत्य गृहीतो नीत्वा च क्रीडार्थं राजपुत्रायोपनीतः । स राजपुत्रोऽपि मां दृष्ट्वातीव परितुष्टो व्याघ्रस्य पारितोषिकं ददौ । मां चाभ्यङ्गोद्वर्तनस्नानभोजन- गन्धविलेपनसत्कारैरपि समुचितमनोहराहारैतर्पयत्। सोऽहमन्तःपुरिकाजनस्य
राजकुमाराणां च हस्ताद्धस्तं गच्छन् कौतुकपरतया ग्रीवानयनकरचरणकर्णाव- कर्षणादिभिः परिक्लेशितः । अथ कदाचित् तत्रापि राजपुत्रस्य शयनीयाधःस्थेन प्रावृट्कालसमये सविद्युन्मेघस्तनितं श्रुत्वोत्कण्ठितहृदयेन मया स्वयूथमनुस्मृत्ये- दमभिहितम् ।
वातवृष्टिविधूतस्य मृगयूथस्य धावतः ।
पृष्ठतोऽनुगमिष्यामि कदा तन्मे भविष्यति ॥ ८० ॥
अथैकाकी राजपुत्रः साश्चर्यमिदमाह। एक एवाहमत्र केनेदमभिहितमिति संत्रस्तहृदयः समन्तादवलोकयन् मामपश्यत् । दृष्ट्वा च मां न मानुषेणेदमभिहि- तं किंतु मृगेण । अत एतदौत्पातिकम् । तत्सर्वथा विनष्टोऽस्मि । इति मत्वा परमा- वेगं गतः । अथ कथंचिद्विस्खलितवागसौ गृहाद्बहिर्निश्चक्राम परमसत्त्वाधिष्ठित इव महदस्वास्थ्यमापेदे । ततः प्रभाते ज्वरपरीतः सर्वभिषग्भूततन्त्रिकान् मह- त्यार्थमात्रया प्रलोभ्याभिहितवान् । यो ममैतां रुजमपनयति तस्याहमकृशां पूजां करिष्यामीति । अहमपि तत्रासमीक्षितकारिणा जनेन काष्ठेष्टकालगुडप्र- हारैर्हन्यमानोऽनेन किं पशुना व्यापादितेनेति वदतायुःशेषतया केनापि साधुना रक्षितः । तेन चार्येण सर्वलक्षणविदा विज्ञापितो राजपुत्रः । भद्र सर्वाः पशुजा- तयो ब्रुवन्त्येव न परं मानुषसमक्षमनेनैवं भवन्तमदृष्ट्वैव मनोराज्यं कृतम् । अ- नेन प्रावृट्कालसमयोत्सुकेन स्वयूथमनुस्मृत्येदमभिहितम् । वातवृष्टिविधूत- स्येति । तद्भवतः किमसंबद्धं ज्वरकारणम् । तच्च श्रुत्वा राजपुत्रोऽपगतज्वर- विकारः पूर्वप्रकृतिमापन्नः । मां चापनीयाभ्यज्य प्रसूतेनाम्भसा प्रक्षालितशरीरं कृत्वा रक्षिपुरुषाधिष्ठितं तत्रैव वने प्रतिमुक्तवान् । तैश्च तथैवानुष्ठितम् । एवमनु- भूतपूर्वबन्धनोऽप्यहं पुनर्नियतिवशाद्बद्धः । इति । इति चतुर्थी कथा समाप्ता । अनन्तरमेवं तयोः प्रवदतोः सुहृत्स्नेहाक्षिप्तचित्तो मन्थरकस्तदनुसारेण शरकण्टककुशावमर्दनं कुर्वाणः शनैः शनैस्तानेव समागतः । तं च दृष्ट्वा सुत- रामाविग्नचित्तास्ते संपन्नाः । अथ हिरण्यकस्तमाह । भद्र न शोभनं त्वया कृतं यत्स्वदुर्गमपहायागतः । अशक्तस्त्वं लुब्धकादात्मानं परित्रातुम् । वयं त्वगम्या-
स्तस्य यत्कारणं यदि स पापात्मा लुब्धकः समागमिष्यति चित्राङ्गो विछिन्न- पाशः प्रणश्य यास्यति । लघुपतनकोऽपि वृक्षमारोक्ष्यति । अहमप्यल्पकायत्वा- द्दरीविवरमनुप्रवेक्ष्यामि । भवांस्तु तद्गोचरगतः किं करिष्यतीति । मन्थरक आह । भद्र मैवं ब्रूयाः ।
दयितजनविप्रयोगो वित्तवियोगश्च कस्य सह्याः स्युः ।
यदि सुमहौषधकल्पो वयस्यजनसंगमो न स्यात् ॥ ८१ ॥
प्रविरलमप्यनुभूताः शिष्टेष्टसमागमेषु ये दिवसाः ।
पथ्यधनप्रतिमास्ते जीवितकान्तारशेषस्य ॥ ८२ ॥
सुहृदि निरन्तरचित्ते गुणवति दारे प्रभौ च दुःखज्ञे ।
विश्राम्यतीव हृदयं दुःखस्य निवेदनं कृत्वा ॥ ८३ ॥
तद्भद्र ।
औत्सुक्यगर्भा भ्रमतीव दृष्टिः पर्याकुलं क्वापि मनः प्रयाति ।
वियुज्यमानस्य गुणान्वितेन निरन्तरप्रेमवता जनेन ॥ ८४ ॥
एवं तस्याभिवदत एवासौ लुब्धकः समायातः । तं दृष्ट्वैव हिरण्यकः पाशं छित्त्वा यथापूर्वव्याहृतविवरं प्रायात् । लघुपतनको वियत्युत्पत्यैव गतः । चित्राङ्गोऽपि वेगेनापक्रान्तः । लुब्धकोऽपि तं पाशं मृगछिन्नमिति मत्वा परं योगमचिन्तयदाह च । न दैवं विना मृगः पाशच्छेदं कृतवान् । अथ तं मन्थरकं मन्दं मन्दं स्थलमध्ये गच्छन्तं दृष्ट्वा किंचित्तुष्टः ससंभ्रममचिन्त- यत् । यद्यपि मे मृगो दैववशात् पाशं छित्त्वापहृतस्तथापि मे दैवेन कच्छप उत्पादित इति । एवमवधार्य क्षुरिकया कुशानादाय दृढां रज्जुं कृत्वा चरणावाकृष्य कच्छपं सुबद्धं कृत्वा धनुष्यवलम्ब्य यथागतमेव प्रायात् । ततस्तं नीयमानं दृष्ट्वा मृगमूषकवायसाः परं विषादं गच्छन्तो रुदन्तस्तमनुजग्मुः । हिरण्यक आह ।
एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य ।
तावद्द्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुलीभवन्ति ॥ ८५ ॥
यावदस्खलितं तावत् सुखं याति समे पथि ।
सकृच्च स्खलितं किंचिद्विषमं च पदे पदे ॥ ८६ ॥
कष्टं भोः ।
यदि तावत् कृतान्तेन धनेषु प्रलयः कृतः ।
मार्गश्रान्तस्य विश्रामो मित्रच्छायापि दूषिता ॥ ८७ ॥
अपरमपि मित्रं परं मन्थरकसमं न स्यात् । प्राणा अपि मित्रमूला आहुः ।
स्वभावजं तु यन्मित्रं तद्भाग्यैरेव जायते ।
तदकृत्रिमसौहार्दमापत्स्वपि न मुञ्चति ॥ ८८ ॥
न मातरि न दारेषु न सोदर्ये न चात्मजे ।
विश्रामस्तादृशः पुंसां यादृङ् मित्रे निरन्तरे ॥ ८९ ॥
प्राणवृद्धिकरं मित्रं शंसन्तीह विचक्षणाः ।
इहलोकसुखं मित्रं न मित्रं पारलौकिकम् ॥ ९० ॥
तत्किं ममोपर्यनवरतमेवैतद्दैवं प्रहरति । यत आदौ तावदर्थपरिभ्रंशो दारिद्र्ययोगात् स्वजनपरिभवस्तन्निर्वेदाद् देशपरित्यागः स्निग्धसुहृद्वियोगश्चेति । इयं तावन्मम दुःखपरंपरा । अपि च
स्वकर्मसंतानविचेष्टितानि कालान्तरावर्तिशुभाशुभानि ।
इहैव दृष्टानि मया चलानि जन्मान्तराणीव दशान्तराणि ॥ ९१ ॥
कायः संनिहितापायः संपदः पदमापदाम् ।
समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ ९२ ॥
कं न स्पृशन्ति पुरुषं व्यसनानि काले
को वा निरन्तरसुखी य इहास्ति लोके ।
दुःखं सुखं च परिणामवशादुपैति
नक्षत्रचक्रमिव खे परिवर्तमानम् ॥ ९३ ॥
क्षते प्रहारा निपतन्त्यभीक्ष्ण-
मन्नक्षये कुप्यति जाठराग्निः ।
आपत्सु वैराणि समुद्भवन्ति
छिद्रेष्वनर्था बहुलीभवन्ति ॥ ९४ ॥
तत्कष्टं भोः । मित्रवियोगेन हतोऽहम् । इति किं विस्मृतं निजैरपि स्वजनैः । उक्तं च
शोकारतिभयत्राणं प्रीतिविस्रम्भभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ ९५ ॥
एवं बहु विलप्य हिरण्यकश्चित्राङ्गलघुपनतकावाह । अहो किं वृथाप्रल- पितेन । यावदयं मन्थरकोऽस्मद्दृष्टिगोचरान्न नीयते तावदस्य मोक्षोपायश्चिन्त्य- तामिति । तावूचतुः । तथा क्रियताम् । स आह । चित्राङ्गोऽस्य व्याधस्याग्रतो गत्वा जलसमीपे विप्रकृष्टे भूप्रदेशे निपत्य मृतमिवात्मानं कृत्वा दर्शयतु । अय- मपि लघुपतनकस्तस्योपर्यवस्थितः शृङ्गपञ्जरान्तरविन्यस्तचरणचञ्च्वा विलि- खन्नेत्रोत्पाटनरूपं छद्मनात्मानं दर्शयतु । असावपि व्याधो मूर्खो नूनं लोभा- न्मृगोऽयं मृत इति मत्वा कच्छपं परित्यज्य मृगार्थे सत्वरं यास्यति । तावदहं- मप्यपक्रान्ते तस्मिन् मन्थरकस्य बन्धनं छेत्स्यामि । ततश्छिन्नबन्धो जलाशयं सहसा प्रवेक्ष्यतीति । अन्यच्च पुनरभ्याशोपगते तस्मिँल्लुब्धकाधमे यथा पला- यनं क्रियते तथा प्रयतितव्यम् । चित्राङ्गलघुपतनकाभ्यां तथैवानुष्ठिते स लुब्धक उदकतीरे मृतरूपं मृगं वायसेन भक्ष्यमाणं दृष्ट्वा हर्षितमनाः कच्छपं भूतले प्रक्षिप्य मृगान्तिकमुपाद्रवत् । अत्रान्तरे हिरण्यकेन मन्थरकस्य बन्धनं खण्डशः कृतम् । कच्छपोऽपि तत्स्थानात् सत्वरं जलाशयमनुप्रविष्टः । स मृगश्चासन्नं तं व्याधं विलोक्योत्थाय वायसेन सह प्रनष्टः । अथ लुब्ध- कोऽपि तदिन्द्रजालमिव मन्यमानः किमिदमित्यनुचिन्त्य प्रत्यावृत्य यावत् कच्छपस्थानं गतस्तावत् पश्यत्यङ्गुलप्रमाणां खण्डशश्छिन्नां बन्धनरज्जुं कच्छप- मपि योगिनमिवादृश्यतां गतम् । इति स्वशरीरेऽपि संशयमचिन्तयत् संक्षुभि- तहृदयश्च तस्माद्वनाद्दिशोऽवलोकयञ्शीघ्रतरपदैर्निराशः स्वगृहमेव गतः । अथ चत्वारोऽपि ते सर्वे विमुक्तापदः कल्यशरीराः पुनरेकस्थीभूय स्वस्थानं गत्वा परस्परं स्नेहेन वर्तमानाः कालेन यथासुखमास्थिताः । तस्मात्
तिरश्चामपि यत्रेदृक् संगतं लोकसंमतम् ।
मर्त्येषु यदि कस्तत्र विस्मयो ज्ञानशालिषु ॥ ९६ ॥
इति मित्रप्राप्तिर्नाम द्वितीयं तन्त्रं समाप्तम् ।
अथ संधिविग्रहं काकोलूकीयं नाम तृतीयं तन्त्रम् । अथेदमारभ्यते संधिविग्रहसंबन्धं काकोलूकीयं नाम तृतीयं तन्त्रम् । यस्यायमाद्यः श्लोकः ।
न विश्वसेत् पूर्वविरोधितस्य शत्रोश्च मित्रत्वमुपागतस्य ।
दग्धां गुहां पश्यत घूकपूर्णा काकप्रणीतेन हुताशनेन ॥ १ ॥
राजकुमारा ऊचुः । कथं चैतत् । विष्णुशर्माह । अस्ति कस्मिंश्चिद्वनोद्देशे महान्न्यग्रोधवृक्षः स्निग्धबहलपर्णगुल्मच्छायया स्वागतमिवाध्वगानां प्रयच्छति । तत्र मेघवर्णो नाम वायसराजः प्रतिवसति स्म काकसहस्रपरिवारः । तत्र नातिदूर उल्लूकसहस्रपरिवारोऽरिमर्दनो नामोलूकरा- जश्च प्रतिवसति स्म । स चैकदा सहजवैरानुशयादुलूकोपलब्धदुर्गवृत्तान्तः काल- बलशक्त्या रात्रावागत्य महतोलूकसंघातेन तस्योपरि संनिपतितः । महच्च तेषां काकानां कदनं कृत्वाऽपयातः । अन्येद्युश्च प्रभातसमये हतशेषान् भग्नचञ्चुपक्षच- रणानन्यांश्च समेत्य शिबिरानुसारप्रविचयोपलब्धिं कृत्वा मन्त्रिभिः सार्धं मेघ- वर्णो मन्त्रयितुमारब्धः । प्रत्यक्षमेतन् महद्विशसनमस्माकं सपत्नेनारिमर्दनेन कृतम् । दृष्टदुर्गमार्गोऽसाववश्यमद्य रात्रौ लब्धावसरोऽस्मदभावाय पुनरेष्यति । तदहीनकालमुपायश्चिन्त्यतां तद्विघातो यथा भवति । इति । एवमुक्त्वैकान्ती- भूताः । अथ तस्यान्वयपरंपरागताः पञ्च सचिवास्तिष्ठन्ति । तद्यथा । उड्डीवी संडीव्याडीवी प्रडीवी चिरंजीवी चेति । तान् प्रत्येकं प्रष्टुमारब्धः । तेषामादावु- ड्डीविनं पृष्टवान् । भद्र एवमवस्थिते किमनन्तरं करणीयं मन्यसे । सोऽब्रवीत् । किं मयाऽभ्यधिकं किंचिज्ज्ञायते । देव यदेव शास्त्रेऽभिहितं तदेव वक्ष्यामि । किं तु बलवता विगृहीतस्य तदनुप्रवेशो विदेशगमनं वा इति । तच्छ्रुत्वा संडी- विनमाह । भद्र भवान् कथं मन्यत इति । स आह । देव यदेवानेनाभिहितं बल- वता विगृहीतस्य विदेशगमनमिति तन्नाकस्मादेकपद एव दुर्गपरित्यागः कार्यः । यतो युक्तमेवं स्थिते दोलाव्याजेन कालं यापयितुम् । यदा भयं भविष्यति तदा-
पयानं करिष्यामः । यदा स्वास्थ्यं तदा दुर्ग एव स्थास्याम इति । ततस्तस्यापि वचनमवधार्य प्रडीविनं पृष्टवान् । भवतोऽत्र कोऽभिप्रायः । सोऽब्रवीत् । राजन् आत्ययिकमिदमनवरतं गतागतकरणम् । दीनान्धकुब्जवामनकुणिखञ्जव्याधि- तोपस्करादिभिर्नयनानयनैरेव वयं विनष्टाः । यत एवं गते संधिरेव श्रेयस्कर इति । यत्कारणम्
प्रवृद्धचक्रेणाक्रान्तो राज्ञा बलवताबलः ।
संधिनोपक्रमेत् तूर्णं कोशदण्डात्मभूतये ॥ २ ॥
यतस्तेषां संनतिं कृत्वा सुखमनुद्विमा इहैव स्थास्याम इति । तस्यापि वचनमवधार्याडीविनं पृष्टवान् । भद्र एवमवस्थितेऽस्माकं किं प्राप्तकालं मन्यसे । स आह । वरमरण्ये हरिणरोमन्थकषायाण्यम्भांस्यासेवितानि न च प्रभुत्वर- सास्वादिनः परोपस्थाने कृपणजीवितमिति । अपि च
ज्यायान्न नमेदसमेऽसमोपनमनं महत्कष्टम् ।
गर्हितमेतत् पुंसामतिनमनं साहसधनानाम् ॥ ३ ॥
अपि च
दण्डानामिव नमतां पुंसां छाया विवृद्धिमुपयाति ।
क्षयमेति चातिनमतां तस्मात् प्रणमेन्न चातिनमेत् ॥ ४ ॥
तैश्च सहास्माकं संदर्शनमेव न विद्यते। संदर्शनेन विना कथं संधिर्भविष्यति । तत्सर्वथा युद्धमेव नस्तैः सह पुष्कलमिति । ततो मेघवर्णस्तेषां चतुर्णामपि पृथक् पृथगभिप्रायं ज्ञात्वा चिरंजीविनमाह । तात त्वमस्माकं चिरन्तनोऽन्वयागतः सचिवाऽजस्रं च हितान्वेषी । किमेवमवस्थितेऽप्यधुना प्राप्तकालं मन्यसे । यच्च त्वं श्रूषे तदेव नः श्रेयस्करमिति । एवमुक्ते चिरंजीव्याह। देव किमेभिर्नोक्तमस्ति यत्र सम वचनावकाशः स्यात् । इह हि संधिविग्रहयोः संधिर्वा विग्रहो वा तौ पूर्वोक्तावेव । तथापि यदाडीविनाभिहितं तत् पक्षव्यावर्तनायोच्यते । भद्र कथमेषामस्माकं च युद्धं सामान्यम् । तावदसाधारणं युद्धमस्माकम् । सर्वथा ते बलवन्तः । ततस्तैः सह न युद्धमस्माकमुचितम् । तथा च
परेषामात्मनश्चैव योऽविचार्य बलाबलम् ।
कार्यायोत्तिष्ठते मोहाद्व्यापदः स समीहते ॥ ५ ॥
लघुष्वपि विधातव्यं गौरवं परिपन्थिषु ।
कृत्यन्तरविधातॄणां भवन्ति ह्यफलाः क्रियाः ॥ ६ ॥
क्षमावन्तमरिं प्राज्ञं काले विक्रमसेविनम् ।
परात्मगुणदोषज्ञमनुस्मृत्य न विश्वसेत् ॥ ७ ॥
यमेवाभ्युपयाति श्रीरुपायपरितोषिता ।
निरुद्विग्ना हि तत्रास्ते न करग्रहदूषिता ॥ ८ ॥
शातयत्येव तेजांसि दूरस्थोऽप्युन्नतो रिपुः ।
सायुधोऽपि निकृष्टात्मा किमासन्नः करिष्यति ॥ ९ ॥
न भीतो न परामृष्टो नापयातो न वर्जितः ।
नाशस्त्रोऽप्यवमन्तव्यो नैको वेति नयाधिकैः ॥ १० ॥
यस्य सिध्यत्ययत्नेन शत्रुः स विजयी नरः ।
य एकतरतां गत्वा जयी विजित एव सः ॥ ११ ॥
सिद्धिं वञ्चनया वेत्ति परस्परवधेन वा ।
निरुपायं सुखं स्वान्तं द्वयोः किमिति चिन्त्यताम् ॥ १२ ॥
मदावलिप्तैः पिशुनैर्लुब्धैः कामात्मकैः शरैः ।
दर्पोद्धतैः क्रोधपरैर्दण्डनीतिः सुदुर्ग्रहा ॥ १३ ॥
इयं त्वभिन्नमर्यादैः स्वनुशिष्टैः कृतात्मभिः ।
सर्वंसहैरुपायज्ञैरमूढैरेव धार्यते ॥ १४ ॥
तत्सर्वथा युद्धमेव न श्रेयस्करमिति । कस्मात् । ज्यायसा विरोधो हस्तिना पादयुद्धमिवैकान्तविनाशाय । मेघवर्ण आह । तात कथय किं निष्प- न्नम् । सोऽब्रवीत् । भद्र संप्रधार्यतामेतत् । उक्तं च
या हि प्राणपरित्यागमूल्येनापि न लभ्यते ।
सा श्रीर्मन्त्रविदां वेश्मन्यनाहूतापि धावति ॥ १५ ॥
क्रमेण यः शास्त्रविदो हितैषिणः क्रिया विभाग सुहृदो न पृच्छति.........॥ १६ ॥ देशं बलं कार्यमुपायमायुः संचिन्त्य यः प्रारभते स्वकृत्यम् ।
महोदधिं नद्य इवाभिपूर्णं तं संपदः सत्पुरुषं भजन्ते ॥ १७ ॥
शूराः सर्वोपधाशुद्धा बुद्धिमन्तो विचक्षणः ।
सहायाः स्युर्नृपत्वं हि सत्सहायनिबन्धनम् ॥ १८ ॥
विषाणसंघट्टसमुत्थितानल-
स्फुलिङ्गमालाकुलितेऽपि दन्तिनाम् ।
रणेऽपि पीत्वा तु यशांसि विद्विषां
भवत्यविद्वान्न हि भाजनं श्रियः ॥ १९ ॥
तत्सर्वथा गुणवत्सहायपरिग्रहो विजिगीषूणामेकान्तसिद्धये । उक्तं च
न वंशमार्गक्रमलक्षणं गुणं
निरीक्षते नैव वपुर्न चागमम् ।
य एव शूरः सुसहायवान्नर-
स्तमेव लक्ष्मीश्चपलापि सेवते ॥ २० ॥
गुणेष्वाधारभूतेषु फले कस्यास्ति संशयः ।
न्यस्तश्चात्मा सतां वृत्ते विभूतिश्च न दुर्लभा ॥ २१ ॥
अपि कीर्त्यर्थमायान्ति नाशं सद्योऽतिमानिनः ।
न चेच्छन्त्ययशोमिश्रमप्येवानन्त्यमायुषः ॥ २२ ॥
जयायोत्क्षिप्यतां पादो दक्षिणः किं विचार्यते ।
मूलं हि प्राहुराचार्या दीर्घसूत्रत्वमापदाम् ॥ २३ ॥
श्रुतापविद्धैरेतैर्वा वृथा कि शुकभाषितैः ।
प्राज्ञस्त्वं त्यज्यतां मौनं यस्य वेला तदुच्यताम् ॥ २४ ॥
मन्त्रमूलं हि विजयं प्रवदन्ति मनीषिणः ।
मन्त्रस्य पुनरात्मा च बुद्धिश्चायतनं परम् ॥ २५ ॥
षडेव खलु मन्त्रस्य द्वाराणि तु नराधिप ।
विदितान्येव ते तात कीर्तयिष्यामि कीर्तितम् ॥ २६ ॥
आत्मानं मन्त्रिदूतं च छन्नं त्रिषवणक्रमम् ।
आकार ब्रुवते षष्ठमेतावान् मन्त्रनिश्चयः ॥ २७ ॥
असंगृहीतस्य पुनर्मन्त्रस्य शृणु यत्फलम् ।
अहीनं धर्मकामाभ्यामर्थं प्राप्नोति केवलम् ॥ २८ ॥
अथ व्यवसितानुज्ञा छेदनं संशयस्य च ।
अनिशं तस्य च ज्ञानं मन्त्रिणां विविधं फलम् ॥ २९ ॥
तद्यथा यो मन्त्रो विस्रम्भणं गच्छति तथा प्रयतितव्यम् । यत्कारणम्
मिथ्या प्रणिहितो मन्त्रः प्रयोक्तारमसंशयम् ।
दुरिष्ट इव वेतालो नानिहत्योपशाम्यति ॥ ३० ॥
आत्मपक्षक्षयायैव परपक्षोदयाय च ।
मन्त्रद्वैधममात्यानां तन्न स्यादिह भूतये ॥ ३१ ॥
आयव्ययौ यस्य च संविभक्तौ
छन्नश्च चारो निभृतश्च मन्त्रः ।
न चाप्रियं मन्त्रिषु यो ब्रवीति
स सागरान्तां पृथिवीं प्रशास्ति ॥ ३२ ॥
तदेवं पुनर्ब्रवीमि । युद्धं न श्रेय इति । संधिरप्यशक्योऽर्थः सहजवैरानु- बन्धानाम् । तद्यदि मयावश्यं मन्त्रयितव्यं तदपनीयन्तामेते मन्त्रिमात्रव्यपदेशके- वलोपजीविनः कथाकुशलाः । न च करणीयेष्वात्यायिकेषु षट्कर्णं रहस्यं फलवद्भ- वति । तथा चानुष्ठिते मेघवर्ण आह । तात बालभावादनभिज्ञोऽस्मि । यथा ब्रवीषि तथा करोमि। त्वदायत्तं हि सर्वमिदम् । त्वमधुनार्थवादी ज्ञानविज्ञान- संपन्नः पितृक्रमेण हितैषी । किं तु कौतूहलमुच्यताम् । कथं पुनरस्माकमुलूकैः सह वैरमुत्पन्नमिति । सोऽब्रवीत् । भद्र वाग्दोषात् ।
सुचिरं हि चरन्नित्यं ग्रीष्मे सस्यमबुद्धिमान् ।
द्वीपिचर्मप्रतिच्छन्नो वाग्दोषाद्रासभो हतः ॥ ३३ ॥
सोऽब्रवीत् । कथं चैतत् । चिरंजीव्याह । अथ द्वीपिचर्मप्रतिच्छन्नरासभकथा नाम प्रथमा कथा । अस्ति कस्यचिद्रजकस्य वस्त्रनयनातिभारपीडया गर्दभोऽवसन्नः । रजकेन चासौ पोषणबुद्धिना द्वीपिचर्मणा परिच्छाद्य रात्रौ परसस्येषु मुक्तः । स च यथेष्टं
सस्यभक्षणं करोति । न कश्चिद् द्वीपिबुद्धया तदन्तिकमुपेत्य सस्येभ्यो निवार- यति । अथ कदाचित् केनापि कार्षिकेण सस्यरक्षकेण स दृष्टः । द्वीप्ययं नष्टोऽ- स्मीति मत्वा कुब्जीभूय धूसरकम्बलावेष्टिततनुरुद्यतधनुष्पाणिः शनैः शनैरपक्र- मितुमारब्धः । तं च दूरे दृष्ट्वा गर्दभः पुष्टाङ्गो जातबलो गर्दभीयमिति मत्वा निष्कृष्टायुः परं वेगमास्थायोपसर्पितुमारब्धः । असावपि शीघ्रतरवेगो धावति । गदर्भश्चैवमचिन्तयत् । कदाचिदियं द्वापिचर्मव्यवस्थितशरीरं मां दृष्ट्वान्यथैवाव- गच्छेत् । अतोऽहमस्याः स्वां प्रकृतिमास्थाय वाशितेन मनोह्लादनं करिष्यामि । इति वाशितुमारब्धः । तच्च श्रुत्वा सस्यरक्षकेण शब्दाद्गर्दभोऽयमिति मत्वा
प्रतिनिवृत्यासाविषुणा व्यापादितः ।
इति प्रथमा कथा समाप्ता ॥
अतोऽहं ब्रवीमि । सुचिरं हि चरन्नित्यमिति । एवमस्माकमपि वाग्दोषा- दुलूकैः सह वैरमुत्पन्नमिति । मेघवर्ण आह । कथमेतत् । सोऽकथयत् । अथ पक्षिराजनियोजनकथा नाम द्वितीया कथा । अस्त्यराजके सर्वपक्षिणां संभूय चित्तमुत्पन्नम् । कतमं राजानं पक्षिणा- मभिषिञ्चाम इति । ततस्तेषां मतमुत्पन्नम् । उलूकोऽभिषिच्यतामिति । तस्य यथाविधि सर्वाभिषेकोचितद्रव्यसंभारं कृत्वा छत्रचामरव्यजनसिंहासनभद्रपी- ठक्षौमवासोनन्द्यावर्तादिनाभिषेकः प्रारब्धः । अथ नभसा व्रजन् काकः समा- यातः । ते तुः सं दृष्ट्वा स्तम्भिताभिषेकाः । अवश्यमयमपि समुदायेऽभ्यन्त- रीकर्तव्यः । यत्कारणं महदिदं पार्थिवं राजकार्यम् । पृष्टश्चासावागतः । भद्र किं तवाप्येतदभिरुचितं प्रजापालत्वं दिवान्धस्येति । अथासावाह । किमन्ये पक्षिण उत्सादं गता हंसकारण्डचक्रवाकक्रौञ्चमयूरकोकिलहारीतजीवजीवका- दयो येनायमप्रसन्नदृष्टिरुलूको राज्येऽभिषिच्यते । अपि च
वक्रनासं सुजिह्माक्षं क्रूरमप्रियदर्शनम् ।
अक्रुद्धस्य मुखं पापं क्रुद्धः किं नु करिष्यति ॥ ३४ ॥
स्वभावरौद्रमत्युग्रं क्षुद्रमप्रियवादिनम् ।
उलूकमभिषिच्येम कथं रक्षा भविष्यति ॥ ३५ ॥
सोऽयं दृष्टदिग्दाहं करोत्यव्यपदेशक्षमश्च । उक्तं च
व्यपदेशेऽपि सिद्धिः स्यादशक्तश्च नराधिपः ।
शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥ ३६ ॥
पक्षिण ऊचुः । कथं चैतत् । काक आह । अथ हस्तिशशकेन्दुकथा नाम तृतीया कथा । अस्ति कदाचिद् द्वादशवार्षिक्यनावृष्टिरापतिता । तया च तडागह्रदप- ल्वलसरांसि शोषमुपागतानि । सर्वसत्त्वानां तृष्णार्तानां महद्व्यसनमुत्पन्नं विशे- षेण तु दन्तिनाम् । अथ चतुर्दन्तो नाम हस्तिराजः । सोऽन्यैर्गजैर्विज्ञापितः । देव । पिपासाकुलाः कलभाः केचिन् मृतावस्थाः सन्ति । मृताश्चापरे । तच्चि- न्त्यतां कश्चित् पिपासापनयनायोपायः । ततो यूथपतिनाष्टास्वपि दिक्षु वेगवन्तो धावन्त उदकान्वेषणाय प्रेषिताः । तत्र चैकेनागत्य कथितम् । देव नातिदूरे विमलजलसंपूर्णं व्योमैकदेशमिव महच्चन्द्रसरो नाम सरस्तिष्ठति । हस्तिराजश्च तथैव सर्वान् गृहीत्वा सत्वरं सहर्षं प्राप्तस्तत् सरः । अवतरद्भिश्च तैः समन्ता- दसुखावतारे तस्मिन् सरस्तीरे पूर्वकृतावासाः शशकाः संपिष्टशिरोग्रीवा बहवः कृताः । अथ पीत्वावगाह्य गते तस्मिन् गजयूथे हतशेषाः शशकाः संप्रधारयि- तुमारब्धाः । अथ शिलीमुखो नाम शशकराज आह । अधुना किं करणीयम् । विनष्टमस्मत्कुलम् । दृष्टमार्गैरेभिः पुनरिहावश्यमागन्तव्यम् । तद्यावदेत इह ना- गच्छन्ति तावदुपायश्चिन्त्यतामिति । अथ तत्र बहुवृत्तान्तदर्शी विजयो नाम शशकस्तानाह । शक्यमेतत् । न पुनर्यथेहागमिष्यन्ति त इयं मे प्रतिज्ञा । किं तु मम कर्मसाक्षिणः केवलं प्रसादः क्रियताम् । इति । तच्छ्रुत्वा शिलीमुखः सहर्षमिदमाह । भद्र अवश्यमेतदेव । यत्कारणम्
नीतिशास्त्रार्थतत्त्वज्ञो देशकालविभागवित् ।
विजयः प्रेष्यते यत्र तत्र सिद्धिरनुत्तमा ॥ ३७ ॥
हितवक्ता मितवक्ता संस्कृतवक्ता न चापि बहुवक्ता ।
अर्थान् विमृश्य वक्ता स हि वक्ता सर्वकार्यकरः ॥ ३८॥
भवतो बुद्धिप्रागल्भ्यमुपलभ्य मम दूरस्थस्यापि शक्तित्रयं इलिनो ज्ञास्यन्ति । यतः
दूतं वा लेखं वा दृष्ट्वाहं नरपतेरदृष्टस्य ।
जानामि तं नरेन्द्रं प्राज्ञं प्रज्ञाविहीनं वा ॥ ३९ ॥
दूत एव हि संदध्याद् दूतो भिन्द्याच्च संहतान् ।
दूतस्तत् कुरुते कर्म सिध्यन्ति येन मानवाः ॥ ४० ॥
त्वयि च गते स्वयमेवाहं गत इव । इति । यत्कारणम्
ब्रूया अनुगतं युक्तं मन्यसे यच्च साध्विति ।
ब्रूया अनुमतं सर्वमस्मद्वचनमेव तत् ॥ ४१ ॥
अयं दूतार्थसंक्षेपः प्रत्यर्थनियता गिरः ।
प्रयोजनं क्रियोत्पादि कियच्छक्येत भाषितम् ॥ ४२ ॥
इति शशराजमामन्त्र्य विजयशशो हस्तिराजसमीपं प्रायात् । गत्वा च द्विरदपतिं दृष्ट्वा चिन्तयामास । अशक्योऽनेन सहास्मद्विधानामल्पकायानां संगमः । यदाहुः
स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः ।
हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ॥ ४३ ॥
अतोऽहं पर्वतशिखरमारुह्य हस्तिराजमभिवादयामीति । तथैवानुष्ठीयाब्रवीत् । भो अपि भवतः सुखम् । तच्च श्रुत्वा वीक्ष्य हस्तिराजः शशकमाह । कस्त्वं कुतो भवान् । स आह । दूतोऽहं भगवता चन्द्रेण प्रेषितः । यूथपतिराह । कार्यमुच्यताम् । शशक आह । जानात्येव भवान्यथार्थवादिनो दूतस्य न दोषः करणीयः । दूतमुखा हि राजानः सर्व एव । उक्तं च
उद्धृतेष्वपि शस्त्रेषु दूतो वदति नान्यथा ।
ते वै यथोक्तवक्तारो न वध्याः पृथिवीभुजा ॥ ४४ ॥
सोऽहं चन्द्राज्ञया ब्रवीमि । कथं नामात्मानं परं चैवापरिछिद्य भवान् परा- पकारे प्रवर्तते । उक्तं च
परेषामात्मनश्चैव योऽविचार्य बलाबलम् ।
कार्यायोत्तिष्ठते मोहादापदः स समीहते ॥ ४५ ॥
तत्त्वयास्मन्नामप्रसिद्धं चन्द्रसरोऽन्यायेन धर्षितम् । तत्र चास्मत्संरक्षणीयाः शशका व्यापादिताः । न चैतद्युक्तम् । ते तु मयैव भर्तव्याः । येनाहं तानुरसा धारयाम्यत एव शशाङ्क इति लोके प्रख्यातनामाऽस्मि । स त्वं यदि न
निवर्तसेऽस्मादव्यापारात् ततोऽस्मत्तो महान्तमनर्थं प्राप्स्यसि । निवृत्तस्य महान् विशेषो भविष्यति । अस्मज्ज्योत्स्नयाप्यायितशरीरः स्याः । अन्यथास्म- द्रश्मिसंनिरोधाद् घर्माभितापितशरीरः सद्यः सपरिवारो विनाशमेष्यसीति । एवमुक्तवति दूते हस्तिराजोऽतीवभयक्षुभितहृदयस्तमाह । भद्र सत्यं मयाज्ञा- नादपकृतं सोऽहमधुना शशिना सह विरोधं न करिष्यामीति । स आह । स राजात्र सरस्येव तिष्ठति । तदागच्छतु भवानेकाकी यावदहं तं दर्शयामि । भगवन्तं प्रणम्य प्रसाद्य च गच्छ । इत्युक्त्वा तं गजं रात्रौ चन्द्रसरो नीत्वा संपूर्णकलामण्डलमुदकगतं चन्द्रप्रतिबिम्बमदर्शयत् । असावपि हस्तिराजो देव- ताप्रणामं परमशुचिर्भूत्वा करोमीति मत्वा द्विमनुष्यबाहुग्राह्यप्रमाणं करमम्भसि प्रक्षिप्तवान् । अथ संक्षुभितोदकचलन्मण्डल इतश्चेतश्च चक्रारूढ इव बभ्राम । तेन गजश्चन्द्रसहस्रमपश्यत् । अथाविग्नहृदय इव प्रतिनिवृत्य विजयोऽब्रवीत् । कष्टं कष्टं द्विगुणतरमाकोपितस्त्वया चन्द्रमाः । स आह । केन हेतुना भगवां- श्चन्द्रो मयि प्रकुपितः । विजयोऽब्रवीत् । स्पर्शनादस्य पानीयस्य । अथ तच्छ्रुत्वा संलीनवालधिराकृष्य करं निकृष्टजानुरवनितलविन्यस्तशिराः प्रणम्य भगवन्तं चन्द्रमसं हस्त्यवोचत् । देव । इदमज्ञानात्कृतं क्षम्यताम् । न चाहं पुनरिहाग- मिष्यामि । इत्युक्त्वानवलोकयन्नेवापुनरागमनाय यथागतं प्रायात् । इति तृतीया कथा समाप्ता । अतोऽहं ब्रवीमि । व्यपदेशेऽपि सिद्धिः स्यादिति । अपि च क्षुद्रोऽयमुलूको दुरात्मा न शक्तः प्रजाः पालयितुम् । उक्तं च
क्षुद्रमर्थपतिं प्राप्य कुतो विवदतोः सुखम् ।
उभावपि क्षयं यातौ यथा शशकपिञ्जलौ ॥ ४६ ॥
विहगा ऊचुः । कथं चैतत् । सोऽब्रवीत् । अथ मार्जारकपिञ्जलशशककथा नाम चतुर्थी कथा । अस्ति । अहं पुरा कस्मिंश्चिद् वृक्षे न्यवसम् । तत्रैवाधस्तात् कोटरे कपि-
ञ्जलो नाम पक्षी प्रतिवसति स्म । तत आवयोः परस्परमेव संवासगुणादभेद्या प्रीतिरुत्पन्ना प्रतिदिवसं च कृताहारविहारयोः प्रथमप्रदोषकाले सुभाषितप्रश्न- प्रतिप्रश्नैः कालोऽतिवर्तते । अथ कदाचिदालापवेलायां सायंतनसमयेऽपि कपि- ञ्जलो नायाति । यतो मम हृद्गतातीवाकुलता समुत्पन्नैवं चाचिन्तयम् । किमसौ विनष्टो बद्धो वाथवान्यावास एतस्य प्रीतित्पन्ना येन नायातीति मम चिन्त- यतो बहूनि दिनानि व्यतिक्रान्तानि । अनन्तरं च तस्यावासकोटरं दीर्घकर्णो नाम शशक आगत्य प्रविष्टः । तं च दृष्ट्वाहमचिन्तयम् । स एव मे सुहृन्नास्ति किं ममावासव्यापारेण । स तत्र कियत्कालं यावतिष्ठत् तावत् कपिञ्जलोऽत्रैव समायातः । अथासौ कोटरगतं शशकं दृष्ट्वाह । भो मदीयमिदं स्थानं तच्छी- घ्रमपगम्यतामितः । स तमाह । मूर्ख किं न ते विदितमुपस्थानभोग्य आवासो भुक्तिश्च । कपिञ्जल आह । सन्त्यत्र प्राश्निकाः पृच्छामो देशरूपमिति । उक्तं च धर्मशास्त्रे ।
वापीकूपतडागानां गृहस्यावसथस्य च ।
सामन्तप्रत्यया सिद्धिरित्येवं मनुरब्रवीत् ॥ ४७ ॥
तथा नामेति प्रतिपद्य प्रस्थितौ व्यवहारकारणाय । अहमपि कौतुकात् तयोरेव पृष्ठतोऽनुगतः । पश्यामि किमत्र भविष्यतीति । ततो नातिदूरं गत्वा कपिञ्जलः शशकमाह । कः पुनरावयोर्व्यवहारं द्रक्ष्यति । शशक आह । नन्व- यं नदीपुलिनगतो दधिकर्णो नाम वृद्धमार्जारस्तपःसंश्रितः सत्त्वजातानुकम्पो धर्मशास्त्रविद् वसति । सोऽस्माकं न्यायदर्शी भविष्यति । तच्च श्रुत्वा कपि- ञ्जलोऽब्रवीत् । अलमनेन क्षुद्रेण । उक्तं च ।
न हि विश्वसनीयः स्यात् तपस्विछद्मना स्थितः ।
दृश्यन्ते बहवस्तीर्थे गलदन्तास्तपस्विनः ॥ ४८ ॥
तच्च श्रुत्वा सुखोपायप्रवृत्तिप्रसाधनहरूपी दधिकर्णो मार्जारस्तद्वि- श्वासनार्थं सुतरामादित्याभिमुखो द्विपादः स्थित ऊर्ध्वबाहुर्निमीलितैकनयनो जप- न्नासीत् । जपतश्च तस्य विश्वस्तहृदयावुपश्लिष्टौ स्थानव्यवहारश्रावणमकुरु- ताम् । भोस्तपस्विन् धर्मदेशक । आवयोर्विवादो वर्तते तद्धर्मशास्त्रद्वारेणा- स्माकं निर्णयं देहि । तेन चाभिहितम् वृद्धत्वाद्धतेन्द्रियत्वाच्च दूरान्न सम्यक्
शृणोम्यहम् । संनिकृष्टं भूत्वोच्चैः श्रावयतम् । ततस्तौ निकटीभूय कथयतः । ततस्तत्संनिधानार्थं विश्वासमुपपादयता दधिकर्णेन धर्मशास्त्रं पठितम् ।
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतो वधीत् ॥ ४९ ॥
एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः ।
शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥ ५० ॥
अन्धे तमसि मज्जामः पशुभिर्ये यजामहे ।
अहिंसायाः परो धर्मो न भूतो न भविष्यति ॥ ५१ ॥
मातृवत् परदारांस्तु परद्रव्याणि लोष्टवत् ।
आत्मवत् सर्वभूतानि यः पश्यति स पश्यति ॥ ५२ ॥
तत्किं बहुना तथा तौ छद्मना विश्वासमानीतौ येनाङ्कमुपगतावुभावप्ये- कदैव तेन क्षुद्रेण गृहीतौ हतौ चेति । इति चतुर्थी कथा समाप्ता । अतोऽहं ब्रवीमि । क्षुद्रमर्थपतिं प्राप्येति । तत्सर्वथा नायं क्षुद्रो राज्य- योग्य उलूक इति । तस्य तु तद्वचनं श्रुत्वा साध्वनेनाभिहितमिति मत्वाब्रुवन् । पुनरेव समवायं कृत्वा महद्राजकार्यं संप्रधारयिष्यामः । इत्युक्त्वा यथागतं सर्वपक्षिणो विचेरुः । केवलस्त्ववशिष्टो भद्रपीठगतोऽभिषेकाभिमुखो दिवान्धः केन चेदमनर्थायाभिहितं मम वायसेनेत्युपलब्धवार्त्त उलूको वायसवचनेनादीपि- तमनास्तमाह । किं मयापकृतं भवतो येनाभिषेकव्याघातः कृत इति ।
संरोहतीषुणा विद्धं वनं परशुना हतम् ।
दग्धं दावानलेनापि न प्ररोहति वाक्क्षतम् ॥ ५३ ॥
तत्किं बहुनाद्यदिवसादारभ्यास्माकं भवतां च वैरम् । इति चाभिधाय दि- वान्धः क्रुधा यथागतं प्रायात् । असावपि वायसो भयव्याकुलश्चिन्तयामास । किमर्थं मया सामान्येऽर्थे कृतमिति । साध्वभिहितम् । अदेशकालार्थमनायतिक्षमं यदप्रियं लाघवकारि चात्मनः ।
यो भाषते कारणवर्जितं वचो न तद्वचः स्याद् विषमेव तद्भवेत् ॥ ५४ ॥
बलोपपन्नोऽपि हि बुद्धिमान्नरः
परं नयेन्न स्वयमेव वैरिताम् ।
भिषङ् ममास्तीति विचिन्त्य भक्षये-
दकारणं को हि विचक्षणो विषम् ॥ ५५ ॥
तदिदमापतितं ममाज्ञानादिति । यच्च हितैषिभिः सार्धमसंप्रधार्य क्रियते तस्ये- दृश एव विपाको भवति । उक्तं च
सुहृद्भिराप्तैरसकृत्परीक्षितं
स्वयं च भूयः परिचिन्तिताश्रयम् ।
करोति कार्यं खलु यः स बुद्धिमान्
स एव लक्ष्म्या यशसश्च भाजनम् ॥ ५६ ॥
इति । एवमुक्त्वा काकोऽपि ततः स्थानात् प्रायात् । इति द्वितिया कथा समाप्ता । तदेवं देव वाक्कृतादस्माकमुलूकैः सह वैरमिति । मेघवर्ण आह । अ- वगतं मयेदम् । तात संप्रधार्याधुना यावत्तेऽस्मान् प्रति संनिपाताय नेहाग- च्छन्ति तावदुपायश्चिन्त्यताम् । असावाह । स्वामिन् संधिविग्रहासनयानसं- श्रयद्वैधीभावानां षण्णां गुणानां संधिविग्रहावादौ व्याख्यातौ । अधुना त्वास- नयानसंश्रयद्वैधीभावानामस्माकमभाव एव । यत्कारणम् । आसनं बलीय- सि द्विषति स्थानस्यात्मनश्च विनाशाय भवति । यानं तावत्स्थानपरित्यागाय । कं बलवन्तं संश्रयामः कस्य द्वैधीभावः । तदेवं गते सामदानभेददण्डानां चतुर्णां नयानां नास्त्यवकाशः । अस्ति पञ्चमोऽप्यशास्त्रकर्तुर्नयश्छलो नाम । तमङ्गी- कृत्य तमेवाहं तद्विजयाय परिभवाय च प्रयतिष्ये । उक्तं च
बहवोऽबलवन्तश्च कृतवैराश्च शत्रवः ।
शक्ता वञ्चयितुं बुद्ध्या ब्राह्मणं छागलादिव ॥ ५७ ॥
सोऽब्रवीत् । कथं चैतत् । चिरंजीव्याह ।
अथ ब्राह्मणधूर्तकथा नाम पञ्चमी कथा । अस्ति कश्चिद् ब्राह्मणो ग्रामान्तरात् पशुबन्धननिमित्तं छागमादाय स्कन्धे कृत्वा स्ववेश्मनि गच्छन् पथि धूर्तैर्दृष्टः। तैश्चिन्तितम् । ब्राह्मणोऽयं छागं त्याज्यतामिति । ततस्तस्यैवाग्रतः कृतसंकल्पैर्मार्गाभिमुख्येनागच्छद्भिरेकद्वित्रि- प्रविभागेन स्थितम् । यस्तु तेषामग्रगस्तेन ब्राह्मणोऽभिहितः । किमित्ययं कुक्कु- रस्त्वया स्कन्धेनोह्यते । अथवा श्वापदव्यापादने कुशल इति । एवमुक्त्वाप- क्रान्तः । ब्राह्मणश्चिन्तयामास । किमनेन दुरात्मनाभिहितम् । कथमहं श्वानं स्कन्धे करिष्यामि । यावदन्यौ द्वौ धूर्तौ ताभ्यामपि ब्राह्मणोऽभिहितः । ब्रह्मन् किमिदमसदृशं व्यवसितं यज्ञोपवीतमक्षमाला कमण्डलुस्त्रिपुण्ड्रकं स्कन्धे च श्वा विधुरम् । अथवा शशमृगसूकरव्यापादने नूनमयं कुशल इति । एवमु- क्त्वा तावतिक्रान्तौ । ब्राह्मणस्तु जिज्ञासया छागं भूमौ निधाय सुनिपुणं कर्णशृङ्गवृषणपुच्छादीनवयवान् परामृश्याचिन्तयत् । मूर्खास्ते कथमिमं श्वान- मिवावधारयन्ति । पुनः स्कन्धेनादाय प्रायात् । अथान्यैस्त्रिभिरभिहितो ब्राह्मणः । न त्वया स्प्रष्टव्या वयमित्येकपार्श्वेन गम्यतां यत्कारणं शुचिरसि लिङ्गमात्रेण ब्राह्मण श्वसंपर्कान्नूनं व्याधो भविष्यसि । इत्युक्त्वापक्रान्ताः । अथासौ ब्राह्मण- श्चिन्तयामास । कथं ममेन्द्रियाणि विकलानि । अथवा यतो बहुत्वं तत्प्रमाणम् । दृश्यन्ते च लोके विपरीतानि । कदाचिदयं श्वरूपी राक्षसः स्यात् । किमस्य शक्यं श्वरूपं कर्तुमिति । एवं संप्रधार्य छागं त्यक्त्वा स्नात्वा गृहं ययौ । धूर्तैश्च स छागो गृहीत्वा भक्षितः । इति पञ्चमी कथा समाप्ता । अतोऽहं ब्रवीमि । बहवोऽबलवन्तश्चेति । तद्देव । अस्ति मे किंचिद्व- क्तव्यम् । तच्चावधार्य यथोक्तमनुष्ठेयम् । सोऽब्रवीत् । तात । अथ किम् । चिरंजीव्याह । देव मां लुञ्चितपक्षं कृत्वातिनिष्ठुरवचनैर्निर्भर्त्स्य पूर्वहताना- माहृतदधिरेणालिप्यास्यैव न्यग्रोधपादपस्याधस्तात् प्रक्षिप्यर्ष्यमूकपर्वते गम्य- ताम् । तत्र सपरिवारस्तिष्ठ । यावदहं तान् सपनाञ् छास्त्रप्रणीतेन विधिना दक्षिणाशामुखान् कृत्वा कृतार्थः पुनस्त्वत्सकाशमागच्छामि । न च त्वया
मां प्रति कृपा कार्या । तथा चानुष्ठितेऽस्तं गते सवितर्यसावरिमर्दनः स्वसैन्य- परिवारस्तमेव न्यग्रोधमधिरूढः । न च तत्र कंचिदपि वायसमपश्यत् । शिख- रगतश्चाचिन्तयत् । क्व ते शत्रवो गता इति । अथ चिरंजीवी क्षितितलगतस्तै- रदृष्ट एवं चिन्तयामास । यद्येते शत्रवोऽनुपलब्धवृत्तान्ता एवापयान्ति ततो मया किं कृतं भवति । उक्तं च
अनारम्भस्तु कार्याणां प्रथमं बुद्धिलक्षणम् ।
आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥ ५८ ॥
तद्वरमनारम्भो न त्वारब्धविनाशः कृतः । यतोऽहमेषां स्वशब्दश्रावणादात्मानं दर्शयामीति । एवमनुचिन्त्य चिरंजीवी मन्दं मन्दं शब्दमकरोत् । तत् संनिकृ- ष्टस्थाः श्रुत्वोलूका वायसस्यायं शब्द इत्यवधार्य स्वामिने निवेदयन्ति स्म । तच्च श्रुत्वा कौतुकपरोऽरिमर्दनोऽवतीर्य व्यक्तं साधयित्वा सचिवानब्रवीत् । पृच्छ्यतां कस्त्वमिति । अथ तेनोक्तम् । अहं चिरंजीवीति । तच्छ्रुत्वोलूकराजः सविस्मय आह । अयं तस्य वायसराजस्याभिमतो मुख्यो मन्त्रधरः । कथमिमां दशामुप- गतोऽस्ति । स एवं पृष्टस्तमाह । स्वामिन् श्रूयताम् । अस्ति किञ्चित् समुत्सादनं कृत्वा युष्मास्वपयातेषु मेघवर्णो हतशेषान् सैनिकान् दृष्ट्वा परं विषादमगमत् । मन्त्रिभिः सह संप्रधारितवान् । किं बहुना त्वद्विनाशाय प्रारब्धमिति । ततो मयाभिहितम् । बलवन्तस्ते हीना वयं तत्सर्वथा प्रणतिरेव तेभ्यो अस्माकं शिवा- येति । उक्तं च
बलीयसा हीनबलो विरोधं
न भूतिकामो मनसापि कुर्यात् ।
न वञ्च्यते वेतसवृत्तिरर्थै-
रेकान्तनाशोऽस्ति पतंगवृत्तेः ॥ ५९ ॥
ततोऽयं शत्रुपक्षपातीत्युक्त्वाहमिमामवस्थां निरपेक्षैर्वायसैर्नीतः । तच्च श्रुत्वारि- मर्दनः पितृपैतामहैः स्वमन्त्रिभिः सहावधारितवान् रक्ताक्षक्रूराक्षदीप्ताक्षवक्र- नासप्राकारकर्णैः । तत्रादौ रक्ताक्षं पृष्टवान् । भद्र किमेवं गते कार्यमिति । सो- ऽब्रवीत् । किमत्र चिन्त्यते । अविचार्य हन्तव्योऽयम् । यत्कारणम् ।
हीनः शत्रुर्निहन्तव्यो यावन्न बलवान् भवेत् ।
संजातबलपौरुष्यः पश्चाद्भवति दुर्जयः ॥ ६० ॥
अपि च स्वयमुपगता श्रीस्त्यज्यमानाभिशपतीति लोकप्रवादः । उक्तं च
कालो हि सकृदभ्येति यन्नरं कालकाङ्क्षिणम् ।
दुर्लभः स पुनस्तेन कालः कर्म चिकीर्षता ॥ ६१ ॥
तस्मिन्निहते शत्रौ राज्यमकण्टकं भविष्यतीति । तस्यैतद्वचनं श्रुत्वा क्रूराक्षं पप्रच्छ । भद्र त्वं तु किं मन्यसे । सोऽब्रवीत् । देव । अवध्योऽयं शरणागतः । यत्कारणम् ।
वदत्सु दैन्यं शरणागतेषु
बहुप्रहारेषु भयेन युक्ताः ।
दयाविहीनाः प्रहरन्ति येऽत्र
ते रौरवादीनि निषेवयन्ति ॥ ६२ ॥
सर्वोपधिसमृद्धस्य नाश्वमेधस्यं यत्फलम् ।
तत्फलं लभते त्रस्ते रक्षिते शरणागते ॥ ६३ ॥
एतदपि श्रुत्वा दीप्ताक्षं पृष्टवान् । भद्र किं भवान् मन्यते । सोऽब्रवीत् । देव निश्चितमेव शरणागतः शत्रुरप्यवध्य इति ।
श्रूयते हि कपोतेन शत्रुः शरणमागतः ।
पूजितश्च यथान्याय्यं स्वैश्च मांसैर्निमन्त्रितः ॥ ६४ ॥
या ममोद्विजते नित्यं सा मामद्यावगूहते ।
प्रियकारक भद्रं ते यन् ममास्ति हरस्व तत् ॥ ६५ ॥
चौरेणाप्युक्तम् ।
हर्तव्यं ते न पश्यामि हर्तव्यं चेद्भविष्यति ।
पुनरप्यागमिष्यामि यदीयं नावगूहते ॥ ६६ ॥
अरिमर्दन आह । कथं चैतत् । सोऽब्रवीत् । अथ स्थविरतरुणभार्याचौरकथा नाम षष्ठी कथा । अस्ति कश्चित् सार्थवाहोऽतीताशीतिवर्षोऽर्थप्राधान्यात् तरुणां भार्या- मवाप्तवान् । सा तु नवयौवनसंपन्ना वृद्धसंयोगाच्चालेख्यगतेव निष्प्रयोजनं
यौवनं मन्यमाना तत्समेतापि प्रतिनक्तं शयनतलगता विपरिवर्तमानाङ्गयष्टिः परं दुःखमनुभवति । अथ कदाचिद्रात्रौ तस्य गृहे परवित्तापहारी चौरः प्रविष्टः । तं च दृष्ट्वा सा भयोपगता विपरिवृत्य भर्तारं पीडितमङ्गैरालिङ्गितवती । तथा च वर्तमानेऽसौ प्रीतिप्रहर्षप्रस्पन्दितरोमाञ्चितशरीरः किमिदमत्यद्भुतमसंभाव्यं च मया प्राप्तमिति मत्वा समन्तादवलोकयंश्चौरमपश्यत् । पुनरचिन्तयत् । नून- मेवास्य भयान्मां समालिङ्गति । इति ज्ञात्वा तं चाब्रवीत् । भद्र । या ममोद्वि- जते नित्यमिति । चौरोऽपि सौहार्दात् तमाह । हर्तव्यं ते न पश्यामीति । इति षष्ठी कथा समाप्ता । तदत्र चौरस्यापि परवित्तापहर्तुरपकारिणः श्रेयश्चिन्त्यते । किं पुनः शरणागत- स्याभ्युपेतस्येति । अपि चायं तैर्विप्रकृतोऽस्माकमेव पुष्टये तदवसादाय व भवि- ष्यति तदीयरन्ध्रदर्शनाय वा । इति । एवमयमवध्यः । इति । एतदाकर्ण्यारि- मर्दनोऽन्यं सचिवं वक्रनासं पप्रच्छ । भद्र सांप्रतमेवं स्थिते किं कर्तव्यम् । सोऽब्रवीत् । देव । अवध्योऽयमिति । यतः
शत्रवोऽपि हितायैव विवदन्तः परस्परम् ।
चौरेण जीवितं दत्तं राक्षसेन तु गोयुगम् ॥ ६७ ॥
राजाह । कथं चैतत् । असावकथयत् । अथ ब्राह्मणचौरराक्षसकथा नाम सप्तमी कथा । अस्ति कस्यचिद् दरिद्रब्राह्मणस्य प्रतिग्रहलब्धमाबालभावाद् घृततैल- वणयवसयोग्याशनसंवर्धितं सुपुष्टं गोयुगलम् । तच्च दृष्ट्वा चौरः कश्चिदेव चिन्तितवान् । अथैव तदपहरिष्यामीति प्रथमप्रदोषसमये गन्तुमारब्धः । गच्छंश्च केनाप्यविज्ञातेन स्कन्धप्रदेशसंश्लिष्टः । अथ तेन भयात् पृष्टः । को भवानिति । स च सत्यवचनमाह । नक्तंचरोऽयं ब्रह्मराक्षसः । भवानपि कथयतु । कस्त्वमिति । सोऽब्रवीत् । अहं चौरः । तेन पुनः पृष्टः । क्व ग- च्छति भवानिति । तेनोक्तम् । कस्यचिद्ब्राह्मणस्य गोयुगमपहर्तुमिच्छामि । त्वं पुनः कुतो गच्छसि । अथ विज्ञातप्रत्ययो ब्रह्मराक्षसोऽप्याह । अहमपि तमेव ब्राह्मणं ग्रहीतुं प्रवृत्तः । अथ तौ द्वावपि तत्र गत्वैकान्ते कालमन्वेषयन्तौ स्थितौ ।
प्रसुप्ते च ब्राह्मणे ब्रह्मराक्षसः प्रथमं तद्ग्रहणाय संश्लिष्टश्चौरेणाभिहितः । नैष न्यायः । गोयुगे मयापहृते पश्चाद्ग्रहीष्यसीति । सोऽब्रवीत् । अयमप्यनयः । कदाचिदयं गोशब्देन प्रतिबुध्यते । ततो मे व्यर्थः स्यादागम इति । चौरेणोक्तम् । यदि त्वया गृहीतोऽयं कलकलं कृत्वोत्थास्यति ततः सर्वेऽप्युत्थास्यन्ति । तदा- हमपि न शक्नोमि गोयुगमपहर्तुम् । अतः प्रथमं मयापहृते गोयुगे पश्चात्त्वया ब्राह्मणो भक्षयितव्यः । एवं तयोः परस्परं विवदतोर्वैरं समुत्पन्नमहंपूर्विकया च युगपद्द्ब्राह्मणः प्रतिबुद्धः । चौरस्तावदवोचत् । ब्राह्मण ब्रह्मराक्षसोऽयं त्वां ग्रहीतुमिच्छति । ब्रह्मराक्षसोऽप्याह । चौरोऽयं ते गोयुगलमपहर्तुमिच्छति । एवं श्रुत्वोत्थाय ब्राह्मणः सावधानो भूत्वेष्टदेवतामन्त्रध्यानेनात्मानं राक्षसादु- द्गूर्णलगुडेन च चौराद्गोयुगं ररक्ष । ततस्तावुभावपि चौरराक्षसावपयाताविति । इति सप्तमी कथा समाप्ता । अतोऽहं ब्रवीमि । शत्रवोऽपि हितायैवेति । अपि च
शिबिनापि स्वमांसानि कपोतार्थे महात्मना ।
श्येनाय किल दत्तानि श्रूयते पुण्यकर्मणा ॥ ६८ ॥
अतस्त्वमपि शरणागतं हन्तुं नार्हसि । ततोऽनन्तरं प्राकारकर्णमपृच्छत् । सोऽप्येवमेव समर्थितवान् । अथ पुनरपि समुत्थायान्तर्लीनमवहस्य रक्ताक्षोऽब्र- वीत् । कष्टं विनाशितोऽयं स्वामी युष्माभिरनयेन । उक्तं च
प्रत्यक्षेऽपि कृते दोषे मूर्खः सान्त्वेन तुष्यति ।
रथकारः स्वकां भार्यां सजारां शिरसावहत् ॥ ६९ ॥
ते प्राहुः । कथं चैतत् । सोऽब्रवीत् । अथ जारिणीपतिरथकारकथा नामाष्टमी कथा । अस्ति कस्मिंश्चिदधिष्ठाने रथकारः । तस्य प्रिया भार्या पुंश्चल्येवं मित्रस्व- जनैः प्रतिबोधितः । ततोऽसौ रथकारो जिज्ञासुस्तामाह । प्रिये विप्रकृष्टे ग्रामा- न्तरे राजकीयो मण्डपः कर्तव्यः । तत्र मया श्वो गन्तव्यम् । तत्र दिनानि कति- चिल्लगिष्यन्ति । तत्त्वया किंचित् पाथेयं मम योग्यं विधेयम् । तया च तुष्टया यथाज्ञप्तमेष शम्बलं कृतम् । तथा चानुष्ठिते गृहीतोपस्करपथ्योदनः प्रहरशेषायां
शर्वर्यां तामाह । गतोऽहं भद्रे द्वारं संवृणीष्वेति । रथकारोऽप्यविज्ञात एव प्रतिनिवृत्य स्वगृहेऽपद्वारेण प्रविश्य स्वशय्याधस्तल आत्मद्वितीयः सह शि- ष्येणावस्थितः । असावपि हृष्टहृदयाद्य मम निरङ्कुशो दयितजनसमागम इति दूतिकया विटमानाय्य तत्रैव निर्विशङ्कपानभोजनादाद्यनुष्ठितवती । कथमपि चाप्राप्तरतयैव पादौ चालयन्त्या जानुप्रदेशे रथकारः स्पृष्टः । ततोऽसावचिन्त- यत् । असंशयं स एव रथकारो भविष्यति । तत्कथं करणीयमिति । अस्मिं- श्चान्तरे सशपथं विटेनाभिहिता । भद्रे कथय मम वा भर्तुर्वा तव कः प्रियतर इति । यतस्तया प्रतिपत्तिकुशलयाभिहितः । प्रष्टव्यं पृच्छसि । स्त्रियो हि नामैता लघुधर्मिण्यो यत्किंचनप्रवृत्ताश्च । किं बहुना यद्यासां नासिका न स्युरसंशयममे- ध्यमपि भक्षयेयुरिति संक्षेपः । यद्यहमीषन्मात्रमप्यकुशलं भर्तुः शृणुयां सद्यः प्राणपरित्यागं कुर्यामिति । अथ रथकारस्तया धर्षण्या कृतकवचनव्यंसिततमनाः शिष्यमवोचत् । विजयतां ममात्यन्तभक्ता दयिता । सर्वजनकाशं संमानयामि । इत्युक्त्वा शिरसि कृत्वा खट्वासीनां सजारां राजमार्गरथ्यान्तरेषु भ्रामयञ्जन- हासमवाप्तवान् । इत्यष्टमी कथा समाप्ता अतोऽहं ब्रवीभि । प्रत्यक्षेऽपि कृते दोष इति । तत्सर्वथा मूलोत्खाता वयं विनष्टाः स्मः । सुष्ठु खल्विदमुच्यते ।
मन्त्रिरूपा हि रिपवः संभाव्यास्ते विचक्षणैः ।
ये हितं नयमुत्सृज्य विपरीतोपसेविनः ॥ ७० ॥
सन्तोऽपि हि विनश्यन्ति देशकालनिराकृताः ।
अप्राज्ञं मन्त्रिणं प्राप्य तमः सूर्योदये यथा ॥ ७१ ॥
तदापि तद्वचनमनादृत्यैव चिरंजीविनमुद्धृत्य स्वदुर्गं नेतुमारब्धः। अथ चिरंजी- व्याह विश्वासार्थम् । देव किं मयैतदवस्थेनाकिंचित्करेण संगृहीतेन । किं ममैत- दवस्थस्य जीवितेन । तदग्निं मे दापय तस्मिन्नात्मानं प्रक्षिपामीति । रक्ताक्षेण तु तस्यान्तर्निहितभावसूचितमाकारं ज्ञात्वाभिहितम् । किमग्निसंपातमिच्छति भवान् । सोऽब्रवीत् । अहं तावद्युष्मदर्थमिमामापदं प्राप्तः । तदिच्छामि तेषां वैरनिर्या- तनार्थमुलूकयोनिमग्नौ हुतशरीरप्रभावादिति । रक्ताक्षोऽब्रवीत् ।
अन्तर्भावनिगूढेयं वाक्ते प्रकृतिपेशला ।
विकाराद्यनभिज्ञेया विषदिग्धेव वारुणी ॥ ७२ ॥
दुष्ट । अशक्या तवोलूकयोनिरसंभाव्या च । यत्कारणम्
सूर्यं भर्तारमुत्सृज्य पर्जन्यं मारुतं गिरिम् ।
स्वयोनिं मूषिका प्राप्ता योनिर्हि दुरतिक्रमा ॥ ७३ ॥
सोऽब्रवीत् । कथं चैतत् । रक्ताक्षोऽब्रवीत् । अथ मूषककुमारीकथा नाम नवमी कथा । अस्ति कस्मिंश्चिद्देश ऋषिस्तस्य जाह्नव्यां स्नात्वोपस्प्रष्टुमारब्धस्य कर- तले श्येनमुखपरिभ्रष्टा मूषकशाविका पतिता । तां दृष्ट्वा न्यग्रोधपत्रेऽवस्थाप्य पुनः स्नात्वोपस्पृश्य च प्रायश्चित्तादिक्रियां कृत्वा च गृहाभिमुखः प्रायात् । मूषिकां च स्मृत्वाचिन्तयत् । नृशंसमेतन्मया कृतं मातृपितृपरिभ्रष्टां मूषिकां परित्यजता । ममैवायमधर्मो यत्कारणमहमस्या अधुना नाथः । इति मत्वा प्रतिनिवृत्य तां मूषिकां स्वतपोबलेन कन्यां कृत्वा गृहमानीयानपत्यायै भार्यायै प्रायच्छदाह च भद्रे गृह्यतामियं तव दुहितोत्पन्ना प्रयत्नेन संवर्धनीया । इति । ततस्तया संवर्धिता लालिता च । अथ कालेन द्वादशवर्षे प्राप्ते विवाहकार्ये तस्याश्चिन्तामृषिरापेदे । अयुक्तोऽस्याः कालातिक्रमो यत्कारणं ममैवायमधर्मः । उक्तं च
पितुगृहे तु या कन्या रजः पश्यत्यसंस्कृता ।
अविवाह्या तु सा कन्या दम्पती वृषलौ स्मृतौ ॥ ७४ ॥
अतोऽहमेनां सदृशाय बलवते प्रयच्छामि। उक्तं च
ययोरेव समं वित्तं ययोरेव समं कुलम् ।
तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः ॥ ७५ ॥
स एवं मत्वा भगवन्तं सहस्रकिरणमाहूयाभिहितवान् । त्वं बलवान् विवाह्यतां मम दुहितेयमिति । असावपि भगवाँल्लोकपाल- सर्ववृत्तान्तप्रत्यक्षदर्शी तमाह । भगवन् मत्तो मेघा बलवत्तराः । अहं तैराच्छा- दितोऽदृष्टो भवामीति । एवमेतदित्युक्त्वा मुनिर्मेघमाहूयाब्रवीत् । गृह्यतां मे दुहितेति । सोऽप्याह । मत्तोऽपि बलवान् वायुः । तेनाहमितश्चेतश्च दिग्भ्यो
विक्षिप्य इति । अथ तेन वायुरप्याहूतः । गृह्यतां मद्दुहितेति । एवमुक्तोऽसाव- ब्रवीत् । भगवन् मत्तो बलवत्तराः पर्वता यतोऽहं तानङ्गुलमात्रमपि चालयितुम- शक्तः । ततोऽसावचलमाहूयाभिहितवान् । गृह्यतां मम कन्येति । स आह । नूनमचला वयं किंत्वस्मत्तो मूषका बलवत्तराः । तैरितश्चेतश्च शतछिद्राः किया- महे । एवमुक्ते मुनिना मूषक आहूयोक्तः । गृह्यतां मम कन्येति । ततोऽसावाह । विधुरमिदं कथमियमस्मद्विवरं प्रवेक्ष्यतीति । अथासौ सत्यमेतदिति स्वतपो- बलेन पुनस्तां कन्यां मूषिकामेव कृत्वा मूषकाय प्रतिपादितवान् । इति नवमी कथा समाप्ता । अतोऽहं ब्रवीमि । सूर्यं भर्तारमुत्सृज्येति । अथ रक्ताक्षवचनमनादृत्यैव चिरंजीविनमादाय स्ववंशविनाशायात्मीयं दुर्गं ययौ । नीयमानश्चान्तर्लीनम- वहस्य चिरंजीवी व्यचिन्तयत् ।
वध्यतामिति येनोक्तं स्वामिनो हितवादिना ।
स एवैकोऽत्र मन्त्रिभ्यो नीतिशास्त्रार्थतत्त्ववित् ॥ ७६ ॥
यद्यप्येते शृणुयुस्तदाशा मे सफला न स्यादिति । अथ दुर्गद्वारं प्राप्या- रिमर्दनस्तान् सचिवानब्रवीत् । यथेप्सिते स्थानेऽवस्थाप्यतां चिरंजीवीति । चिरं- जीविनापि प्राप्तकालं सुखमपसरिष्यामीति दुर्गद्वारेऽवस्थानं कल्पितम् । प्रति- दिनं च दिग्विजयमात्मेच्छया कृत्वोलूकाः कृताहारा राजादेशात् सुप्रभूतं मांस- मादाय चिरंजीविने प्रायच्छन् । असावपि रक्ताक्षः स्वकुटुम्बमाहूयोक्तवान् । अचिरादस्माद्वायसादहं विनाशं पश्यामि । तन्न युक्तमेभिः सह मूढैरेकत्र वस्तुम् । यतोऽन्यामद्रिगुहामाश्रित्य सुखं वत्स्यामः । एवमुक्त्वा रक्ताक्षः सपरिजनो- ऽन्यत्र प्रायात् । ततोऽसावपि चिरंजीवी वायसोऽल्पीयसा कालेन संजातबल- पक्षो मयूर इव गौराङ्गः संवृत्तः शत्रुबलवीर्यदुर्गस्थानछिद्रमार्गादिकं ज्ञात्वा चैवमचिन्तयत् ।
दृष्टः सारो बलं चैषां दुर्गं चापि यथार्थतः ।
अहीनकालमधुना कर्तव्यः संक्षयो द्विषाम् ॥ ७७ ॥
इत्यालोच्योलूकोत्पाटनाय दुर्गाद्वारकोटरान् करीषपूर्णान् कृत्वा सत्वरं
मेघवर्णसमीपं गतः । मेघवर्णेन सोत्सुकमालिङ्ग्य वार्तां पृच्छ्यमान एवमुक्त- वान् । स्वामिन् नायं वार्ताकथनकालः । कालोऽतिक्रामति परम् । तेन यूयं सर्व एवैकैकां काष्ठिकां गृहीत्वा गच्छत । अहमपि वह्निं गृहीत्वागमिष्यामि । सह- सैव गत्वा सर्वशत्रुसहितं शत्रुस्थानं दह्यतामिति । तथैव कृत्वा करीषपूर्णकोट- रेषु काष्ठादिकं दत्त्वा वह्निर्निक्षिप्तः । अनन्तरमेकदैव सर्वे शत्रवो निर्मूलिताः । दग्ध्वा च नागलोकान्तां गुहामवाप्तसकलमनोरथश्चिरंजीवी पुनर्मङ्गलकल्या- णाभ्युदयलक्षणेन घोषेण तस्मिन्नेव न्यग्रोधपादपे सर्वप्रकृतिसमेतं राजानं मेघव- र्णमास्थापितवान् । अनन्तरं निर्जितारिर्मेघवर्णश्चिरंजीविनं नानाप्रकारेण संपू- ज्य सहर्षमेवमाह । तात कथं त्वया शत्रुमध्यगतेन कालो नीतः ।
वरमग्नौ प्रदीप्ते तु प्रपातः पुण्यकर्मणाम् ।
न चारिजनसंसर्गो मुहूर्तमपि सेवितः ॥ ७८ ॥
स आह । भद्र
उपनतभये यो यो मार्गो हितार्थकरो भवेत्
स स निपुणया बुद्ध्या सेव्यो महान् कृपणाऽपि वा ।
करिकरनिभौ ज्याघाताङ्कौ महास्त्रविशारदौ
वलयरचितौ स्त्रीवद्बाहू कृतौ न किरीटिना ॥ ७९ ॥
शक्तेनापि सदा जनेन विदुषा कालान्तरापेक्षिणा
वस्तव्यं खलु वज्रपातविषमे क्षुद्रेऽपि पापे जने ।
दर्वीव्यग्रकरेण धूममलिनेनायासखिन्नेन किं
भीमेनातिबलेन मत्स्यभवने सूदा न संघट्टिताः ॥ ८० ॥
यद्वा तद्वा विषमपतितः साधु वा गर्हितं वा
कालापेक्षी हृदयनिहितं बुद्धिमान् कर्म कुर्यात् ।
किं गाण्डीवस्फुरदुरुगुणास्फालनव्यग्रपाणि-
नासील्लीलावलयितरणन्मेखलः सव्यसाची ॥ ८१ ॥
सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वकं सत्त्वोत्साहवतापि दैवाविधिषु स्थेयं समीक्ष्य क्रमम् ।
देवेन्द्रद्रविणेश्वरान्तकसमैरभ्यर्चितो भ्रातृभिः किं क्लिष्टः सुचिरं त्रिदण्डमवहच्छ्रीमान्न धर्मात्मजः ॥ ८२ ॥
रूपाभिजनसंपन्नौ माद्रीपुत्रौ गुणान्वितौ ।
गोसप्तिकर्मव्यापारे विराटप्रेष्यतां गतौ ॥ ८३ ॥
रूपेणाप्रतिमेन यौवनगुणैर्वंशे शुभे जन्मना
युक्ता श्रीरिव या तया विधिवशात् कालक्रमायातया ।
सैरन्ध्रीति सगर्वितं युवतिभिः साक्षेपमाज्ञप्तया
द्रौपद्या ननु मत्स्यराजभवने घृष्टं चिरं चन्दनम् ॥ ८४ ॥
मेघवर्ण आह । असिधाराव्रतमिव मन्येऽरिणा सह संवासः । सोऽब्र- वीत् । देव । एवमेतत् । तथापि
सहते सुहृदिव भूत्वा प्राज्ञः शक्तिक्षये निराकारः ।
कालं प्रतीक्षमाणः प्रीतिप्रच्छादिताशक्तिः ॥ ८५ ॥
तत्किं बहुना न तादृङ्मया मूर्खसमागमो दृष्टपूर्वो वर्जयित्वैकं रक्ताक्षम् । तेन तु मम यथावस्थितं हृद्गतं ज्ञातम् । अन्ये ते पुनर्नाममात्रमन्त्रिणः । किं तैरेतद्यैर्न विज्ञातम् ।
अरितोऽभ्यागतो भृत्यः शत्रुसंवासतत्परः ।
सर्पसंवासधर्मित्वान् नित्योद्वेगेन दूषितः ॥ ८६ ॥
प्लक्षन्यग्रोधबीजाशात् कपोतादिव शाल्मलेः ।
मूलोत्खातकरो दोषः पञ्चादपि भयंकरः ॥ ८७ ॥
आसने शयने याने पानभोजनवस्तुषु ।
दृष्टादृष्टप्रमत्तेषु प्रहरन्त्यरयोऽरिषु ॥ ८८ ॥
तस्मात्सर्वप्रयत्नेन त्रिवर्गनिलयं बुधः ।
आत्मानमाहतो रक्षेत् प्रमादाद्धि विनश्यति ॥ ८९ ॥
साधु चेदमुच्यते । दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः संतापयन्ति कमपथ्यभुजं न रोगाः ।
कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः कं स्त्रीकृता न विषयाः परितापयन्ति ॥ ९० ॥
स्तब्धस्य नश्यति यशो विषमस्य मित्रं
नष्टक्रियस्य कुलमर्थपरस्य धर्मः ।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ ९१ ॥
शुष्केन्धने वह्निरुपैति वृद्धिं
मूढेषु शोकश्चपलेषु कोपः ।
कान्तेषु कामो निपुणेषु विद्या
धर्मो दयावत्सु महत्सु धैर्यम् ॥ ९२ ॥
तद्राजन् यत्त्वयोक्तमसिधाराव्रतमिवारिसंपर्कोऽनुभूत इति तत्सत्यम् । अभिज्ञः खल्वसि । किंतु
स्कन्धेनापि वहेच्छत्रुं कार्यमासाद्य बुद्धिमान् ।
वहता कृष्णसर्पेण मण्डूका विनिपातिताः ॥ ९३ ॥
सोऽब्रवीत् । कथं चैतत् । चिरंजीव्याह । अथ मण्डूकानां कृष्णसर्पारोहणकथा नाम दशमी कथा । अस्ति कश्चित्परिणतवया मन्दविषो नाम कृष्णसर्पः । स एवं समर्थित- वान् । कथं नामानया वृत्त्या सुखं वर्तेयमिति । ततो बहुमण्डूकं ह्रदं गत्वाधृति- परीतमात्मानं दर्शयन् स्थितः । अथ तथा स्थिते तस्मिन्नुकान्तर्गतेनैकेन मण्डू- केन पृष्टः । माम किमद्य यथापूर्वमाहारार्थं न विहरसि । इति । स आह । भद्र कुतो मे मन्दभाग्यस्याहारेऽभिलाषः । यत्कारणम् । अद्य रात्रौ प्रथमप्रदोष एव मयाहारार्थं विहरमाणेन दृष्ट एको मण्डूकः । तद्ग्रहणार्थं मया क्रमः सज्जितः । सोऽपि मां दृष्ट्वा मृत्युभयेन स्वाध्यायप्रसक्तानां ब्राह्मणानामन्तरपक्रान्तो न विभा- वितो मया क्वापि गतः । तत्सादृश्यमोहितचित्तेन मया कस्यचिद्ब्राह्मणसूनोरङ्गुष्ठो दष्टः । ततोऽसौ सपदि पञ्चत्वमागतः । तत्पित्रा दुःखार्तेनाहं शप्त उक्तश्च । दुरा- त्मन् यत्त्वया ममानपराधी सुतो दष्टस्तेन दोषेण त्वं मण्डूकानां वाहनं भवि-
ष्यसि । तत्प्रसादनलब्धां च वृत्तिमासादयिष्यसीति । ततोऽहं युष्माकं वाहना- र्थमागतः । तेन च सर्वमण्डूकानामिदमावेदितम् । ततस्तैः प्रहृष्टमनोभिः सर्वै- रेव गत्वा मण्डूकराजाय जालपादनाम्ने निवेदितम् । अथासावपि मन्त्रिपरिवृतो- ऽत्यद्भुतमिति मन्यमानः ससंभ्रममागत्य ह्रदादुत्तीर्य संतुष्टस्तत्पृष्ठमधिरुढः । तदनुक्रमशो यथास्थानभाज उपासिताः । अन्ये चानाप्नुवन्तोऽनुपदं धावन्ति । मन्दविषोऽप्यात्मपुष्ट्यर्थमनेकप्रकारगतिविशेषानदर्शयत् । अथ जालपादो लब्धस्पर्श एवाह ।
न तथा करिणा यानं रथेन तुरगेण वा ।
नरयानेन नावा वा यथा मन्दविषेण मे ॥ ९४ ॥
अथ मन्दविषमन्येद्युश्छद्मग्लानं जालपादोऽब्रवीत् । भद्र किमित्यद्य मन्दं मन्दमुह्यते न यथा पुरेति । स आह । देव । अद्याहारवैकल्यान्न मे यथा- पूर्वं वोढुं शक्तिरस्ति । अथासावब्रवीत् । भद्र भक्षय क्षुद्रमण्डूकानिति । स आह । ममापीयमाशा किं तु पादीयाज्ञया कृतप्रसादो भक्षयिष्यामि । इति त्वदायत्तजीवितोऽस्मि । ततोऽसावनुज्ञातः क्रमान् मण्डूकान् यथेष्टमभक्षयत् । कतिपयैरेवाहोभिर्बलवान् संवृत्तः । सुपरितुष्टश्चान्तर्लीनमवहस्याब्रवीत् ।
मण्डूका विविधाहाराश्छलपूर्वोपसाधिताः ।
कियन्तं कालमक्षीणा भवेयुः खादतो मम ॥ ९५ ॥
अथ तच्छ्रुत्वा जातशङ्को जालपादः किमनेनाभिहितमिति तमपृच्छत् । किं त्वयाभिहितम् । यतोऽसावाकारप्रच्छादनायाह । न किंचिदिति । पुनश्च प्रतिबोध्यमानोऽब्रवीत् । स्वामिन् मयैतदुक्तम् ।
वरं तीव्राशनिध्वस्तो भवेच्छैलोऽङ्घ्रिपोऽपि वा ।
न विप्रशापनिर्दग्धो जन्तुर्भूयात् कदाचन ॥ ९६ ॥
अथैवं वर्तमाने जालपादः कृतकवचनव्यंसितमना नैवावबुध्यते । किं बहुना तथा तेन ते सर्वेऽपि भक्षिता यथा बीजमात्रमपि नावशिष्टम् । इति दशमी कथा समाप्ता । अतोऽहं ब्रवीमि । स्कन्धेनापि वहेच्छत्रुमिति । तद्राजन् यथा मन्दवि- षेण मण्डूका निहतास्तथा मयाप्यशेषाः शत्रवो हताः । तथा च
वने प्रज्वलितो वह्निर्दहन् मूलानि रक्षति ।
समूलमुन्मूलयति वार्योघो मृदुशीतलः ॥ ९७ ॥
मेघवर्ण आह । एवमेतत् । अपि च
महत्त्वमेतन्महतां नयालंकारधारिणाम् ।
न मुञ्चन्ति यदारम्भं कृच्छ्रेऽपि व्यसनोदये ॥ ९८ ॥
तदेवं भवता निःशेषाः शत्रवः कृताः । सोऽब्रवीत् । देव । एवमेतत् । उक्तं च
ऋणशेषमग्निशेषं व्याधिशेषं तथैव च ।
अरिशेषं च निःशेषं कृत्वा प्राज्ञो न सीदति ॥ ९९ ॥
देव भाग्यसंपन्नस्त्वमेवासि । सर्वमारब्धं युष्मदर्थे सिध्यति । अपि च
शक्तं युक्तेन संधत्ते युक्तमाशुपराक्रमैः ।
तावुभौ वृद्धिसंपन्नौ क्रमव्ययसमन्वितौ ॥ १०० ॥
जितात्मनः सत्यवतो धीमतो व्यवसायिनः ।
किं नामैवंविधस्यापि अयातव्यपदे स्थितम् ॥ १०१ ॥
संप्राप्ते व्यसने न सीदति मतिः सिद्धौ न संहृष्यते
क्रोघं संहरति क्षमां च कुरुते काले च विस्पन्दते ।
कौलीनानि च संवृणोत्यवहितश्छिद्रेषु जागर्ति य-
स्तस्यैवं चरितस्य वश्यमनसो हस्तस्थिताः संपदः ॥ १०२ ॥
कोऽहं कौ देशकालौ समविषमगुणाः के द्विषः के सहायाः
का शक्तिः कोऽभ्युपायो हितकरणविधौ का च मे दैवसंपत् ।
संपत्तेः कोऽनुबन्धः प्रतिहतवचनस्योत्तरं किं च मे स्या-
दित्येवं कार्यसिद्धाववहितमनसो नावसीदन्ति सन्तः ॥ १०३ ॥
तत्र केवलमेकान्तशः शौर्यं परं कार्यं साधयति । उक्तं व
शस्त्रैर्हता हि रिपवो न हता भवन्ति
प्रज्ञाहतास्तु सुहता न पुनर्भवन्ति ।
शस्त्रं निहन्ति पुरुषस्य शरीरमेकं
प्रज्ञा कुलं च विभवं च यशश्च हन्ति ॥ १०४ ॥
एकं हन्यान्न वा इन्यादिषुर्मुक्तो धनुष्मता ।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥ १०५ ॥
तदेवं दैवपुरुषकाराभ्यां युक्तस्यायत्नेन कार्यसिद्धयः संभवन्ति । यतः प्रसरति मतिः कार्यारम्भ दृढीभवति स्मृतिः स्वयमुपनमन्त्यर्था मन्त्रो न गच्छति विप्लवम् । फलति सकलं तत्किं चित्रं समुन्नतिमश्नुते भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः ॥ १०६ ॥ तत्त्यागबुद्धिशौर्यसंपन्नस्य राज्यमिति । उक्तं च
त्यागिनि शूरे विदुषि च वसति जनः स च जनो गुणीभवति ।
गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो राज्यम् ॥ १०७ ॥
मेघवर्ण आह । तात सद्यः फलति नीतिशास्त्रं यत्त्वयानुकूल्येनानुप्रवि- श्योलूकराजोऽरिमर्दनः सपरिजनो निःशेषः कृतः । चिरंजीच्या देव
तीक्ष्णोपायप्राप्तिगम्योऽपि योऽर्थ-
स्तस्याप्यादौ संश्रयः साधु युक्तः ।
उत्तुङ्गाग्रः सारभूतो वनानां
नानभ्यर्च्य छिद्यते पादपेन्द्रः ॥ १०८ ॥
अथवा स्वामिन् किं तेनाभिहितेन यदन्तं क्रियाकालरहितम् । साध्व- भिहितम् ।
अनिश्चितैरध्यवसायभीरुभि-
र्यथेष्टसंलापरतिप्रयोजनैः ।
फले विसंवादमुपागता गिरः
प्रयान्ति लोके परिहास्यवस्तुताम् ॥ १०९ ॥
न च लघुष्वपि कर्तव्येषु धीमद्भिरनादरः कार्यः । यत्कारणम् ।
शक्ष्यामि कर्तुमिदमल्पमयत्नसाध्य-
मत्रादरः क इति कृत्यमवेक्षमाणाः ।
केचित् प्रमादतमसा परितापदुःख-
मापत्प्रसङ्गसुलभं पुरुषाः प्रयान्ति ॥ ११० ॥
तदद्य जितारेर्मद्विभोर्यथापूर्वं निद्रालाभो भविष्यति । उच्यते चैतत् ।
निःसर्पे हतसर्पे वा भवने सुप्यते सुखम् ।
दृष्टनष्टभुजङ्गे तु निद्रा दुःखेन लभ्यते ॥ १११ ॥
विस्तीर्णव्यवसायसाध्यमहतां स्निग्धैः प्रयुक्ताशिषां
कार्याणां नयसाहसोन्नतिमतामिच्छापदारोहिणाम् ।
मानोत्सेकपराक्रमव्यसनिनः पारं न यावद्गताः
सामर्पे हृदयेऽवकाशविषया तावत्कथं निर्वृतिः ॥ ११२ ॥
तदवसितकार्यारम्भस्य हि मे विश्राम्यतीव मनः । कथम् ।
विषितज्वरमिव हृदयं गात्रं लघुतरमिवावसितभारम् ।
तीर्णार्णवस्य च मनो भवति रिपाववसितप्रतिज्ञस्य ॥ ११३ ॥
तदिदमधुना निहतकण्टकं राज्यं प्रजापालनतत्परो भूत्वा पुत्रपौत्रादिक्रमे- णाचलछत्रासनश्रीश्चिरं भुङ्क्ष्व । अपि च
प्रजां न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः ।
अजागलस्तनस्येव तस्य नाम निरर्थकम् ॥ ११४ ॥
गुणेषु रागो व्यसनेष्वनादरो
रतिः सुनीतेषु च यस्य भूपतेः ।
चिरं स भुङ्क्तेऽचलचामरांशुकां
सितातपत्राभरणां नृपश्रियम् ॥ ११५ ॥
न च त्वयावाप्तराज्योऽहमिति कृत्वा श्रीमदेनात्मा व्यंसयितव्यः । यत्का- रणम् । चला हि राज्ञां विभूतयः । कथम् । वंशारोहणवद्राज्यलक्ष्मीरारोप्य- क्षणनिपाता पारतरसवत् प्रयत्नशतैरपि दुर्वार्या स्वाराधिताप्यन्ते विप्रलम्भिनी वानरपतिरिवानेकचित्तचपला पद्मपत्रोदकराजिरिव दुःसंश्लेषणीया पवनगति- रिव चटुलानार्यसंगतिरिवास्थिराशीविपजातिरिव दुरुपकार्या संध्याभ्ररेस्रेव मुहूर्तरागा जलबुद्बुदपङ्क्तिरिव स्वभावमङ्गुरां शरीरप्रकृतिरिव क्रियमाण- कृतघ्ना स्वप्नलब्धद्रविणराशिरिव क्षणदृष्टनष्टा । किं बहुना यदैव राज्ये क्रियतेऽभिषेक- स्तदैव बुद्धिर्व्यसनेषु योज्या ।
घटा हि राज्ञामभिषेककाले सहाम्भसैवापदमुद्गिरन्ति ॥ ११६ ॥ न च कश्चिदनधिगमनीयो नामास्त्यापदाम् । उक्तं च
रामप्रव्रजनं बलेर्नियमनं पाण्डोः सुतानां वनं
वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम् ।
विष्णोर्वामनतां तथार्जुनवधं संचिन्त्य लङ्केश्वरं
सर्वं कालवशादुपैति पुरुषः कः कं परित्रायते ॥ ११७ ॥
क्व च दशरथः स्वर्गे युद्ध्वा सुरेन्द्रसुहृद्गतः
क्व च जलनिधेर्वेलां बद्ध्वा नृपः सगरो गतः ।
क्व च करतलाज्जातो वैन्यः क्व सूर्यतनुर्मनु-
र्ननु बलवता कालेनैते प्रबोध्य निमीलिताः ॥ ११८ ॥
नृपतिः सचिवाः प्रमदाः पुराणशोच्यानि काननवनानि ।
स च ते च ताश्च तानि च कृतान्तदंष्ट्राविनष्टानि ॥ ११९ ॥
श्रुतेन बुद्धिर्व्यसनेन मूर्खता
मदेन नागः सलिलेन निम्नगा।
निशा शशाङ्केन धृतिः समाधिना
नयेन चालंक्रियते नरेन्द्रता ॥ १२० ॥
मुदं विषादः शरदं हिमागम-
स्तमो विवस्वान् सुकृतं कृतघ्नता ।
प्रियोपपत्तिः शुचमापदं नयः
श्रियं समृद्धामपि हन्ति दुर्नयः ॥ १२१ ॥
तत्सर्वथा प्रजा न्यायेन मन्त्रसुखमनुवर्तयन् राजा राज्यसुखमनुभवतीति । इति संधिविग्रहं काकोलूकीयं नाम तृतीयं तन्त्रं समाप्तम् ।
अथ लब्धनाशं नाम चतुर्थ तन्त्रम् अथेदमारभ्यते लब्धनाशं नाम चतुर्थं तन्त्रम् । यस्यायमाद्यः श्लोकः ।
प्राप्तमर्थं तु यो मोहात् सान्त्वतः प्रतिमुञ्चति ।
स तथा वञ्च्यते मूढो जलजः कपिना यथा ॥ १ ॥
राजपुत्रा आहुः । कथमेतत् । विष्णुशर्माऽब्रवीत् । अस्ति कस्मिंश्चित् समुद्रतीरे वलीवदनको नाम वानरराजः प्रतिवसति स्म । स च वृद्धत्वादसाम- र्थ्यतयान्येन नवयौवनसंपन्नेन कपिनातीवेर्ष्यानलप्रताप्यमानहृदयेनामर्षित्वा- द्बद्धवैरेण तस्मात् स्वयूथान्निरस्तः कालं यापयति स्म । तस्मिन्नेव तीरे मधुगर्भो नामोदुम्बरस्तिष्ठति । तत्फलाहारेण प्राणयात्रां करोति । अथ कदाचित्तस्य भक्षयतः करादुदुम्बरफलं जले पतितम् । तेन चाम्भसि पतता मनोहरः कलरव उत्पन्नः । तं श्रुत्वा वानरः सहजचापलात् पुनः पुनरन्यान्युदुम्बरफलानि श्रुतिसुख- करणानीत्यपनीय प्रक्षिपति स्म। अथ कदाचित्तस्याधस्ताद्गच्छन् कृशको नाम शिशुमारस्तानि प्रकामतो लब्ध्वा भक्षयति स्म । ततोऽसौ तत्रैव मधुराहारला- भेन स्थितः । उत्पन्नप्रीतिसौहार्दश्च वलीवदनकस्तेन सह स्वयूथाद्भ्रंशमपि विस्मृतवान् । शिशुमारोऽप्यतीवस्नेहाक्षिप्तहृदयः स्वगृहगमनकालक्षेपमकरोत् । अथ तस्य भार्या सखीमध्यगता तद्विरहात् परितप्तहृदया क्वासौ मम दयितः किं बहिः करोत्यतिप्रसक्त्या । सुप्रभूतश्चायं कालः । त्रिवर्गं परिहार्यात्मानं नाव- धारयति । अथ तस्याः सख्येकाब्रवीत् । कुतस्ते गृहं धनं वा तेन भर्त्रा यस्य त्वं चरितानि न जानासि । स तु मया प्रत्यक्षमेव दृष्टः कयापि वानर्या सह समुद्र- तीरैकदेशे परमप्रीतिपुरःसरं रहसि रममाणः । तदेवं ज्ञात्वा यत्ते करणीयं तदहीन- कालं क्रियतामिति । तच्च श्रुत्वा शिशुमारभार्या परं मनस्तापमगमत् सर्वव्यापारांश्च गृहगतानुत्सृज्य मलिनवसना तैलाभ्यक्तशरीरा शयनतलगताधृतिपरीतगात्री सखीपरिवृतावस्थिता । शिशुमारोऽपि वलीवदनकप्रीत्यतिक्रान्तवेलो गृहं प्रत्यागतो- ऽपश्यज्जायां तदवस्थामपृच्छच्चाविग्नहृदयः । किमिदमस्या अस्वास्थ्यकारणमिति । मूकतया न काचिदपि सखी कथयति स्म। सादरमेव मुहुर्मुहुरपृच्छत् । अथ तत्रैका द्वितीयमिव हृदयं शिशुमारभार्यायाः सा परमावेगं सूचयन्त्यब्रवीत् । आर्य ।
अशक्योऽयं व्याधिरस्याः । अद्यापि विनष्टा नामेयमिति मन्तव्यम् । नास्याः प्रत्यापत्तिरस्तीति । एतच्छ्रुत्वा शिशुमारः परं विषादमगमत् प्रियकलत्रतया चाब्रवीत् । यदि मज्जीवितेनाप्यस्याः प्रतीकारस्तदिमे प्राणा उपयुज्यन्तामेतदर्थ- मिति । साब्रवीत् । भद्र । अस्त्युपाय एक एवास्या व्याधेः । यदि वानरहृदयो- पपत्तिरस्ति ततोऽस्या जीवितम् । अन्यथातिक्रान्ता नामेयमिति । एतत् स्त्री- रहस्यमिति । ततोऽसौ स्वगतमचिन्तयत् । किमिदं कष्टमापतितम् । कथं वानर- हृदयस्य लाभोऽन्यत्र वलीवदनकात् । तदप्यतिगर्हितं धर्मविरुद्धं च । अथवा
किं कलत्रं प्रधानं स्यादुत मित्रं गुणाधिकम् ।
कलत्रमित्रयोर्नूनं कलत्रमतिरिच्यते ॥ २ ॥
तस्मात् त्रिवर्गोऽविकलस्ततो मित्रं ततो यशः ।
सर्वलोकान्वितं चैव कस्तन्न बहु मन्यते ॥ ३ ॥
किंकर्तव्यतामूढः पुनरचिन्तयत् ।
एकः सखा प्रियो भूय उपकारी गुणान्वितः ।
हन्तव्यः स्त्रीनिमित्तेन कष्टमापतितं मम ॥ ४ ॥
इति विचिन्त्य गमनव्याहतमना वलीवदनकं मन्दं मन्दमगमत् । तं मन्दमागतं दृष्ट्वा वानरेणोक्तम् । भद्र किमद्य व्याक्षेपकारणं भवतः । सोऽब्रवीत् । वयस्य दुःखमिदमुच्यते । न शक्नोमि भवतोऽतिप्रसङ्गं कर्तुम् । यत्कारणम् । एतावतापि कालेनैकान्तोपकारिणो भवतो न मया किंचिदपि प्रत्युपकर्तुं शकितम् । अपि च
प्रयोजनवशात् प्रीतिं लोकः समनुवर्तते ।
त्वं तु वानरशार्दूल निष्प्रयोजनवत्सलः ॥ ५ ॥
अथवा युक्तमेवेदं भवतः ।
उपकर्तुमनुपकर्तुः प्रियाणि कर्तुं कृतान्यनुस्मर्तुम् ।
विनिपतितांश्चोद्धर्तुं कुलान्वितानामुचितमेतत् ॥ ६॥
सोऽब्रवीत् । नन्वयमेवासम उपकारो यत्स्वदेशबन्धुपरित्यागेऽपि कृते सं- पन्नप्रीतियोगाद्भवन्तमाश्रित्यानुद्विग्नः सुखं यापयामीति । साध्विदमुच्यते ।
शोकारतिभयत्राणं प्रीतिविस्रम्भभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ ७ ॥
शिशुमार आह ।
दर्शितानि कलत्राणि गृहे भुक्तमशङ्कितम् ।
कथितानि रहस्यानि सौहृदं किमतः परम् ॥ ८ ॥
तद्गृहगमनदारदर्शनैकपात्राभिसंबन्धी मया भवान् न कृतः । वानरेणो- क्तम् । किमनेन सामान्यजनस्यायं संबन्धः । अपि च
खले नटानामिव दारदर्शनं
गवामिवापार्थकमेव भोजनम् ।
सन्तः प्रकृत्यैव हि येन संगमं
कुर्वन्त्ययत्नादपि तस्य यद्धितम् ॥ ९ ॥
सोऽब्रवीत् ।
किमत्र चित्रं यदि सज्जनो जनः
करोति विद्वज्जनसाधुपूजनम् ।
करोति यन्नीचकुलोद्भवो जन-
स्तदद्भुतं शैत्यमिवार्कमण्डले ॥ १० ॥
तथापि
मित्रं वा बन्धुं वा नैवातिप्रणयपीडितं कुर्यात् ।
स्वं वत्समतिपिबन्तं विषाणकोट्याक्षिपति धेनुः ॥ ११ ॥
तद्भद्र ममापि भवते किंचित् प्रत्युपकरणमस्ति । अस्ति समुद्रमध्ये सुरम्ये द्वीपप्रदेशेऽस्मद्गृहम् । तत्रामृतास्वादतुल्याः कल्पवृक्षसदृशास्तरवः । तन्मम पृष्ठमारुह्य गम्यतामस्मत्स्थानमिति । एवमुक्तोऽसावगमत् परं परितोषमाह च । साधु भद्र प्रियं ममेदं क्षिप्रं मां तत्र प्रापयेति । अथासौ शिशुमारस्तं विनाश- धर्माणं विश्वासोपगतं वानरं पृष्ठे गृहीत्वा गच्छंश्चिन्तयामास । कष्टं भोः ।
स्त्रीकार्यमिदमत्यर्थं गरीयः सारमेव च ।
तदर्थं दारुणं कर्म निन्दामि च करोमि च ॥ १२ ॥
उपलनिकषं सुवर्णं पुरुषो व्यवहारनिकष उद्दिष्टः ।
धूर्निकषो गोवृषभः स्त्रीणां तु न विद्यते निकषः ॥ १३ ॥
अतः स्त्रीकृते मया मित्रवधः कर्तव्यः । एवं वदञ् छिशुमारो वानरणो- क्तः । किं भवान् वक्ति । स आह न किंचिदिति । ततस्तदकथनाज्जातविकारो वानरश्चाचिन्तयत् । शिशुमारो यन्मया पृष्टो न किंचिदूचे किमत्र कारणम् । तदहं प्रज्ञया तस्यान्तर्गतमाकर्षयामि । इति संचिन्त्य पुनरपि सनिर्बंन्धं तमपृ- च्छत् । स आह । मम भार्याऽशक्यव्याधिपीडिता तेनाहं विमना इति । वानर आह । भिषङ्मन्त्रिजापात् पुष्ट्या न किंचित् प्रतिक्रियते । शिशुमारेणोक्तम् । पृष्टास्तेऽप्याहुः । वानरहृदयव्यतिरेकेण न जीवतीति । तच्छ्रुत्वा वानरः स्वात्मानं गतासुमिव मन्यमानः स्वगतमचिन्तयत् । कष्टं नष्टोऽस्मि । वृद्धत्वे- प्यजितेन्द्रियत्वफलमनुभवामि । किं च
वनेऽपि दोषाः प्रभवन्ति रागिणां
गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः ।
अकुत्सितं कर्मणि यः प्रवर्तते
निवृत्तरागस्य गृहं तपोवनम् ॥ १४ ॥
इत्यालोच्य शिशुमारमाह। भद्र न शोभनमाचरितं त्वया । यद्येवं तत्किं प्रथममेव त्वया मे न कथितम् । अहं हृदयं तत्रैव स्थापयित्वा समागतः । तद्गृहीत्वागमनमुचितम् । उक्तं च
धर्ममर्थं च कामं च त्रितयं योऽभिवाञ्छति ।
सोऽरिक्तपाणिः पश्येत ब्राह्मणं नृपतिं स्त्रियम् ॥ १५ ॥
असावाह । क्व तद्धृदयम् । वानरोऽब्रवीत् । तस्मिन्नेवोदुम्बरे । वानर- हृदयं च सदा तरुषु तिष्ठतीति प्रसिद्धम् । एतदर्थं यदि कारणं भवतस्तन्निवृत्य हृदयं गृहीत्वागम्यताम् । तच्छ्रुत्वा शिशुमारः सानन्दं प्रतिनिवृत्य तीरं गतः । अथ बहुमनोरथो वानरः ससंभ्रममुत्प्लुत्योदुम्बरशाखां समधिरुढो हन्त लब्धाः प्राणास्तावदिति चिन्तयंस्तिष्ठति। शिशुमारस्त्वधस्तादब्रवीत्। भद्र तद्धृदयं गृही- त्वा शीघ्रमागच्छ । स विहस्याह न पुनरागमिष्यामि । विज्ञातं मया सर्वम् । एतद्बुद्धिपूर्वं वाक्यं मयोक्तम् । गम्यतां रे मूर्ख किं शरीराद्बहिर्हृदयं तिष्ठति ।
शाठ्यादिच्छसि मां हन्तुं प्रतिशाठ्यं कृतं मया ।
मायां तु भवतः कृत्वा मृत्योरात्मा विमोचितः ॥ १६ ॥
तं च तस्य चित्तनिश्चयं ज्ञात्वा शिशुमारोऽब्रवीत् । भद्र हृदयं यदि नास्ति तथाप्यागच्छाहमन्येनौषधक्रमेण तस्या व्याधिप्रतीकारं करिष्ये । वानरोऽ- ब्रवीत् । दुष्ट नाहं गर्दभः ।
आगतश्च गतश्चैव गत्वा यः पुनरागतः ।
अकर्णहृदयो मूर्खस्तत्रैव निधनं गतः ॥ १७ ॥
स आह । कथं चैतत् । वानर आह । अथ कर्णहृदयविहीनगर्दभकथा नाम प्रथमा कथा । अस्ति कस्मिंश्चिद्वनोद्देशे सिंहः प्रतिवसति स्म । तस्य चैको गोमायुरनुचरः। स च सिंहः कदाचित् कुक्षिरोगाभिभूतोऽकिंचित्करः संवृत्तः । क्षुत्क्षामकण्ठेन च गोमायुनाऽभिहितः । देव कथमस्माकमव्यापाराणां प्राणयात्रेति । सोऽब्रवीत् । भद्र । अयं व्याधिः केवलं गर्भकर्णहृदयेन भैषजेन निवर्तते । अन्यथा न । अतो मे महता यत्नेन गर्दभं त्वमानय । स आह । यथाऽज्ञापयति स्वामी । इत्युक्त्वा गत्वा नगरसमीपे रजकस्य गर्दभं दृष्ट्वाह। भद्र किमसि कृशः । सोऽब्रवीत् । वयस्य महता वस्त्रभारेण प्रतिदिवसं जीवामि । न चाहारमस्माद् दुरात्मनो लभेऽ हमिति । सोऽब्रवीत् । किमनया यातनया । अहं भवन्तं तत्र नयामि यत्र भवान् स्वर्गगतमिवात्मानं मन्यते । सोऽब्रवीत् । कथय कथम् । स आह । अस्यां वनराज्यां मरकतसदृशशष्पप्राग्रायां नदीसनाथायामभिनवयौवनसंपन्नास्तिस्रो रूपवत्यो रासभ्योऽदृष्टपूर्वा अपि मन्येऽनेनैव निर्वेदेनापक्रान्ताः । तासामहं भवन्तं मध्ये प्रापयामीति । तं श्रुत्वा तथा नामेति प्रतिपन्नः । उपनीतश्च सिंहान्तिकं मूर्खः । क्रमप्राप्तं च तं रासभं दृष्ट्वातिहर्षमुत्प्लुत्य सिंहेनाक्रान्तोऽपि गर्दभस्तस्या- सामर्थ्यात् कथंचिदपेतोऽतीवत्रस्तहृदयः प्रतिनिवृत्यानवलोकयन् पलायितः । अथ गोमायुना सिंहोऽभिहितः । भोः किमेवंविधः प्रहारस्ते । यस्तावद्गर्दभमप्यु- पनीतं हन्तुमसमर्थः सं त्वं कथं सपत्नाञ्जेष्यसि । स आह । असंशयमेतदेव । पुनस्तावदानीयतामधुना तं हनिष्यामीति । स आह । सज्जो भवास्मिन्मया दृष्टा- पदानोऽपि प्रज्ञासामर्थ्यादानीतो यथा न पुनस्तथैव विक्रमिष्यतीति विहस्य
प्रायात् । गर्दभसकाशं गत्वाब्रवीत् । किं । भवान् प्रतिनिवृत्त इति । स आह । महाननर्थो मे समुत्पन्न आसीत् । न जाने गिरिशिखराकारं किमपि सत्त्वं ममो- परि निपतितं यथायुःशेषतयाहमपेतस्तस्मात् । स आह । न त्वया विदितम् । उक्तं च
प्रायेण तु नृणां लोके त्रिवर्गमभिवाञ्छताम् ।
असन्तोऽपि हि वै विघ्ना उत्पद्यन्ते स्वभावतः ॥ १८ ॥
सा रासभी विहिताद्भुतशृङ्गारा त्वामवलोक्य सानुरागालिङ्गितुमुत्थिता त्वं च कातरतया नष्टः । सा पुनर्न शक्ता त्वां विना स्थातुं तया पुनर्नश्यतो भवतोऽवलम्बनार्थं हस्तः प्रसारितः । न चान्यदत्र कारणम् । तदागच्छ । एत- च्छ्रुत्वा गर्दभ आह । त्वया सह गच्छामीत्युक्त्वा गोमायुना पुनर्नीतस्तेन सिंहेन गृहीत्वा व्यापादितश्च । ततस्तं हत्वा सिंह आह । भद्र । अयमौषधोपयोगो देवार्च- नादि कृत्वोपयुज्यते । ततः सिद्धिं करोति । यतस्त्वमेवं निभृतो भूत्वाभिरक्ष यावदहं स्नात्वा नित्यकर्म कृत्वागच्छामीत्युक्त्वा गतः । गते च सिंहे गोमायु- ना महौषधमिति मत्वातिलौल्याद् गर्दभकर्णहृदयं स्वयमेव भक्षितम् । भक्ष- यित्वा सुपरिमृष्टवक्त्रचरणोऽवस्थितः । स्नात्वागतश्च सिंहः प्रदक्षिणं कुर्वन्न दृष्टवान् कर्णौ हृदयं च । आह च । किमिदं वृत्तम् । कथय क्व कर्णहृदयमस्य । गोमायुराह । स्वामिन् कुतोऽस्य मूर्खस्य कर्णहृदयम् । यस्य खलु कर्णहृदय- मस्ति स किमेवंविधो भवति । आगतश्च गतश्चेति । ततः सिंहस्तूष्णीं स्थितः । इति प्रथमा कथा समाप्ता। अतोऽहं ब्रवीमि । नाहं गर्दभ इति । तद्गच्छतु भवान् । नाहं त्वया पुनः प्रतारयितुं शक्यः ।
कृतकवचनैः कार्यारम्भैस्त्वयाप्यनुवर्तितं
निभृतनिभृतैः प्रज्ञादोषैर्मयाप्युपलक्षितम् ।
अतिशयगुणं त्वत्पाण्डित्यं मयाप्यनुवर्तितं
कृतकवचनैः कालो नीतः समेन समं गतम् ॥ १९ ॥
साधु चेदमुच्यते ।
यान्येव बुद्धिस्खलितानि नूनं
तान्येव बुद्धेः प्रतिबोधितानि ।
मनस्विनां तत्त्वविदां मनांसि
भिषग्वराणीव चिकित्सयन्ति ॥ २० ॥
अथ शिशुमारो वलीवदनकं प्रज्ञाकौशलविनिश्चितमना एवमाह ।
मौर्ख्यं प्रख्यापयन्ति स्वं परं प्राज्ञं वदन्ति तु ।
धीराः स्वेषु तु कार्येषु भवन्त्यस्खलितोद्यताः ॥ २१ ॥
इत्युक्त्वा निहताशः स्वमालयमगात् ।
इति लब्धनाशं नाम चतुर्थ तन्त्रं समाप्तम् ॥
अथापरीक्षितकारित्वं नाम पञ्चमं तन्त्रम् । अथेदमारभ्यतेऽपरीक्षितकारित्वं नाम पञ्चमं तन्त्रम् । यस्यायमाद्यः श्लोकः ।
योऽर्थतत्त्वमविज्ञाय वशं क्रोधस्य गच्छति ।
सोऽचिराद्भ्रश्यते मित्राद्ब्राह्मणो नकुलादिव ॥ १ ॥
राजकुमारा ऊचुः । कथं चैतत् । विष्णुशर्माऽब्रवीत् । अस्ति गौडदेशे कश्चिच्छुभगोत्रो देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म । तस्य च भार्या यज्ञदत्ता नाम ब्राह्मणी । सा कदाचित् प्राक्तनपुण्यवशाद्गर्भिणी संवृत्ता । तां च दृष्ट्वा देवशर्मा परं परितोषमुपागतः । एवं चाचिन्तयत् । महन्मे कल्याणमुपस्थितमपत्यलाभाय । ब्राह्मणीं चाब्रवीत् । भद्रे कृतार्थासि दारकं जनयिष्यसि तस्याहं बहुमनोरथो गर्भाधानजातकर्मनामकरणादिसंस्का- रान् करिष्ये । स च मे गोत्रधरो भविष्यतीति । एवं ब्राह्मण्यभिहिताब्रवीत् । को जानाति दारको भविष्यति न वेति । तन्न युक्तमेवमदृष्टेऽपि च वक्तुम् । नादा- वेव मनोरथः कार्यः । उक्तं च
अनागतवतीं चिन्तां यो नरः कर्तुमिच्छति ।
स भूमौ पाण्डुरः शेते सोमशर्मपिता यथा ॥ २ ॥
सोऽब्रवीत् । कथं चैतत् । साह । अथ मनोरथध्यानकारकब्राह्मणकथा नाम प्रथमा कथा । अस्ति कश्चिद्विद्याभ्यासी ब्राह्मणसूनुः । तस्य कस्मिंश्चिद्वणिग्गृहे नैत्यकं भोजनं वर्तते । स च यदा तत्र न भुङ्क्ते तदा सक्तुसेतिकां लभते । तां चावासं नीत्वा घटे प्रक्षिप्य स्थापयति । एवं च तस्य बहुना कालेन स घटः सक्तुभिः संपूर्णः । कदाचित्तस्य घटस्य नागदन्तके स्थापितस्याधस्ताच्छयनगतोऽसौ ब्राह्मणो दिवासुप्तप्रतिबुद्धः । एवं च चिन्तयामास । महार्घं धान्यं वर्तते किमुत कृतान्नं सक्तवः । तन्मे विंशतिमात्रकाणां रूपकाणां सक्तवः सन्ति । तांश्चाहं विक्रीय द्विरूपकाश्छगलिका वशमात्रा उपावर्त- यिष्यामि । षण्मासाश्च प्रसविष्यन्ते । तासां चापत्यानि तथैव प्रसविष्यन्ते ।
पञ्चाब्दानन्तराच्च चतुःशतसंख्या बह्व्यो भविष्यन्ति । लोके च श्रूयते चत- सृभिरजाभिरेका धेनुस्तरुणी जीववत्सा बहुक्षीरा सर्वगुणसंपन्ना लभ्यते । सोऽहं ताभिरजाभिरेव गवां शतं परिवर्तयिष्यामि । तासां च प्रसवापन्नानां बलीवर्दाः केचिद्भविष्यन्ति । तैश्चाहं कृषिं कृत्वा बहु सस्यमुत्पादयिष्यामि । तस्य विक्रयात् प्रभूतं सुवर्णं भविष्यति । शोभनं चेष्टकाचितं वेश्म प्राकाराभ्यन्तर्हितं करिष्यामि । दासीदासबहलां सर्वोपस्करसंपन्नां च तां मम महतीं संपदं दृष्ट्वावश्यं कश्चिद्योग्यतमो ब्राह्मणः सुरूपां कन्यां मे दास्यति । तस्यां च कालेनास्म- द्भाग्योपबृंहितं दीर्घायुषमरोगं वंशधरं दारकं जनयिष्यामि । तस्य चाहं यथाविधि जातकर्मादि कृत्वा सोमशर्मेति नाम करिष्यामि । वल्गति च द्वारके ब्राह्मणी गृहकर्मव्यग्रा गवामभ्यागमनकाले सम्यग् दारकं प्रमादान्ना- भिरक्षयिष्यति । तदा तामहं ब्राह्मणीं पुत्रस्नेहाभिभूतहृदयो लगुडेनोद्यम्य ताडयिष्यामि । एवं तेन ध्यानस्थितेन लगुडं भ्रामयित्वाभ्याहतोऽसौ घटो येन तस्यैवोपरि शतकपालभग्नो व्याविद्धसक्तुर्निपतितः । ततोऽसौ ब्राह्मणः सक्तुधूलीधूसरिततनुः स्वप्नप्रतिबुद्धमिवात्मानं मन्यमानः परं वैलक्ष्यं जन- हासं चोपगतः । इति प्रथमा कथा समाप्ता । अतोऽहं ब्रवीमि । अनागतवती चिन्ता न कार्या । दृष्टे कार्ये क्रिया वर्तते । न भित्तिं विना चित्रकर्मेति। संपूर्णेच प्रसवकाले प्रसूता ब्राह्मणी शुभ- लक्षणं दारकम् । अथ जातं दशदिवसोत्थाने च कृतकर्माणं दारकं परिरक्षार्थं पितरि विन्यस्य ब्राह्मण्यशुचिवस्त्रशोधनायात्मनः शौचनिमित्तं संनिकृष्टां सरितं गता। ब्राह्मणोऽपि दारिद्र्यदोषासहायतया चात्मनैव धृतस्तं बालमभि- रक्षितवान् । अथ राजकुलात् पर्वके प्रवचनकरादाननिमित्तं ब्राह्मणस्याह्वायिका राजमहिष्या दास्यनुप्रेषिता । शब्द्यमानोऽसौ ब्राह्मणः सहजदारिद्र्यसंतप्तश्चाचि- न्तयत् । यदि सत्वरं न गच्छामि तदा कश्चिदन्यः श्राद्धं गृह्णाति । दारकस्य रक्षको नास्ति । किं करोमीति । एवमवस्थिते यस्तस्याग्निहोत्रशरणे गृहे पुत्रा- निर्विशेषो नकुलो धान्यकणादिभिः संवर्धितस्तमेवावस्थाप्य गतोऽसौ ब्राह्मणः । नकुलोऽप्यचिरादपश्यत् कृष्णसर्पं क्षितिविवरान्निर्गतं बालकस्या-
भ्याशमायान्तम् । तं च दृष्ट्वा क्रोधसंरक्तनयनाऽतीवस्फुरद्वदनदशनचरणः सहसोत्पत्य तस्योपरि संनिपतितः खण्डशश्च तं कृत्वासृग्दिग्धवक्त्रचरण एवा- यान्तं ब्राह्मणं दृष्ट्वा सुपरितुष्टमनास्तन्निवेदनाय बहिर्निश्चक्राम। अथासावपरी- क्षितकारी ब्राह्मणस्तं नकुलं रुधिररञ्जितमुखं दृष्ट्वाचिन्तयत् । कथं भक्षितोऽनेन मम पुत्रक इति यष्टिकया तं जघान । हत्वा तमनन्तरं यावदसौ ब्राह्मणो गृह- मनुप्रविष्टस्तावदव्यङ्गं तथैव सुप्तं पुत्रकं कृष्णसर्पं च समीपे खण्डीकृतं दृष्ट्वा हा हतोऽस्मि मन्दबुद्धिः किमिदमकृत्यं मया कृतमिति स्वहृदयमताडयत् । आगता च ब्राह्मणी रुदन्तं ब्राह्मणं पश्यन्ती व्यापादितं नकुलं शतधा खण्डीकृतं सर्पं च दृष्ट्वा तं ब्राह्मणमाह । किमिदं ब्राह्मण कथं चेति । यतो ब्राह्मणः सर्ववृत्तान्त- माख्यातवान् । प्रेक्षावती ब्राह्मणी परं विषादमुपगता ब्राह्मणमाह ।
कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् ।
पुरुषेण न कर्तव्यं नापितेन यथा कृतम् ॥ ३ ॥
स आह । कथं चैतत् । साब्रवीत् ॥ अथ श्रमणकघातकनापितकथा नाम द्वितीया कथा । अस्ति कस्मिंश्चिन्नगरे भूतपूर्वो वणिक्पुत्र उत्सन्नधनवंशविभवो दारि- द्र्याभिभूतः शीर्णगृहदेशे वृद्धघात्रीसमेतो बालभावादारभ्य तया वृद्धदास्या धात्र्या संवर्धितः । प्रथमप्रदोष एव स चोष्णं दीर्घं च निःश्वस्याचि- न्तयत् । कष्टमिदं दारिद्र्यं कियत्कालावधि स्यात् । इति ध्यात्वा रात्रौ सुप्तः । स च निशावसाने स्वप्नं दृष्टवान् । आगत्य भिक्षुत्रयेण प्रबोध्य समभिहितो यथा । भद्र प्रभातसमये वयमनेनैव रूपेणागमिष्यामः यत्कारणम् । तव पूर्वपुरुषैरवस्थापितास्त्रयो निधयः । लगुडेन त्वदभ्याहताश्च दीनारा भविष्यामः । न च त्वयात्र करुणा कर्तव्येति । एवं तं स्वप्नमनुचि- न्तयन्नेव प्रभातसमये प्रतिबुद्धो धात्रीमभिहितवान् । अद्याम्ब त्वया नित्यं प्रय- तया भवितव्यं गोमयसमार्जनादि परिकर्म वेश्मनि कार्यं यथासंभवं ब्राह्मण- त्रयस्य भोजनं दातव्यम् । अहमपि नापितमानयामीति । तथा चानुष्ठिते श्मश्रुनखलुञ्चनार्थं नापित आगतः । कृताचारे श्मशुकर्मणि स्वप्नदृष्टा उपायाताः ।
अथ वणिक्पुत्रस्ताञ् छ्रमणकान् दृष्ट्वा यथादिष्टमनुष्ठितवान् । धनराशयश्च ते संपन्नाः । प्रवेश्यमाने च तस्मिन् धनौघे सार्थवाहपुत्रेण दीनारशतत्रयमात्रं परि- तोषणाय रहस्यसंरक्षणाय च दिवाकीर्तये दत्तम् । नापितोऽपि तं दृष्ट्वा कुपरा- मर्शात् स्वगृहं गत्वाचिन्तयत् । अहमपि क्षपणकत्रयं लगुडेन व्यापाद्य निधित्रयं करिष्यामीति । ततोऽसौ लगुडं गृहीत्वावहितः स्थितः । अनन्तरं कर्मवशा- द्भिक्षुत्रयं मिक्षार्थमागतम् । ततो लगुडेन ताडयित्वा नापितेन व्यापादितं च । न च निधिर्लब्धः । अनन्तरं राजपुरुषैराकृष्य नीत्वा नापितः शूले निक्षिप्तः । इति द्वितीया कथा समाप्ता । अतोऽहं ब्रवीमि । कुदृष्टं कुपरिज्ञातमिति । तस्मात्त्वमपि तादृश एव मूर्खः ।
अतो मतिमतां सर्वाणि कार्याणि सुपरीक्षितान्येव करणीयानि ।
इत्यपरीक्षितकारित्वं नाम पञ्चमं तन्त्रं समाप्तम् ॥
इति पञ्चतन्त्रं समाप्तम् ॥