न्यायकोशः /700
This page has been fully proofread once and needs a second look.
<page>
<p>कपिञ्जलानालभेत इत्यादिषु विध्यादिरूपेषु मन्त्रेष्वव्याप्तेः । किंतु याज्ञिक -
( समाख्यातं लक्षणं मन्त्राणां दूषणरहितं बोध्यमिति ( जै० सू० वृ०
अ० २ पा० १ सू० ३० टि० ) । ते च मन्त्रा द्विविधाः वैदिका -
स्तान्त्रिकाश्च । वैदिकाश्च द्विविधाः प्रगीता अप्रगीताश्च । प्रगीताः
सामानि । अग्प्रगीताश्च द्विविधाः छन्दोबद्धास्तद्विलक्षणाश्च ( सर्व० सं०
पृ० ३६८ पात० ) । तान्त्रिकलक्षणं स्त्रीपुंनपुंसक भेदेन मन्त्रत्रैविध्यं
मन्त्राणां दशविधः संस्कारः सर्वदर्शनसंग्रहे ( पृ० ३६८-३७० )
दृश्यः । [ग] क्वचित् प्रतिसूचितः शब्दः । यथा तद्विष्णोः परमं पदं
सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ( ऋ० ११। १२६ ) इति ।
२ रहसि कर्तव्यावधारणार्थ गुप्तभाषणं मन्त्रः इति नीतिशास्त्रज्ञा वदन्ति ।
<<मत्रेश्वरः>>
तत्राष्टौ मण्डलिनः क्रोधाद्यास्तत्समाश्च वीरेशः । श्रीकण्ठः
शतरुद्राः शतमित्यष्टादशाभ्यधिकम् ॥ ( सर्व० सं० पृ० १८६ शै० ) ।
<<मन्थः>>
द्रवद्रव्ये प्रक्षिप्य मथिताः सक्तवो मन्थः ( जै० न्या० अ० १०
पा० ३ अधि० १ ) ।
<<मन्थनम्>>
उत्थानावच्छिन्नोन्मन्थनम् । यथा सुधां समुद्रं मनातीसत्र
धात्वर्थः । उन्मन्थनमालोडनम् । अत्र सुधोत्थानानुकूलं यत्समुद्रस्यो-
न्मन्थनं तत्कर्ता इत्यर्थः । अत्रत्यगौणकर्मत्वादिविषयविशेष विचारस्तु दोह-
नादिशब्दव्याख्याने द्रष्टव्यः ।
<<मन्दनम्>>
उपहृहतपादेन्द्रियस्येव गमनम् ( सर्व० सं० पृ० १७० ) ।
<<ममता>>
१ स्वकीयत्वाभिमानः । यथा ममत्वं मम राज्यस्य ( देवीभाग० )
इत्यादौ । २ केचिद्वेदान्तिनस्तु अहंकारः । यथा वल्लभमते अहंता -
ममतात्मकः संसार: इत्यादौ इत्यमन्यन्त । अत्र व्याकरणं बोध्यम् ।
षष्ठ्यर्थवृत्तेरस्मच्छब्दस्यार्थे मम इत्यव्ययम् । तदुत्तरं तत्प्रत्ययः । एवं च
ममता इति रूपं सिद्ध्यति ।
<<मरणम्>>
[क] जीवनादृष्टनाशः । मरणं च धर्माधर्माधीनम् (३वै०
उ० ६।२।१५ ) । तथा च सूत्रम् तत्संयोगो विभाग: इति</p>
</page>
<p>कपिञ्जलानालभेत इत्यादिषु विध्यादिरूपेषु मन्त्रेष्वव्याप्तेः । किंतु याज्ञिक -
( समाख्यातं लक्षणं मन्त्राणां दूषणरहितं बोध्यमिति ( जै० सू० वृ०
अ० २ पा० १ सू० ३० टि० ) । ते च मन्त्रा द्विविधाः वैदिका -
स्तान्त्रिकाश्च । वैदिकाश्च द्विविधाः प्रगीता अप्रगीताश्च । प्रगीताः
सामानि । अ
पृ० ३६८ पात० ) । तान्त्रिकलक्षणं स्त्रीपुंनपुंसक भेदेन मन्त्रत्रैविध्यं
मन्त्राणां दशविधः संस्कारः सर्वदर्शनसंग्रहे ( पृ० ३६८-३७० )
दृश्यः । [ग] क्वचित् प्रतिसूचितः शब्दः । यथा तद्विष्णोः परमं पदं
सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ( ऋ० १
२ रहसि कर्तव्यावधारणार्थ गुप्तभाषणं मन्त्रः इति नीतिशास्त्रज्ञा वदन्ति ।
<
तत्राष्टौ मण्डलिनः क्रोधाद्यास्तत्समाश्च वीरेशः । श्रीकण्ठः
शतरुद्राः शतमित्यष्टादशाभ्यधिकम् ॥ ( सर्व० सं० पृ० १८६ शै० ) ।
<
द्रवद्रव्ये प्रक्षिप्य मथिताः सक्तवो मन्थः ( जै० न्या० अ० १०
पा० ३ अधि० १ ) ।
<
उत्थानावच्छिन्नोन्मन्थनम् । यथा सुधां समुद्रं मनातीसत्र
धात्वर्थः । उन्मन्थनमालोडनम् । अत्र सुधोत्थानानुकूलं यत्समुद्रस्यो-
न्मन्थनं तत्कर्ता इत्यर्थः । अत्रत्यगौणकर्मत्वादिविषयविशेष विचारस्तु दोह-
नादिशब्दव्याख्याने द्रष्टव्यः ।
<
उप
<
१ स्वकीयत्वाभिमानः । यथा ममत्वं मम राज्यस्य ( देवीभाग० )
इत्यादौ । २ केचिद्वेदान्तिनस्तु अहंकारः । यथा वल्लभमते अहंता -
ममतात्मकः संसार: इत्यादौ इत्यमन्यन्त । अत्र व्याकरणं बोध्यम् ।
षष्ठ्यर्थवृत्तेरस्मच्छब्दस्यार्थे मम इत्यव्ययम् । तदुत्तरं तत्प्रत्ययः । एवं च
ममता इति रूपं सिद्ध्यति ।
<
[क] जीवनादृष्टनाशः । मरणं च धर्माधर्माधीनम् (