Proofing

Sorry, you aren't authorized to use this feature.

Sorry, you aren't authorized to use this feature.

Sorry, you aren't authorized to use this feature.

Sorry, you aren't authorized to use this feature.

This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="297">
दन्ताः स(विश्लथ)दन्ताः केशाः (काश)प्रसूनसङ्काशाः ।

नयनं तमसामयनं तथाऽपि चित्तं धनाङ्गनायत्तम् ॥ २९७ ॥
 
</verse>
<verse lang="sa" text="A" n="298">
आशा नाम मनुष्याणां काचिदाश्चर्यशृङ्खला ।

यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति कुत्रचित् (बद्धवत्) ॥ २९८ ॥
 
</verse>
<verse lang="sa" text="A" n="299">
आशापिशाचिकाविष्टः पुरतो यस्य कस्यचित् ।

वन्दते निन्दति स्तौति रोदिति प्रहसत्यपि ॥ २९९ ॥
 
</verse>
<verse lang="sa" text="A" n="300">
आशातुरगमारुह्य नित्यं धावति याचकः ।

न चार्तिः न श्रमो ह्यस्य न गतौ ना(वा)पि मन्दता ॥ ३०० ॥
 
</verse>
<verse lang="sa" text="A" n="301">
प्रातः क्षालितलोचनः करतलोदञ्च पवित्राङ्कुरः

तत्तत्स्थानकृतत्रि..............[^*]॥ ३०१ ॥
 
</verse>
<ignore lang="sa">
अत्र मुद्रणसमये प्रमादतः पतितं श्लोकद्वयम् अधोमुद्रितं

४८ पृष्ठे १३श्लोकानन्तरं संयोज्य पठनीयम् -

लुब्धानां याचकश्शत्रुः मूर्खाणां न्यायबोधकः ।

जारिणीनां पतिश्शत्रुः चोराणां च निशाकरः ॥
 
</ignore>
<ignore lang="sa">
किं जन्मना भवति विप्रतया विना चे-

द्विद्वत्तया रहितया किमु विप्रजात्या ।

विद्वत्तयापि शमवर्जितया तया किं

किं वा शमेन हरिभक्तिविवर्जितेन ॥
 
</ignore>
<ignore lang="sa">
---
 
</ignore>
<footnote lang="sa" text="A" mark="
*">मद्रशासकीयहस्तलिखितकोशागारस्थ D. 12050 मातृकामादाय प्रकाशितमिदम् । तत्रैतावदेवोपलभ्यते ।</footnote>
</page>