नराभरणम् /45
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="267">का विद्या कवितां विनाऽर्थिनि जने त्यागं विना श्रीश्च का
कस्सूनुर्विनयं विना कुलवधूः का कान्तभक्तिं विना ।
को धर्मः कृपया विना नरपतिः को नाम नीतिं विना
को भोगो रमणीं विना क्षितितले किं नर्म कीर्तिं विना ॥ २६७ ॥
</verse>
<verse lang="sa" text="A" n="268">कवित्वे वादित्वं कनककुसुमे सौभग(रभ)गुणः
धनित्वे दातृत्वं लिकुचफलमात्रे मधुरता ।
कुलीने सौजन्यं मृगमदरसे रागरचना
प्रभुत्वे विद्वत्त्वं परभृतमुखे मानुषवचः ॥ २६८ ॥
</verse>
<verse lang="sa" text="A" n="269">प्रभुर्विवेकी प्रमदा सुशीला
तुरङ्गमश्शस्त्रनिपातधीरः ।
विद्वान् विरागी धनिकः प्रदाता
पञ्चैव रक्तानि भवन्ति लोके ॥ २६९ ॥
</verse>
<verse lang="sa" text="A" n="270">मानुष्ये सति दुर्लभा पुरुषता पुंस्त्वे पुनर्विप्रता
विप्रत्वे बहुविद्यता न सुलभा विद्यावतोऽर्थज्ञता ।
अर्थज्ञस्य विचित्रवाक्यपटुता तत्रापि लोकज्ञता
लोकज्ञस्य समस्तशास्त्रविदुषो धर्मे मतिर्दुर्लभा ॥ २७० ॥
</verse>
<verse lang="sa" text="A" n="271">अश्वश्शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
पुरुषविशेषप्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥ २७१ ॥
</verse>
<verse lang="sa" text="A" n="272">श्वा यद्दशति मनुष्यान् न च तं मनुजाः प्रतिदशन्ति ।
यद्याक्रोशति नीचः न च तं वदतीह सज्जनः किंचित् ॥ २७२ ॥</verse>
</page>