This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="252">
कस्त्वं भद्र खलेश्वरोऽहमिह किं घोरे वने स्थीयते

व्यालव्याघ्रमृगादिभिः(दन?) प्रह(भृ?)तिभिः खाद्योऽहमित्याशया ।

दिष्टया शालि(न्ति?)रहो किमध्यवसिता मद्देहमांसाशन-

प्रत्युत्पन्ननृमांसभक्षणरसाः खादख(न्तु) सर्वानिति ॥ २५२ ॥
 
</verse>
<verse lang="sa" text="A" n="253">
त्वद्विरहमसहमाना निन्दति बाला दिवानिशं शम्भुम् ।

राहुमपि रामभद्रं रामानुजमपि च पन्नगारातिम् ॥ २५३ ॥
 
</verse>
<verse lang="sa" text="A" n="254">
तन्वङ्ग्या नवसङ्गमे निपुणतां दृष्ट्वान्यथाशङ्किनः

भर्तुश्चित्तमवेक्ष्य साऽपि चतुरा भित्तौ किमप्यालिखत् ।

एकं मत्तमतङ्गजं तदुपरि क्रोधात्पतन्तं शिशुं

सिंहीगर्भविनिस्सृतं पुनरसौ दृष्टा स हृष्टोऽभवत् ॥ २५४ ॥
 
</verse>
<verse lang="sa" text="A" n="255">
कचभारात्कुचभारः कुचभाराद्भीतिमेति कचभारः ।

कचकुचभाराज्जघनं कोऽयं चन्द्रानने चमत्कारः ॥ २५५ ॥
 
</verse>
<verse lang="sa" text="A" n="256">
बदनात्पदयुगलीयं वचनादधरश्च दन्तपङ्क्तिश्च ।

कु(क)चत: कुचयुगलीयं लोचनयुगलं च मध्यतस्त्रसति ॥ २५६ ॥
 
</verse>
<verse lang="sa" text="A" n="257">
कुसुमे कुसुमोत्पत्तिः श्रूयते न च दृश्यते ।

बाले तव मुखाम्भोजे दृष्टमिन्दीवरद्वयम् ॥ २५७ ॥
 
</verse>
<verse lang="sa" text="A" n="258">
बाले तवाघरसुधारसपानकाले

चेतो मदीयमभिवाञ्छति शेषभावम् ।

आलिङ्गने तव विरोचनपौत्रभावम्

आखण्डलत्वमखिलाङ्गनिरीक्षणेषु ॥ २५८ ॥</verse>
</page>