नराभरणम् /42
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="244">असज्जनेन संसर्गादसत्तां यान्ति साधवः ।
मधुरं शीतलं तोयं पावकं प्राप्य तप्यते ॥ २४४ ॥
</verse>
<verse lang="sa" text="A" n="245">दुर्जनभृशसंसर्गात् साधुजनस्तस्य दोषमायाति ।
दशमुखकृतापराधात् अब्धिर्बद्धः शिलाभरैः कीशैः ॥ २४५ ॥
</verse>
<verse lang="sa" text="A" n="246">न स्थातव्यं न गन्तव्यं (क्षणमप्यधमैस्सह) ।
पयोऽपि शौण्डिनीहस्ते वारुणीत्यभिधीयते ॥ २४६ ॥
</verse>
<verse lang="sa" text="A" n="247">कस्तूरिकां तृणभुजामटवीमृगाणां
निक्षिप्य ना(भिषु चकार) च तान्वधार्हान् ।
मूढो विधिस्सकलदुर्जनसङ्घजिह्वा-
मूलेषु निक्षिपति चेत्सकलोपकारः ॥ २४७ ॥
</verse>
<verse lang="sa" text="A" n="248">खलानामलकानां च धृतानां मूर्ध्नि भीरुभिः ।
उपर्युपरि संस्कारात् भूयो भवति वक्रता ॥ २४८ ॥
</verse>
<verse lang="sa" text="A" n="249">खलजिह्वा च नौका च प्रतिकूलप्रवर्तिनी ।
प्रतार(णा)य लोकस्य दारुणा केन निर्मिता ॥ २४९ ॥
</verse>
<verse lang="sa" text="A" n="250">विषधरतोऽप्यतिविषमः
खल इति न मृषा वदन्ति सन्तोऽपि ।
यदयं नकुलद्वेषी
सकुलद्वेषी पुनः पिशुनः ॥ २५० ॥
</verse>
<verse lang="sa" text="A" n="251">खलानां कण्टकानां च द्विविधैव प्रतिक्रिया ।
उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥ २५१ ॥</verse>
</page>