नराभरणम् /41
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="235">गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धतैर्जलैः ।
गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ॥ २३५ ॥
</verse>
<verse lang="sa" text="A" n="236">अपि सहवसतामसतां जलरुह(जल)वद्भवत्यसंश्लेषः ।
दूरेऽपि सतां वसतां (प्रीतिःकुमु)देन्दुवद्भाति ॥ २३६ ॥
</verse>
<verse lang="sa" text="A" n="237">गर्जति शरदि न वर्षति वर्षति वर्षासु निस्स्वनो मेघः ।
नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥ २३७ ॥
</verse>
<verse lang="sa" text="A" n="238">अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् ।
सदा लोकहितासक्त्या रत्नदीपा इवोत्तमाः ॥ २३८ ॥
</verse>
<verse lang="sa" text="A" n="239">(यन्मनीषिपदाम्भोजरजः) कणपवित्रितम् ।
तदेव भवनं नो चेद्भकारस्तत्र लुप्यते ॥ २३९ ॥
</verse>
<verse lang="sa" text="A" n="240">श्लोकस्तु श्लोकतामेति यत्र तिष्ठ(न्ति) (साधवः) ।
तैर्विहीने सभामध्ये लकारस्तत्र लुप्यते ॥ २४० ॥
</verse>
<verse lang="sa" text="A" n="241">उन्मत्तकण्टकिफलप्रतियोगिबुद्ध्या
वैरं वृथैव कुरुषे पनसेन साकम् ।
सन्तो हसन्ति न भजन्ति भजन्ति चेत्त्वां
भ्रान्ता भवन्ति सहसेति जगत्प्रसिद्धिः ॥ २४१ ॥
</verse>
<verse lang="sa" text="A" n="242">सुजनव्यजनं मन्ये महावंशसमुद्भवम् ।
स्वपरिभ्रमणेनैव तापं हरति देहिनाम् ॥ २४२ ॥
</verse>
<verse lang="sa" text="A" n="243">गुणलक्षं परित्यज्य दोषं गृह्णाति दुर्जनः ।
घेनोः पयोधरस्थोऽपि गोपिडो लोहिताशनः ॥ २४३ ॥</verse>
</page>