नराभरणम् /39
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="216">संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः ।
मुक्ताङ्गुष्ठकनिष्ठे तु शिष्टमाचमनं पिबेत् ॥ २१६ ॥
</verse>
<verse lang="sa" text="A" n="217">जनिता चोपनेता च यश्च विद्यां प्रयच्छति ।
अन्नदाता भयत्राता पञ्चैते पितरस्स्मृताः ॥ २१७ ॥
</verse>
<verse lang="sa" text="A" n="218">गुरुपत्नी राजपत्नी ज्येष्ठपत्नी तथैव च ।
पत्नी माता स्वयं (स्व-)माता (च) पञ्चैता मातरस्स्मृताः ॥ २१८ ॥
</verse>
<verse lang="sa" text="A" n="219">पुस्तकेषु च या विद्या परहस्तेषु यद्धनम् ।
युद्धकाले गृहे शस्त्रं त्रीणि कार्यं वृथा (विना?) वृथा ॥ २१९ ॥
</verse>
<verse lang="sa" text="A" n="220">मरणान्तानि वैराणि प्रसवान्तं च यौवनम् ।
कुपितं प्रणयान्तं च याचितान्तं च गौरवम् ॥ २२० ॥
</verse>
<verse lang="sa" text="A" n="221">अश्वारूढं पयःपानं गजारूढं तु मैथुनम् ।
आन्दोलिकायां मर्दनं च पादचारी(रि?) तु भोजनम् ॥ २२१ ॥
</verse>
<verse lang="sa" text="A" n="222">अतिदानाद्धतः कर्णः अतिलोभात्सुयोधनः ।
अतिकामाद्दशग्रीवः अति सर्वत्र वर्जयेत् ॥ २२२ ॥
</verse>
<verse lang="sa" text="A" n="223">इङ्गितज्ञा मागधास्स्युः प्रेक्षितज्ञाश्च कोसलाः ।
अर्धोक्ताः कुरुपाञ्चाला स्पष्टोक्त्या दक्षिणापथाः ॥ २२३ ॥
</verse>
<verse lang="sa" text="A" n="224">पद्यमङ्गुलिविच्छेदमुरोविन्यस्तमक्षरम् ।
तन्नामकरणं चैव दास्यमेतच्चतुर्विधम् ॥ २२४ ॥
</verse>
<verse lang="sa" text="A" n="225">अभिवादनशीलस्य नित्यं वृद्धोपजी(से)विनः ।
चत्वारि तस्य वर्द्धन्ते आयुः प्रज्ञा यशो बलम् ॥ २२५ ॥</verse>
</page>