नराभरणम् /38
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="206">यातुधानपिशाचाश्च क्रूराश्चैव तु राक्षसाः ।
हरन्ति रसमन्नस्य मण्डलेन विवर्जितम् ॥ २०६ ॥
</verse>
<verse lang="sa" text="A" n="207">सदण्डं कदलीपत्रं वामभागाग्रं विन्यसेत् ।
दक्षिणेऽग्रं समादाय भुक्त्वा चान्द्रायणं चरेत् ॥ २०७ ॥
</verse>
<verse lang="sa" text="A" n="208">आपोशनं चासनं च तैलाभ्यङ्गं तथैव च ।
स्वयं करकृतं चैव आयुः श्रीपुत्रनाशनम् ॥ २०८ ॥
</verse>
<verse lang="sa" text="A" n="209">दीपप्रशमनं पुंसां स्त्रीणां कूष्माण्डखण्डनम् ।
अचिरेणैव कालेन वंशच्छेदो भविष्यति ॥ २०९ ॥
</verse>
<verse lang="sa" text="A" n="210">अस्नाताशी मलं भुङ्क्ते अजपी पूयभक्षणम् ।
अहुताशी विषं भुङ्क्ते अदाता विषमश्नुते ॥ २१०॥
</verse>
<verse lang="sa" text="A" n="211">ज्ञाननिमित्तं गुरूपदेशः कलहनिमित्तं निष्ठुरवाणी ।
मरणनिमित्तं गुणविपरीतम् उदरनिमित्तं बहुकृतवेषम् ॥ २११ ॥
</verse>
<verse lang="sa" text="A" n="212">एकाहं जपहीनस्तु सन्ध्याहीनो दिनत्रयम् ।
द्वादशाहमनभिस्तु शूद्र एव न संशयः ॥ २१२ ॥
</verse>
<verse lang="sa" text="A" n="213">विद्वत्सङ्घे विवाहे च यज्ञे श्रीपतिदर्शने ।
सन्ध्यावन्दनविच्छित्तिः न दोषाय कदाचन ॥ २१३ ॥
</verse>
<verse lang="sa" text="A" n="214">पादौ प्रक्षाल्य यच्छेषं तदाचामेन्नराधमः ।
श्वानमूत्र समं तोयम् (इत्ये)वं मनुरब्रवीत् ॥ २१४ ॥
</verse>
<verse lang="sa" text="A" n="215">ओङ्कारः पुरुषः पूर्वः व्याहृतिः प्रकृति(ः) स्त्रियः ।
उभयोः करसंयोगे वस्त्रेणाच्छादयेन्नरः ॥ २१५ ॥</verse>
</page>