This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="196">
स्वानं कृत्वार्द्रशिरसि (सा?) विण्मूत्रं सृजते यदि ।

वृथा भवति तत्स्नानं पुनः स्नानेन शुध्यति ॥ १९६ ॥
 
</verse>
<verse lang="sa" text="A" n="197">
रात्रौ भोजनकाले तु यदि दीपो विनश्यति ।

पाणिभ्यां पात्रमादाय गायत्रीं मनसा स्मरेत् ॥ १९७ ॥
 
</verse>
<verse lang="sa" text="A" n="198">
एकपङ्क्त्युपविष्टानां विप्राणां सहभोजने ।

यद्येकोऽपि त्यजेदन्नं सर्वैरुच्छिष्टभोजनम् ॥ १९८ ॥
 
</verse>
<verse lang="sa" text="A" n="199">
अग्निना भस्मना चैव स्तम्भेन च जलेन च ।

अद्वारेणैव मार्गेण पङ्क्तिदोषो न विद्यते ॥ १९९ ॥
 
</verse>
<verse lang="sa" text="A" n="200">
आपोशनमकृत्वा तु यश्चान्नं परिमर्दयेत् ।

मर्दितं चापि तच्चान्नममेध्यं मनुरब्रवीत् ॥ २०० ॥
 
</verse>
<verse lang="sa" text="A" n="201">
आसने पादमारोप्य यो भुङ्क्ते स द्विजाधमः ।

मुखेन धमते चान्नं तुल्यं गोमांसभक्षणम् ॥ २०१ ॥
 
</verse>
<verse lang="sa" text="A" n="202">
सर्वतीर्थमयी भूमिस्सर्वरत्नसमन्विता ।

सर्वौषधिगुणोपेता किमर्थमुपलेपना(नम्?) ॥ २०२ ॥
 
</verse>
<verse lang="sa" text="A" n="203">
इन्द्रस्य वज्रेण हतो वृत्रासुरमहायशाः ।

मेदसा सर्वविच्छिन्नं तदर्थमुपलेपनम् ॥ २०३ ॥
 
</verse>
<verse lang="sa" text="A" n="204">
चतुरश्रं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य तु ।

वैश्यस्य वर्तुलाकारं शूद्रस्याभ्युक्षणं तथा ॥ २०४ ॥
 
</verse>
<verse lang="sa" text="A" n="205">
ब्रह्मा विष्णुश्च रुद्रश्च श्रीर्हुताशन एव हि ।

मण्डलान्युपजीवन्ति तस्मात्कुर्वीत मण्डलम् ॥ २०५ ॥</verse>
</page>