This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="188">
ज्ञानवृद्धास्तपोवृद्धाश्शीलवृद्धास्तथैव च ।

सर्वे ते धनवृद्धस्य द्वारे तिष्ठन्ति किंकराः ॥ १८८ ॥
 
</verse>
<verse lang="sa" text="A" n="189">
श्रुत्वा वेदमनेकशास्त्रपठनात्(नं?) किं तेन ज्ञानं विना (ज्ञानं विना तेन किं?)

स्नानं तर्पणहोममप्यनुदिनं किं तेन दानं विना ।

गीता(त्वा?) राख(ग)मनेकशास्त्र(ताल?)गणनं किं तेन कण्ठं विना

ताम्बूलादि विभूषणैः (णं?) परिमलैः (लः?) किं तेन काव्यं [कान्तां?] विना ॥ १८९ ॥
 
</verse>
<verse lang="sa" text="A" n="190">
माषो नं (न?) माषद्रव्यः (व्यं?) स्यात्

सन्ध्यायामेव याचकः (सन्ध्याचमनवाचकः?) ।

करान्तरस्थिता रेखा

माषास्ताः परिकीर्तिताः ॥ १९० ॥
 
</verse>
<verse lang="sa" text="A" n="191">
गोकर्णाकृतिहस्तेन माषमग्नजलं पिबेत् ।

तन्न्यूनमधिकं पीत्वा सुरापानसमं पिबेत् (भवेत्?) ॥ १९१ ॥
 
</verse>
<verse lang="sa" text="A" n="192">
शब्देनापः पयः पीत्वा शब्देन घृतपायसम् ।

आपोशनं सोमपानं सुरापानसमं भवेत् ॥ १९२ ॥
 
</verse>
<verse lang="sa" text="A" n="193">
अतिथिः द्वारि तिष्ठेत आपो गृह्णाति यो नर ।

आपोशनं सुरापानमन्नं गोमांसभक्षणम् ॥ १९३ ॥
 
</verse>
<verse lang="sa" text="A" n="194">
स्नाने दाने जपे होमे स्वाध्याये पितृतर्पणे ।

एकवस्त्रो द्विजः कुर्यात् तत्सर्वं निष्फलं भवेत् ॥ १९.४ ॥
 
</verse>
<verse lang="sa" text="A" n="195">
स्नानवस्त्रेण यो विप्रः शरीरं परिमार्जयेत् ।

वृथा भवति तत्स्नानं पुनः स्नानेन शुध्यति ॥ १९५ ॥</verse>
</page>