This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="181">
मृद्विना मासशौचं स्यात्पक्षे होमः( मं?) तु वर्जयेत् ।

उष्णोदकं सप्तरात्रं द्विजश्शूद्रत्वमाप्नुयात् ॥ १८१ ॥
 
</verse>
<verse lang="sa" text="A" n="182">
नैकः पन्थानमागच्छेत् न वसेद्बामन्दिरे ।

जनवास(-क्यं) च (न?) कर्तव्यं न स्त्रीवाक्यं कदाचन ॥ १८२ ॥
 
</verse>
<verse lang="sa" text="A" n="183">
अन्नं मुक्तासुवर्णं द्रवगुणरहितास्वर्णपू(रू)पाश्च सूपाः

सामोदाश्शाकभेदाः फलगुडमिलिताः पायसम्.... ।

यावद्भोज्यं तदाज्यं दधि कठिनतरं नैकरूपास्त्वपूपाः

भुज्यन्ते भूसुरौघैर्महति तव गृहे रामचन्द्रस्य तृप्त्यै ॥ १८३ ॥
 
</verse>
<verse lang="sa" text="A" n="184">
अन्नं किंशुकपुष्पपुञ्जसदृशं पाषाणजालैर्युतं

धूम्यं गन्धयुतं च जालमखिलं भग्नाश्च दन्तालयः ।

आज्यं दूरतरं न चापि लवणं न श्रूयते तिन्त्रिणी

भक्ष्याणां वचनं च नास्ति हि सखे तद्भोजनं वर्णये ॥ १८४ ॥
 
</verse>
<verse lang="sa" text="A" n="185">
शाकैरनेकैर्नलभीमपाकैः सूपैरपूपैरमृतायमानैः ।

आज्यप्रवाहैश्च दधिप्रवाहैः ते भुञ्जते मानवपुण्यवन्तः ॥ १८५ ॥
 
</verse>
<verse lang="sa" text="A" n="186">
रवौ पुष्पं गुरौ दूर्वां भृगौ गोमयमेव च ।

भौमे भूमिं विनिक्षिप्य तैलाभ्यङ्गं समाचरेत् ॥ १८६ ॥
 
</verse>
<verse lang="sa" text="A" n="187">
को देशः कुत्र पुर्यां तव वसतिररे किं च गोत्रं च शाखा

का ते किं नाम सत्यं वद किमु पठितं वेदशास्त्रं च किन्नु ।

इत्थं पृष्टा धनाढ्यो वितरति च पुरः काचिकां (काकिणीं?) ब्राह्मणेभ्यो

हृष्टेभ्यस्सर्ववित्तं (वितरति हि भवान्?) दृष्टमात्रेण चित्रम् ॥ १८७ ॥</verse>
</page>