नराभरणम् /34
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="174">स्याद्राजा यदि सुन्दरो नहि यदि स्यात्सुन्दरो निर्गुणः
स्याच्चेत्पूर्णगुणो बलेन रहितः स्याच्चेद्बली कातरः ।
वीरश्चेद्विनयोज्झितः (सविनयः) स्याच्चैन्न दानोत्सुकः
स्याद्राजा (द्दाता?) यदि नातिलोक(भ?)विमुखं(खः?)
त्वं चेद्गुणानां निधिः(?) ॥ १७४ ॥
</verse>
<verse lang="sa" text="A" n="175">छायाभिः प्रथमं ततश्च कुसुमैः पश्चात्फलैस्स्वादुभिः
प्रीणात्येष तरुर्महानयमिति श्रान्तैस्समाश्रीयते ।
को जानाति तदीयकोटरपुटे प्रत्यग्रहालाहल-
ज्वालाजालजटालपाटलफणः क्रूरः फणी वर्तते ॥ १७५ ॥
</verse>
<verse lang="sa" text="A" n="176">निर्जितारिधरणीधरौ भुजौ
वर्जितान्यहरिणीदृशौ दृशौ ।
यस्य दानमहिमाकरौ करौ
संस्कृतार्थवचनोन्मुखं मुखम् ॥ १७६ ॥
</verse>
<verse lang="sa" text="A" n="177">गुणिनि गुणज्ञो रमते नागुण(शील)स्य गुणिनि परितोषः ।
अलिरेति वनात्कमलं न दर्दुरस्त्वेकवासोऽपि ॥ १७७ ॥
</verse>
<verse lang="sa" text="A" n="178">असन्तुष्टो द्विजो नष्टः सन्तुष्टः क्षत्रियस्तथा ।
सलज्जा गणिका नष्टा पण्यस्त्रीभिः (निर्लज्जा च?) कुलाङ्गना ॥ १७८ ॥
</verse>
<verse lang="sa" text="A" n="179">जिह्वा दग्धा परान्नेन हस्तो दग्धः परिग्रहात् ।
मनो दग्धं परस्त्रीभिः ब्रह्मशापः कुतः कलौ ॥ १७९ ॥
</verse>
<verse lang="sa" text="A" n="180">अप्सु प्लवन्ते पाषाणा: मानुषा घ्नन्ति राक्षसान् ।
कपयः कर्म कुर्वन्ति कालस्य कुटिला गतिः ॥ १८० ॥</verse>
</page>