नराभरणम् /33
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="167">ईशस्य कण्ठलग्नोऽपि वासुकिर्वायुभोजनः ।
महतां स्थानमाश्रित्य फलं भाग्यानुसा(रतः?) ॥ १६७ ॥
</verse>
<verse lang="sa" text="A" n="168">सर्वदा सर्वदोऽसीति मिथ्या त्वं कथ्यसे बुधैः ।
नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ १६८ ॥
</verse>
<verse lang="sa" text="A" n="169">त्वयि दातरि पृथ्वीश रणे वितरणेऽपि च ।
पुनर्देहीति वचनं न प्रत्यर्थिनि नार्थिनि ॥ १६९ ॥
</verse>
<verse lang="sa" text="A" n="170">सर्वज्ञ इति लोकोऽयं भवन्तं भाषते मृषा ।
पदमेकं न जानीषे वक्तुं नास्तीति याचके ॥ १७० ॥
</verse>
<verse lang="sa" text="A" n="171">राजन् दौवारिकादेव प्राप्तवानस्मि वारणम् ।
मदवारणमिच्छामि त्वत्तोऽहं पृथिवीपते ॥ १७१ ॥
</verse>
<verse lang="sa" text="A" n="172">साहित्यार्णवकर्णधारकरुणापीयूषवारांनिधे
विद्वञ्चातकवारिवाह कमलापर्यङ्कपङ्केरुह ।
त्वां केनोपमिमीमहे त्रिजगति प्राप्तप्रकर्षैः गुणैः
तुल्यं ते नरसिंह पार्थिव वयं कुत्रापि न प्राप्नुमः ॥ १७२ ॥
</verse>
<verse lang="sa" text="A" n="173">चन्द्रस्येव तवोदयेन महती श्रीश्चन्द्रिका वर्धतां
(द्वे)ष्टारश्शलभीभवन्तु भवतः तीव्रप्रतापानले ।
त्वद्दोर्दण्डमहाभुजङ्गशिरसि स्थेयादनन्ता चिरं
दिङ्कारीकुचमण्डले तव यशःपूरो वि (ऽपि ) हारायताम् ॥ १७३॥</verse>
</page>