This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="160">
द्रविणमापदि भूषणमुत्सवे

शरणमाहवे(मात्मभये) निशि दीपिका ।

बहुविधाभ्युपकारविधिक्षमो

(भवति) कोऽपि भवानिव सन्मणिः ॥ १६० ॥
 
</verse>
<verse lang="sa" text="A" n="161">
कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम् ।

पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् ॥ १६१ ॥
 
</verse>
<verse lang="sa" text="A" n="162">
एकः खलोऽपि यदि नाम भवेत्सभायां

व्यर्थीकरोति विदुषामखिलं प्रयासम् ।

एकाऽपि पूर्णमुदरं मधुरैः पदार्थैः

आलोड्य रेचयति हन्त न मक्षिका किम् ॥ १६२ ॥
 
</verse>
<verse lang="sa" text="A" n="163">
महाराज श्रीमन् जगति यशसा ते धवलिते

पयःपारावारं परमपुरुषोऽयं मृगयते ।

कपर्दी कैलासं कुलिशभृदभौमं करिवरं

कलानाथं राहुः कमलभवनो हंसमधुना ॥ १६३ ॥
 
</verse>
<verse lang="sa" text="A" n="164">
अपूर्वेयं धनुर्विद्या भवतश्शिक्षिता कुतः ।

मार्गणौघस्समायाति गुणो याति दिगन्तरम् ॥ १६४ ॥
 
</verse>
<verse lang="sa" text="A" n="165">
नाविद्यमानं कर्णोऽपि ददातीति मया श्रुतम् ।

अभयेन भयं दत्तमरातिभ्यः कथं त्वया ॥ १६५ ॥
 
</verse>
<verse lang="sa" text="A" n="166">
राजन् कनकवर्षाणि त्वयि सर्वत्र वर्षति ।

अभाग्यच्छत्रसञ्छन्ने मयि नायान्ति बिन्दवः ॥ १६६ ॥</verse>
</page>