नराभरणम् /31
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="151">स्वदत्तां परदत्तां वा यो हरेत्तु वसुन्धराम् ।
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥ १५१ ॥
</verse>
<verse lang="sa" text="A" n="152">अधर्मादार्जितं द्रव्यमल्पकालं तु तिष्ठति ।
ततस्सपत्नमयते समूलं तेन नश्यति ॥ १५२ ॥
</verse>
<verse lang="sa" text="A" n="153">अनारम्भो मनुष्याणां प्रथमं बुद्धिलक्षणम् ।
आरम्भस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥ १५३ ॥
</verse>
<verse lang="sa" text="A" n="154">सर्वज्ञमज्ञं च वदन्ति लोके सन्तस्तदा (सदा?) तस्य चरित्रलोकात् ।
न हि स्वयं वक्तुमलं समर्थः को वा चरेत्कुत्सितवृत्तिमार्यः ॥ १५४ ॥
</verse>
<verse lang="sa" text="A" n="155">केचिज्जनाः पण्डितमानिनो हि भवन्ति दुर्युक्तिकथाप्रसङ्गे ।
क्षणार्द्धमप्यूहति सच्चरित्रं श्लाघ्यं विदुस्सत्पुरुषः (षं?) स्वबुद्धया ॥ १५५ ॥
</verse>
<verse lang="sa" text="A" n="156">कटीतटानि कुञ्जेषु सञ्चरन्वातकुञ्जरः ।
हे(ए)रण्डतैलसिंहस्य गन्धमाघ्राय धावति ॥ १५६ ॥
</verse>
<verse lang="sa" text="A" n="157">हंससम्पदवतंसितं सरः
स्वीकृतं सुभगमानिभिर्बकैः ।
द्यौ(ः) मणि(?) घुमणिभूषित (ता?) क्षण-
ज्योतिषेति हसितं नु कैतकैः ॥ १५७ ॥
</verse>
<verse lang="sa" text="A" n="158">अध्वा जरा मनुष्याणामनध्वा वाजिनां जरा ।
अमैथुनं जरा स्त्रीणां वस्त्राणामातपो जरा ॥ १५८ ॥
</verse>
<verse lang="sa" text="A" n="159">पिता च ऋणवान् शत्रु: माता च व्यभिचारिणी ।
भार्या रूपवती शत्रुः पुत्रश्शत्रुरपण्डितः ॥ १५९ ॥</verse>
</page>