नराभरणम् /30
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="143">चिन्तायाश्च चितायाश्च बिन्दुमात्रं विशेषतः ।
चिता दहति निर्जीवं चिन्ता जीवन्तमप्यहो ॥ १४३ ॥
</verse>
<verse lang="sa" text="A" n="144">बृहत्यां च युवत्यां च सर्वाङ्गं मधुरायते ।
तयोरपि विशेषेण नालमूलोरुमूलयोः ॥ १४४ ॥
</verse>
<verse lang="sa" text="A" n="145">अर्थेन किं कृपणहस्तमुपागतेन
शास्त्रेण किं चलधिया भृशमादृतेन ।
रूपेण किं गुणसमूहविवर्जितेन
स्नेहेन किं व्यसनकालपराङ्मुखेन ॥ १४५ ॥
</verse>
<verse lang="sa" text="A" n="146">प्राणमेव परित्यज्य मानमेवाभिरक्षतु ।
अनित्यम(श्चा)ध्रुवं(वः) प्राणं(णो) मानमाचन्द्रतारकम् ॥ १४६ ॥
</verse>
<verse lang="sa" text="A" n="147">कामपि धते सूकररूपी कामपि रहितामिच्छति भूपः ।
केनाकारि (च) मन्मथजननं केन विराजति तरुणीवदनम् ॥ १४७ ॥
॥ कुङ्कुमेन ॥
</verse>
<verse lang="sa" text="A" n="148">आत्मबुद्ध्या सुखीभूया गुरुबुद्ध्या विशेषतः ।
बहुबुद्ध्या विनाशस्स्यात्स्त्रीबुद्ध्या प्रलयो भवेत् ॥ १४८ ॥
</verse>
<verse lang="sa" text="A" n="149">त्रिभिर्वैर्षैस्त्रिभिर्मासैस्त्रिभिःपक्षैस्त्रिभिर्दिनैः ।
अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते ॥ १४९ ॥
</verse>
<verse lang="sa" text="A" n="150">ब्राह्मणानामसंघातात् सर्पाणामतिनिद्रया ।
गजानां बुद्धिदौर्बल्यात् जगज्जीवति निर्भयम् ॥ १५० ॥</verse>
</page>