नराभरणम् /29
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="137">उड्डुगणपरिवारो नायकोऽप्योषधीना-
मयममृतशरीरः कान्तियुक्तोऽपि चन्द्रः ।
भवति विगतरश्मिर्मण्डलं प्राप्य भानोः
परसदननिविष्टः को लघुत्वं न याति ॥ १३७ ॥
</verse>
<verse lang="sa" text="A" n="138">पापात् निवारयति योजयते हिताय
गुह्यं च गूहति गुणान्प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥ १३८ ॥
</verse>
<verse lang="sa" text="A" n="139">अब्धी रत्नमधो धत्ते धत्ते च शिरसा तृणम् ।
अब्धेरेव हि दोषोऽयं रत्नं रत्नं तृणं (तृणम्) ॥ १३९ ॥
</verse>
<verse lang="sa" text="A" n="140">स्वयममृतनिधानो नायकोऽप्योषधीनां
शतभिषगनुयातश्शम्भुमूर्द्धावतंसः ।
परिहरति न चैनं राजयक्ष्मा शशाङ्कं
हतविधिपरिपाकः केन वा लङ्घनीयः ॥ १४० ॥
</verse>
<verse lang="sa" text="A" n="141">दाता न दापयति दापयिता न दत्ते
यो दानदापनपरो मधुरं न वक्ति ।
तद्दानदापनमनोहरभाषणानि
त्रीण्यप्यमूनि खलु सत्पुरुषेषु भान्ति ॥ १४१ ॥
</verse>
<verse lang="sa" text="A" n="142">अनक्षरं यस्य जनस्य भाषणम् अनादरं यस्य प्र(वि?)भुत्वसेवनम् ।
आलिङ्गनं लम्बपयोधराणां प्रत्यक्षदुःखं त्रयमेव भूमौ ॥ १४२ ॥[^]१
</verse>
<ignore lang="sa">---
१.</ignore>
<footnote lang="sa" text="A" mark="१">११७ - तमः लोको दृश्यताम् ।</footnote>
</page>

१.