नराभरणम् /26
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="113">आयं पश्यन् व्ययं कुर्वन्(र्यात्?) आयादल्पतरं व्ययम् ।
आयाभावे व्ययं कुर्वन् कुबेरोऽपि विनश्यति ॥ ११३ ॥
</verse>
<verse lang="sa" text="A" n="114">वरं दरिद्रोऽपि विचक्षणो जनो न चार्थवान् विश्रुतजातिवर्जितः ।
सलोचनः क्षीणपथो (पटो?) वि (ऽपि?) शोभते न नेत्रहीनः
शकटै(कटकै?)रलङ्कृतः ॥ ११४ ॥
</verse>
<verse lang="sa" text="A" n="115">सहोक्तिप्रत्युक्तिस्सरससहितैस्साक्षरजनैः
प्रभोर्भावज्ञस्य प्रभवितुरुदारस्य भजनम् ।
परीरम्भः कुम्भप्रतिभटकुचानां मृगदृशा-
मसारे संसारे जगति खलु सारत्रयमिदम् ॥ ११५ ॥
</verse>
<verse lang="sa" text="A" n="116">इह भोगं यशस्त्रीति(ःप्रीतिं?) सभासु बहुमान्यताम् ।
दद्यात्परत्र सुगतिं विद्याधनमनुत्तमम् ॥ ११६ ॥
</verse>
<verse lang="sa" text="A" n="117">अनक्षरज्ञेन जनेन सख्यं संभाषणं दुष्प्रभुसेवनं च ।
आलिङ्गनं लम्बपयोधराणां प्रत्यक्षदुःखं त्रयमेव भूमौ ॥ ११७ ॥
</verse>
<verse lang="sa" text="A" n="118">न चोरहार्यं न च राजहार्यं
विदेशयाने न च भारकार्यम् ।
व्यये कृते नित्यमुपैति नित्यम् (वृद्धिं)
विद्याधनं सर्वधनप्रधानम् ॥ ११८ ॥
</verse>
<verse lang="sa" text="A" n="119">अनन्तशास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्नाः ।
यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमिश्रम् ॥ ११९ ॥
</verse>
<verse lang="sa" text="A" n="120">सिद्धमन्नं फलं पक्कं नारीप्रथमयौवनम् ।
सुभाषितं च ताम्बूलं सद्यो गृह्णाति बुद्धिमान् ॥ १२० ॥</verse>
</page>