नराभरणम् /25
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="104">मातृहीनशिशुजीवनं वृथा शान्तिहीनतपसः फलं वृथा ।
कान्तिहीननवयौवनं वृथा दन्तहीनरसभोजनं वृथा ॥ १०४ ॥
</verse>
<verse lang="sa" text="A" n="105">करानीतं पटानीतं स्त्रिया नीतं तथैव च ।
एरण्डपत्रैरानीतं देवतानां च नार्हति ॥ १०५ ॥
</verse>
<verse lang="sa" text="A" n="106">आरोग्यं भास्करादिच्छेत् श्रियमिच्छेद्धुताशनात् ।
ज्ञानं महेश्वरादिच्छेत् मोक्षमिच्छेज्जनार्दनात् ॥ १०६ ॥
</verse>
<verse lang="sa" text="A" n="107">न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।
ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ १०७ ॥
</verse>
<verse lang="sa" text="A" n="108">कुभोजनं चोष्णतया विराजते कुवस्त्रता शुभ्रतया विराजते ।
दरिद्रता धीरतया विराजते कुरूपिता शीलतया विराजते ॥ १०८ ॥
</verse>
<verse lang="sa" text="A" n="109">हंसो न भाति बलिभोजनबृन्दमध्ये
गोमायुमण्डलगतो न विभाति सिंहः ।
जात्यो न भाति तुरगः खरयूथमध्ये
विद्वान्न भाति पुरुषेषु निरक्षरेषु ॥ १०९ ॥
</verse>
<verse lang="sa" text="A" n="110">काव्यैरुपहता वेदाः पुत्रा जामातृभिर्हताः ।
अश्वैरुपहता गावः पण्यस्त्रीभिः कुलाङ्गनाः ॥ ११० ॥
</verse>
<verse lang="sa" text="A" n="111">युक्तियुक्तमुपादेयं वचनं बालकादपि ।
अन्यद्दुष्टमिव त्याज्यमप्युक्तं पद्मजन्मना ॥ १११ ॥
</verse>
<verse lang="sa" text="A" n="112">किंक्षणस्य कुतो विद्या किं(क)णस्य कुतो धनम् ।
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ॥ ११२ ॥</verse>
</page>