This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="94">
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।

सत्यपूतां वदेद्वाणीं श्रद्धापूतं धनं दिशेत् ॥ ९४ ॥
 
</verse>
<verse lang="sa" text="A" n="95">
अधोमुखस्स्वयं रन्ध्री रन्ध्रान्वेषणतत्परः ।

लालनाद्वृद्धिमाप्नोति शिश्नप्रायो हि दुर्जनः ॥ ९५ ॥
 
</verse>
<verse lang="sa" text="A" n="96">
तित्तिरिश्च वराहश्च महिषः कुञ्जरस्तथा ।

सेनापत्येन (-पतिश्च ?) राजानं (-जा च?) षडेते

स्वर्ग(स्वैर?)गामिनः ॥ ९६ ॥
 
</verse>
<verse lang="sa" text="A" n="97">
सम्मुखात्सूर्यः सुप्रीतः भाषणेन सरस्वती ।

खागतेनाग्निः सुप्रीतः आसनेन शतक्रतुः ॥ ९७ ॥
 
</verse>
<verse lang="sa" text="A" n="98">
दशवत्ससमा धेनुः दशधेनुसमो वृषः ।

दशोक्षकसमो दन्ती दशदन्तिशत(समः) क्रतुः ॥ ९८ ॥
 
</verse>
<verse lang="sa" text="A" n="99">
दशक्रतुसमा कन्या दशकन्यासमा भुवः ।

भूमेर्दानात्परं नास्ति विद्यादानं ततोऽधिकम् ॥ ९९ ॥
 
</verse>
<verse lang="sa" text="A" n="100">
अल्पप्रभोस्तु सेवायां भुक्तिमात्रं प्रयोजनम् ।

अनुग्रहम( ग्रहे त्व?)जामूल्यं निग्रहं ( हे? ) प्राणसङ्कटम् ॥ १०० ॥
 
</verse>
<verse lang="sa" text="A" n="101">
जलूकं कृत्त (रक्त?) साध्यं च ज्वरसाध्यं च लङ्घनम् ।

वमनं कफसाध्यं च पित्तसाध्यं विरेचनम् ॥ १०१॥
 
</verse>
<verse lang="sa" text="A" n="102">
उत्साहसम्पन्नमदीनसत्त्वं क्रियाविधिज्ञं व्यवसायिनं च ।

शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीस्खयं वाञ्छति वासहतोः ॥ १०२ ॥
 
</verse>
<verse lang="sa" text="A" n="103">
सर्ववाद्यमयी घण्टा सर्वद्रव्यमयं जलम् ।

सर्वपुष्पमयी दूर्वा सर्वदेवमयो हरिः ॥ १०३ ॥</verse>
</page>