नराभरणम् /23
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="85">सद्वृत्तश्शुचिरङ्कवल्कलधरस्स्नातोद्गतस्सागरात्
प्रोञ्छन् ध्वान्तमधः करैर्द्विजपतिः देवानपि प्रीणयन् ।
यत्कोकान् रमणीभिरेष रहयन्नु (त्यु?) त्काननेनैनसा
प्राप्नोति स्वकलावि(यो)गमहता(मथवा?) दोषो
बलीयान्गुणः( णात्) ॥ ८५ ॥
</verse>
<verse lang="sa" text="A" n="86">अखण्डितं च क्रमुकं चूर्णं तु रसवर्जितम् ।
भूमौ निपतितं पत्रं शक्रस्यापि श्रियं हरेत् ॥ ८६ ॥
</verse>
<verse lang="sa" text="A" n="87">अनिधाय मुखे पत्रं प्रगे खादति यो नरः ।
सप्तजन्मदरिद्रत्वमन्ते विष्णुस्थितिश्च न ॥ ८७ ॥
</verse>
<verse lang="sa" text="A" n="88">श्रीमतो भिक्षुकस्यापि हृद्यं वैवाहिकं गृहम् ।
क्षीरार्णवे हरिश्शेते हरश्शेते महोदधौ (हिमालये?) ॥ ८८ ॥
</verse>
<verse lang="sa" text="A" n="89">यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा ।
यश्चैनं गन्धमाल्याद्यैस्सर्वस्य कटुरेव सः ॥ ८९ ॥
</verse>
<verse lang="sa" text="A" n="90">परैरालिङ्गिता यान्ति प्रस्खलन्ति पदे पदे ।
अव्यक्तानि च भाषन्ते धनिनो मद्यपा इव ॥ ९० ॥
</verse>
<verse lang="sa" text="A" n="91">दुर्जनस्सज्जनात्पूर्वं पूज्यतां यातु तेन किम् ।
गुदं प्रक्षालनात्पूर्वमाननादधिकं किमु ॥ ९१ ॥
</verse>
<verse lang="sa" text="A" n="92">लुब्धस्य वित्तं रणशूरशस्त्रं पतिव्रतायाः कुचकुम्भमध्यम् ।
व्याघ्रस्य चर्म शबरी (चमरं?) मृगाणामेतानि (?) दत्तं (दग्धं?)
मरणान्तकाले ॥ ९२ ॥
</verse>
<verse lang="sa" text="A" n="93">असभ्यः पिशुनश्चैव कृतघ्नो दीर्घवैरिणः (रक:?) ।
चत्वारः कर्मचण्डालाः जातिचण्डालपञ्चमः (माः? ) ॥ ९३ ॥</verse>
</page>