This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="78">
वैद्यं पापरतं नटं कुनृपतिं स्वाध्यायहीनं द्विजं

युद्धे कापुरुषं हयं गतरयं क्रुद्धं परिव्राजकम् ।

राजानं च कुमन्त्रिभिः परिवृतं देशं च सोपप्लवं

भार्या यौवनगर्वितां पररतां मुञ्चन्ति शीघ्रं बुधाः ॥ १८ ॥
 
</verse>
<verse lang="sa" text="A" n="79">
कृपादीनं त्यजेदर्थं निर्वेदं ब्राह्मणं त्यजेत् ।

त्यजेत्क्रुद्धमुखीं भार्यां ज्ञानहीनं गुरुं त्यजेत् ॥ ७९ ॥
 
</verse>
<verse lang="sa" text="A" n="80">
मुक्ताफलैः किं वनमर्कटस्य मृष्टान्नदानेन तु गर्दभस्य ।

अन्धस्य दीपाद्बधिरस्य गीतात् मूर्खस्य किं धर्मकथाप्रसङ्गैः ॥ ८० ॥
 
</verse>
<verse lang="sa" text="A" n="81">
सर्वौषधीनामुदकं प्रधानं सर्वे (षण्णां?) रसानां लवणं प्रधानम् ।

सर्वेन्द्रियाणां नयनं प्रधानं भवेन्नदीनामुदकं प्रधानम् ॥ ८१ ॥
 
</verse>
<verse lang="sa" text="A" n="82">
आशाया दासा ये दासास्ते सर्वलोकस्य ।

आशा दासी येषां तेषां दासायते लोकः ॥ ८२ ॥
 
</verse>
<verse lang="sa" text="A" n="83">
महत्सन्दर्शने प्राप्ते समस्तनियमैरलम् ।

तालवृन्तेन किं कार्य पार्श्वस्थे मलयानिले ॥ ८३ ॥
 
</verse>
<verse lang="sa" text="A" n="84">
वक्रापि पङ्किलभवापि दुरासदापि

व्यालाश्रितापि विफलापि सकण्टकापि ।

गन्धेन बन्धुरसि केतकि सर्वजन्तोः

एको गुणः खलु निहन्ति समस्तदोषान् ॥ ८४ ॥</verse>
</page>