नराभरणम् /20
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="62">अन्यत्र भीष्मानाङ्गेयात् अन्यत्र च हनूमतः ।.
हरिणीखुरमात्रेण चर्मणा मोहितं जगत् ॥ ६२ ॥
</verse>
<verse lang="sa" text="A" n="63">उत्कृष्टमध्यमनिकृष्टजनेषु मैत्री यद्वच्छिलासु सिकतासु जलेषु रेखा ।
वैरं क्रमादधममध्यमसज्जनेषु यद्वच्छिलासु सिकतासु जलेषु रेखा ॥ ६३ ॥
</verse>
<verse lang="sa" text="A" n="64">विश्वामित्राश्वपश्वादीन् (?) पारयत्यप्सु कर्दमे ।
वार्धक्ये तमसि श्रान्ते यष्टिरिष्टेव सुप्रजाः ॥ ६४ ॥
</verse>
<verse lang="sa" text="A" n="65">पापिनां पापगणनां यः करोति नराधमः ।
सत्यं चेदर्घमाप्नोति मिथ्या चेद् द्विगुणं भवेत् ॥ ६५ ॥
</verse>
<verse lang="sa" text="A" n="66">अन्नदाहे हरेन्मांसमम्बुदाहे च शोणितम् ।
कामदाहे हरेन्नेत्रमनिद्रा रोगकारिणी ॥ ६६ ॥
</verse>
<verse lang="sa" text="A" n="67">तलोदरीणां तरुणीमणीनां
तटाकजं तालपयोधराणाम् ।
ताद्रूप्यमाप्तुं तरुणैः (तरणौ?) तदास्यं (स्यैः?)
तपः परं तामरसं तनोति ॥ ६७ ॥
</verse>
<verse lang="sa" text="A" n="68">दिव्यं चूतफलं प्राप्य गर्वं नायाति कोकिल: ।
पीत्वा कर्दमपानीयं भेको बकबकायते ॥ ६८ ॥
</verse>
<verse lang="sa" text="A" n="69">वित्तेन हीनं पुरुषं त्यजन्ति पुत्राश्च दाराश्च सहोदराश्च ।
तं वित्तवन्तं पुनरेव यान्ति तस्मात्तु वित्तं पुरुषस्य बन्धुः ॥ ६९ ॥
</verse>
<verse lang="sa" text="A" n="70">वाङ्माधुर्य्यात्सर्वलोकप्रियत्वं वाक्पारुष्यात्सर्वलोकापकारी ।
किं वा लोके कोकिलेनोपनीतं को वा लोके रासभेनापराधः ॥ ७० ॥</verse>
</page>