नराभरणम् /19
This page has been fully proofread twice.
<page>
<verse lang="sa" text="A" n="54">सदा वक्रस्सदा क्रूरः सदा पूजामपेक्षते ।
कन्याराशिगतो नित्यं जामाता दशमो ग्रहः ॥ ५४ ॥
</verse>
<verse lang="sa" text="A" n="55">अल्पाश्रयं समासाद्य महानप्यल्पको भवेत् ।
गजेन्द्रः पर्वताकारो यथा दर्पणमाश्रितः ॥ ५५ ॥
</verse>
<verse lang="sa" text="A" n="56">असहायस्समर्थोऽपि तेजस्वी किं करिष्यति ।
रामस्सुग्रीवसाहाय्यात् लङ्कां निर्दग्धवान्पुरा ॥ ५६ ॥
</verse>
<verse lang="sa" text="A" n="57">अस्त्यद्यापि चतुस्समुद्रपरिखापर्यन्तमुर्वीतलं
सन्त्यन्येऽपि विदग्धकेलिरसिकाः केचित्क्वचिद्भूभुजः।
एकस्तत्र निरादरो यदि भवेत् अन्यो भवेत्सादरः
वाग्देवी वदनाम्बुजे यदि भवेत् को नाम दीनो जनः ॥ ५७ ॥
</verse>
<verse lang="sa" text="A" n="58">पात्रमपात्रीकुरुते दहति गुणं स्नेहमाशु नाशयति ।
अमले मलं नियच्छति दीपज्वालेव खलजने मैत्री ॥ ५८ ॥
</verse>
<verse lang="sa" text="A" n="59">चिन्तासमं नास्ति शरीरशोषणं क्षुधासमं नास्ति शरीरपीडनम् ।
मातुस्समं नास्ति शरीरपोषणं विद्यासमं नास्ति शरीरभूषणम् ॥ ५९ ॥
</verse>
<verse lang="sa" text="A" n="60">वितरति फणिलोकं विद्रुतानां नृपाणा-
ममरभुवनलक्ष्मीमाहवे सम्मुखानाम् ।
अपि च पदनतानामाधिपत्यं जगत्यां
किमिह वितरणं ते कीर्तयामि क्षितीन्द्र ॥ ६० ॥
</verse>
<verse lang="sa" text="A" n="61">महतामवलोकनं परं क्षणमात्रेण फलं प्रदास्यति ।
नहुषो विजहौ भुजङ्गतां यदुसूनोरवलोकनेन यत् ॥ ६१ ॥</verse>
</page>