This page has been fully proofread twice.

<page>
<verse lang="sa" text="A" n="45">
उत्तमैस्स्वीकृतो नीचः नीच एव न चोत्तमः ।

भैरवाधिष्ठितश्श्वा तु कदाचिन्न तु केसरी ॥ ४५ ॥
 
</verse>
<verse lang="sa" text="A" n="46">
असतां धर्मबुद्धिश्चेत् सतां सन्तापकारणम् ।

उपोषितस्य व्याघ्रस्य पारणं पशुमारणम् ॥ ४६॥
 
</verse>
<verse lang="sa" text="A" n="47">
यथा गजाः परिश्रान्ताः तरुच्छायां समाश्रिताः ।

विश्राम्य तद्द्रुमं घ्नन्ति तथा नीचसमागमः ॥ ४७ ॥
 
</verse>
<verse lang="sa" text="A" n="48">
लघुना सह संवासो लाघवस्यैव कारणम् ।

शुष्कालाबोश्च संसर्गात् लोहमुत्प्लवतेऽम्भसि ॥ ४८ ॥
 
</verse>
<verse lang="sa" text="A" n="49">
अहमिहैव वसन्नपि तावकः त्वमपि तत्र वसन्नपि मामकः ।

न तनुसङ्गम एव (सु)सङ्गमः हृदयसङ्गम एव (सु)सङ्गमः ॥ ४९ ॥
 
</verse>
<verse lang="sa" text="A" n="50">
दूरस्थोऽपि न दूरस्थो यो यस्य हृदये वसेत् ।

यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः ॥ ५० ॥
 
</verse>
<verse lang="sa" text="A" n="51">
मातेव रक्षति पितेव हिते नियुङ्क्ते

कान्तेव चाभिरमयत्यपनीय खेदम् ।

कीर्तिं च दिक्षु विमलां वितनोति लक्ष्मीं

किं किं न साधयति कल्पलतेव विद्या ॥ ५१ ॥
 
</verse>
<verse lang="sa" text="A" n="52">
संभ्रमस्नेहमाख्याति वपुराख्याति भोजनम् ।

आचारः कुलमाख्याति देशमाख्याति भाषणम् ॥ ५२ ॥
 
</verse>
<verse lang="sa" text="A" n="53">
विद्याहीनस्य विप्रस्य विडम्बाय गुणान्तरम् ।

परिधानविहीनस्य परिकर्मान्तरं तथा ॥ ५३ ॥</verse>
</page>