This page has been fully proofread twice.

<page>
<verse lang="sa" text="A" n="16">
यस्तु पर्यटते देशान् यस्तु सेवेत पण्डितान् ।

तस्य विस्तारिता बुद्धिः तैलबिन्दुरिवाम्भसि ॥ १६ ॥
 
</verse>
<verse lang="sa" text="A" n="17">
स्नानमूलमिदं कर्म कृषिमूलमिदं धनम् ।

आज्ञामूलमिदं राज्यं पत्नीमूलमिदं गृहम् ॥ १७ ॥
 
</verse>
<verse lang="sa" text="A" n="18">
यत्र विद्यागमो नास्ति यत्र नास्ति धनागमः ।

यत्र देहसुखं नास्ति न तत्र निमिषं वसेत् ॥ १८ ॥
 
</verse>
<verse lang="sa" text="A" n="19">
लक्ष्मीश्चेन्न सरस्वती तदुभयं यद्यस्ति नोदारता

तत्रापि त्रितयं घटेत कतिचित्पुण्यैरगण्यैरपि ।

सौजन्यं न विजृम्भते तदपि चेन्नास्त्येव धर्मे मतिः

तत्सर्वं जगदीश्वरस्य कृपया त्वय्येव सन्दृश्यते ॥ १९ ॥
 
</verse>
<verse lang="sa" text="A" n="20">
सरस्वती स्थिता वक्त्रे लक्ष्मीर्वक्षसि ते स्थिता ।

कीर्तिः किं कुपिता राजन्! येन देशान्तरं गता ॥ २० ॥
 
</verse>
<verse lang="sa" text="A" n="21">
श्रुत्वा च दूरे भवदीयकीर्तिं कर्णौ च तुष्टौ न तु चक्षुषी मे ।

तयोर्विवादं परिहर्तुकामः समागतोऽहं भवदीक्षणाय ॥ २१ ॥
 
</verse>
<verse lang="sa" text="A" n="22">
यो न ददाति न भुङ्क्ते विभवे सति तस्य तद्द्रव्यम् ।

तृणकृतकृत्रिमपुरुषो [ऽयं] रक्षति सस्यमिव परस्यार्थे ॥ २२ ॥
 
</verse>
<verse lang="sa" text="A" n="23">
चकोरा इव शीतांशुं चातका इव तोयदम् ।

चञ्चरीका इवाम्भोजं द्रष्टुं त्वामुत्सुका वयम् ॥ २३ ॥
 
</verse>
<verse lang="sa" text="A" n="24">
को वा जन्मान्तरे पूर्वं धर्मस्सम्पादितो मया ।

यत्सतां दर्शनं प्राप्तं सर्वस्फीतफलप्रदम् ॥ २४ ॥</verse>
</page>