This page has been fully proofread twice.

<page>
<verse lang="sa" text="A" n="8">
यस्य माता गृहे नास्ति भार्या चाप्रियभाषिणी ।

अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥ ८॥
 
</verse>
<verse lang="sa" text="A" n="9">
सन्देहं स्वल्पमाश्रित्य साधवो यान्ति दूष्यताम् ।

रात्रौ वल्मीकसम्पर्कात् रज्जुस्सर्पायते खलु ॥ ९ ॥
 
</verse>
<verse lang="sa" text="A" n="10">
हतं वित्तमदानेन हता नारी निरङ्कुशा ।

ब्रह्मस्वेन हतो राजाऽनग्निना ब्राह्मणो हतः ॥ १० ॥
 
</verse>
<verse lang="sa" text="A" n="11">
आलस्येन हता विद्या आलापेन कुलाङ्गना ।

अल्पबीज हतं क्षेत्रं हतं सैन्यमनायकम् ॥ ११ ॥
 
</verse>
<verse lang="sa" text="A" n="12">
तत्त्वज्ञस्य तृणं शास्त्रं वीरस्य रमणी तृणम् ।

विरक्तस्य तृणं नारी निःस्पृहस्य नृपास्तृणम् ॥ १२ ॥
 
</verse>
<verse lang="sa" text="A" n="13">
किं पौरुषैस्त्यक्तपरोपकारैः

सौभाग्यहीनैरपि किं सुरूपैः ।

किं वा धनैस्सद्विनियोगशून्यैः

वाग्भिश्च किं विष्णुकथाविरक्तैः (क्तौ?) ॥ १३ ॥
 
</verse>
<verse lang="sa" text="A" n="14">
अर्थेन किं कृपणहस्तगतेन तेन

रूपेण किं गुणपराक्रमवर्जितेन ।

ज्ञानेन किं बहुजनैः कृतमत्सरेण

मित्रेण किं व्यसनकालपराङ्मुखेन ॥ १४ ॥
 
</verse>
<verse lang="sa" text="A" n="15">
सूर्योदयस्फुरणहानि तमिस्रजालं सुस्निग्धबन्धुजनदर्शनहानि दुःखम् ।

नारीकटाक्षपतनावधि पुंसि धैर्यं नारायणस्मरणपर्यवसायि पापम् ॥ १५ ॥</verse>
</page>