This page has been fully proofread twice.

<page>
<title lang="sa" text="A">
॥ नराभरणम्* ॥
 
</title>
<verse lang="sa" text="A" n="1">
स्वहस्ते नाचरेद्दानं परहस्तेन मर्दनम् ।

भार्या हस्तेन ताम्बूलं मातृहस्तेन भोजनम् ॥ १ ॥
 
</verse>
<verse lang="sa" text="A" n="2">
नरस्याभरणं रूपं रूपस्याभरणं गुणः ।

गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥ २ ॥
 
</verse>
<verse lang="sa" text="A" n="3">
न्यायो राजविभूषणं वितरणं पाणिद्वयोर्भूषणं

लज्जा स्त्रीजनभूषणं सरसता सख्युस्सदा भूषणम् ।

विद्या विप्रविभूषणं हरिकथा श्रोत्रद्वयोर्भूषणं

सत्पुत्रः कुलभूषणं सुकविता वाचस्सदा भूषणम् ॥ ३ ॥
 
</verse>
<verse lang="sa" text="A" n="4">
नभोभूषा पूषा कमलवनभूषा मधुकरो

वचोभूषा सत्यं वरयुवतिभूषा सुगुणता ।

मनोभूषा मैत्री मधुसमयभूषा मधुभृतः

सतां भूषा शान्तिः सकलजनभूषा वितरणम् ॥ ४ ॥
 
</verse>
<verse lang="sa" text="A" n="5">
असम्पन्नः कथं बन्धुरसहिष्णुः कथं प्रभुः ।

अनात्मवित्कथं विद्वान् असन्तुष्टः कथं सुखी ॥ ५ ॥
 
</verse>
<verse lang="sa" text="A" n="6">
शाठ्येन मित्रं कलुषेण धर्मं परावमानेन समृद्धिभावम् ।

सुखेन विद्यां परुषेण नारीं वाञ्छन्ति ये नूनमपण्डितास्ते ॥ ६ ॥
 
</verse>
<verse lang="sa" text="A" n="7">
दरिद्रस्य द्विभार्यत्वं पथि क्षेत्रं द्विधा कृषिः ।

प्रातिभाव्यं च साक्षित्वं पञ्चानर्थास्स्वयंकृताः ॥ ७ ॥
 
 
</verse>
<footnote lang="sa" text="A" mark="
* ">मद्रपुरी- राजकीयकोशागारस्थमातृकातः । इदमपि नानाकविकृतिभ्यः संकलितम् ।</footnote>
</page>