Proofing

✦

This page has been fully proofread once and needs a second look.

३८०
 
नीलकण्ठविजये सव्याख्याने
 
रङ्गमिव सागरम्, निस्तनितमिव संवर्तमेघमण्डलम्, निखिलमपि
देवासुरवबलं नियमयन्ती कटाक्षेणैव, यदा कश्चिदत्र करं प्रसार-
यति, कश्चिदुपमन्त्रयते रहसि, कश्चिदुच्चैः प्रलंलपति, कश्चित्
स्

त्
वरते, कश्चिद्वा प्रतिब्रूते, तदा तिरोभवेयमिति प्रतिज्ञयैव
'
[^१]परित्रासयन्ती, सम्मुखीभूय देवपङ्क्तौ सन्ननाह परदेवता ।

 
प्रत्यासन्नसखीवितीर्णमुकुळद्वीटीदळग्राहिणा

सव्येनादधती करेण मृदुना दर्वीवीं मणीनिर्मिताम् ।

कुर्वाणा करपल्लवे तदितरे कुम्भं सुधापूरितं

चिद्रूपा परमा कला पुरभिदश्चित्ते ममास्ते तु सा ॥ ४८ ॥
 

 
[commentary]
 
सङ्गस्य प्रावारवस्त्रस्य पल्लवः अग्रभागो यथा सा तथाभूता । 'द्वौ प्रावारोत्तरासङ्गौ '
इत्यमरः । वेणी प्रवेणी। 'वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे' इत्यमरः ।
तस्यां दृढमत्यन्तं ग्रथितानि विस्रंसमानानि च यानि कुसुमानि तेषां
दामानि मालाः तैः मनोहरा मनोज्ञा निखिलं समस्तं देवासुराणां बलं
निस्तरङ्गं सागरमिव समुद्र मिव निस्तनिततं निर्गतगर्जित संवर्तमेघमण्डलं प्रळय-
कालसम्बन्धिमेघसमूहमिव कटाक्षेणैव नियमयन्ती नियमनं कुर्वन्तीत्यर्थः । अत्र
समुदाये कश्चिद्यदा करं प्रसारयति यः कश्चित् रहसि एकान्ते उपमन्त्रयते परान्
प्रति आलोचयतीत्यर्थः । कश्चिदुच्चैः प्रलपति कश्चित् त्वरते यो वा को वा कश्चित्
प्रतिब्रूते प्रत्युत्तरं वदति तदा अहं तिरोभवेयं तिरोधानं कुर्याम् इति इत्थं
प्रतिज्ञयैव परित्रासयन्ती भीषयन्ती सा पुरदेवता मोहिनी देवानां पङ्क्तिः

श्रेणी तस्यां सम्मुखीभूय अभिमुखी भूत्वा परिवेषणायेति शेष:षः । सन्ननाह
उद्योगं चकारेत्यर्थः । अथ कविः तथाविधां परदेवतां प्रार्थयते ॥ प्रतीति ॥
प्रत्यासन्ना समीपवर्तिनी या सखी वयस्या तथा वितीर्णणं समर्पितं मुकुळत्
कुडूड्मलत् यद्वीटीदळं ताम्बूलदलम् तस्य ग्राहिणा स्वीकारिणा मृदुना कोमलेन सव्येन
करेण मणीभिः निर्मिता विरचिता तथाभूतां दवर्वीं आघती घदधती धरन्तीत्यर्थः ।
तदितरे वामेतरे करपल्लवे सुधया पूरितं कुम्भं कलशं कुर्वाणा कुर्वन्तीत्यर्थः ।
 
1
 
1.
 

 
[^१]
भोजनकाले, मौनेन सावधानेन च भवितव्यं, भोज्यंयरसनिषेवणायेति दर्शयति ॥