Proofing

✦

This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
दारुणः, कल्पानलदग्धजगदण्डपिण्डीकरणप्रसक्तकालचण्डीकरक्षालनोद-
कामिकव क्षीरोदमाकलयनन्, प्रथमनिःसृतपवनपरिस्पन्दमात्रनिश्शेषितेषु
भुवनेषु, दुदग्धव्यानुपलम्भसम्भवक्षुधाप्रसारितर सनासहस्रभीषणेन ज्वाला-
कलापेन लेलिहान इव वैरिश्चमपि प्रपञ्चम्मपि प्रपञ्चम्, अवसादितभुवनकोलाहलो
हालाहलो निर्गत्य, वारण इव वारणमभिदुद्राव रमारमणम् ।
 
2
 

 
तत्क्षणं च परुषविषानेनलज्वालापरिप्लोषप्रतीका रमन्त्राक्षराङ्गाररूषि-
तानीव वदनानि चतुर्वेवदनस्य दधिरे दन्ततालुरसनाधरे मालिन्यम् ।

 
म्लायन्त्यां वैजयन्त्यामथ कनकपटे धूसरे धूमजालैः
 

चक्रे निर्ज्वालचक्रे सपदि परिणतस्फोटशङ्के च शङ्खे ।
 
F
 

 
[commentary]
 
कम्पनेन, सम्भावितस्सम्पादितः, यः प्रत्यवायो दुरितं, स इव परमदारुणो,
अत्यन्तभयङ्करः क्षीरोदं क्षीरनिधिधिं कल्पानलदग्धस्य जगदण्डस्य पिण्डीकरणे
प्रसक्ता उद्युक्ता या कालचण्डी तस्याः करक्षाळनोद कमिव आकलयन् कुर्वन्
भुवनेषु लोकेषु, प्रथममं निःसृतो निर्गतः, यः पवनः तस्य परिस्पन्दमात्रेण
किञ्चिच्चलनेनैव निश्शेषितेषु निरवशेषितेषु सत्सु दग्धव्यो दाह्यपदार्थः
तस्यानुपलम्भः अप्राप्तिः । अलाभ इति यावत् । तस्मात् सम्भवा समुत्पन्ना
या क्षुषाधा क्षुत् तथाया प्रसारिता या रसना:नाः जिह्वावाः तासां सहस्रवद्रीभीषणं भयङ्करं
तथाभूतेन ज्वालानां कलापस्समूह :हः तेन वैरिञ्चं विरिञ्चिसम्बन्धिनं प्रपञ्च
चं लोकं लेलिहान;नः लेहन -नं कुर्वन्निव । अवसादितः, विनाशितः भुवनानां

कोलाहल: कलकलरक:लः कलकलरवः येन स तथाभूतः । हालाहल:लः कालकूटः, वारणं गजं
वारण इव । 'मतङ्ग जो गजो नागः कुञ्जरो वारण:णः करी' इत्यमरः । रमारमणं
श्रीहरिरिं अभिदुद्राव अनुधावनं चकारेत्यर्थः ॥ तदिति ॥ तत्क्षणं परुष:षः दुस्सह
हः यो विषानल:लः तस्य ज्वालाभिः यः परिप्लोष म्लानत्वं तस्य प्रतीकारः चिकित्सनं
तदर्था:
तदर्थाः ये मन्त्रा:राः । 'नर्य प्रजां मे गोपाय' इत्यादयो मन्त्राः तेषामक्षरैर्वर्णैरे-
वाङ्गारैः रूषितानि व्याप्तानीव चतुर्वदनस्य ब्रह्मणः वदनानि दन्ततालुरसनाघधरे
मालिन्यं मलिनता । प्राण्यङ्गत्वात् 'द्वन्द्वश्च प्राणि--' (2-4-2२.४.२) इत्यादिना एकवद्भावः ।
दधिरे दधुरित्यर्थः ॥ म्लायन्त्यामिति ॥ अथ कालस्तत्कालः तस्मिन्नात्मा
धैर्यं यस्य स;सः कालात्मा 1। यद्वा कालस्वरूप इत्यर्थ:थः । 'आत्मा यलोत्नो धृतिर्बुद्धिः '
 
✓