Proofing

Sorry, you aren't authorized to use this feature.

This page has not been fully proofread.

प्रस्तावना
 
बारप्रभुणा प्रीत्या समर्पितं मरकतमणिहारं तन्मनसा सह आचकर्ष। तदनुपदमेव पण्डितवर्यस्त
मणिहारमस्मै बात्सस्येन समर्थ्य समतोषयदेनम्। ततो यज्वा महाराजमापृच्छय स्वगृहमगात् ।
महाराजोऽपि स्वप्रीतिनिदर्शनाय बहुधननिचयमनुपदमेव तस्मै प्राहिणीत् ॥
 
एवं बाळेश्वरयम्वा यदा यदा स्वप्राममाययौ, तदा तदा महीशरपुरे राज्ञा संमानवमा
इचं छत्रचामरादिकं सर्व स्वग्रामवर्तिशिवविष्ण्वाळ्याभ्यां समर्पयति स्म । यदा च 1839 तमे कि-
रत्मब्दे श्रीकाञ्च्यां श्रीकामाझ्या: महाकुम्याभिषेकः, तथा 1849 तमे श्रीजम्बुकेश्वर राख्य दिव्य-
क्षेत्रे श्रीमदखिलाण्डेश्व यस्ता प्रतिष्ठा महोत्सवश्च संप्रवर्तितः श्रीकाश्वीकामको टेपीठाधीश्वरैः
श्रीशंकराचार्यैः; तदाऽपि शास्त्रिवर्यः एवयोरुभयोरपि समययोः संनिहितः सन् तत्र कर्तव्यजातं
मपि निरबहतु इति श्रूयते । तस्बास्य यवनः परमेश्वरे निरविशया भक्तिरासीत् । यतः प्रतिदि-
नकाब शरुद्र पूर्व कर्मश्वर पूजन मन्तरा सलिलमपि पातुं नाभ्यवस्येत् इति श्रूयते । तत्रापि श्रीमध्यार्जु-
नक्षेत्राबेराजमानश्री महालिङ्गेश्वरस्य चरण कमलयोरति मात्र मावद्भक्तिप् अत एव चरमे बयसि
बर्तमानः स यदा यदा स्वजन्म भूमिमाययौ, तदा तदा अहरहर्मण्यार्जुने श्रीमहालिङ्गशम नेकन्तुति -
प्रणतिपूर्वकमध्वा न स्वापमप्याप्नुयात इति वदन्ति प्रामाणिका वृद्धाः । एवमनवरतमीश्वरं भक्त्या
भजमानः शास्त्रिवर्यः स्वभक्तिपारम्यपरिणतया श्रीमहालिङ्गशतकारूयया कयाचित्स्तोत्ररत्नावस्या
सह भगवतः श्रीमहालिङ्गेशानस्य पादपजयुगळे स्वात्मानं समर्थान्ते प्रायः अशीतितमे वयसि
भौतिकं देहमत्यजत् । अनेन शास्त्रिवर्येण कृता अभ्ये प्रन्थाः एते- हिरण्यकेशी श्रौतसूत्रव्याख्या,
सत्वामान्यसूत्रव्याख्या, दत्तचिन्तामणिः, श्राद्धचिन्तामणिः ब्रह्मसूत्रार्थचिन्तामणिः, काकताळीय-
बादार्थ: धूर्गानचन्द्रिका तर्कसंग्रहव्याख्या, श्रीमहाशितकम्, भाट्टचिन्तामणिः इति ॥
 
इत्यं महिषशतककर्तृतद्वबारूयाक्कतोः श्रीवास्छेश्वरशास्त्रिणोः कालेतिवृत्तादिकं सर्वमपि
वहंशीयै: तिरुबिसन रुल्लूर ब्रह्मभीरामस्वामिशास्त्रिभिः लिखित्वा संप्रेषितमनुसृत्यैवात्र लिखितम् ।
बतकदेवात्र प्रमाणं भवति । सम्बारूयस्यास्य मुद्रापणे च तिस्रो मातृकाः लब्धाः । एका तावत्
श्रीरामस्वामिशाखिभिः संप्रेषिता । अन्या अढैयार ब्रह्मश्रीरामचन्द्रशास्त्रिभिः प्रहिवा। अपरा तु
आदितः प्रभृति षष्टितमलोक पर्यन्ता पळुवूर बेदान्तपाठशालाध्यक्षैः गीतोपन्यासचतुर वेदान्तस्था-
पक ब्रह्मश्री सुब्रह्मण्यशास्त्रिभिः प्रदत्ता तिस्रोऽपि मातृकाः प्रायेण समानाः शुद्धा एव आसां
तिसृणामपि साहाय्यमवलम्ब्य यथामति संशोध्य प्रकाशीक्रियते । सुरभारस्यां निसर्गत एव प्रीति
भाजो गुणैकपक्षपाविनः सर्वेऽपि सहृदया अमुं प्रयास सफलयन्तु, पुनः पुनरेतादृशमन्थरत्नप्रका-
सीकरणाय प्रोत्साहयन्तु चास्मानिति भगवन्तमिन्दुकलावतंसं श्रीमहालिङ्गेश्वरमेव प्रार्थयामहे
 
इति शम् ॥
 
SHIFTINE इत्थं
सहृदयवशंवदः व्याकरण बेदान्त विद्वान्
 
THEके. एस्. बेङ्कटरामशास्त्री
 
RUBIR
 
श्री सच्चिदानन्द भारतौमाण्डाराध्यक्षः, श्रीशंकरगुरुकुलभू श्रीरङ्गम् ॥