This page has been fully proofread once and needs a second look.

<page>
<p>
नागकेसरयुक्तैरित्यर्थः । सिन्धुजलैः नदीजलैः ते गुणरत्रभुवं गुणानां

नानादिव्यगुणानां रङ्गभुवं नृत्यस्थानं विग्रहमिति यावत् ।

योऽनुसिञ्चति स शच्या इन्द्राण्याः कुचकुम्भतटीसमाश्लेषसुखानुभवन

भजेत् किम् १ इन्द्रपदवीं लब्ध्वा अवश्यं भजेद् एव इत्यर्थः । हे

नतामरवाणि नता अमरा यस्यै सा च सा वाणी च

सरस्वतीरूपिणीत्यर्थः ।तव चरणं शरणं करवाणि । निवासि नितरां

वस्ते आच्छादयति ब्रह्मस्वरूपं सा निवासी मायारूपिणीत्यर्थः । तत्

सम्बुद्धौ । यद् वा - नतानाममराणां वाणौ सन्ताने निवसतीति

नतामरणवाणिनिवासि । वाणिर्व्यूतिः स्त्रियौ तुल्ये इत्यमरः । वेञो

रूपं वाणिरिति। वाणिरम्बुदे भूतौ शून्ये मूल्ये सरस्वत्यामिति हैमः।

नतामराणां वाणौ वाण्यां निवसति इति वा । हे नतामरवाणि शिवे।

तव चरणं शरणं करवाणि । "तव चरणं शरणं करवाणि मृडानि सदा

मयि धेहि शिवम्" इति च पाठः । स सुगमः । जय जयेति ।
।।

१९।।
 
॥</p>
<p text="C" n="18">
अधर्मरूपी महिषासुर को मिटानेवाली हे माता ! व्योम केश पांश

युक्त हे अम्बा । क्षमाधर महिधर की पुत्री विशालमानस हे देवि !

जय हो तुम्हारी । नागकेसर से सुवासित पवित्र नदीजल से तुम्हारे

गुणाधिष्ठान मूर्ति का प्रतिदिन जो अभिषेक कर पूजा करता है वह

इन्द्राणीसदृशउन्नतस्तनी कान्ता आलिङ्गन सुख का अर्थात् संसार सुख</p>
</page>