2025-12-14 16:55:40 by akprasad
This page has been fully proofread once and needs a second look.
<page>

Mahisha, wearing a charming knot of hair, Oh
Daughter of Mountain (Himalaya ), Victory to
you, Victory to you. ( 13 )

श्रीदेवीस्वरूपमाह

कमलदलामल - कोमल - कान्ति कलाकलिताऽमल-भालतले
सकल - विलासकला - निलय क्रम- केलि चलत् कलहंसकुले ।
अलिकुल-सङ्कुल-कुवलयमण्डल-मौलिमिलद्बकुलाऽऽलिकुले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते।।॥१४ ।।

कमलेति । कमलदलवद् अमला कोमला कान्तिर्यस्य तत् किञ्च
कलाकलितश्चन्द्रमाः तद्वदमलं भालतलं यस्याः सा तथा ।
पद्माननत्व-चन्द्रमुखत्वाभ्यां कमलदलकोमलत्वार्धचन्द्रावतारत्वाभ्यां
वा । सकलेति । सकलानां सर्वासां विलासकलानां विलासशिल्पानां
निलयभूतः निकेतनभूतः क्रमः पदविक्षेपो यत्र एवंविधायां केल्यां
चलन्ति नृत्यन्ति कलहंसकुलानि यस्याः सा । "कलहंसस्तु कादम्बे
राजहंसे नृपोत्तमे" इति मेदिनी । अलीति | अलिकुलेन भ्रमरकुलेन
संकुलं व्यासं यत् कुवलयमण्डलं तद्युक्ते मौलौ मस्तके मिलन्ति
बकुलानि बकुलपुष्पाणि यासां तासाम् आलीनां सखीनां कुलं यस्याः
सा तथा । बकुलपुष्पं कामदेवप्रहित पञ्चधाभूत - बाणद्वितीयांश-

</page>

Mahisha, wearing a charming knot of hair, Oh
Daughter of Mountain (Himalaya ), Victory to
you, Victory to you. ( 13 )

श्रीदेवीस्वरूपमाह

कमलदलामल - कोमल - कान्ति कलाकलिताऽमल-भालतले
सकल - विलासकला - निलय क्रम- केलि चलत् कलहंसकुले ।
अलिकुल-सङ्कुल-कुवलयमण्डल-मौलिमिलद्बकुलाऽऽलिकुले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते