This page has been fully proofread once and needs a second look.

<page>
<p text="D" n="6">
has crushed the demon, Mahisha, wearing a

charming knot of hair, Oh Daughter of Mountain

(Himalaya), Victory to you, Victory to you. (6)
 
</p>
<p>
युद्धस्वरूपमाह -
 
</p>
<verse>
धनुरनुसङ्गरण-क्षण-सङ्ग-परिस्फुरदङ्ग-नटत्कटके

कनक- पिशङ्ग-पृषत्क-निषङ्ग - रसद्भ​ट - शृङ्ग-हतावटुके ।

कृत-चतुरङ्ग-बलक्षिति-रङ्ग-घटद्-बहुरङ्ग - रटद् - बटुके

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥७॥
 
</verse>
<p text="B" n="7" merge-text="true">
धनुषो यदनुसंगरणं टङ्कारकरणं स एव क्षण उत्सवः "

निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः" इत्यमरः । तत्सङ्गेन

परिस्फुरत्सु प्रचलत्सु अङ्गेषु करादिषु नटन्ति प्रचलन्ति कटकानि

यस्याः सा तथा । कनकेति । कनकपत्रकत्वात कनकवत पिशङ्गैः

पृषत्कैर्बाणैः तादृशेन निषङ्गेण तूणीरेण च रसन्तः शब्दायमाना ये भटाः

शत्रुसैनिकाः ते शृङ्गस्तावटवो यया सा तथा । शृङ्गेण प्राधान्येन हता

अवटवो ग्रीवोपरिदेशा ययेति विग्रहे कप् समासान्तः । "शृङ्गं

प्राधान्यसान्वोश्च" इत्यमरः । आहिताग्न्यादेराकृतिगणत्वाद्

शृङ्गहतावटवो यथोक्तभटा ययेति विग्रहे विशेषणस्य परनिपातः ।

शृङ्गमायुधविशेषो वा । माहेश्वर्या वर्णनं वा । तदीयवाहनेन वृषभेण</p>
</page>