This page has been fully proofread once and needs a second look.

<page>
<p text="D" n="4">
the demon, Mahisha, wearing a charming knot of

hair, Oh Daughter of Mountain ( Himalaya),

Victory to you, Victory to you. (4) .
 
</p>
<p text="B" n="4">
तृतीयचरित्रार्थं श्लोकैर्दर्शयति तंत्र दौत्यमाह -
 
</p>
<verse>
अयि रणदुर्मद-शत्रु-वधोदित-दुर्धर - निर्जर-शक्ति-भृते

चतुर- विचार - धुरीण-महाशय-दूत-कृत-प्रमथाधिपते |

दुरित-दुरीह- दुराशय - दुर्मति-दानव-दूत-कृतान्तमते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।।।
 
॥</verse>
<p text="B" n="5" merge-text="true">
अयि रणेति । रणदुर्मदानां शत्रूणां वधार्थम् उदिता उद्भूता या

दुर्धराः निर्जरसां शक्तयो ब्राह्मी माहेश्वर्यादयः ताभिर्भृते, पालिते, पूरिते

वा । चतुरेति । चतुरश्चासौ विचारे धुरीणश्च चातुर्ययुक्तविचारे धुरीण

इति वा । स चासौ महाशयश्च एवंविधगुणगणविशिष्टेन दूतेन

भवितव्यमिति तादृशदूते कृतं पर्याप्तः प्रमथाधिपतिः शिवो यस्याः सा

तथाः । "युगपर्यासयोः कृतम्" इत्यपरः । दूतपदान्तं तादृशदूतकर्मणि

तादृशदूतभवने वा लाक्षणिकं बोध्यम् । केचिन मध्ये महाशिवेति

पठन्ति । अन्ये महाशयेति पठित्वापि तस्य प्रमथाधिपतिना

सामानाधिकरण्येन योजयन्ति । तदुभयं दुर्घटसमासत्वादुपेक्षितम्।

दुरितेति । दुरितश्च दुरीहश्च दुराशयश्च दुर्मतिश्च यः परपक्षीयदूतः</p>
</page>