This page has been fully proofread once and needs a second look.

<page>
<p text="D" n="3">
taking delight in the Rasakrida of Vishnu, the

destroyer of Kaitabha, who has crushed the

demon, Mahisha, wearing charming knot of hair,

Oh Daughter Mountain (Himalaya), Victory to

you, Victory to you. (3)
 
</p>
<p text="B" n="4">
द्वितीयचरित्रमादायाहार्धेन --
 
</p>
<verse>
अयि शतखण्ड-विखण्डित-रुण्ड-वितुण्डित-शुण्ड-गजाधिपते

रिपु-गज-गण्ड-विदारण-चण्डपराक्रम-शौण्ड-मृगाधिपते ।

निज-भुजदण्ड-निपातित-चण्ड-निपाटित-मुण्ड-भटाधिपते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥४<fix>॥</fix>
 
</verse>
<p text="B" n="5" merge-text="true">
अयि शतेति । शतानि खण्डानि यथा स्युः तथा विखण्डिता रुण्डा

अश्वविशेषा यया सा । "मूकरुण्डौ तु वेसरादश्वा सूते" इति यादवः ।

वेसरो वेगतरोऽश्वः । "स्याद वेसरो वेगतर" इति तत्रैव पाठात् । सा

च सा वितुण्डिताः तोडिताः शुण्डाः करिहस्ता येषां ते तथाभूता

गजाधिपतयो यया सा तथेति कर्मधारयः । रिप्विति । रिपूणां ये गजाः

तेषां, यद् वा गजरूपेणागतमहिषासुरस्य एवं गण्डविदारणे

चण्डपराक्रमेण शौण्डो विख्यातः । “शौण्डो मते च विख्याते" इति

विश्वमेदिन्यौ । एवंविधो मृगाधिपतिर्वाहनत्वेन यस्याः सा तथा ।
</p>
</page>