This page has been fully proofread twice.

<page>
<p text="B" n="1" merge-text="true">
ज्ञाता तथापि पश्चान्- नारदेन श्रीकृष्णादेः स्वरूपकथनोत्तरं मदीया पुत्री

साक्षाद् भगवती जातेति सा नन्देन सभक्ति स्तुता । गिरिवरेति

- गिरिवरस्य विन्ध्यस्य शिरसि शिखरेऽधिनिवस्तुं शीलं यस्याः ।

"नन्द गोपगृहे जाता यशोदागर्भसम्भवा । ततस्तौ नाशयिष्यामि

विन्ध्याचलनिवासिनी" इति वचनात् । सैषा नन्दगृहे जाता सती विष्णुं

श्रीकृष्णरूपेणावतीर्णं, विलासयामास योगमायामाश्रित्यैव श्रीकृष्णेन

बहुतरलीलाकरणात् । जिष्णुनुते - " मायामयोऽयं गुणसंप्रवाह"

इत्येवमिन्द्रेण श्रीकृष्णस्तुतिप्रसङ्गे गोवर्धनोधारे स्तुता ।

इन्द्रादिस्तुतेरेव तारकासुरवधाय पर्वतपुत्रीरूपेण भगवत्या अवतरणाच्च।

जिष्णुरिति अर्जुननामाऽपि । भगवति ऐश्वर्यधर्मयशः

श्रीज्ञानवैराग्यलक्षणषाङ्गुण्यपूर्णे | शितिकण्ठकुटुम्बिनि - शिवपत्नि ।

भूरिकुटुम्बिनि-"भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि" इति मेदिनी।

आवृत्त्या ब्रह्म-विष्णु-महेश्वराणां कुटुम्बिनी सरस्वत्यादि त्रिस्वरूपा ।

एवंस्थिते शितिकण्ठकुटुम्बिनीति विशेषार्थम् । भूतकृते इति

क्वचित्पाठः । भूतानि कृतानि यया सा तथा । भूरिकृत इति पाठेऽपि

तथार्थः । भूरिभिर्ब्रह्मविष्णुमहेश्वरैर्भूरिभिर्बहुभिरिन्द्रादिभिश्च कृता

तत्तेजःपुञ्जसमुद्भवादिति वा । दृश्यते च समुदाये शक्तिप्राकट्यम् ।

एवंभूते हे महिषासुरमर्दिनि रम्याः कपर्दा जटाजूटाः यस्याः सा तथा

हे: शैलसुते जय जय सुष्ठूत्कर्षेण वर्तस्व । महिषासुरमर्दिनीं

महालक्ष्मीरूपां मध्यमचरित्रविषयभूतां मध्यशरीरवन्मुख्यत्वेन</p>
</page>