This page has been fully proofread twice.

<page>
<verse text="A" n="22">
अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दनुते

गिरिवर-विन्ध्य-शिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते

भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१<fix>॥</fix>
 
<co
</verse>
<verse text="B" n="
mmeantgary> la">वन्दे भगवतीमम्बां महिषासुरमर्दिनीम् ।

व्याख्यास्येऽथातिसंक्षेपात्तत्पुष्पाञ्जलिमादरात् ॥
 
</verse>
<p text="B" n="1" merge-text="true">
सकलपुरुषार्थदायिनीं देवीं भगवतीमभिष्टुव<flag>न्</flag> कश्चित् कविः प्रथमं

तस्याः स्वरुपं सामान्यतः कार्यं चाह-

अयि गिरिनन्दिनि॰ -अयीति सानुनये सम्बोधने । गिरेर्हिमालयस्य

पर्वतस्य नन्दिनी पुत्री पार्वती तत्सम्बुद्धौ हे गिरिनन्दिनि । एवमुत्तरत्र

सर्वत्र सम्बुद्ध्यन्तं बोध्यम् । गिरीन् पर्वतान् स्वशक्त्याधानेन

नन्दयति तच्छीला तथा, यैः क्ष्माभृद्भिर्मेदिनी नन्दिता भवतीति वा ।

गिरीन् पूज्यान् नन्दयतीति वा । नन्दिता मेदिनी यया सा तथा ।

मेदिनीनन्दनेनैव विश्वविनोदिनी मेदिनीजातमानवकृतकर्मादि-

नन्दनीयत्वाद् विश्वस्य । कथमेषा विश्वं विनोदयामासेत्येतद्

उदाहरणेनाह नन्दनुत इति । नन्दगेहे किल जातैषा यद्यपि प्रथमं न </commentp>
</p
ary>ge>