॥ श्रीः ॥ मैथिलश्रीगङ्गानन्दकवीन्द्रनिर्मिता काव्यडाकिनी । श्रीसिद्धेश्वर्यै नमः । पायाच्चिराय भवतः सकलादपाया- त्कंसारिचारुकरवारिजवर्तिवेणुः ॥ आभीरवामनयनाचयचित्तवित्त- चौर्याय सन्धिरिव निस्वनतस्करस्य ॥ १ ॥ काव्यदोषाऽवबोधाय कवीनां तमजानताम् ॥ गङ्गानन्दकवीन्द्रेण क्रियते काव्यडाकिनी ॥ २ ॥ तत्र- मुख्यावरोधक्रुद्दोषः, मुख्यो रसः । अवरोधकृत् प्रतिबन्धकः । रसमात्रप्रतिबन्धकताव- च्छेदकरूपवानित्यर्थः । तत्तु रूपं श्रोत्रकटुत्वादेरेव, न चपेटापातनादेः। प्रतिबन्धकता तु क्वचित्साक्षात् क्वचित्परम्परया चेत्यालोचनीयम् । ननु श्रोत्रकटुत्वादेः रौद्रादिरसबुद्ध्यनवरोधकत्वात्तत्राध्याप्तिरि- त्यत आह-- यस्य ज्ञाने सति क्वाऽपि प्रतिबन्धोऽस्ति तत्र सः । अत पवाऽस्य दोषस्य प्रोक्ता धीरैरनित्यता ॥ स दोषः । अस्य श्रोत्रकटुत्वादेः । तथा च रसत्वव्याप्य धर्माव- च्छिन्नोपस्थितिप्रतिवध्यतानिरूपितप्रतिबन्धकतावच्छेदकरूपवत्वं त- त्त्वम् । व्याप्यता तु भेदाऽभेदसाधारणी । तेन सकलरसप्रतिबन्धके साधुत्यादौ नाऽव्याप्तिः । पदादिस्थः स पञ्चधा ॥ आदिशब्दात्पवैकदेशवाक्यार्थरसा गृह्यन्ते । पञ्चधेति पदं तद्गुणसं- विज्ञानबहुव्रीहिस्फोरणार्थम् । अथ वा ऽलङ्कारदोषाणामातिरेक्यव्यव- च्छेदाय । तेषामेष्वन्तर्भावो वक्ष्यते । तस्मात्पद्मादाय तत्तद्वृत्तिताभेदा द्दोषस्य पञ्चविधत्वमुपपत्रमिति । क्रमेण तद्भेदानाद-- पदेऽस्ति श्रोत्रकटुता च्युतसंस्कृतिता तथा ॥ ३ ॥ अप्रयुक्ताऽसमर्थत्वे निहताऽनुचितार्थते । अवाचकनिरर्थत्वे ग्राम्यसन्दिग्धते तथा ॥ ४ ॥ अश्लीलत्वाऽप्रतीतत्वे नेयार्थल्किष्टते तथा ॥ अविमृष्टविधेयांशविरुद्धमतिकारिते ॥ ५ ॥ एवं षोडशधा दोषः पदवर्ती प्रकीर्तितः ॥ अत्र क्लिष्टत्वादीनां त्रयाणां समास एव पददोषत्वमन्येषां त्वसमा- सेऽपीति विशेषः । क्रमेणषां लक्षणमाह-- श्रोत्रकटु समाख्यातं माधुर्याव्यञ्जकं पदम् ॥ ६ ॥ यत् माधुर्यगुणं न व्यनक्ति तत्पदं श्रोत्रकटुत्वदोषवदित्यर्थः । श- व्ददोषस्य शब्दघटितं लक्षणं सर्वत्र बोध्यम् । ननु प्रतिकूलवर्णेऽतिव्याप्तिरिति चेत् न । यत्र ओजोव्यञ्जनयोग्या एव वर्णा रसविरुद्धास्तदिति सूत्रार्थः । तत्र सुकुमाराणामपि वर्णानां रसप्रतिकूलत्वात् । यथा -- मानोरगदंशाया जीवितनाथे नते पदयोः । नवजलधरधीरध्वनिरभवत्तार्क्ष्यो मनस्विन्याः ॥ अत्र तार्क्ष्य इति । यत्र यत्र पदं साधु तत्र तत् च्युतसंस्कृति । तत्र अर्थे यथा-- भवन्त्येव गुणास्तेषां तिष्ठन्ते ये सदन्तिके । कीरा धीरालये देवीरुद्भिरन्ति वचस्ततीः ॥ अत्र तस्मै कस्तिष्ठत इत्यत्र प्रकाशनार्थे नियमनमात्मनेपदस्य गतिनिवृत्त्यर्थे त्वसाधुतैव । तस्मात् 'ये तिष्ठन्ति सदन्तिके' इति पठ- नीयम् । नन्विदं पदं साधु भवत्येव । परन्तु हन्तीति पदमुपसन्दानं यथा गमनार्थे तथा तिष्ठत इति पदं विना चतुर्थीमसमर्थमित्यस्व- रसादाह--- तत्तद्व्याकरणासाधु पदं वा च्युतसंस्कृति ॥ तत्तद्व्याकरणेति । यथा भाषया यत्काव्यं क्रियते तद्भाषासाधुता- प्रयोजकव्याकरणासाध्वित्यर्थः । तेन प्राकृतभाषाद्यारब्धकाव्यदोषस- ङ्ग्रहः । यथा--- महाराजन्नयं पाणिस्तव कल्पद्रुमायते । अमुना दीयते यस्मादर्थेिभ्यः फलमीप्लितम् ॥ अत्र महाराजन्निति । 'धराधीश भवत्पाणिर्भुवि कल्पद्रुमायते' इति पठनीयम् । पदं तथा समाम्नातमपि व्याकरणादिभिः ॥ ७ ॥ कव्यनादरपात्रं यदप्रयुक्तं तदुच्यते ॥ तथेति दुश्च्यवनपदस्य शक्रत्वप्रकारकप्रतीतौ सामर्थ्यमप्यस्ति, परन्तु कवीनामप्रयोगविषयत्वादप्रयुक्तत्वमित्यर्थः । न च निहतार्थेन सङ्करः, अनेकार्थत्वाभावात् । नाऽप्यवाचकेन तात्पर्यविषयधर्मप्रकारक- प्रतीतेर्जनकत्वात् । यथा --- पङ्कासक्तिमतो लोकान् सत्कुर्वन्ति न साधवः । पद्मान्निशामुखे भासा न भासयति चन्द्रमाः ॥ अत्र पद्मानिति । अत्र 'वा पुंसि पद्मम्' इति । यद्यपि पद्मशब्दः पुल्लि- ङ्गे पठितस्तथाऽपि मूलकविभिर्न प्रयुक्तः । न च कोशे प्रयुक्त एव, तस्य साधुतामात्रप्रदर्शकत्वात् । शाब्दिकाख्यातमप्यर्थं न बोधयति यत्पदम् ॥ ८ ॥ अन्तरेणोपसन्दानमसमर्थं तदुच्यते ॥ शाब्दिकेति । वैयाकरणपठितमपीत्यर्थः । अवाचकस्योपसन्दाने- नाऽपि विवक्षितार्थबोधकत्वाभावात् । निहतार्थस्य त्वाविलम्बेनाऽप्रसि- द्धार्थप्रत्यायकत्वात् । अत्र विलम्बेनाऽपि म विवक्षितार्थबोध इति वि शेषः । यथा-- कैरवबन्धुकरग्रहभयादिव व्याकुला हन्ति । अस्तं गतवति मिहिरे कैरवशरणं सरोजश्रीः ॥ अत्र हन्तीति पदस्य गमनार्थत्वाभिप्रायेण प्रयुक्तस्योपसन्दानं वि- ना तदर्थशक्तेरभावात् । प्रसिद्धेनाऽप्रसिद्धोऽर्थो यस्यार्थेन विधीयते ॥ ९ ॥ तत्पदं व्यर्थमुदितं निहतार्थं विचक्षणैः ॥ प्रसिद्धेनेति । रुढ्या झटिति बोधितेनेत्यर्थः । अप्रसिद्ध इति योगेन विलम्बपूर्वमुपस्थापित इत्यर्थः । कचस्ते वारिजं तन्वि ! मीनौ तध धिलोचने । मृणाली बाहुयुगली सरसी प्रतिभासि नः ॥ अत्र वारिजपदस्य पद्मरूपः प्रसिद्धोऽर्थः शैवालरूपमप्रसिद्धमर्थं स्थ- गयति । व्यनक्ति निन्दास्तोत्रे यत्पदं स्तोतव्यनिन्द्ययोः ॥१०॥ तात्पर्यागोचरीभूते तत्स्यादनुचितार्थकम् ॥ अत्र तात्पर्यागोचरीभूते इति विशेषणं व्याजस्तुतिनिधारणाय, तत्र निन्दास्तुत्योस्तात्पर्यविषयत्वात् । निन्दाव्यञ्जकं यथा-- सर्वतीर्थाभिषेकेण सर्वदा यागकर्मभिः । देहोऽयं मनुजाधीश ! छगलस्येव से शुचिः ॥ अत्र छगलस्येवेत्यनेन तत्सादृश्यलाभादनीप्सिततद्गतचेष्टायाः प्रतीतिः । स्तुतिव्यञ्जकं यथा-- कार्पण्येन पितुस्तुल्यः पितामहपथच्युतः । जनैरग्राह्यनामाऽसौ कुपतिस्त्यज्यतां बुधाः ! || अत्र कस्यचिन्निन्दायां वाच्यायां कुपतिरित्यनेनाऽनभीष्टपृथिवी- पतिप्रत्ययः । तात्पर्यविषयीभूतवस्तुधर्मप्रकारिका ॥ ११ ॥ यतो न जायते बुद्धिः पदं तत्स्यादवाचकम् ॥ नन्वेवमसमर्थेऽतिव्याप्तिरिति चेत्सत्यं, किं तु तत्र वस्तुनोऽपि नोपस्थितिः क्व तद्धर्मस्य । इह तु केनचिद्रूपेण वस्तूपस्थितिरिति वि- शेषः । यथा -- निर्धना अपि दातारः सेवनीया मनीषिभिः । भवन्ति च परित्याज्या धनवन्तोऽपि जन्तवः ॥ अत्र जन्तुपदस्याऽदात्रर्थे विवक्षितस्य तदबोधकत्वात् । न च जन्तुत्वेन रूपेण दातुरभिधायकत्वमप्यस्तीति वाच्यम् । अदातृत्वेना- ऽदातृप्रतीतेरुद्देश्यत्वात् । यथा वा-- त्वय्यदृष्टे प्रियज्योत्स्त्नी गाढध्वान्तमभूत्तदा । दृष्टे पुनस्तमःसङ्ग्व्याप्ताऽपि रजनी दिनम् ॥ अत्र ध्वान्तवैपरीत्याऽभिप्रायेण दिनं प्रकाश इत्युक्तम्, तदर्थे दिन- पदमवाचकम् । न च लक्षणयाऽत्र बोधः । मुख्यार्थबाधाभावात् । यथा वा-- करुणाकोमलः पातु कपालं विदधत्करे । उद्धर्तुं शोकपाथोधेर्जनान् पोतमिवेश्वरः ॥ अत्र विदधदिति पदं धारणार्थावाचकम् । विपूर्वाद्देधातेः करण एव तात्पर्यं नियतम् । अत एवाऽत्र लक्षणयाऽपि न तदर्थभिन्नार्थप्रती- तिः । न चाऽसमर्थनिहतार्थाभ्यामत्र सङ्कर इति वाच्यम् । विपूर्वाद्दधा- तेरनेकार्थत्वाभावात् । अव्ययं वृत्तनियमवाक्यार्थानुपकारकम् ॥ १२ ॥ श्लेषाप्रयोजकं यच्च तत्पदं स्यान्निरर्थकम् ॥ अत्र वृत्तनियमानुपकारकं वाक्यानुपकारकं समुच्चयरूपार्थानुपका- रकमित्यन्वयः । अध्ययमित्यनेनाऽधिकपदनिवारणम् । सर्गबन्धकृतनि- यमे यमकादिच्छन्दसि वाक्यालङ्कारे लेपालङ्कारे च निरर्थकस्या- ऽपि चादेः प्रयोगः सर्वसंमतः । यथा-- करोति च सुधावाणि ! विलोचनयुगं तव । सुधांशुकिरणस्पृष्टसरसीरुहविभ्रमम् ॥ अत्र चशब्दः । लोकमात्रप्रसिद्धं यत्पदं तद् ग्राम्यमुच्यते ॥ १३ ॥ प्रसिद्धमिति चमत्कारीत्यर्थः । अन्यथा शास्त्रे प्रसिद्धस्य कटि- पदस्याऽसङ्गतिः स्यात् । नन्वयं गुणो भवति, न तु दोष इति चेत् न, लोकपदेन ग्राम्यजनस्याऽभिधानात् । अत एव कटिपदाद्युच्चारणेन व्रीडाव्यक्तिर्विदग्धानां न तु ग्राम्याणाम् । तेषां तु चमत्कार एव । अ- श्लीले देशभाषानिबन्धनमपि लज्जादायित्वमत्र तु संस्कृतनिबन्धनमेवेति विशेषः । यथा-- कटिः कनकवर्णाभा मुखं शीतांशुसुन्दरम् । जगद्विजेतुकामस्य कामस्याऽसि पताकिनी ॥ अत्र कटिशब्दः । सन्दिग्धं तत्तु तात्पर्यसंशयो यत्र जायते ॥ तात्पर्यसंशयेन यदर्थानिश्चयस्तत्सन्दिग्धमित्यर्थः । यथा-- स्वच्छन्दचारिणो वार्या विना यन्तृनिभास्तव । भवन्ति हन्तुमुद्युक्ताश्चला इव महीधराः ॥ अत्र वार्या वारणीयाः किं गजबन्धिन्येति सन्देहः । जुगुप्साऽमङ्गलव्रीडा यदश्लीलं व्यनक्ति तत् ॥ १४॥ अत्र जुगुप्सादित्रयं यद्यनक्ति तत्पदं त्रिविधमश्लीलमित्यर्थः । भा- षानिबन्धनमश्लीलत्वं देशविशेष एव । संस्कृतनिबन्धनं तु सर्वदेशसा- धारणमिति विशेषः । प्रथमं यथा-- वायुं ददस्व घर्मांशुकिरणस्पर्शतापि ते । मदङ्के रङ्कुनयने ! शुष्यन्तु स्वेदविन्दवः ॥ अत्र वायुशब्दो जुगुप्साव्यञ्जकः । द्वितीयं यथा-- मदीयक्रोडपर्यङ्के समुपैहि सुलोचने ! । संस्थिताऽसि कुतः कान्ते द्वारोपान्तेऽतिलीनवत् ॥ अत्र संस्थितमिति पदममङ्गलव्यञ्जकम् । तृतीयं यथा-- दूरादेव समालोक्य विस्फुरत्साधनं तव । वद भूमीपते ! तावत्साध्वसं को न गच्छति ॥ अत्र साधनपदं पुंव्यञ्जनप्रत्यायकतया व्रीडाकरम् । शास्त्रमात्रप्रसिद्धं यदप्रतीतं तदुच्यते ॥ शास्त्रपदमलङ्कारशास्त्रातिरिक्तशास्त्रपरम् । तथा चाऽलङ्कारशास्त्र- प्रसिद्धे तन्मात्रशास्त्रप्रसिद्धे च न दोषः । शास्त्रान्तरे तु दोष इत्यर्थः । अलङ्कारशास्त्रप्रसिद्धशब्दार्थस्य यदबोधः स तु पुरुषदोषो न पुनरल- ङ्कारशास्त्रस्य । 'न ह्ययमपराधः स्थाणोर्यदन्धस्तं न पश्यति' इति न्याया- त् । यथा-- आशयाम्भोनिधेरन्तर्निमग्नस्य निरन्तरम् । जायतां कथमेतस्य तत्त्वज्ञानतटस्थितिः ॥ अत्राऽऽशयशब्दो वासनापर्यायत्वेन योगशास्त्रे प्रतीतः । निषिद्धा लक्षणा यत्र नेयार्थं तत्पदं स्मृतम् ॥ १५॥ निषिद्धेति । प्रयोजनप्रतिपादकवाचकशब्दान्तरे सति अवाचकाश्र- वणान्निःप्रयोजनेत्यर्थः । 'गङ्गायां घोषः' इत्यत्र प्रयोजनप्रतिपादक- स्याऽभावात् । यथा -- कुरङ्गनयने । नूनमनेन तनुरोचिषा । स्वया सौदामिनी नीता चरणाघातपात्रताम् ॥ अत्र चरणाघातेत्यादिना निर्जितत्वं लक्ष्यते । यदि पुनर्जीयत इति क्रियते तदा निःप्रयोजनलक्षणादोषपरिहारः । यतो व्यवहिता बुद्धिरर्थस्य क्लिष्ठमाह तत ॥ व्यवहितेति । अनेकपदार्थान्तरितपदार्थसामान्यस्य विशेषस्वरूपा- नुपस्थित्या विलम्बितेत्यर्थः । तेन 'पिधत्ते हेरम्बं हिमकरकलामौलिम- हिषी' इत्यत्र भगवत्या विशेषस्वरूपेणोपस्थितौ न दोषः । यथा-- समुद्रमथनोत्पन्नसरित्स्रोतसि मज्जता । सखे ! तत्संमुखेनैव ज्ञातं किमपि चक्षुषा ॥ अत्र समुद्रमथनेनोत्पन्नममृतं तस्य नदीप्रवाह इत्यर्थः । समुद्रमथने- नाऽमृतादन्यस्याऽपि सम्भवादित्यत्र बोधविलम्बेन दोषः । अयथावद्विनिर्देशो विधेयांशस्य यत्र तत् ॥ १६॥ अविमृष्टविधेयांशमलङ्कारविदो विदुः ॥ अयथावद्विनिर्देशस्तु प्रकृते समासेषूद्देश्यविधेयभावतात्पर्यग्राहक- प्रकृतिपौर्वापर्यविपर्यासः । तथा चाऽस्य दोषस्य समास एव पदवृत्ति- तेति भावः । अत एव 'अथ समासगतमेव' इत्यनेन नियमं वदतः काव्यप्रकाशकृतः समासेष्वेनमुदाहृत्याऽसमासेषूदाहरतो नाऽनवधेयवचनत्वशङ्कापीति ध्येयम् । बहुवीहौ यथा-- रेवाभिषेकजनितानुमितातिपुण्यो जातोऽस्म्यसंशयमहं महनीयमूर्ते! । क्षोणीतलत्रिदशभूमिरुहं भवन्तं नेत्रद्वयेन यदनेन विलोकयामि ॥ अत्राऽनुमितत्वस्यसमासेगुणीभावादप्राधान्यम् । अतो न विधेय- त्वम् । तस्मादभिषेकजनिताऽतिपुण्यमनुमितमिति युक्तम् । कर्मधारये यथा-- सरसिजसुन्दरवदने ! नयनतरङ्गस्तवोल्लासी । मदनस्याऽपरमोहनबाण इवाऽन्तर्विमोहयति ॥ अत्राऽपरत्वमुत्प्रेक्ष्यं तस्य समासे गुणीभावादप्राधान्यम् । नञ्समासे यथा नैषधीयचरिते-- निमीलितादक्षियुगाच्च निद्रया हृदोऽपि बाह्येनेद्रयमौनमुद्रितात् । अदर्शि सङ्गोप्य कदाऽप्यवीक्षितो रहस्यमस्याः स महन्महीपतिः ॥ अत्राऽवीक्षित इत्यत्र प्रसज्यप्रतिषेधो विधेयत्वेन वक्तुमुचितस्त- स्य समासे गुणीभावात्पर्युदासत्वेन विधेयत्वाऽनवगमः । यदुक्तम्-- अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता ! प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥ तथा चाऽत्र निषेधस्याऽप्राधान्यादविधेयत्वम् । यत्र तुनिषेधस्य प्राधान्यं, तत्र यथा-- त्वद्देहध्युतयः सरन्ति परितो नो विद्युतस्त्वद्भुजे पर्यस्ता चिकुरावलीयमधुना नो शैवलानां चयः । हारस्ते हृदये कुरङ्गनयने ! नाऽसौ मृणालीलता कोऽयं चेतसि विभ्रमस्तव सखि । त्रासः परित्यज्यताम् ॥ अत्र नञर्थ एव विधेयः । पर्युदासलक्षणं तु-- प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥ जघानाऽकुपितो लोके सकलान् प्रतिभूपतीन् । समस्तधरणीभारं बभाराऽयमपीडितः ॥ अत्राऽकुपितत्वाद्यनूद्य प्रतिभूपतिहननाद्येव विधेयमतो गुणभाषो नञर्थस्याऽभिष्ठः । तद्धितार्थविशेषणीभूताऽन्यपदार्थे बहुव्रीहौ यथा-- कुसुमं विशिखो भृङ्गः सहायो दग्धदेहता । यस्याऽस्ति स स्मरो विश्वं क्षोभयत्येतदद्भुतम् ॥ अत्राऽक्षोभहेतौ प्रदर्शनीये देहो दग्ध इति दग्धत्वं विधेयम् । यद्विरुद्धधियो हेतुर्विरुद्धमतिकारि तत् ॥ १७ ॥ धिय इति निश्चयरूपाया इत्यर्थः । तेन सन्दिग्धे नाऽतिव्याप्तिः । यथा-- गौरीलोलविलोचनाऽञ्चलचमत्कारावलोकोल्लस-- द्रोमाञ्चप्रचयप्रसारणजडीभूताऽङ्गविक्षेपणः । तालव्याकुलयोगिनीगणसमाहूताऽमरेन्द्रासुरैः स्मेरास्यावलिवीक्षितो जयकृते भूयाद्भवानीपतिः ॥ अत्र भवानीपतिशब्देन भवस्य पत्नी भवानीति व्युत्पत्या भवपत्नी- पतिप्रत्ययः । ननु भवानीपतिपदं शिवे योगरूढमतो न विरुद्धाऽर्थप्र- त्यय इति चेत् न, सामग्रीसद्भावे विरुद्धाऽर्थस्मरणवारणस्याऽशक्यत्वा- त् । यथा वा-- कण्ठे हाराऽवाप्तिः कुचयुगले चन्दनालेपः । शुचि वसनं तव कः पथिं विधुभासस्त्वां विशेषयतु ॥ अत्र हाराऽवस्थाऽवाप्तिरिति विरुद्धा प्रतीतिः । समासे थोत्रकटुत्वं यथा-- प्रवासनिरतः कान्तः स्वयं च नवयौवना । दधातु सा कथं प्राणानक्षीणेन्दुक्षये क्षणात् ॥ स्पष्टम् । रक्तप्रवालमिव ते पाणियुगं लोचने अरुणे । अद्भुतमिदमिह यत्त्वं सम्प्रत्यनुरागशून्याऽसि ॥ अत्र रक्तप्रवालमिति प्रवालत्वस्य रक्तत्वाऽव्यभिचारात्कर्मधारयो- ऽसाधुस्तस्य परस्परव्यभिचारे साधुत्वात् । एवमन्येषामपि समासग- तत्वमृह्यम् ॥ इति श्रीमैथिलश्रीगङ्गानन्दकवीन्द्रकृतौ काव्यडाकिन्यां प्रथमा दृष्टिः । निरर्थत्वाऽसमर्थत्वच्युतसंस्कृतिते॒तरः ॥ सर्वो वाक्येऽप्ययं दोषः पदभागेऽपि कश्चन ॥ १ ॥ कश्चन न तु सर्वः । ननु निरर्थकत्वादीनां नानापदवृत्तित्वे वाक्यदोषत्वमक्षुण्णमित्यत आह-- वाक्यदोषोऽन्वयज्ञानहेत्वनेकपदस्थितिः ॥ कुत इत्याह-- निरर्थकादिभिः शब्दैरनेकैरेन्वयस्य धीः ॥ २ ॥ कथञ्चिज्जन्यते नैव तेन ते नैव तद्गताः ॥ ते निरर्थकादयः । नैव तद्गता नैव वाक्यवृत्तयः । नन्वेवमनेकस्मिन्नवाचकेऽतिव्याप्तिरिति चेत् न, तत्र सामान्य- तोऽन्वयबोधो भवतीत्युक्तम् । इह तु केनाऽपि प्रकारेणाऽन्वयबोधः । क्रमणैषामुदाहरणानि यथा-- परेतगोष्ठ्या परिवेष्ट्यमानो यश्चेष्टते नाट्यकलाऽभियुक्तः । खट्वाङ्गजुष्टः किल यस्य हस्तः स स्तादभीष्टाय तवाऽष्टमूर्तिः ॥ अत्र श्रोत्रकटुत्वं स्पष्टम् । ननु रसविरुद्धा वर्णा इत्युक्तम् । अत्र तु रस एव नास्ति, कस्य प्रतिबन्धोऽस्त्विति चेत् न, रस्यत इति व्युत्पत्या रसपदेन भावोऽप्यु- च्यते । प्रकृते पुनः शिवविषयकरतिभावस्य सत्वात्तस्य च वर्णानां श्रु- त्युद्वेजकतया स्थगनमतो न विरोधः । सुत्रामा दैवतो यस्य रक्षकस्तं सुरद्रुमम् । अद्याऽऽनयाम्यहं कृष्णः सत्यं सत्ये ! ब्रवीमि ते ॥ अत्र सुत्रामदैवतशब्दौ शक्रपुंल्लिङ्गयोरप्रयुक्तौ । गावौ हरिपयोजातौ क्षयश्च मकरध्वजे । कुजश्च वध्यो यस्याऽऽसीत्स दद्याद्भविकं विभुः ॥ अत्र गोहरिपयोजातक्षयमकरध्वजकुजशब्दाः वृषभशक्रकमलविना- शकामग्रहविशेषाऽर्थतया प्रसिद्धाऽर्था नेत्ररविचन्द्रगृहपयोधिनरका- सुरार्थेषु निहताऽर्थाः । गुणैस्तुषारसदृशैर्धवलोऽसि महीभृताम् । जनैः समन्ततः स्तोत्रकोटिलक्ष्मा हि गीयते ॥ अत्रोपश्लोक्यमानस्य वृषभत्वप्रतीत्याऽनुचिताऽर्थता । लोकाऽसमेन सम्पूज्या सदा समभुजप्रिया । करोतु सुखजातं ते जलाश्रयशरीरजा ॥ अत्र लोकाऽसमसमभुजजलाश्रयशरीरजशब्दा लोकत्रयचतुर्भुजज- लनिधितनूजानामवाचकाः । फूत्कारोच्छूनगल्लोऽयं रोदिति प्रतिवासरम् । त्यक्तखादनपानश्च भल्लं वेत्ति न किञ्चन ॥ अत्र फूत्कारगल्लादिशब्दा ग्राम्याः । वामाऽवलोकनोत्साही विग्रहव्यग्रलोचनः । सकम्पकटकोऽप्येष किञ्चित्कर्तुं समीहते ॥ अत्र वामादिशब्दाः शत्रुयुद्धसेनार्थाः, किं कामिनीदेहकङ्कणार्या इ- ति सन्देहः । विशो वाणिज्यकर्तारः सुखिनः स्युस्तदा गृहे । यदि तेषां स्वकृत्येषु प्रवृत्तिः सततं भवेत् ॥ अत्र विटप्रवृत्तिशब्दौ जुगुप्साव्यञ्जकौ । पावकं हि पितृसद्म सत्वरं याहि सुन्दरि! किमत्र तिष्ठ[सि]ति । म्लानिमानमपकृष्य तत्र ते संस्कृतिं तु जननी विधास्यति ॥ अत्र पितृसद्मसंस्कृतिशब्दावमङ्गलव्यञ्जकौ । महत्ते साधनं दृष्ट्वा त्रसत्येवोपसर्पणात् । कम्पनाऽरालनेत्राऽसावनन्यजभया नृप ! ॥ अत्र साधनोपसर्पणशब्दौ पुंव्यञ्जनसुरताऽऽरम्भस्मारकनया लज्जा- दायिनौ । सर्वदा वर्तते यस्मिन्नाशयः सर्वतो बली । जायतां सुमतेस्तस्य तीव्रसंवेगिता कुतः ॥ अत्राऽऽशयतीव्रसंवेगिताशब्दा वासनाऽतिशयवैराग्यपर्याया योग- शास्त्रमात्रे प्रतीताः । नितम्बं किरणद्वन्द्वे परिधेहि सुलोचने । भवत्यास्तरलो नित्यं लक्ष्यते भूषणस्पृही ॥ अत्र नितम्बकिरणतरलशब्दैः कटककरनायकशब्दाः प्रयोजनं विना यल्लश्यन्ते तदेव नेयार्थता । चेतो वाचं श्रवणद्वयं च पाथोजनयनायाः । तुष्यति निस्सरदमृतद्रवापगां मे समाकर्ण्य ॥ अत्र पाथोजनयनाया वाचं समाकर्ण्य मे चेतः श्रवणद्वयं च तुष्य- तीति सम्बन्धे क्लिष्टत्वम् । हासश्रीर्जयति क्षपाकरमपाकुर्वन्ति केशत्विषः शैवालानि विलोचनं विदलयत्यम्भोजदम्भोदयम् । एषा निश्चलया चिरं चपलया कल्याणि ! तुल्या तनु- र्यस्मिन्भाविनि ! भावितासि भुवने देवोऽयमेवोदितः ॥ अत्र नायिकाभावनाविषयो नायकःप्राप्तस्तमयमित्यनेनाऽनूद्य तत्रा- ऽप्राप्तं देवत्वं विधातुमुचितम् । तस्मादयमेव देव इति युक्तम् । यदु- क्तम्--'अनुवाद्यमनुक्त्वैव विधेयं न प्रदर्शयेत्' इति । अयथावद्विनिर्देशं तु प्रकारान्तरेणाऽऽह-- यच्छब्दानन्तरं यत्र तच्छब्दो नैव दीयते ॥ ३ ॥ समासे वा गुणीभूतः सम्बन्धो यत्र गम्यते ॥ तत्र तत्र बुधाः प्रोचुरविमृष्टविधेयताम् ॥ ४ ॥ यच्छब्दाऽनन्तरमित्युपलक्षणम् । तच्छब्दाऽनन्तरं यच्छब्दानुपादा- नेऽपि बोध्यम् । यथा-- अष्टाङ्गयोगपूतानामज्ञेयो योगिनामपि । योऽसौ गोपवधूवृन्दैरमन्दमुपभुज्यते ॥ अत्राऽसाविति पदं विधेयतच्छब्दाऽभिप्रायेण प्रयुक्तमपि विधेया- ऽबोधकम् । ननु-- अमुष्य भरतस्योक्तं श्रुत्वा मूर्छन्ति मे मुदः । शिखण्डिन्या इवाऽकाण्डे वारिवाहस्य गर्जितम् ॥ इत्यत्राऽमुष्येति पदं तत्पदार्थमभिधत्तेऽतोऽदःशब्दस्तत्पदार्थ इति । मैवम्-- योऽसौ ग्राहमुखग्रासादुज्जहार करीश्वरम् । स त्राता दुःखपाथोधेर्मम नान्योऽस्ति कश्चन ॥ इत्यत्र स इति पदमनर्थकं स्यादतोऽदःशब्दो न तच्छब्दार्थकः | अथ-- यस्य मनागपि भक्तिर्भगवति भूताऽधिनाथेऽस्ति । क्षणमपि किमस्यभूयात्कथय सखेऽनिष्टसम्पर्कः ॥ इत्यत्रेदंपदस्येवाऽदःपदस्य सर्वत्र तत्पदाऽर्थाऽभिधायकत्वमिति चेत् सत्यं, परं तु तस्मिन्नेव वाक्ये स्थितमदःपदं प्रसिद्धिमेव परामृशति न तत्पदार्थमभिधत्ते । तथा हि--यत्पदनिकटस्थितस्याऽदःपदस्य प्रसिद्ध्य- र्थकता । न वाक्यान्तरोपात्तस्यं तु तथा । यत्पदनिकटस्थितस्याऽदःप- दस्य च प्रसिद्ध्यर्थकतायां समानविभक्तिकत्वनियमः । अन्यथा- 'तमभ्ये- त्युत्सुका लक्ष्मीर्यस्याऽसौ सुप्रियो भवेत्' इत्याद्यसङ्गतं स्यात् । ननु बहुषु स्थलेषु यत्तदोरेकैकस्य प्रयोगदर्शनान्नित्यसापेक्षत्वाऽभा- वात्तत्कथमत्र दोषावतार इति चेत् न, क्वचिदेकतरोपादाने क्वचिदुभयो- रनुपादानेऽर्थसामर्थ्याद्यत्तदोरर्थः प्रतीयते इत्येव यत्तदोर्नित्याऽभिसम्ब- न्धो न तु सर्वत्र शब्दोपात्तत्वनियमः । तथा हि-- यस्योपरि प्रतिपलं परिपालयन्ती सा सर्वतो बलवती भवितव्यताऽस्ति । तं हन्तुमुद्यतकरालकृपाणपाणिः क्रोधातुरोऽपि शमनः कथमस्तु शक्तः ॥ इत्यादौ प्रसिद्धाऽर्थविषये, पाणिभ्यां नवपल्लवस्य विजयं वाचा मधूलीभयं कान्त्या काञ्चनवञ्चनं विदधतीमक्ष्णा मृगक्षोभणम् । तामालोकयतः सुधाकरमुखीं लज्जामुषा चक्षुषा सान्द्रानन्दपयोनिधौ मम सखे ! सद्यो निमग्नं मनः ॥ इत्यादौ पूर्वप्रक्रान्ताऽर्थविषये, कुतः कमलपत्राक्षि ! तदेव वदनं तव । साञ्जनाऽश्रुसमासङ्गान्नीयते चन्द्रतुल्यताम् ॥ इत्यादौ अनुभूताऽर्थविषये च तच्छब्दो यच्छब्दं नाऽपेक्षते । क्वचित्तु तच्छब्दाऽनपेक्षी यच्छब्दो यथा-- न विस्मयो यत्कमलस्य लक्ष्मीं रक्ताऽधरासङ्गि मुखं मुमोष । कर्णाऽन्तिके सञ्चरताऽम्बुजश्रीस्त्वया हृता नेत्र ! विचित्रमेतत् ॥ अत्र न विस्मयो नाश्चर्यं - इति प्रथममन्वयबोधे कुतो न विस्मय इत्याकाङ्क्षायां 'यत्कमलस्य लक्ष्मीं रक्ताऽधरासङ्गि मुखं मुमोष' इत्यन्वय- बोधे यत्पदस्य न तत्पदाकाङ्क्षा । वस्तुतस्तु उत्तरवाक्यस्थिते यत्पदे पूर्ववाक्ये न तच्छब्दस्य शाब्दमुपादानम् । अर्थसामर्थ्यात्तत्पदाऽर्थः प्रतीयते । यदि च –- 'यदद्भुतं नो कमलस्य लक्ष्मीम्' इत्यादि क्रियेत, सदा तद्दोषतादवस्थ्यम् । उभयोरनुपादाने यथा-- दुर्गतिदारणहेतोरकृप ! नृप ! प्रार्थये न त्वाम् । काचिद्दैन्यनिहन्त्री जगदुपरिष्टाद्वरीवर्ति ॥ अत्र यत्तच्छब्दयोरुपादानं विना या काचिज्जगदुपरि वरीवर्ति तां प्रार्थयेऽहमिति सामर्थ्यादनवरुद्धा बुद्धिरुत्पद्यते । अन्यथा पूर्वोत्तराभ्यां मिलित्वा नैकार्थप्रतिपतिः । पूर्वार्धोत्तरार्धवाक्ययोर्नैकवाक्यताप्रति- पतिरित्यर्थः । ननु 'स भाग्यवान् शूलिनि यस्य भक्तिः' इत्यादौ उत्तरवाक्यस्थमपि यत्पदं तच्छन्दमपेक्षते, तस्मात्क्वचित्तच्छब्दाऽनपेक्षी यच्छब्द इति न सङ्गच्छते इत्यत आह -- उत्तरस्मिन् गतं वाक्ये यदा भवति यत्पदम् ॥ तच्छब्दस्याऽनुपादानमादानं वा न दूषणम् ॥ ५॥ उत्तरवाक्यस्थे यच्छब्दे तच्छब्दः पूर्ववाक्ये चेदुपादीयते, न वोपा- दीयते, उभयथाऽपि न दोषः । 'तद्वचो यदि पिकेन लज्जितम्' इत्यत्राऽन्यत्र वा पूर्ववाक्यगतो यच्छब्दस्तच्छब्दं नाऽपेक्षते तत्कथमनुगम इत्याशङ्कायामाह-- यदीत्यादिपदं यत्र पूर्ववाक्यगतं भवेत् ॥ न तत्र तत्पदाऽपेक्षा भवतीति व्यवस्थितिः ॥ ६॥ आदिशब्दात् यत्रेति पदं गृह्यते । ननु 'मया यद्यत्कृतं पापं तन्मे हर महेश्वरि !' इत्यत्र यदी- त्यादिपदभिन्नं यत्पदस्वरूपमस्ति, द्वितीयतत्पदं नास्तीति पूर्वोक्तदो- षग्रास इत्यत आह-- नानारूपेण यच्छब्दद्वयादर्थ उपस्थितः ॥ तमिहैकेन रूपेण परामृशति तत्पदम् ॥ ७ ॥ अर्थात् यो योऽर्थस्तमित्यन्वयः । इह प्रकृते एकेन पापत्वेन । यद्वा -- वीप्सयोद्दिश्यते चैकयत्पदे यत्पदद्वयम् ॥ आदेशियत्पदेनाऽर्थः समुपस्थापितोऽखिलः ॥ ८ ॥ एकरूपेण तं त्वेकं परामृशति तत्पदम् ॥ अतो न तत्पदे वीप्सा कुत्राऽपि च समीक्ष्यते ॥९॥ यदि वा दृश्यते क्वाऽपि तत्र स्यात्तुल्ययोगिनी ॥ यत्पदेन एकरूपेण उपस्थापित इत्यन्वयः । एकं तत्पदमित्यन्वयः । तुल्ययोगिनीति यावत्सङ्ख्याकं यावत्पदं तावस्सङ्ख्याकतत्पदयोगस- तीत्यर्थः । 'यं यं पश्यसि सुतनो ! स स रतिरमणेन हन्यते बाणैः' इत्या- दौ तुल्ययोगो बोध्यः । य स्तु विशेषः- यत्पदाभ्यामनादेशिरूपाभ्यां भिन्नभिन्नरूपेणोपस्थापितं वस्तु तत्पदाभ्यां परामृश्यते । स सुन्दरः स सर्वशः स सुबुद्धिः स कोविदः । स पूज्य: सर्वदो लोके यस्मिन् देवि ! कृपा तथ ॥ इत्यत्रैकयच्छब्दोपादाने सति बहूनां तच्छब्दनामुपादानात् पूर्वो- क्तमसङ्गतमित्यत आह-- आकाङ्क्षा यत्तदोः शाब्दी भवेद्यत्र परस्परम् ॥१०॥ तत्रैवैकतरादाने दोषोऽयं समुदीरितः ॥ समासे यथा-- मोछाहेउत्तणमिह जुज्जइ विससोअरम्मि चंदम्मि । सिरिहंडरण्णवन्धू त्तंसि कहं पवण ! तावेसि ॥* अत्र सोदरे विषसम्बन्धो बन्धौ श्रीखण्डारण्यसम्बन्धश्च मूर्छाता- पामावौ प्रति हेतुतयाऽभिमतौ । तच्च तयोः समासे गुणीभावादनु- पपन्नम् । यद्यपि पददोषोऽयं, तथाऽपि पदद्वये वर्तत इति वाक्पदो- षप्रस्तावे प्रोक्तः । एवं समासान्तरेऽप्यूह्यम् । विरुद्धमतिकारिता यथा-- अपाङ्गे कामचाञ्जल्यमधरे खाऽनुरागिता । ध्रुवं कमलपत्राक्षि ! को न वश्यो भवेत्तव ॥ अत्राऽपाङ्गे व्यङ्गादौ कामतश्चाञ्जल्यमधरे नीचे चाऽनुराग इति विरुद्धप्रत्ययः । प्रकाशितविरुद्धाऽमतपदार्थाभ्यामर्थव्यञ्जकताविरुद्धा- र्थविवक्षाविरहादस्य भेदः । एवं समासाऽसमासयोः पदवाक्यवृतित्वमुक्त्वा दोषाणां यथा- सम्मवं पदैकदेशवृतित्वमाह । यथा -- कलितवचनवरवादुल्लसल्लोचनत्वात् सुभगविहसितत्वाद्भङ्गुरभ्रूलतायाः । जनयति जनचित्ते हन्त शैवालकेश्याः परिणतहिमभानोरास्यमस्या विशेषम् ॥ अत्र त्वात्वावर्णाः श्रोत्रकटवः । नन्वत्र नानापदवृत्तित्वे श्रोत्रकटुत्वस्य वाक्यदोषत्वमिति चेत्, उच्यते-- पारुष्यं बहुवर्णानां यत्रैकत्र पदे भवेत् ॥ ११ ॥ तत्राऽस्य पदवृत्तित्वमन्यथा भागवृत्तिता । ------------------------------------------------------------------- *मूर्छाहेतुत्वमिह युज्यते विषसोदरे चन्द्रे । श्रीखण्डाऽरण्यबन्धुस्त्वमसि, कथं पवन ! तापयसि ॥ इतिच्छाया । ( संशोधकः ) भागेऽस्य पदवृत्तित्वाऽभावान्नो वाक्यवृत्तिता ॥१२॥ अस्य श्रोत्रकटुत्वस्य । जगद्व्यापि यशः सूते मतिमत्ता मनीषिणाम् । अनुक्षणमकीर्ति च मूढानामर्थसंशयः ॥ अत्र मत्ताशब्दः प्रसिद्धेन क्षीबार्थेन निहतार्थः । विजेयो मघवद्द्रोही निवातकवचो बली । पुरा येन पुरस्तस्य कियानेष जयद्रथः ॥ अत्र विजेय इत्यत्र यत्प्रत्ययोऽतीतत्वार्थाऽवाचकः । दृष्टान्तीकृत्य कमलं मध्यविभ्रान्तषट्पदम् । शङ्के दशः कृशोदर्याः सतारा विदधे विधिः ॥ अत्र दश इति बहुवचनमनर्थकम् । एकस्या एव कृशोदर्या उपा- दानात् । न च दृक्पदं क्रियायां प्रयुक्तमिति वाच्यम्, सतारा इति विशे- षणस्याऽनन्वयप्रसङ्गात् । नन्विदमसाधु, द्वयोरेकस्मिन्वा वक्तव्ये बहुवचनस्याऽसाधुत्वादिति चेत्, उच्यते-- 'बहुष्वि'त्यादिसूत्रेण द्वयोरेकस्य वा भवेत् ॥ तन्निषेधो बहुत्वस्याऽविवक्षायां कदापि नो ॥ १३ ॥ तन्निषेधः बहुवचननिषेधः । परोन्नतिसहो नित्यं निस्पृहो लोभ्यवस्तुषु । सर्वकौशलसम्पन्नो नूनमाढ्यचरो भवान् ॥ अत्राऽऽढ्यचरशब्दः पूर्वमाढ्य आसीदिति चरट्प्रत्ययान्तः, किमा- ख्येषु चरतीति टप्रत्ययान्तो वेति सन्देहः । सोमोद्भवाऽभिषेकेण पूयते सकलो जनः । न परं ब्रह्मविद्वेषसमासक्तमना द्विजः ॥ अत्र पूयशब्दो रसविशेषोपस्थापकत्वेन जुगुप्साव्यञ्जकः । अनभिप्रेतकर्ताारो बहवो भुषि मानवाः । कुर्वाणा: केङ्कृर्ति काका निवसन्ति गृहे गृहे ॥ अत्र प्रेतशब्दोऽमङ्गलव्यञ्जकः । अत्र वामनाचार्येणाऽप्रसिद्धाऽसभ्यलाक्षणिकाऽसभ्यलोकसंवीताऽस- भ्यार्था: शब्दाः सङ्गृहीताः । यथा--सम्बाध इति पदं सङ्कटार्थ- प्रसिद्धं न गुह्यार्थप्रसिद्धमिति अप्रसिद्धाऽसभ्यार्थम् । जन्मभूरिति पदं लक्षणया गुह्यार्थे न शक्त्येति लाक्षणिकाऽसभ्यार्थम् । सुभगाभगिनी- कुमार्युपस्थानाऽभिप्रेतादिपदं लोके न सङ्गृहीतासभ्यार्थमिति लो- कसंवीताऽसभ्यार्थम् । तदुक्तम्-- संवीतस्य हि लोकेऽस्मिन् न दोषाऽन्वेषणं क्षमम् । शिवलिङ्गस्य संस्थाने कस्याऽसभ्या व मावना ॥ इति । अतः प्रेतशब्दस्य प्रकृतोदाहरणं न सङ्गच्छते, तथाऽपि काव्यप्र- काशकृदभिप्रेतमिति प्रेतपदमिहोपात्तम् । लोचने क्रोधकलुषे विक्षिपन्तं रिपून्प्रति । हिरण्यरेतःसदृशं कस्त्वां युधि समीक्षताम् ॥ अत्र रेतः शब्दो वीडाव्यञ्जकः । स एव हि वचोबाणः सरोजदललोचने ! । यत्कृते हिमकृद्भासो न सुखाय भवन्ति ते ॥ अत्र स्ववाच्यवाचकत्वसम्बन्धेन वचःशब्देन गीःशब्दो लक्ष्यते । अतः पदैकदेशे नेयार्थता । तथैव गीःशर इत्यादावपि । तथा चात्रोभय- पदं परीवर्ताऽसहम् । वारिध्यादौ तूत्तरपदमेव । वडवाऽनलादौ पूर्वपद- मेवेति दिक् ॥ इति श्रीमैथिल श्रीगङ्गानन्दकवीन्द्रकृतौ काव्यडाकिन्यां द्वितीया दृष्टिः अथ वाक्यदोषानाह-- प्रतिकूलवर्णता स्याल्लुप्तविसर्गोपहतविसर्गत्वे ॥ अस्थानस्थपदत्वं हतवृत्तत्वं विसन्धित्वम् ॥ १ ॥ अर्द्धान्तरैकवाचकसमाप्तपुनरात्तगर्भितत्वानि ॥ अभवन्मतयोगत्वं पतत्प्रकर्षप्रसिद्धिधुतते च ॥ २ ॥ कथितपदत्वं च तथा न्यूनाधिकपदत्वे च ॥ अपदस्थसमासत्वं सङ्कीर्णाऽमतपरार्थते चाऽपि ॥ ३ ॥ अनभिहितवाच्यभग्नप्रक्रमते अक्रमत्वं च ॥ एवं किलैकविंशतिरुदीरिता वाक्यवर्तिनो दोषाः ॥४॥ क्रमेणैतानाह-- यत्र रसाऽननुकूलो वर्णचयो वाक्य एवाऽस्ति ॥ प्रतिकूलवर्णमूचुस्तदलङ्कृतिशास्त्रवेत्तारः ॥ ५ ॥ एवकारेण श्रोत्रकटोर्व्युदासः । तस्य पदेऽपि सत्त्वात् । न चाऽप- दस्थसमासेऽतिव्याप्तिरिति वाच्यम् । तत्र समासस्यैव वैरस्याधाय- कत्वात्, न तु वर्णानाम् । तेषां तु रसाऽनुगुणत्वसम्भावनात् । तदिति वाक्यम् । तथा च तन्निरूपणेन तद्धर्मनिरूपणसिद्धिरित्युक्तम् । शृङ्गारे यथा -- कष्टमिष्टेन संश्लिष्टा स्पष्टदष्टौष्ठसम्पुटा । दृष्ट्या निश्चेष्टयाऽऽचष्ट विम्बौष्ठी नष्टचेष्टताम् ॥ अत्र वर्णानां रसाऽननुगुणत्वं स्पष्टम् । रौद्रे यथा-- श्रीरामस्य वधूं विधूय सहसा तत्साध्वसं चेतसो यच्चौर्येण निशाचराऽधम् ! वनादेकाकिनीमाहरः । तस्मादङ्गमिदं नखेन सकलं ते खण्डयित्वा रणे कुर्यां वालिसुतोऽङ्गदोऽहमचिरादन्वर्थतां नामनि ॥ अत्र प्रोद्धतवर्णगुम्फः समासदैर्घ्यं च कर्तुमुचितम्, तदभावात् प्रतिकूलता । यथोचितं तथोदाहियते-- उद्दामद्युतिदुर्दिनीकृतसमिद् युद्धाऽवरुद्धद्विष- त्सन्दत्तद्रुतचित्तसाध्वसरसा सेयं गदा निर्दया । वस्त्रं कृष्टवतः पतत्वधिशिरो दुःशासनस्याऽद्य त- त्पाञ्चाली चिकुरं चिराय विततं बध्नातु निर्बन्धतः ॥ अत्र चतुर्थचरणे क्रोधाऽभावादनुद्धतवर्णन्यासः ॥ लुप्तविसर्गं तत्स्याद्यत्र विसर्गा विलुप्यन्ते ॥ स्पष्टम् । कृपणा निर्धना लोका न स्फुटं दोषकारणम् । अप्यन्तर्बद्धसंरम्भा नीरदा इव भोगिनः ॥ अत्र कृपणा इत्यादौ असकृद्विसर्गलोपः । उपहतविसर्गकं तद्यत्र विसर्गा गता ओत्वम् ॥ स्पष्टम् । यथा-- अतिसत्वो महाकायो विमलो वसुदो नृपः । यस्थाsग्रे पार्थकर्णाद्या विस्मृतिं समुपागताः ॥ अत्राऽतिसत्त्व इत्यादावोत्वं प्राप्ता बहवो विसर्गाः । अस्थानस्थपदं तत्स्याद्यत्राऽस्थाने पदस्थितिः ॥ ६॥ यथा-- हरिं सपत्नीनखचिह्नमारादुपेतमत्युत्सुकमानसाऽपि । दृशा भृशोन्मीलितशोणभासा न काऽपि गोपी कलयाञ्चकार ॥ अत्र 'न कलयाञ्चकार' इति वाच्यम् । अन्यथा, अपि तु सर्वा गोप्यः कलयाञ्चकुरिति विरुद्धबोधः प्रसज्येत । नञर्थस्य विधेयतया कलन- समभिव्याहार एव समुचितः । पदस्थाऽस्थाने संनिवेशात्सर्वमेव वाक्यं विवक्षितार्थप्रत्यायने शिथिलमित्यस्य वाक्यदोषता । यस्मिन् दुरुच्चारमभव्यदायि लघ्वान्तिमाऽप्राप्तगुरुत्वमस्ति || स्वरूपहीनं विगुणं रसानामश्रव्यवृत्तं हतवृत्तकं तत् ॥७॥ अश्रव्यं वृत्तं यस्मिन् तद्वाक्यं हतवृत्तम् । तत्तु पञ्चविधम् । दुरुञ्चारं, नायकाद्यकल्याणकारि, पादान्ताऽप्राप्तगुरुत्वलघु, स्वरूपहीनं, रसा- ऽननुगुणं चेति । क्रमेणोदाहरणम् । यथा-- यदिह वपुषि स्वेदश्रेणी विसर्पति सर्वतः स्वरतरमथ श्वासं यत्त्वं मुहुर्मुहुरुज्झसि । कथय कथय क्षिप्रं तस्मात्सरोरुहलोचने ! किमभवदिहाऽद्य त्वद्दृष्ट्यध्वनो विषयो हरिः ॥ अत्र 'अभवदिहाऽद्य त्वद्दृष्ट्यध्वनः' इति दुरुञ्चारत्वादश्रव्यम् । उअह सरवरे रेहइ अरुणअरच्छित्तपोम्ममिह सत्वं । मित्तविओउज्जाअसोणं णअणं व भिसिणीणं ॥ * अत्र प्रथमार्धे द्वितीयतृतीयौ सगणभगणौ नायकाद्यमङ्गलसूचकौ । पादान्ताऽप्राप्तगुरुत्वलघु द्विधा, विषमपादचतुर्थपादान्तभेदात् । विषमपादान्ताऽप्राप्तगुरुत्वलघु यथा-- विलसति गगने नवाऽम्बुदाली वहति शनैरनिलस्तरङ्गबन्धुः । सहचरि ! हितहेतवे वदामि तव न मनागपि मानकाल एषः ॥ अत्र 'वदामि' इति मिवर्णः । न च पादान्तस्थं विकल्पेन' इति सूत्रं समाधिरिति वाच्यम्, तस्य द्वितीयचतुर्थपादौ विषयः । यद्वा वसन्त- ------------------------------------------------------------------------------- *पश्यथ सरोवरे राजते अरुणकरक्षिप्तपद्ममिह सर्वम् । मित्रवियोगोज्ज्वालशोणं नयमं व विसिनीनाम् ॥ १ ॥ इतिच्छाया ( संशोधकः ) तिलकादिच्छन्दोविशेष: सूत्रस्य विषयः | चतुर्थपादान्ताऽप्राप्तगुरुत्वलघु यथा-- मा सम्भावय मां गिरा मधुरया कुर्या न चित्तेत्सवं वाताऽऽन्दोलविलोलपङ्कजदलद्रोहस्पृशा वा दृशा । आयाते मयि यश्चकार भवती कृत्यौचितीसम्भ्रमं तेनैवाद्य ममेन्दुसुन्दरमुखि ! स्वात्मा महेन्द्रीयति ॥ अत्राऽसंयुक्तयकारपरस्य पादान्तनिबन्धनगुरोरपि 'ति' वर्णस्य बन्ध- शैथिल्यकारितया न गुरुकार्यकारित्वम् । तस्मात् 'स्वात्मा कृतार्थी- कृतः' इति 'मम' इत्यत्र 'मया' इति च वाच्यम् । छन्दोलक्षणहीनं वृत्तम- त्यन्तवैरस्याधायकतया नोदाहृतम् । हा जगदेकमनोहर ! कान्त ! हा कुलसागरचन्द्र । नरेन्द्र ! । हा गुणसार । सरोरुहनेत्र ! क्वाऽसमये गतवानसि निद्राम् ॥ अत्र हास्यरसव्यञ्जकस्य दोधकवृत्तस्य करुणरसप्रतिकूलत्वाद- श्रव्यत्वम् । पुनः पुनः प्रगृह्यादेर्विश्लेषः सकृदिच्छया ॥ अश्लीलत्वं च कष्टत्वं सन्धेर्यत्र विसन्धि तत् ॥ ८॥ प्रकृतिवद्भावनिबन्धनो वारंवारमत्र संहितां न करोमीति पुनः स्वे- च्छया सकृत्सन्धेर्विश्लेषोऽश्लीलत्वं कष्टत्वं चेति । आदिशब्दात् सूत्रान्तरेण सन्धेर्विश्लेषो गृह्यते इत्यस्य पञ्च भेदाः । क्रमेण यथा -- लोचने अम्बुजे एते इमे तारे अली पुनः । चित्रं यदेतयोर्मध्ये केसराली न दृश्यते ॥ अत्र प्रगृह्यनिबन्धनः सन्धेर्विश्लेषः । बन्धकीवदनाऽम्भोजे विशन्तीव निशामुखे । कदलीगर्भसदृशी उदियाय विधुद्युतिः ॥ अत्र स्वेच्छया कृतो विश्लेषः सकृदपि दोषः । चलण्डामररूपोऽसौ रणेऽभूदतिभीषणः । यमालोक्य हतच्छाया बभूवुरिह शत्रवः ॥ अत्र 'चलण्डामर' इत्यत्र 'बभूवुरिह' इत्यत्र च सन्धिकृताऽश्लीलता । कार्वीशेनाऽयमर्वाऽर्वाक् चार्वस्मिन् वेश्मनि स्वयम् । लिखितो मिषतः कस्मान्ममर्त इव भासते ॥ अत्र सन्धिकृतं श्रोत्रकटुत्वरूपं कष्टत्वम् । विरचितशिशुभाव ईश्यमाणः स्मितमधुरं व्रजसुन्दरीगणेन । विदधदतिमृदुः किशोरलीलामित इत एष उदार पति कृष्णः ॥ अत्र 'इत इत:' इत्यादौ गुणः प्राप्तः 'पूर्वत्राऽसिद्धम्' इति सूत्रेण बाध्यते । प्रथमार्धशेषवाचकपदं द्वितीयार्धसङ्गतं यत्र ॥ अर्धान्तरैकवाचकमभिदधते तत्सदा सुधियः ॥९॥ स्पष्टम् । भूषणं भास्वरं देहे कुरु चन्द्रोऽयमुद्गतः । तदित्थं शिक्षिता सख्या मुद्रं याताऽभिसारिका ॥ अत्र 'चन्द्रोऽयमुद्गतस्तद्भास्वरं भूषणं देहे कुरु' इत्यन्वयः । एवं च प्रथमार्धे द्वितीयार्धगततत्पदापेक्षा नावश्यकी। अर्थसामर्थ्यादेव तदर्थ- बोधः । प्रकृते तु अर्थापेक्षा अधिकपदे तु न तदपेक्षेति भेदः । वाक्यसमाप्तौ सत्यां यदुपात्तं तत्समाप्तपुनरात्तम् ॥ यथा-- चित्ताम्भोनिधिमन्दरो मृगदृशां दूतोपदेशः श्रुतौ मानाशीविषबर्हिणो मनसिजक्षोणीरुहस्याङ्कुरः । अन्तर्मत्तगजेन्द्रकर्षणसृणिर्विंशीरवः श्रीहरेः कल्याणं वितनोतु केलिनटनारम्भे मृदङ्गध्वनिः ॥ अत्र 'मृदङ्गध्वनिः' इति विशेषणदानात् समाप्तपुनरात्तता । वाक्यं वाक्यान्तरे यत्र तद् गर्भितमुदाहृतम् ॥१०॥ वाक्यमर्थादनुपयुक्तम् । यथा-- विलसति गगने नवाम्बुदाली वहति शनैरनिलस्तरङ्गबन्धुः । सहचरि ! हितहेतवे वदामस्तव न मनागपि मानकाल एषः ॥ अत्र 'सह' इत्यादि 'वदामः' इत्यन्तं वाक्यं महावाक्यान्ते प्रवि- ष्टमनुपयुक्तम् । अभवन्मतयोगं तद्यत्र भवेदन्वयो नेष्टः ॥ यथा-- यैर्न्यस्तास्तव विप्रयोगसमये वह्निस्फुलिङ्गोत्करा मद्देहे मम ये बभूवुरनिशं हा ! इन्त !! मूर्छाकृतः । येषां वीक्षणमन्तकोपममभूत् कुन्देन्दुपाथोमुचां नेत्रद्वन्द्वपथं गते त्वयि मम प्राणेश ! ते शैत्यदाः ॥ अत्र 'कुन्देन्दुपाथोमुक्'शब्देन यत्तच्छब्दानामन्वयः कवेरभिमतः । स च नोपपद्यते । तथा हि--यैरित्यत्र कुन्देन्दुपदार्थस्याऽविशेष्यत्वात् । ननु 'ये' इति 'येषाम्' इत्यनयोः परस्परमन्वयस्ततः 'कुन्देन्दुपाथोमुचाम्' इत्यनेन तत्पदार्थस्य विशेष्यतयोपादाने सत्युभयत्राऽन्वयः स्यादिति चेत् न, 'यैः' इत्यत्राऽनन्वयो भिन्नविभक्तितया तयोरनन्वयाध्य, विशेषण- पदार्थयोः पराऽन्वयतात्पर्येणोपात्ततया परस्परमसम्बन्धाश्च । यथा वा-- उत्सारयसि यत्तन्वि ! मुखाद्वासो मनागपि । मम लोचनयोरद्य तदा स्याच्चरितार्थता ॥ अत्र 'यत्' इत्यस्य 'तदा' इत्यनेन सम्बन्धो न घटते । तस्मात् 'चेत्त- न्वि' इति वाच्यम् । 'चेत्' इति पदस्य यदापदार्थकत्वात् । यथा वा- पाणिप्रवालशकलं तव पद्मरागः कान्ते । पदद्वयमुरोजयुगं सरोजम् । कण्ठस्तु कम्बुपुटकस्त्रिवलीतरङ्गो लावण्यवारिनिधिशीतरुचिर्मुखं ते ॥ अत्र 'वारिनिधि' शब्दस्य समासे गुणीभूतत्वात्तदर्थेन सर्वे प्रवा- लादयो न सम्बध्यन्ते । अविमृष्टविधेयांशे तु यदेवाऽनिष्टं तदेव दो षवत् इह तु सर्वेषां प्रवालादिपदार्थानां तदङ्गत्वेनाऽप्रतीत्या सम्पूर्ण- वाक्यार्थवैकल्यमिति भेदः । यत्राऽऽरब्धा घटना निपतति पश्चात्पतत्प्रकर्षंतत् ॥११॥ स्पष्टम् । हे इस्तीन्द्रशिशो ! न शोभनमिदं यत्कुञ्जकुक्षिंं गत- स्त्वं वीरुत्ततिमुत्क्षिपन् विहरसि प्रोद्दण्डया शुण्डया । किञ्च क्षुद्रतमाः । कुरुध्वमधुना कोला ! न कोलाहला- नेतस्मिन् विपिने सुखे मृगपतिर्निद्रानितो वर्तते ॥ अत्राSSरब्धबन्धस्य चतुर्थचरणे निपातः । पदस्य यस्य यत्रार्थे प्रसिद्धिस्तत्र तत्पुनः ॥ अतिक्रामति तां यत्र प्रसिद्धिधुतमाह तत् ॥ १२ ॥ न चाऽवाचकेऽतिव्याप्तिरिति वाच्यम् । तात्पर्यगोचरधर्मप्रकारक- प्रनीतेरस्य जनकत्वात् । कव्यनादरविषयत्वेऽपि प्रसिद्ध्यभाषादप्रयु- क्ततोऽस्य भेदः । मञ्जीराविषु रणितप्रायं पक्षिषु च कूजितप्रभृति । स्तनितमणितादि सुरते मेघादिषु गर्जितप्रमुखम् ॥ इत्यादिप्रसिद्धिमतिक्रामति यत्तत्प्रसिद्धिधुतम् । यथा-- नद्यस्तुङ्गतरङ्गभीषणतया ध्वान्तावलीभिर्जग- द्व्याप्तं वारिमुचां रवः सखि ! महाघोरः फणी सर्वतः । विद्युद्वीक्षणमात्रतोऽपहरते नेत्रं हठेनाऽधुना यत्सान्निध्यमितः प्रयासि सुभगे ! वन्दामहे तत्तपः ॥ अत्र रवो नीचप्राणिध्वनिषु प्रसिद्धो, न तु मेघादिशब्देषु । कथितपदं तत्कथितं यत्पुनरुक्ति: प्रयोजनाऽभावे ॥ यथा-- विकचसरोजोल्लासी रेवाकल्लोलकौतुकोल्लासी । सहचरि । समीरणोऽयं प्रसभं मम मानसं हरति ॥ अत्र 'उल्लासि' शब्दः पुनरुक्तः । पुनरुपादानाप्रयोजनं विना 'पिष्ट- पेषण' न्यायेन न चमत्करोतीत्यस्य दोषत्वम् । न्यूनपदं तत्कथितं नाऽन्वयबोधः पदं विना यत्र ॥ १३ ॥ यथा-- करुणाकदम्बकयुता समर्पिता मयि यदा दृष्टिः । किं मम तदा त्रिलोकीराज्यसुखैः पर्वतेन्द्रसुते ! ॥ अत्र 'दृष्टिः समर्पिता' इत्यत्र 'त्वया' इत्यनुपादानात् न्यूनता । अधिकपदं तत्कथितं यथाकथञ्चित्समन्वयो यस्य ॥ यथा-- चन्द्राकारमनोहरं तव मुखं वाणी मधुस्पर्धिनी पाणि: पल्लवसुन्दरस्तनुरसौ सौदामिनीबन्धुरा । बाहुर्बालमृणालकोमलरुचिर्हास्यं सुधासोदरं नो जाने सखि ! कस्तपस्यति जनो यस्याऽऽलयं यास्यसि ॥ अत्र मुखस्य चन्द्रोपमायां वाच्यायामाकारशब्दस्याऽवयत्रसंस्थान- वाचकतया प्रकृताऽनुपयोगात् स्वरूपार्थकत्वं वाच्यमित्येव यथाकथञ्चि- त्समन्वयः । अपदस्थसमासं तद्यत्राऽस्थाने समासविन्यासः ॥ १४ ॥ यथा-- युष्माकं ननु धर्षको निशि सुधाधामाऽयमुत्पश्यत प्रातःकाल उपागतोऽयमधुना यायाद्विदूर कियत् । इत्यन्तर्जनितप्रकोपविसराऽऽताम्रकृिताङ्गो रविः पादाऽऽपातननिःप्रभीकृतविधुर्द्राग्बोधयत्यब्जिनीः ॥ अत्र कविनिबद्धस्य क्रुद्धस्य रवेरुक्तौ समासो न कृतः, कवेरुक्तौ तु कृतः । वाक्यान्तरपदं वाक्ये यत्र सङ्कीर्णमाह तत् ॥ यथा-- शृणुष्व मल्ली कलकूजितानि प्रसूननम्रा पुरतः पिकानाम् । उत्कण्ठतेऽस्मिन् सखि ! मे विधातुं तस्मान्निकुञ्जे हृदयं च किञ्चित् ॥ अत्र 'पिकानां कलकूजितानि शृणुष्व, पुरतः प्रसूननम्रा मल्ली, तस्मादस्मिन्निकुञ्जे मे हृदयं किञ्चिद्विधातुमुत्कण्ठने' इति योजना । क्लिष्टे तु प्रधानक्रियाभेदो न भवत्यत्र तु तद्भेदः स्फुटः । प्रकृतस्य रसस्याऽस्ति विरुद्धो यत्र यो रसः ॥ तद्व्यञ्जकोऽपरस्त्वर्थस्तच्चाऽमतपरार्थकम् ॥ १५ ॥ यथा-- रामेणात्मभुवा बाणैस्ताडिता सा निशाचरी । रक्तचन्दनसिक्ताङ्गी जीवितेशग्टहानगात् ॥ अत्र व्यञ्जनावृत्तिलभ्योऽर्थः प्रकृतरसविरोधिनः श्रङ्गारस्य व्यञ्जकः । अनभिहितवाच्यमुदितं नोक्तिर्यस्मिन्नवश्यवाच्यस्य ॥ यथा-- शिशिरपयःसिक्तायाः सखीभिरिह ते तथाऽपि तन्वङ्गि ! । अपसरति नैव मोहः शिव ! शिव ! कठिनो वियोगाऽग्निः ॥ अत्र 'शिशिरपयःसिक्ताऽसि' इति सिक्तत्वस्य विधिर्वाच्यः। 'तथाऽपि ' इत्यस्य द्वितीयार्धे प्रवेशो युक्तः । आत्मक्लेशनिदानं परिहर मानं सरोजाक्षि ! । न मयाऽपराधलवकः कृतो भवत्याः कथं कोपः ॥ अत्र 'अपराधलवकोऽपि इति अप्यर्थो वाच्यः । न्यूनपदे वाचकपदा- पेक्षा, इह त्वर्थापेक्षा । अपेस्तु द्योतकत्वादिति विशेषात् । कारकादिक्रमो यत्र भग्नस्तद्भग्नप्रक्रमम् ॥ १६ ॥ आदिशब्दात् प्रकृतिप्रत्ययसर्वनामपर्यायोपसर्गक्रमा गृह्यन्ते । कारकस्य यथा-- भाङ्कारैर्मुखरीकरोति हरितो भृङ्गावली सर्वतः कुञ्जेऽस्मिन्नवमल्लिका विरचयत्यक्ष्णामभीक्ष्णं मुदः । रेवासङ्गमशीतलेन मरुता मोदो महान् जन्यते सङ्गीतानि पिकी तनोति समयो मानस्य नाऽयं तव ॥ अत्र सर्वत्राभिहितः कर्ता, 'मरुता' इत्यनभिहितः कर्तेति भग्नः प्रक्रमः । प्रकृतेर्यथा-- परदेशं प्रिये याते तद्वियोगासहिष्णवः । सत्वरं तेन साकं मे धैर्यलज्जादयो गताः । अत्र 'याते' इति याधातुप्रस्तावे 'गताः' इति गम्धातोरुपादाने भग्नः प्रक्रमः । न चैकपदस्य द्विःप्रयुज्यमानतया कथितपदत्वं दोष इति वाच्यम् । तस्योद्देश्यप्रतिनिर्देश्यातिरिक्तविषयत्वात् । उद्देश्यप्रतिनिर्देश्यादिस्थले तु तस्यैव पदस्य सर्वनाम्नो वा प्रयोग आवश्यकः । तथा हि-- उदेति सविता ताम्रस्ताम्र पत्रास्तमेति च । इत्यादौ 'रक्त एव' इति पदान्तरेण स एवार्थः प्रतिपाद्यते तदा- ऽन्योऽर्थ इव भासमानः प्रतीतिस्थगनं करोति । एवं प्रत्ययादीनामत्यन्त- दूषकत्वाभावादुदाहरणं न दत्तमन्यत्राऽनुसन्धेयम् । यस्य यत्र प्रयोगोऽस्ति व्युत्पन्नस्तु ततोऽन्यतः ॥ प्रयोगः क्रियते तस्य तदक्रममुदाहृतम् ॥ १७ ॥ यथा-- यद्दत्ताः शपथा विलोचनपथादन्यत्र सन्निर्गमे तुभ्यं सभ्य ! मदर्थमालिनिवहैर्यद्वा भवानर्थितः । यत्किञ्चित् खलु वाञ्छितं हृदि मया चोत्कण्ठया नेत्रयो रागेणाऽद्य तथाऽन्वमयित यथा तत्सर्वमापूरितम् ॥ अत्र 'यच्च किञ्चित्' इति वाच्यम् । चादिशब्दा यत्समभिव्याहृताः त- द्गतमेव स्वार्थं बोधयन्तीति दिक् ॥ इति श्रीमैथिलश्रीगङ्गानन्दकवीन्द्रकृतौ काव्यडाकिन्यां तृतीया दृष्टिः ॥ अथाऽर्थदोषानाह-- अपुष्टव्याहतक्लिष्टपुनरुक्तनिर्हेतुताः ॥ सन्दिग्धदुःक्रमाऽस्थानयुक्तत्वान्यनवीकृतिः ॥ १ ॥ ख्यातिविद्याविरुद्धत्वे प्रकाशितविरुद्धता ॥ साकाङ्क्षता सहचरभिन्नता विध्ययुक्तता ॥ २ ॥ अविशेषे विशेषश्चाऽनियमे नियमस्तथा ॥ तयोर्विपर्ययौ त्यक्तपुनःस्वीकृतता तथा ॥ ३ ॥ अयुक्तताऽनुवादस्य ग्राम्यताऽश्लीलता तथा ॥ एवमर्थेषु दोषाः स्युस्त्रयोविंशतिसङ्ख्यकाः ॥ ४ ॥ क्लिष्ठत्वं त्वम् । ख्याति प्रसिद्धिः । तयोर्विपर्ययौ विशेषऽवि- शेषः, नियमेऽनियमश्च । तत्र-- मुख्यार्थाऽनुपकारित्वमपुष्टत्वं द्विधा च तत् ॥ अत्यन्ताऽनुपयोगित्वं तथा लब्धत्वमन्यतः ॥ ५ ॥ तदर्थोपस्थितिमन्तरेण प्रकृतार्थविघाताभाव इत्यपुष्टत्वमर्थस्य । तच्चाऽत्यन्ताऽनुपयोगित्वाऽन्यथालब्धत्वरूपं भेदद्वयमवगाहते । उभयं यथा-- उष्णानल इव सुमुखीमालिङ्गति तो भवद्विरहः । रविकरविकसितकमलं यथा तदङ्गेषु भस्मसाद्भवति ॥ अत्र 'अनलः' इत्युक्तौ औष्ण्यप्रतीतेरुष्णशब्दोऽन्यथालब्धार्थो, 'र- वी'त्यादिकमलविशेषणमत्यन्ताऽनुपयोगि-इत्येतदुभयमपुष्टार्थम् । अनुत्कर्षेण यस्त्यक्त उत्कर्षमधिरोप्यते ॥ तत्राऽर्थे व्याहतत्वं स्यात् । 'अनुत्कर्षेण'इत्युपलक्षणम् । उत्कर्षेणोपात्तो योऽनुत्कर्षं सोऽधिरो- प्यते तत्राऽपि व्याहतत्वम् । प्रथमं यथा-- लोकानन्दनहेतवे जगति ते तिष्ठन्तु पाथोरुह- श्रीखण्डद्रवचन्द्रिकेन्दुकलिकाचैत्रानिला निर्मलाः । अस्माकं तु सखे ! कलानिधिकला यत्सा दृशोर्गोचरं याता, हन्त । स एव सम्प्रति मम त्रैलोक्यराज्योत्सवः ॥ यं प्रत्यनुत्कृष्ठा चन्द्रकला, स एव कलानिधिकलात्वमुत्कर्षमाधि- रोपयतीति व्याघातः । द्वितीयं यथा-- करोति चन्द्रिका सा मे मोदं नेत्रचकोरयोः । न पुनश्चन्द्रिकापूर्णशरत्पीयूषरोचिषः ॥ अत्र येन चन्द्रिका उत्कर्षायोपात्ता, तस्य चन्द्रिकाऽनुत्कृष्टेति व्याहतम् । कष्टत्वं च दुरूहता ॥ ६॥ स्पष्टम् । यैर्दृष्टा हिमकृत्सुताजलरुचिस्तेषां कलङ्काऽघसां यत्संवीक्षणमस्ति नैव तदभूत्तस्याः प्रभावोदयः । यैः पीता पुनरान्तरेण नयनेनाऽत्यन्तसन्तोषिणां तेषां किं न कवित्वकैरवकुलं लोके प्रकाशं व्रजेत् ॥ अत्र हिमकृत्सुता रेवा तज्जलरुचिर्यैर्दृष्टा तेषां कलङ्करूपपापानां यदवीक्षणं तत्कलङ्किनो विधोस्तत्पितुः न प्रभावः । अपि तु तस्या एव । यैः पुनरान्तरेण चक्षुषा पीता तेषां चन्द्रतनयाजलरुचिसम्बन्धात्क- वित्वरूपकैरवकुलं किं न प्रकाशं व्रजेत, इति दर्शनेषु न चन्द्रस्य गुण- स्तत्र रेवामाहात्म्यमेव पानेषु तस्य गुण इत्यर्थो दुरूहः । पुनरुक्तत्वमर्थस्य यत्राऽर्थस्य पुनर्ग्रहः ॥ तत्तु द्विविधं पदार्थवाक्यार्थभेदात् । क्रमेण यथा-- रे रे पाप ! दशास्य ! तस्करपते ! रे मेघनादादयो ! वाणीमत्र शृणुध्वमुद्भटतमां सत्यामिमां सङ्गरे । आज्ञां श्रीरघुनन्दनस्य शिरसा लब्धाऽद्य लङ्कामितो युष्माभिः सह रावणेन सहितां द्रागुत्क्षिपाम्यम्बुधौ || अत्र 'रेरे दशास्य' इति 'युष्माभिः' इति चोक्ते सति रावणपदार्थः पुनरुक्तः । स्थितवति रणभूमौ सन्धुनाने धनुरर्ज्यां रजनिचरचयानामन्तके राघवेऽस्मिन् । अलमलमतिभीत्या रामभद्रे कपीन्द्राः ! समरभुवि सचापे किंभवं वो भयं स्यात् ॥ अत्र द्वितीयवाक्यार्थः पुनरुक्तः । निर्हेतुत्वं भवेत्तत्र हेतुर्यत्र न चोच्यते ॥ ७ ॥ अर्थात् कार्ये कथिते हेत्वनुक्तिः । न च विभावनालङ्कारेऽतिव्या- प्तिरिति वाच्यं, तत्र प्रसिद्धहेतुनिषेधो हेत्वन्तरविभावन,मत्र तु हेत्वन- भिधानमेव । यथा-- पूर्वं यस्य वधाय वानरपतेरग्रे प्रतिज्ञा कृता श्रीरामेण वशं गतोऽपि समरे स त्वत्पिता रावणः । जीवन्नेव मयोज्झितो हनुमता काकुत्स्थभक्तात्मना त्वामप्यद्य न हन्मि पश्य सपदि त्वं जीवलोकानिमान् ॥ अत्र रावणस्य हननाभावे हेतुरुक्तो न पुनरिन्द्रजितः । यद्यप्यत्र लक्ष्मणप्रतिज्ञारूपहेतुविभावनं, तथाऽपि प्रसिद्धहेतुनिषेधाभावान्न त- त्राऽतिप्रसङ्गः । सन्दिग्धत्वं भवेत्तत्र यत्रार्थस्य तु संशयः ॥ यथा-- विज्ञाय प्रश्नतात्पर्यं निर्द्धारयतु कोविदः । पादा गिरेः किमासेव्याः किं वा ललितयोषिताम् ॥ अत्र प्रकरणाभावे शृङ्कारी वक्ता किं शान्त इति सन्देहः । लोकशास्त्रक्रमत्यागो दुःक्रमत्वमिहोच्यते ॥ ८ ॥ लोकसिद्धक्रमत्यागात् शास्त्रसिद्धक्रमत्यागाच्च द्विविधमर्थस्य दुः- क्रमत्वम् । यथा-- हृदयेन्द्र ! महाबाहो ! लाजाविजयराजित ! । राजती शतमुद्री मे कानकी वा प्रदीयताम् ॥ अत्र कानक्यभावे राजतीयाचनमिति लोकसिद्धः क्रमस्तस्य तु त्यागः । यथा वा-- कारयित्वा सुतस्यैष यज्ञसृत्रपरिग्रहम् । याति प्रष्टुं तिथिं विप्रो ज्योतिःशास्त्रविशारदम् ॥ अत्र शास्त्रविरुद्धक्रमत्यागः । अस्थानयुक्तताऽर्थानामस्थान उपसंहृतिः ॥ यथा-- शम्भोः शस्त्रपरिग्रहः प्रतिपलं युद्धाभिलाषोदयो वीर्यं संयति कार्तिकेयतुलितं क्रौञ्चाद्रिभेत्ता शरः । तद्योगो भगवानयं भृगुपतिर्बाह्वोर्ममैवाऽनयो- र्विप्रश्चेन्न भवेदहो ! बलवतां तुल्यो महादुर्लभः ॥ अत्र 'विप्रश्चेन्न भवेत्' इत्येतायतैव समाप्ते वाक्यार्थे'अहो बलवतां'इ- त्यादिरस्थान एवोपसंहारः प्रकृतार्थप्रातिकूल्यमाचरतीत्यर्थस्याऽस्थाने सम्बन्धः । भङ्ग्यन्तरनवीकारत्यागोऽर्थस्याऽनवीकृतिः ॥ ९ ॥ यथा-- सर्वदा सहजो बन्धुः सर्वदा वाति मारुतः । सर्वदा दुर्जनो दुःखी सर्वदा सुजनः सुखी ॥ अत्र 'सर्वदा सर्वदा' इत्यनवीकृतत्वम् । न च कथितपदसङ्करः । अत्रपर्यायान्तरेणोपादानेऽप्यनवीकृतिस्तत्र तु पदाऽभेद इति भेदः । किञ्च कथितपदे निःप्रयोजनपुनर्वचनता, इह तु बन्धुतादीनां दार्ढ्यरू- पप्रयोजनसत्त्वात् । अत एव नाऽर्थपुनरुक्तिः । यथोचितं तथोदाहियते-- सर्वदा सहजो बन्धुर्मारुतो वात्यहर्निशम् । न कदाप्यसुखी साधुः सततं दुःखभाक् खलः ॥ इत्यनया भङ्ग्या स एवार्थः प्रतिपादयितुमुचितः । देशादिभेदतः पञ्चविधा ख्यातिविरुद्धता ॥ आदिशब्दात्कविलोकस्वभावकाला गृह्यन्ते । पृथिव्यां सारभूताऽस्ति मिथिला नाम सा पुरी। यत्रोद्यानधरा भाति कुङ्कुमस्तवकोद्गमैः ॥ अत्र मिथिलायां कुङ्कुमसम्भव इति देशविरुद्धता । चरणस्तव तन्वङ्गि ! कामदो नात्र संशयः । अङ्कुरो यस्य सम्बन्धी दृश्यतेऽशोकशाखिनि ॥ अत्र कामिनीपादप्रहारेणाऽशोकस्य कुसुमोद्गमः कविषु प्रसिद्धो न पुरङ्कुरोद्गमः । लोकविरुद्धोऽपि कविप्रसिद्ध्या न दोषः । यथा मम भ्रातृचरणानां रघुदेवशर्मणाम् -- शैला: कैलासलास्यं दधति जलधरास्तन्वते सौधसौख्यं तालीशोभां वनाली वहति तुलयति स्वःपतीभं मदेभः । त्वत्कीर्त्या श्रीप्रतापस्फुरदमलरुचा जायते किञ्चिदन्यत् क्षोणीन्दो ! क्षीरसिन्धोः परिणतसुषमां सागराः शीलयन्ति ॥ अत्राऽमूर्तायाः कीर्तेः सम्बन्धाज्जलधरादयो व्यक्तं धवलीभवन्ती- ति कविप्रसिद्धिः । न कर्तव्यैव मन्मुष्टाविन्द्रशूल इवाऽऽत्मधीः । स्फोटयिष्यामि येनाऽद्य शक्रजित्तव मस्तकम् ॥ अत्र शक्रस्य शूलमस्त्रं लोकेषु न प्रसिद्धमिति लोकविरोधः । तथा व्यालोलिता भृङ्गैर्लतानां कलिकावली । मधुवृष्ट्या यथा मूले पूरयामास सारणीम् ॥ अत्र कलिकानां मधुबाहुल्यं स्वभावविरुद्धम् । माध्यपुष्पाणि सन्त्यज्य निपतन्ति समुत्सुकाः । मालतीस्तबके सद्यः शिशिरे समयेऽलयः ॥ अत्र शिशिरे मालतीकुसुमोद्गम इति कालविरुद्धम् । तत्तच्छास्त्रविरुद्धत्वं भवेद्विद्याविरुद्धता ॥ १० ॥ यथा-- ब्राह्मणः शास्त्रपाठेन गमयित्वाऽखिलं दिनम् । सन्ध्याकाले पितुर्यज्ञमेकोद्दिष्टं करोत्यसौ ॥ अत्रैकोद्दिष्टस्य श्राद्धस्य सन्ध्याकाले धर्मशास्त्रेण विधानं नोक्तम् । यथा वा-- मा गोपय सरोजाक्षि ! रहस्यं मम सन्निधौ । बिम्बाधरे तबैतस्मिन् दृश्यते नखरक्षतम् ॥ अत्राऽधरे नखरक्षतं कामशास्त्रविरुद्धम् । एवमन्येष्वपि शास्त्रेषु विरोधो विभावनीयः । प्रकाशित विरुद्धत्वं प्रकाश्याऽर्थविरुद्धता ॥ यथा-- यथा दूरं व्रजत्येषा कीर्तिर्हृदयभूपतेः । तथा तथाऽतिविस्तीर्णा गिरेरिव महानदी ॥ अत्रोपमया कीर्तेः सर्वव्यापित्वरूपः प्रकाश्यार्थो विरुध्यते विरुद्धमतिकारितायास्तु शब्दस्य विरुद्धत्वमिह त्वर्थस्येति भेदः । अप्राप्तपदतात्पर्यगोचरप्रतियोगिता ॥ ११ ॥ यत्रार्थस्य भवेत्तत्र साकाङ्क्षत्वं विदुर्बुधाः ॥ अप्राप्तमनुपस्थितं यत्पदं तत्तात्पर्यगोचरान्वयप्रतियोगी यत्रार्थ इत्यर्थः । यथा-- क्रीडावेश्मनि कारितं नृपतिना द्यूतं स्वमध्ये पुन- र्यद्गान्धारनृपेण तत्र रचितो व्याजस्ततोऽपि क्षमा । पाञ्चालीचिकुरावकर्षणामितस्तं चाऽपमानं निजं राज्यं चात्मसमं कथं नरपतिर्भीमाग्रजो मृष्यते ॥ अत्र राज्यभित्युपेक्षितुमित्याकाङ्क्षति । स्यात् सहचरभिन्नत्वं भणितिर्महता सहाऽसतां यत्र ॥१२॥ इदमुपलक्षणम् । अमहता सह महतामभिधाने बोध्यम् । यथा-- हंसो मन्थरसञ्चारैः काकः शकुनसूचकैः । कोकिला मधुरालापैराचारैर्भाति भूसुरः ॥ अत्र हंसादिभिरुत्कृष्टैः सह काकस्य कथनम् । यथा वा-- तपात्ययेन मण्डूका मूषकाः सस्यवृद्धितः । मीना जलोदयात्सन्तो मोदन्ते तीर्थसन्निधेः ॥ अत्र मण्डूकादिभिरपकृष्टैः सह सतामभिधानम् । अविधेयस्य विधानं यत्र भवेत्तत्र विध्ययुक्तत्वम् ॥ यथा-- पूर्वं यद्विबुधास्त्वया निजगृहाद्दुष्टेन विद्राविता भग्नो यच्च वने वने प्रतिपलं व्यूढो मुर्नानां मखः । सम्प्रत्युग्रतपस्विनीं यदहरः सीतामभीतस्ततः पश्यानन्दितराधवो दशमुख ! त्वां सङ्गरे हन्म्यहम् ॥ अत्र 'त्वां हत्वा राघवमानन्दयिष्यामि' इति विधेयम् । अविमृष्टविधे- यांशे तु पदयोर्व्युत्क्रमाद्विधेयस्य वैपरीत्येन विधानमिह त्वविधेयस्येति विशेषः । अविशेषे विशेषो यथा-- रे रे राक्षसराजपुत्र ! समरे मायाऽवरुद्धोऽधुना श्रीरामानुचरानिहोपहससि त्वां धिग्वृथा जीवितम् । किं नो वेत्सि हनूमता बलवता येषां पुरोगामिना दग्धान्तःपुरगोपुरावधिपुरी लङ्काऽद्य वः पश्यताम् ॥ अत्र 'येषामेकेन पुरोगामिना' इत्यविशेषो वाथ्यो, न तु 'हनूमता' इति विशेषः । अनियमे नियमो यथा-- भीमस्ते युधि विक्रमो दिशि यशोराशिस्त्वदीयोऽर्जुन- स्त्वत्सारोऽस्ति युधिष्ठिरो धनचयो नासत्यजन्माऽभवत् । कुन्ती योधगणः क्षितीश ! भवतः कृष्णैव केशावली मन्ये पाण्डवमण्डलीपरिवृतो भूमौ भवान् वर्तते ॥ अत्र 'कृष्णैव' इति नियमाऽभिधानं न कर्तव्यम् । विशेषे सामान्यं यथा-- धम्मिल्लोपरि सन्निवेशय सितां मालामिमां यत्नतः श्रीखण्डद्रवलेपनं कुरु कचे हारं हृदि स्थापय । वासस्त्वं परिधेहि भास्वरतमं चित्ते भयं मा कृथा गच्छन्त्याः सरणौ निशैव सखि ! ते सर्वं समाधास्यति । अत्र 'निशा' इत्यत्र 'ज्योत्स्नी' इति विशेषो वाच्यः । नियमेऽनियमो यथा-- यः क्षोणीपतिभिर्ललाटफलके सानन्दमाधीयते यद्दानेन पुरन्दरप्रभृतयस्तुष्यन्ति नाकौकसः । तस्याऽद्य प्रियचन्दनस्य शबरीगेहान्तरे सौरभ- श्रीखण्डीकृतनीरसेन्धनचये तत्रेन्धनत्वं वरम् ॥ अत्र 'सौरभमात्रश्रीखण्डीकृत' इत्यादि नियमो वाच्यः। नन्वनभिहितवाच्यत्वादस्य दोषस्य को भेदः । तत्राऽवश्यवक्तं व्याऽनभिधानमिह तु तदेवेति चेत् न, अस्य दोषस्य पृथग्भावे निय- माऽनभिधानमेव नियामकम् । न न्वेवं सत्यनयोः शब्दार्थगतत्वे किं मानमिति चेत्, उच्यते-शब्दोच्चारणाऽनन्तरमेवाऽनभिहितवाच्यत्वस्य प्रतिभानम्, इह त्वर्थप्रत्ययाऽनन्तरमिति भेदः । एवं चाधिकपदत्वादे- रनियमपरिवृत्तौ विशेषो बोध्यः । यदाहुः -- 'यो दोषः शब्दपरिवृत्त्यसहः स शब्ददोष एव । यश्च पदार्था- न्वयप्रतीतिबोध्यः सोऽपि शब्ददोषः । यश्चाऽर्थप्रतीत्यनन्तरं बोध्यः सोऽर्थाश्रयः' इति । त्यक्तपुनःस्वीकृतता यथा-- निजालयं धराधीश ! कीर्तिमारोपयाम्यहम् । नियोगं सत्वरं देहि तया स्तान्मे सितं गृहम् ॥ अत्र 'नियोगं सत्वरं' इत्यादिना समापितमपि 'तया' इत्यादिना पुनः स्वीकृतम् । यथा वा-- लग्नं रागावृताङ्ग्या सुदृढमिह ययैवाऽसियष्ट्याऽरिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती । तत्सक्तोऽयं न किञ्चिद्गणयति विदितं तेस्तु तेनाऽस्मि दत्ता भृत्येभ्यःश्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ॥ अत्र 'विदितं तेऽस्तु' इत्यादिना समाप्तिमपि 'तेन' इत्यादिना पुनः स्वीकृतम् । अनुवादस्याऽयुक्तता यथा-- सरोभूषण ! भृङ्गालिपरमप्रीतिवर्धन ! । वियोगिप्राणकाल ! त्वं वद पद्म ! क्व सा प्रिया ॥ अत्र 'वियोगिप्राणकाल' इत्यस्यार्थो नाऽनुवाद्यः । ग्राम्यता यथा-- तत्रैवास्तरणे भार्ये ! स्वपिम्यहमनुक्षणम् । तद्वहिः कुरु वासस्त्वमूरुयुग्मे विकासय ॥ अत्र ग्राम्योऽर्थः । अश्लीलता यथा-- वैदग्ध्यविदुषां पुंसां साङ्कुरस्य सुखावहा । यथा कर्कशता प्रायो न तथैवाऽऽर्द्रता पुनः ॥ अत्र स्त्रीव्यञ्जनस्य प्रतीतिरित्यश्लीलता ॥ इति श्रीमैथिलश्रीगङ्गानन्दकवीन्द्रकृतौ काव्यडाकिन्यां चतुर्थी दृष्टिः ॥ अथ रसदोषानाह-- स्वशब्देन रसस्योक्तिः सञ्चारिस्थायिनोरपि ॥ परिग्रहो विभावादेर्विरोधिरसवर्तिनः ॥ १ ॥ अतिकृच्छ्रादभिव्यक्तिरनुभावविभावयोः ॥ अङ्गिनोऽननुसन्धानं तथा दीप्तिः पुनः पुनः ॥ २ ॥ अकाण्डे प्रथनच्छेदावनङ्गपरिकीर्तनम् ॥ अङ्गस्याऽत्यन्तविस्तारः प्रकृतीनां विपर्ययः ॥ ३ ॥ एतादृशो रसे दोषाः सुधीभिः परिकीर्तिताः ॥ रसस्य रसशब्देन शृङ्गारादिशब्देन वा कथनं दोषः । यथा-- दरस्मेरसरोजाक्षीं पश्यतः पुरतो मम । विषयेभ्यो रसः कोऽपि न्यवर्तयत मानसम् ॥ यदा हरिणशावाक्षी मदन्तिकमुपागता । सखे ! तदानीमभवं शृङ्गारमयमानसः ॥ व्यभिचारिणः स्वशब्देन कथनं यथा-- आक्रम्य विषमं वर्त्म समायाताऽपि सन्निधिम् । आलिङ्गने सलज्जाऽभूत्प्रियस्य मृगलोचना ॥ अत्र 'सलज्जा' इत्यत्र 'विनम्रा' इति वाच्यम् । स्थायिनः स्वशब्दवाच्यत्वं यथा-- सीतापहारगर्विष्ठे रूक्षं जल्पति रावणे । बभूव समरे क्रोधः सद्यः पवनजन्मनः ॥ अत्र क्रोधः स्थायी । रसाद्युपस्थितिरनुभावद्वारैव चमत्करोति, न पुनः स्वशव्देनेत्यस्य दूषकताबीजम् । प्रतिकूलविभावव्यभिचारिग्रहो यथा-- नवघननिचिते गगने प्रणतिपरे प्राणनाथेऽस्मिन् । विधुमुखि ! भव प्रसन्ना न पुनः समुपैति निर्गतः समयः ॥ अत्र शृङ्गारप्रतिकूलस्य शान्तस्याऽनित्यत्वप्रकाशनरूपो विभावस्त- द्व्यञ्जितश्च निर्वेदो व्यभिचारी गृहीतः । निर्वेदस्य प्रातिकूल्यं शान्त- स्थायित्वप्रतीत्यैव, न तु शृङ्गारव्यभिचारित्वेन । प्रतिकूलानुभावग्रहो यथा-- प्रच्छन्ने दृक्पथं याते दयिते गुरुसन्निधौ । सर्व सद्मनि सन्त्यज्य वनं व्रजति सुन्दरी ॥ अत्र सर्वसन्त्यागो वनगमनं च शान्तानुभावौ इन्धनाद्याहरणच्छ- लाभावात् शृङ्गारस्य प्रतिकूलौ । अनुभावस्य कष्टव्यक्तिर्यथा-- वहति पटरिसमीरे नवजलधरबन्धुरे नभसि । किञ्चिदुदञ्चिन्नयना दृष्टिपथं सा गता यूनः ॥ अत्र शृङ्गारस्य पटीरसमीरादिरूपोद्दीपनविभावनायिकारूपालम्ब- नविभायावनुभावाऽपर्यवसायिनौ स्थितावित्यनुभावस्य कष्टकल्पना । न च 'किञ्चि'दित्यादिनाऽनुभावकथनमिति वाच्यम्, यन्निष्ठो रसस्तन्निष्ठा- नुभावस्य वक्तव्यत्वादिह तु नायकनिष्ठे रसे तन्निष्ठानुभावस्य कथना- भावात् 'किञ्चि'दित्यादिना नायिकानिष्ठानुभावकथम् । विभावस्य कष्टव्यक्तिर्यथा-- बहुशो विलुठति मोहं व्रजति रतिं द्रागपाकुरुते । अयमतिविकलः सम्प्रति करोमि किं तन्न जानीमः ॥ अत्र विलुठनादीनां करुणादावपि सम्भवात् कामिनीरूपस्य वि- भावस्याऽतिकृच्छ्रादभिव्यक्तिः । अङ्गिनोऽननुसन्धानं यथा रत्नावल्यां चतुर्थेऽङ्के बाभ्रव्यागमने सति सागरिकाया विस्मृतिः । दीप्तिः पुनः पुनर्यथा कुमारसम्भवे रतिप्रलापे । अकाण्डे प्रथनं यथा वेणीसंहारे द्वितीयेऽङ्के ऽनेकसङ्क्षये वृत्ते भानु- मत्या सह दुर्योधनस्य शृङ्गारवर्णने । अकाण्डे छेदो यथा वीरचरिते द्वितीयेऽङ्के राघवभार्गवयोर्धाराधिरू- ढेऽन्योन्यसंरम्भे 'कङ्कणमोचनाय गच्छामि 'इति राघवस्योक्तौ । अनङ्गपरिकीर्तनं यथा मम मन्दारमञ्जर्या राज्ञः स्वयं कृतं वसन्त- वर्णनमनादृत्य बन्दिवर्णनप्रशंसनम् । अङ्गस्याऽत्यन्तविस्तारो यथा किरातार्जुनीये सुराङ्गनाविलासादिः । प्रकृतयो दिव्या अदिव्या दिव्याऽदिव्याश्च धीरोदात्तधीरोद्धतधी- रललितधीरप्रशान्ताः । वीररसप्रधानो धीरोदात्तः । रौद्ररसप्रधानो धीरोद्धतः । शृङ्गाररसप्रधानो धीरललितः । शान्तरसप्रधानो धीर- प्रशान्तः । एते चोत्तममध्यमाऽधमाः । एतेषु यो यथाभूतस्तस्याऽन्य- थावर्णने प्रकृतिविपर्ययो दोषः । अत एवाऽनर्घ्यराघवे रामायणसिद्धः प्रहर्ता श्रीरामस्तं परिहृत्य 'काणीचकार चरमः' इत्यादिना लक्ष्मणेन काकोपरि ब्रह्मास्त्रप्रयोगः कृत इत्युपनिबद्धम् । अन्यथा वीररसप्रधा- नस्य रामस्य तादृशकर्मवर्णने प्रकृतिविपर्ययो दोषः स्यात् । 'एतादृशः' इति । कान्तापादप्रहारेण कान्तस्य कोपवर्णनादिरूपा इत्यर्थः । यथा-- नमयन्नेव मूर्धानं मनस्विन्या हतः पदा । अत्यन्तारुणदृक्कान्तो बभूव स्फुरिताधरः ॥ इत्यादि । पूर्वोक्तानपि दोषान्नाऽतिक्रामन्त्यलङ्कृतेर्दोषाः ॥४॥ 'पूर्वोक्ता' निति । शब्दार्थगतानित्यर्थः । तथा हि-- प्रसिद्ध्यभावो वैफल्यं तथा वृत्तिविरोधिता ॥ अनुप्रासगता दोषास्त्रय एते प्रकीर्तिताः ॥ ५ ॥ अनुप्रासस्य प्रसिद्ध्यभावो दोषः प्रसिद्धिविरुद्धत्वेन गतार्थः । वैफल्यं पुनरपुष्टार्थत्वेन गतार्थम् । वृत्तिविरोधस्तु प्रतिकूलवर्णत्वेन लब्धार्थः । क्रमेण यथा-- करं किरीटी वदनं विवस्वान् पदं पृथा चक्षुरपि क्षपेशः । रूपं रमा यस्य यमो यशांसि स्तौति स्तवैः, सोऽस्तु हरिर्हिताय ॥ अत्राऽनुप्रासानुरोधेन स्तुतिः कृता, न पुनः पुराणादिना तथा कथितमस्तीति प्रसिद्धिविरोधः । करकलितकनककङ्कणनिक्वाणः कर्णयोरनयोः । सहचरि ! सहजमनोहरचरणे ! किं सौख्यमाख्याति ॥ अत्र विवक्षितविवेकेन वाच्यार्थस्य न काऽपि चारुतेत्यपुष्टार्थतै- वाऽनुप्रासस्य वैफल्यम् । कष्टमिष्टेन संश्लिष्टा स्पष्टदष्टौष्ठसम्पुटा । दृष्ट्या निश्चेष्टयाऽचष्ट बिम्बौष्ठी नष्टचेष्टताम् ॥ अत्र श्रुत्युद्वेजकवर्णन्यासः शृङ्गारे न युज्यत इत्युपनागरिकावृत्ति- विरोधः । हरिणायतनेत्राणां हरिणा वंशिकास्वनैः । हृते चित्ते बभुवुस्ता हरिणाननकान्तयः ॥ अत्र यमकस्य पादत्रयगतत्वेन यमनं दोषः, सोऽप्रयुक्तत्वेन गतार्थः । परिमाणजातिगतं न्यूनत्वमधिकत्वं चा यत्रोपमायामुपमानस्य, तत्र सहचरभिन्नत्वं दोषः । क्रमेण यथा-- प्रालेयभूभृतः शैत्यमासीच्चन्दनबिन्दुवत् । चाण्डाल इव कर्माणि कृतवानसि साम्प्रतम् ॥ रसातलसमा नाभिः सुमेरुसदृशौ स्तनौ । भूचक्रसन्निभा श्रोणी त्रैलोक्यं तव जृम्भते ॥ चक्रवाकोऽयमध्यास्ते पद्मासन इवाम्बुजम् । इत्यादावमहद्भिः सह महतां महद्भिः सहाऽमहतां चौपम्याभिधानं सहचरभिन्नत्वपर्यवसन्नम् । उपमाप्रयोजकसाधारणाश्रयत्वे न्यूनाधिकत्वे न्यूनपदत्वाधिकप- दत्वयोरन्तर्भवतः । क्रमेण यथा-- कर्णोल्लसद्भास्वरकुण्डलाभ्यां नेत्राञ्जनेनाऽऽस्यमिदं त्वदीयम् । शरन्निशानाथ इवाऽवभाति पार्श्वस्थिताभ्यां गुरुभार्गवाभ्याम् ॥ अत्रोपमानस्य नेत्राञ्जनस्थानीयो लाञ्छनरूपो धर्मः केनाऽपि प्रकारेण नोक्त इति हीनपदत्वम् । तं पयोदमिव वीक्ष्य सशम्पं वेपमानकमनीयकलापाः । ताण्डवानि विदधुस्तरुखण्डे दण्डकाननशिखण्डियुवानः ॥ अत्रोपमेयदिशि सीताया अनुपादानात् शम्पाग्रहणमतिरिक्तमि- त्यधिकपदत्वम् । लिङ्गवचनभेदेऽपि उपमानोपमेययोः साधारणो धर्मश्चेदसाधारणः क्रियते, तदा तद्धर्मस्योपमानोपमेयान्यतरान्वयः । विशेषणसहितस्यो- पमानत्वमुपमेयत्वं वाऽध्याहारेणाऽप्यन्वयो धर्मस्य चेत्तदा तद्विशिष्ट- स्योपमानत्वाद्यस्फुटमित्येव क्रमभङ्ग इत्यस्य भग्नप्रक्रमत्वेऽन्तर्भावः । यथा-- यत्तारुण्यतरङ्गिताम्बुजदृशो मध्यस्थलीवाऽस्फुटं यत्प्राणा इव कामिनोः कुलभुवोरद्वैतमभ्यागतम् । अश्रान्ताकुलकान्तकेलिविगलत्काञ्चीत्रयं निर्गुणं ज्ञेयं यन्न कुलाङ्गनाप्रणयवद्वन्दामहे तन्महः ॥ अत्र स्त्रीलिङ्गावरुद्धोपमाने अस्फुट इति नाऽन्वेति । 'अभ्यागतम्' इत्यस्याऽपि बहुत्वावरुद्धोपमानेऽनन्वयः । यत्तु 'इष्टः पुन्नपुंसकयोः प्रायेण' इति सूत्रेण वामनाचार्येण लि- ङ्गवचनभेदस्याऽदोषत्वमुक्तं, तत्तिङन्तपदप्रतिपाद्यसाधारणधर्मान्वये बोध्यम् । तेन 'चन्द्र इव मुखं भाति' 'पास्यामि वदनं तस्याः पुष्पं मधुलिहो यथा' इत्यादि सङ्गच्छते । श्लेषमर्यादया यत्र पदं साधर्म्यवाचकम् ॥ उभयान्वयि तत्राऽपि नाऽस्य दोषस्य संस्थितिः ॥ ६ ॥ वाचा सुधामुचा भासि करेणेव सुधाकरः । इत्यादावुपमानोपमेययोर्लिङ्गवैषम्येऽपि 'सुत्रामुचा' इति विशेषणमु- भयत्राऽन्वेतीत्यस्खलितैव धीरुत्पद्यते । नीलरूपभृतः केशो निरानन्दितबर्हिणः । दघते तन्वि ! ते शोभां नूतना जलदा इव ॥ अत्र 'दधते' इति रूपं दध्धारणधातोरेकवचनान्तं दधातेश्च बहु- वचनान्तं भिन्नवचनयोरुपमानोपमेययोरन्वेति । एवं च 'नीलरूपभृत' इति 'निरानन्दितबर्हिणः' इति चोभे विशेषणे एकवचनान्तबहुवचनान्ते तयोरेवाऽन्विते भवतः । कालस्य भेदो दोषोऽत्र भग्नक्रप्रमतां गतः ॥ अत्र उपमानोपमेय प्रस्तावे । यथा-- सरस्वतीव शरदि प्रससाद प्रिया तव । इत्यादी सरस्वती प्रसीदति न तु प्रससाद इति कालभेदो भग्न- प्रक्रमतायां तिरोहितः । पुरुषस्य भवेद्भेदो विध्यादेश्च तथा मतः ॥ ७ ॥ प्रथममध्यमोत्तमरूपस्य पुरुषस्थाऽप्राप्तप्रापणरूपविधेश्च भेदो वि- स्खलितबोधजनकतया भग्नप्रक्रमान्तर्भावे मतः । क्रमेण यथा-- अनया कान्तिच्छटया विद्युदिवाऽऽभासि कमलनेत्रे ! त्वम् । इत्यादौ विद्युदाभाति न त्वाभासीति सम्बोध्यमानकामिनीनिष्ठ- मध्यमपुरुषभागोऽस्ति तस्याऽसम्बोध्यमानविद्युद्विषयतया व्यत्या- सात् पुरुषभेदः । शेष इव भूमिभारं वहतु भुजस्ते धराधीश ! । इत्यादौ भूमिभारवहनविद्यमानत्वाच्छेषो भूमिभारं वहति न तु वहतु इति । अप्राप्तप्रापणरूपस्य विधेरभावात् । एवमादिरूपोऽर्थो यत्रो- पमानगतत्वेनाऽसम्भवी तत्रापि विध्यादिभेदो बोध्यः । ननूपमाप्रयोजकसाधारणधर्म एव कालादिभेदहेतुस्तस्मात्कालादि- हेतुभिन्नं शाब्दमाशिष्यमाणं वा धर्मान्तरमुपादायोपमापर्यवसानं भवि- ष्यतीत्यतो दोषत्वमेव नाऽस्य, क्व पुनः पूर्वोक्तदोषेष्वन्तर्भावः । यत्र तु 'युधिष्ठिर इवाऽयं सत्यवादी सत्यं वदाति' इति, अत्राऽतीतवर्तमानरूपका- लभेदे सत्यपि सत्यवादित्वरूपेण समानधर्मेणोपात्तेनोपमाप्रतीति- रस्खलितैव । कालभेदस्य तत्राऽप्रयोजकत्वादिति चेत्, सत्यम् । परन्तु स्थितष्वेतत्समर्थनं, न तु सर्वथा रमणीयम् । अथ वा सहृदया एवात्र प्रमाणम् । उपमायामसम्भवोऽनुचितार्थत्वेन व्याप्तः । यथा-- भाति पाणितले तन्चि ! कस्तूरशिकलं तव । प्रातरुत्फुल्लपाथोजे तमःखण्डमिव श्रितम् ॥ अत्र प्रातःकाले पद्मे तमःखण्डावस्थानमसम्भवीत्यर्थोपनिबन्ध- नमनुचितम् । असादृश्यमुपमायामनुचितार्थत्वपर्यवसन्नम् । यथा-- त्वदीयं धरणीपाल ! दानपाथोजकारणम् । पश्यामि करकासारं खड्गशैवालशोभितम् ॥ अत्र दानस्य पाथोजेन, करस्य च कासारेण, खड्गस्य शैवालेन क्वचि- दपि साम्यं नाऽवगम्यत इत्यनुचितार्थता । ननु खड्गस्य शैवालस्य च न किञ्चित सादृश्यमस्तीति चेत् न, करस्य कासारनुल्यत्वे सिद्धे ख- ड्गस्य शैवालतुल्यता सिद्धयेत् । न हि करस्य कासारसादृश्य हेतुः कश्चिद्गुणः प्रतीयते येन खड्गस्य शैवालतुल्यता सिद्धयेत् । यद्यपि 'व्यनक्ति निन्दास्तोत्रे यत्' इत्यादिनाऽनुचितार्थत्वस्य शब्दनि-ष्ठत्वेनाऽभिधानात्कथमनयोर्दोषयोस्तस्मिन्नन्तर्भावः, तथाऽपि काल- लोक प्रसिद्धिविरोधावुपमायामनुचितार्थत्वेन व्यपदिष्टौ, न तु पूर्वोक्ता- ऽनुचितार्थता । उत्प्रेक्षायामपि 'मन्ये ध्रुवेवादयः शब्दाः सम्भावनं कर्तुं शक्नुव- न्ति, न तु यथाशध्दः । तस्य साम्यमात्रप्रतिपादकत्वात् साम्यस्था- ऽस्यामविवक्षितत्वादित्यवाचकत्वं दोषः । अयं भाति धराधीशः करवालभयङ्करः । रणे परिगृहीताः साक्षाद्वीररसो यथा ॥ उत्प्रेक्षितोऽप्यर्थो विविध्यमानः सन्नसत्कल्पतयोपाख्यामाऽनर्हस्तत्स- मर्थनायाऽर्थान्तरन्यासः क्रियते स वामनकराकृष्यमाणश्चन्द्र इवाऽत्य- न्तमसत्य इत्यस्य निर्विषयत्वादपुष्टार्थत्वरूपमनौचित्यम् । यथा-- रविदर्शनहर्षेण प्रोत्फुल्लं भाति पङ्कजम् । नूनं मित्रावलोकेन वर्द्धन्ते जगतां मुदः ॥ अत्राऽचक्षुषः पङ्कजस्य दर्शनमेव नास्ति कुतस्तजनितो हर्षः, कथं वा तत्समर्थनाय लब्धपदोऽर्थान्तरन्यासः स्यात् । तस्मादुत्प्रेक्षितोऽर्थो भासमानः सन्न काञ्चिदप्यनुपपत्तिमधगाहते किमर्थं तत्समर्थनाय यत्नः । समासोक्तिरपि साधारणविशेषणमहिम्नोपमानविशेषमुपपादय- ति । तस्याऽत्र पुनरुपादानं पुनरुक्ततायामपुष्टार्थतायां वा पर्यवस्यति । करेणाऽऽलिङ्गति प्राचीं हरितं तिग्मरोचिषि । निःप्रभेन्दुमुखी सद्यो बभूवाऽपरदिग्वधूः ॥ अत्र तिग्मरोचिषः प्राच्याश्च लिङ्गविशेषमहिम्ना 'करेण' इत्यत्र च श्लेषमर्यादया नायकत्वादिप्रतीति, स्तथैवाऽपरदिशः प्रतिनायिकात्वं भविष्यति किमर्थं वधूपदोपादानम् । ननु श्लेषे सत्युपमानोपादानस्या- ऽऽवश्यकत्वा,दन्यथा श्लिष्टपदोपादानप्रयासो व्यर्थः स्यादिति चेत्, मै- वम् । यत्रोपमानोपादानं विना साधारणविशेषणमहिम्ना नोपमानप्रती- तिस्तत्र श्लेषोपमाया अवतारः । यथा-- पृथुलकुचा मदनवती तिलकयुता सालकाननोद्दीप्ता । मदकलकोकिलवाणी मधौ बनीवाऽङ्गना जयति ॥ पवमप्रस्तुतप्रशंसायामपि सामान्येन रूपेणोपमानप्रतीतौ सत्यामु- पमानोपादानं दोषः, स चाऽपुष्टार्थत्वेन पुनरुक्तत्वेन वा व्याप्तः । यथा-- कर्तुं वाञ्छति झिल्लिका परभृतालापानुकारं वने जम्बूकोऽपि पराक्रमं मृगपतेः सम्प्राप्तुमाकाङ्क्षति । भेको निन्दति गर्जितं जलमुचां प्रायः स्वकीयं बलं जन्तुः क्षुद्रतरो न वेत्ति हिमकृत्स्पर्द्धीव खद्योतकः ॥ अत्र खद्योतस्याऽप्रस्तुतप्रशंसया सामान्यमुखेनाऽवगतौ तदुपादानं व्यर्थम् । तदन्येषामेवप्रायाणामप्यलङ्कारदोषाणां पूर्वोक्तदोषेष्वन्तर्भावो बोध्यः । प्रसङ्गादाह-- क्वचिद् गुणत्वं दोषस्य क्वाऽप्यदोषत्वमुच्यते ॥ 'गुणत्वं' इति मुख्यगुणानुकूलत्वात् दोषस्य गुणत्वव्यपदेश इत्यर्थः । वाच्ये समुद्धते व्यङ्ग्ये गुण: स्याच्छ्रोत्रकाटवम् ॥८। समुद्धते वाच्ये सिंहादौ, समुद्धते व्यङ्ग्ये रौद्रादौ श्रोत्रकटुत्वं गुणः 'समुद्धते' इति । 'काकाक्षिगोलक' न्यायेनोभयत्राऽन्वयि । क्रमेण यथा-- रे शार्दूलगणा ! मनागपि भवद्वासोऽत्र न श्रेयसे यूयं शूकरयूथपाः ! प्रियतमासार्थेन निर्गच्छत । चक्षुःक्रूरकटाक्षवीक्षणपरिक्षिप्ताऽसुमत्तद्विप- द्रोहोद्रेकनिराससालसमितः पञ्चामनः क्रीडति ॥ अत्र सिंहे वाच्ये श्रोत्रकटुत्वं गुणः । दन्ताकृष्टविदष्टसाऽस्थिपललव्राताऽतिनिर्यन्त्रण- क्रूराक्रान्तिसमद्भवत्कटकटत्कारक्रियाभैरवः । हस्तव्यस्तशवालिमस्तकसरन्मज्जाम्बुनिर्वाापित- प्रौढप्राप्तचिताग्निकटतमः प्रेतोऽयमुज्जृम्भते ॥ अत्र बीभत्सरसे व्यङ्ग्ये गुणत्वं परुषवर्णानाम् । वैयाकरणे वक्तरि श्रोतरि वा श्रोत्रकाटवमदोषः ॥ उभयं यथा- व्रजन्तीमन्तिके काञ्चिदुदञ्चिन्नयनां सखे !॥ मृगचक्षुषमद्राक्षं निर्निमेषेण चक्षुषा । अत्र वक्तृश्रोत्रोर्व्याकरणस्य सतसाऽऽसङ्गात् परुषवर्णा न श्रुत्यु- द्वेजकाः । न दोषौ निहतार्थत्वाऽप्रयुक्तत्वे क्वचित् पुनः ॥ यथा- नेत्रं यः कमलापतेर्जनयति प्रौढप्रमोदावली- र्यः पाथोजगणेषु यः क्षितिभुजां बीजं जगद्विश्रुतः । यं छायापतिमूचिरे कृतधियो यश्चान्धकारापहः सोऽयं सत्फलदायको हिमरुचिः पायादपायाज्जनान् ॥ अत्र हिमरुचिपक्षेपाथोजछायापतिशब्दौ निहतार्थाऽप्रयुक्तौ न दुष्टौ । अश्लीलत्वं गुणः क्वाऽपि । स्पष्टम् । शान्तोक्तौ-- दुर्गन्धिशटितक्रव्यसदृशे साधने स्त्रियः । रतिर्न दृश्यते प्रेतरङ्कादन्यस्य कस्यचित् ॥ यथावा वेणीसंहारे-- निर्वाणवैरिदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ अत्र दुर्योधनादीनां भाव्यमङ्गलसूचनम् । कामशास्त्रे गोपनीयं वस्तु नानार्यैः पदैः सूचनीयमिति राद्धान्तः । यथावा कामशास्त्रे-- करिहस्तेन सम्बाधे प्रविश्यान्तर्विलोडिते । उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते ॥ सन्दिग्धत्वं तथा भवेत् ॥ 'तथा' इति । प्रकरणवशाद्वाच्यविशेषनिर्णयाभावेन यत्र वाक्यस्य व्याजस्तुतिपर्यवसानं, तत्र पदानां सन्दिग्धत्वं गुणो भवेदित्यर्थः । यथा-- विलक्षणगृहो लक्ष्मीपरिशीलनवर्द्धितः । विराजसे धरापाल ! भूतलेऽहमिव स्वयम् ॥ यथा वा-- पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव ! । विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् ॥ तत्वज्ञे प्रतिपाद्ये गुणो भवेदप्रतीतत्वम् ॥ ९ ॥ यथा- तमसा दृढपाशेन प्रतिरुद्धो भवान्तरे । कुतो रजःपरं सत्त्वमधिरोहत्वयं जनः ॥ अतिनीचस्वभावेषु ग्राम्यता गुण इष्यते ॥ याथा-- फुल्लाइं ताइं रमणिज्जअराइं दाणिं मल्लीतरुण (?) मह चित्तपिआइं होंति । रुएहि दुद्धदहिभत्तमणोहरेहि कुंजाइं जाइं सहसा धवलीकुणंति ॥* अत्र विदूषकस्योक्तौ दुग्धादिशब्दो ग्राभ्यः । वर्णानां प्रतिकूलत्वं गुणत्वेन मतं क्वचित् ॥ १० ॥ यथा-- रङ्को ! रङ्कजनाय पङ्कजदृशो वृत्तान्तमाख्यादि मे सा नाऽऽलोकि मयेति शृङ्गचलनव्याजाद्ब्रवीषि स्फुटम् । वातोद्वेल्लितनीलनीरजदलोद्दामद्युतिद्रोहिणी तद्दृष्टिर्यदि नेक्षिता निजदृशोः प्राप्तं चलत्वं कुतः ॥ अत्र 'मया नाऽऽलोकि' इत्यनेन क्रुद्धस्य नायकस्योक्तौ दीर्घसमास- त्वमुद्धतवर्णगुम्फश्च गुणः । न गुणत्वं न दोषत्वं नीरसेष्वस्य दृश्यते ॥ यथा-- पक्षक्षेपणलक्षवन्दनपरैः प्रातः स्तुतः पक्षिभिः क्षिप्रक्षीणतमोऽन्तरिक्षविलसत्क्षेमक्षमाच्छच्छविः । क्षिप्ताक्षुद्रकुलक्षणक्षितिजनाक्षैण्यप्रदो भास्करः प्रक्षुब्धक्षणदाचरक्षयकरोऽक्षेमं क्षिणोतु क्षणात् ॥ नन्वत्र रविविषयकरतिभावोऽस्ति रसपदेन तस्याऽप्यभिधाना- दिति चेत्, सत्यम् । नीरसत्वं रसाSतात्पर्यकत्व, मिह तु कवेरनुप्रासनि- र्वाहे तात्पर्यसत्वात् । ------------------------------------------------------------------- * पुष्पाणि तानि रमणीयतराणीदानीं मल्लीतरुणां मम चित्तप्रियाणि भवन्ति । रूपे र्दुग्धदधिभक्तमनोहरैः कुञ्जानि यानि सहसां धवलाकुर्वन्ति ॥ इतिच्छाया [ संशोधकः ] समाप्तपुनरात्तत्वं न दोषो न गुणः क्वचित् ॥ ११ ॥ 'क्वचित्' इति । यत्राऽन्यदेव वाक्यं विधीयते तत्रेत्यर्थः । यथा प्रागु- दाहृते 'उद्दामद्युती'त्यादौ 'पाञ्चाली'त्यादेग्रहणं वाक्यान्तरविधानाय, न पुनर्विशेषणदानाय । यत्र तु समाप्ते वाक्यार्थे विशेषणं विधीयते तत्र दोषः । गुणः पतत्प्रकर्षव्वं कत्रचित्तु निगद्यते ॥ यथा पूर्वोदाहृते 'उद्दमद्युती'त्यादौ चतुर्थपादे रौद्ररसाभावादनु- द्धतारचना गुणः अर्थान्तरसङ्क्रमिते वाच्ये विहितस्य चाऽनुवाद्यत्वे ॥ लाटानुप्रासार्थे कथितपदत्वं गुणो भवति ॥ क्रमेण यथा-- नाट्यं नातिसुखं मदीय रसनारङ्गे रसास्वादन- स्निग्धे ! लास्यनिधे ! बत प्रतिपदं वाणि ! स्खलन्त्यास्तव । उत्प्रेक्षातिशयोक्तिपूर्वकपदन्यासं पुनस्तन्वती नृत्यस्यत्र यदा तदा भगवति ! स्यात्ताण्डवं ताण्डवम् ॥ अत्र द्वितीयताण्डवपदं लोकानुरञ्जकत्वलक्षणेऽर्थे सङ्क्रान्तम् । व्युत्पत्तिः काव्यहेतुः स्यादर्थः काव्यादवाप्यते । अर्थाप्त्या जन्यते कीतिर्जाता कीर्तिः स्वरास्पदम् ॥ अत्र काव्यादीनामुत्तरोत्तरं प्रति तदा कारणता निर्वहति यदि तेनै- व पदेन सर्वनामपदेन वा कथ्यतेऽतो विहितस्याऽनुवाद्यत्वे कथितपद- त्वं गुणः । सुधारुचिरुचिद्योतिद्योतिलोकत्रये यशः । तव भाति धरापाल ! धरापालकृतानते ! ॥ न्यूनपदत्वं क्वचिदप्यदूषणं कुत्रचित्तु गुणः ॥ कमेण यथा -- एतद्वारिरुहं भवेत्पुनरितः पाथो न सन्दृश्यते चन्द्रोऽयं हरते दृशौ दिशि सरत्यस्य प्रकाशोऽहनि । आनन्दः प्रकटीभवत्ययमितः सोऽमूर्तिमान् विश्रुतः कान्ताऽऽलाम्बि मुखं किमेतदिति मे चेतो मुहुर्मुह्यति ॥ अत्रोत्तरवाक्यस्य पूर्ववाक्यनिषेधं प्रति हेतुत्वप्रतिपत्तये 'नैतद्यतः ' इति पदानि न्यूनानि दातुमुचितानि, विशेषप्रतीत्यजनकतया पुनस्तानि नोपात्तानि, अतो न गुणः । न वा पूर्वप्रतीतिमुत्तरा प्रतिपत्तिः स्थगय- स्यतो न दोषः । बाध्यबाधकभावस्त्वर्थादेव लब्धः । गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा । 'मा मा मानद ! माति मामल'मिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृतानु किं मनसि मे लोना विलीना नु किम् ॥ अत्र 'माऽति' इत्यत्र 'पीडय' इति न्यूनपदस्य रसपोषकतया गुणत्वम् । गुणोऽधिकपदत्वं तु धीरैः कुत्राऽपि कथ्यते ॥ यथा-- शिखिपिच्छधरः क एष भित्तौ लिखितोऽस्तीति सखीजनेन पृष्टा । न न वक्ति परं तु वक्ति राधा वपुरुद्यत्पुलकाङ्कुरच्छलेन ॥ अत्र द्वितीयं 'वक्ति' इति पदमन्ययोगव्यवच्छेदाय । यथा वा काव्यप्रकाशे-- वद वद जितः स शत्रुर्न इतो जल्पन् तव तवाऽस्मीति । चित्र चित्रमरोदीद्धा ! हेति परं मृते पुत्रे ॥ इत्यादौ हर्षशोकाद्यविष्टे वक्तरि अधिकपदत्वं गुणः । अपदस्थसमासत्वं गुणः कुत्राऽपि कथ्यते ॥ 'रङ्को ! रङ्कजनाय पङ्कजदृशो वृत्तान्तमाख्याहि' इत्यादौ कुपितस्यो- क्तौ 'वाताद्वेल्लित' इत्यादिना समासविरचना गुणः । सङ्कीर्णत्वं गुणः क्वाऽपि सुधीभिः परिगद्यते ॥ यथा-- त्वामेव पश्यति स्वप्ने ध्यायति त्वां च जाग्रती । सर्वदा सा कुरङ्गाक्षी जानीहि त्वत्परायणा ॥ अत्र 'जानीहि' इति दृढप्रत्ययोत्पादनाय गुणः । क्वाऽप्यपुष्टत्वमर्थानामदोषः परिकीर्तितः ॥ 'अर्थानां' इति बहुवचनमविवक्षितम् । यथा-- कर्णावतंससंशोभी शिरःशेखरवानयम् । धनुर्ज्यालक्ष्मणा भूयः शोभते बाहुना रणे ॥ अत्र यद्यवप्यवतंसादि कर्णाद्याभरणमेव, तथाऽपि कर्णाशिरःशब्दावव- तंसादेः कर्णादिसान्निध्यप्रतिपत्त्यर्थम् । धनुःशब्दोऽप्यारुढिप्रतिपत्त्यर्थ- मुपानत्तः । केवलस्तु ज्याशब्दो नारोहणप्रतिपत्तये । यथा-- गतं कुत्र दशग्रीव । बाहोर्वीर्यं तदाऽस्य ते । सहस्रबाहुना गाढं ज्याबन्धोऽस्मिन् कृतो यदा ॥ अत्र निरुपपदो ज्याशब्दः । एवं श्रवणकुण्डलपदमपि श्रवणसा- न्निध्यबोधनाय बोध्यम् । हारपदेन मुक्ताहार एवोच्यते, मुक्ताशब्दो- पादानं हारस्य केवलमुक्ताघटितत्वबोधनाय । तेन मुक्तापदप्रयोगः । पुष्पमालेव बालेयं कस्य नामोदहेतवे । इत्यादौ मालाशब्दन पुष्पशब्दस्य गतार्थत्वात् पुष्पशब्दोपादानं पुनरुत्कृष्टपुष्पप्रतीतये । केचित्तु 'जगाद मधुरां वाचं'इत्यादौ 'जगाव'इत्यनेनाऽवगतार्थस्या- ऽपि 'वाचं'इत्यस्य 'मधुरां' इत्यादिविशेषणदानार्थमुपादानमिच्छन्ति, तन्न । 'जगाद मधुरं' इति क्रियाविशेषणेनोपपत्तौ 'वाचं' इत्यस्य सर्व- थाऽनुपयोगः । यत्र तु गतार्थस्याऽपि क्रियाविशेषणेऽपि नाऽन्वयस्तत्र विशेष्यस्य प्रयोगः कार्यः । यथा-- चरणत्रपरित्राणहिताभ्यामपि द्रुतम् । पादाभ्यां दूरमध्वानं व्रजन्नेष न खिद्यते ॥ अत्र 'चरणत्रपरित्राणरहितं व्रजन्' इत्युक्ते सति तुरङ्गादिना गमन- सम्भवे तात्पर्यगोचराऽन्वयाऽनुपपत्तेरवश्यं पादाभ्यामिति प्रयोज्यम् । ननु शैलाऽधित्यकाकरिकलभकरिबृंहिताऽश्वहेषामयूरकेकादिश- ब्दप्रयोगेष्वधित्यकादिशब्दैर्गतार्थानां शैलादिशब्दानामपुष्टार्थत्वमिति चेत् न, अधित्यकादिषु दुरारोहत्वप्रौढिगाम्भीर्यमासलत्वमादकत्वादिप्र- तीत्यर्थं शैलादिशब्दाः प्रयुज्यन्ते । नन्वेवं यथाकथञ्चित्प्रयोजनसद्भा- वे कुत्राऽपि दोषो न स्यात् इति चेत्, सत्यम् । स्थितेष्वेतत्समर्थनम्, न तु सर्वथा रमणीयम् । जघनकाञ्चव्यादिपदं कचिभिरप्रयुज्यमानं कर्णाव- संसादिवन्न समाधेयम् । शाब्दिके प्रतिपाद्ये तु न दोषः कष्टता भवेत् ॥१५॥ यथा- आवयोरिह समानरूपयोरेकशेषमपराविलोकनम् । चेद्व्यधत्त कृतधीविधिर्विधिर्द्वन्द्वहूतिमकरोत्तदा कुतः ॥ विश्रुतेऽर्थे निर्हेतुत्वमदोषः परिकीर्तितः ॥ यथा कुमारसम्भवे-- चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥ अत्र 'न भुङ्क्ते' इत्यत्र रात्रौ पद्मनिमीलनं दिवसे चन्द्रस्य विच्छाय- त्वं हेतू, तयोश्च सुप्रसिद्धत्वादनुपादानं न दोषः । साकाङ्क्षत्वमदोषस्तु कुत्रचित्कथ्यते बुधैः ॥१६॥ यथा- मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा । वज्रमिन्द्रकरविप्रसितं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ! ॥ अत्र 'अघाङ्क्षीदभाङ्क्षीत्' इत्यादेरन्वयोऽध्याहारेणैव बोध्यः । सञ्चारिणः स्वशब्दोक्तिरदोषः परिकीर्तितः ॥ यथा 'औत्सुक्येन कृतत्वरा' इत्यादौ त्वरानुभावस्य भयादिनाऽपिस- म्भवेऽसाधारण्यं न प्रतीयतेऽत 'औत्सुक्येन' इत्युक्तम् । बाध्यत्वेनोदितो वैरी सञ्चायदिर्न दोषभाक् ॥१७॥ आदिशब्दादनुभावविभावौ । यथा -- संन्यासो वरमत्र मे विधुमुखी जायेत नेत्रातिथि- चन्द्रं चूर्णय तप्तकाञ्चनळतातुल्यं तदीयं वपुः । क्वाऽहं कुत्र पयोधरः खलवचो दुर्वारमास्रक्षते चाञ्चल्यं त्यज चित्त ! सञ्जलदृशोऽवस्था भवेत्कीदृशी ॥ अत्र निर्वेदौत्सुक्यामर्षस्मृतिवितर्कशङ्काधृतिचिन्तानां वैराग्यहेतू- नामपि बाध्यत्वाऽवगमाच्छृङ्गाराऽविरोधिनां 'भवेत्कीदृशी' इति चिन्ता यामेव विश्रामः । मुहुर्मुहुः कम्पमानं कृशं पाण्डु वपुस्तव । कथयत्यत्र तत्वङ्गि ! रोगं किञ्चिद्भवद्गतम् ॥ अत्र रोगानुभावादीनां कम्पकार्श्यादीनां बाध्यत्वेनोपात्तानामनुपा- त्तानां वा प्रकृतरससाधारण्यान्न रसविघातकता । यत्र त्वनुभावस्याऽसाधारण्यं तत्र बाध्यत्वाऽनवगमे दोषः । ममाऽस्ति सर्वथा तन्वि ! सर्वत्र समदृष्टिता । परिहृत्य दृढं मानं प्रयच्छाऽऽलिङ्गनानि मे ॥ इत्यादावनुभावस्य शृङ्गारविरुद्धस्य शृङ्गारे वर्णनमनुचितम् । सरोजनयनाः सौम्याः सत्यं सौम्यास्तु सम्पदः । मृणालीलतिकातन्तुनश्वरं किन्तु जीवितम् ॥ अत्र जीवनाऽस्थैर्यं शान्तमेव पुष्णाति, अतो बाध्यत्वेनोक्तः शृङ्गा- रविभावस्तमेव पुष्णाति । तथा चाऽत्र विरुद्धविभावोपादाने न दोषः । अनुकारे तु सर्वेषां दोषाणां स्याददोषता ॥१८॥ यथा- अद्राक्षं पक्ष्मलाक्षीनां कटाक्षानहमित्ययम् । ब्रूते पुनर्गवित्याह पुनर्दैवत इत्यपि ॥ अत्र 'कटाक्षान्' इत्यन्तं श्रोत्रकटुत्वं, 'गो'-इत्यत्र व्युतसंस्कृतित्वं, 'दै- वतः' इत्यत्राऽप्रयुक्तत्वं च न दोषः । पथमप्यन्येषामालोचनीयमिति ॥ इति श्रीमैथिलश्रीगङ्गानन्दकवीन्द्रकृतौ काव्यडाकिन्यां पञ्चमी दृष्टिः ॥