Proofing

✦
2023-12-12 15:22:02 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

६५२
 
[ क
तथायाम्-
तथा गत्या
 
गत्या गच्छतश्चातिमलिनपटच्चराच्छादितानसंस्कारम लिनकाया- या [^१]नने कोद्वबद्धा ध्वधूलिपरुष-
मूर्धजान्, ध्वजानिवाध्वक्लेशस्य, [^२]आश्रयानिव श्रमस्य, पदन्यासानिव दौर्मनस्यस्य, आवा
सानिव प्रवासस्य, संदर्भानिव सर्वदुःखानाम् , [^३]दूरत एव त्वरितकसमे-
तांस्ताँल्लेखहारकान् ।
आलोक्य च तस्मिन्नेव मातृगृहाङ्गणे स्थिता तेषामाहाह्वानायादिदेश ।
 
का

 
अनन्तरं चातर्कितापतित
दम्बरी ।
 
-
 
१
 
।
 
अनन्तरं चातर्कितापतितद
र्शन द्विगुणित दुःखावेगान्मुषितानिव, उन्मुक्तानिवेन्द्रियैः, दारु-
मयानिव शून्यशरीरान्, निर्जीवानिवोपस- र्पतः पुर [^४]स्तात्पतन्तीव बाष्पान्धा साध्वसस्खलित-
[^५]चरण- कमला कतिचिद्गत्वा पदानि, गें[^६]गद्गदतरमुच्चैरकृतप्रणामानेवा- वादीत् - 'भद्राः कथय-
ता
ताशु वत्सस्य मे [^७]वार्तामात्रम् । इदं त्वन्यथैव [^८]किर्मपि कथयति मे [^९]हृदयम्, अप्रत्ययमेवाश्र-

यते । वत्सो दृष्टो वा न भवद्भिः ?' इत्येवं पृष्टास्तु ते सहसागतबाष्प- वेगम व वनिनिवेशितो-
त्तमाङ्गाः प्रणामापदेशेनो [^१०]त्सृज्य कृच्छ्रा- दिवाभिमुखमुन्नमितवदना [^११]व्यज्ञापयन्– 'देवि, दृष्टोऽस्माभि- रच्छोदसरस्तीरे युवराजः । शेषमेष त्वरितको मिवेदयिष्यति ।' इत्यभिवदत एव तानुद्बाष्पमुखी प्रत्युवाच
 
[ टि ]-- उद्योगस्तेनायासितयायासं प्राप्तया गत्या गच्छतो व्रज- तोऽतिमलिनं यत्पटच्चरं जीर्ण [^1]वस्त्रम् । 'पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ' इत्यमरः । असंस्कारेणानधिवासनेन मलिनो मलाक्रान्तः कायो येषां तान् । अनेका विविधा उत्प्राबल्येन बद्धा लग्ना अध्वधूलयो मार्गरेणवस्ताभिः परुषाः कठिना मूर्धजाः केशा येषां ते तथा तान् । लग्नधूलिसाम्यादुत्प्रेक्षते - अध्वक्लेशस्य मार्ग- खेदस्य ध्वजानिव चिह्नानीव । 'ध्वजश्चिह्ने पताकायां ध्वजः शौण्डि-
कशेफसोः' इति विश्वः । श्रमस्याश्रयानिवाधारानिव, दौर्मनस्यस्या- प्रसन्नचित्तस्य पदन्यासानिव, प्रवासस्य परदेशगमनस्यावासानिवा- लयानिव, सर्वदुःखानां संदर्भानिव गुम्फानिव ।
 
 
अनन्तरं चेति । तदाह्वानानन्तरमतर्कितमचिन्तितमापतितं संजातं यद्दर्शनमवलोकनं तेन द्विगुणितो दुःखावेगो येषां ते तथा तान् । मुषितानिव चौरैर्लुण्ठितानिव, इन्द्रियैः करणैरुन्मुक्तानिव त्यक्ता- निव, दारुमयानिव काष्ठनिर्मितानिव शून्यशरीरान्, निर्जीवानिव विगतात्मन इव, उपसर्पतः समीप आगच्छतः पुरस्तात्पतन्तीव
संस्रवन्तीव बाष्पेणाश्रुणान्धा गताक्षा साध्वसं भयं किं कथयिष्य- न्त्येत इति वितर्कजनितं तस्मात्स्खलितं स्खलनां प्राप्तं चरणकमलं यस्याः सा तथा कतिचित्पदानि गत्वा गद्गदतरं यथा स्यात्तथा उच्चै- र्बाढस्वरेणाकृतप्रणामानेवाविहितनमस्कारानेव तानवादीत् । भद्राः, यूयमाशु शीघ्रं मे मम वत्सस्य वार्तामात्रं कथयत । इदं तु मे मम हृदयं चेतोऽन्यथैव किमपि कथयत्यप्रत्ययमेवाविश्वासमेवाश्रयते । मे मम वत्सो दृष्टोऽवलोकितो भवद्भिर्युष्माभिर्न वेति । इत्येवं पृष्टा- स्तु ते लेखहारकाः सहसैव सद्य एवागतो बाष्पवेगो यथा स्यात्तथा- वनौ निवेशितं स्थापितमुत्तमाङ्गं शिरो यैस्ते तथा प्रणामापदेशेन नमस्कृतिमिषेणो [^2]
त्सृज्य कृच्छ्रादिवाभिमुखमुन्नमितवंदना व्यज्ञापयन्– 'देवि,
दृष्टोऽस्माभिरच्छोदसरस्तीरे युवराजः । शेषमेष त्वरितको मितेदयिष्यति ।' इत्यभिवदत
एव तानुद्राष्पमुखी प्रत्युवाच
-
 
-
 
उद्योग स्तेनायासितयायासं प्राप्तया गत्या गच्छतो व्रजतोऽतिमलिनं यत्पटच्चरं जीर्णवेस्त्रम् । 'पटच्चरं जीर्णवस्त्रं
समौ नक्तककर्पटौ' इत्यमरः । असंस्कारेणानधिवासनेन मलिनो मलाक्रान्तः कायो येषां तान् । अनेका विविधा
उत्प्राबल्येन बद्धा लग्ना अध्वधूलयो मार्गरेणवस्ताभिः परुषाः कठिना मूर्धजाः केशा येषां ते तथा तान् । लग्न-
धूलिसाम्यादुत्प्रेक्षते - अध्वक्लेशस्य मार्गखेदस्य ध्वजानिव चिह्नानीव । 'ध्वजश्चि पताकार्यै ध्वजः शौण्डि-
कशेफसोः' इति विश्वः । श्रमस्याश्रयानिवाधारानिव, दौर्मनस्यस्याप्रसन्नचित्तस्य पदन्यासानिव, प्रवासस्य पर-
देशगमनस्यावासा निवालयानिव, सर्वदुःखानां संदर्भानिव गुम्फानिव ।
 
M
 
।
 
अनन्तरं चेति । तदाह्वानानन्तरमतर्कितमचिन्तितमापतितं संजातं यद्दर्शनमवलोकनं तेन द्विगुणितो दुःखा•
वेगो येषां ते तथा तान् । मुषितानिव चौरैर्लुण्ठितानिव, इन्द्रियैः करणैरुन्मुक्तानिव त्यक्तानिव, दारुमयानिव
काष्ठनिर्मितानिव शून्यशरीरान्, निर्जीवानिव विगतात्मन इव, उपसर्पतः समीप आगच्छतः पुरस्तात्पतन्तीव
सन्तीव बाप्पेणाश्रुणान्धा गताक्षा साध्वसं भयं किं कथयिष्यन्त्येत इति वितर्कजनितं तस्मात्स्खलितं स्खलन
प्राप्तं चरणकमलं यस्याः सा तथा कतिचित्पदानि गत्वा गद्गदतरं यथा स्यात्तथा उच्चैर्बाढखरेणाकृतप्रणामाने-
वाविहितनमस्कारानेव तानवादीत् । भद्राः, यूयमाशु शीघ्रं मे मम वत्सस्य वार्तामात्रं कथयत । इदं तु मे
मम हृदयं चेतोऽन्यथैव किमपि कथयत्यप्रत्ययमेवाविश्वासमेवाश्रयते । मे मम वत्सो दृष्टोऽवलोकितो भवद्भि-
र्युष्माभिर्न वेति । इत्येवं पृष्टास्तु ते लेखहारकाः सहसैव सद्य एवागतो बाष्पवेगो यथा स्यात्तथावनौ निवेशितं
स्थापितमुत्तमाङ्गं शिरो यैस्ते तथा प्रणामापदेशेन नमस्कृति मिषेणोत्सृज्य कृच्छ्रादि
व कष्टादिवाभिमुखं संमुख-
मु
न्नमितमुच्चैः कृतं वदनं यैस्ते तथा व्यज्ञापयन्विज्ञप्तिं चक्रुः । किं कथयामासुरित्याकाङ्क्षायामाह -- देवीति । हे
देवि, अच्छोदसर-
स्तीरेऽस्माभिर्युवराजो दृष्टः । शेषमवशिष्टमेष त्वरितको युवराज- भृत्यो निवेदयिष्यति कथयि
व्
ष्यति इत्यभिवदत एवेति ब्रुवत एव तानुदूर्ध्वं बाष्पो नेत्राम्बु यस्मिन्नेवंभूतं मुखमाननं यस्याः सा विलास- वती
प्रत्युवाच प्रत्यब्रवीत् ।
 
टिप्प० -

 
[^
1]F. तेन आच्छादितान् संवीतानित्यर्थो बोध्यः ।
[^
2]F. किंम् उत्सृज्य ? अन्वये चस्खाल
वराकः । सहसाssऽऽगतं बाष्पवेगं प्रणामापदेशेनोत्सृज्य इत्यन्वयः ।
 
पाठा० -

 
[^
१]G. अनेक धैवोद्धबद्ध: .
[^
२]G. आश्रमानिव; श्रमस्यावासानिव .
[^
३]G. अदूरतः .
[^
४]G. पतन्ती .
[^
५]G. चरणानि.

[^
६]G. सगद्गदस्वरम्.
[^
७]G. वार्ताम्.
[^
८]G. कथमपि करोति मे हृदयम् .
[^
९]G. भियते मम वत्सो दृष्टो वा भवद्भिः .
[^
१०]G. उप-
सृत्य उपसृज्य.
[^
११]G. व्यशापयन्
 
ज्ञापयन्.