Proofing

✦
2023-11-24 09:33:21 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

.
 
:
 
राज्ञो भोगविलासः ]
 
पूर्वभागः ।
 
१२९
 
निचिते चतुरुदधिवल [^१]यपरिधिप्रमाणे [^२]धरणीतले भवन इवाविदितमहरह: समुच्छ्रवसितमपि
राज्ञां नासीत् ।
 

 
स राजा बाल एव सुर [^३]कुञ्जेजरकरपीवरेण [^४]राज्यलक्ष्मी- लीलोपधानेन सकलजै [^५]जगदभय-
[^६]दानयज्ञदीक्षायूपेन स्फुरदसिलतामरीचिजालजटिलेन निखिलारातिकुलप्रलय [^७]प्रलय- धूमकेतुदण्डे-
न बाहुना विजित्य सप्तद्वीपवलयां वसुंधरां तस्मिञ्छु- कनासनाम्नि मन्त्रिणि सुहृदीव
राज्यभारमारोप्य सुस्थिताः प्रजाः कृत्वा कर्तव्यशेषम [^८]परमपश्यत् । प्रशमिताशेषवि-
पे
[^९]पक्ष- तया विगैं[^१०]विगताशङ्कः शिथिली [^११]कृत वसुंधराव्यापारः प्रो[^१२]प्रायो यौवनसुखान्य [^१३]नुबभूव ।
 
.

 
तथा हि — कदाचिदुल्लसत्कठोर कपोलपुलकजर्जरितकर्ण- पल्लवानां प्रणयिनीनां चन्दनजल-
च्छटाभिरिव स्मितसुधाच्छविभि- रभिषिच्यमानः, कर्णोत्पलैरिव लोचनांशुभिस्ताड्यमानः,
 
,
 

 
[ टि ]--
संचार: परिभ्रमणं तेन निचिते पूरिते । चतुरिति । चतुरुद- धीनां चतुःसमुद्राणां वलयं कङ्कणं तस्य या
किंचिदधिका त्रिगुणिता [^1]परिधि : परिक्षेपः स एव प्रमाणं यस्य स तस्मिन् ।
 

 
स इति । स राजा तारापीडो बाल एव । सुरेति । सुरकुञ्जरो हस्तिमल्लस्तस्य करः झुण्डा तद्वत्पी-
घ
वरेण पुष्टेन । राज्येति । राज्यलक्ष्मी राधिपत्यश्रीस्तस्या लीलोपधानेन लीलोपबर्हेण । सकलेति । सकलजगतः
समग्र विष्टपस्य यदभयदानं तदेव यज्ञ- दीक्षा तत्र यूपेन यज्ञस्तम्भेन । स्फुरदिति । स्फुरन्ती देदीप्यमाना

याsऽसिलता खड्जगलता तस्या मरीचिजालं कान्तिसमूहस्तेन जटिलेन व्याप्तेन । निखिलेति । निखिलाः समग्रा
येऽरातयः शत्रवस्तेषां यानि कुलानि तेषां प्रलयो विनाशस्तत्र धूमकेतुर्ग्रह- विशेषस्तस्य [^2]दण्डेन पुच्छेन । दण्डा-
कृतिरूपत्वात्पुच्छस्येति भावः । एवं विधेन बाहुना भुजेन । सप्तेति । जम्बूप्लक्षशाल्मलि- कुशक्रौञ्च कुशक्रौञ्चशाकपुष्कराः
सप्तद्वीपा एव वलयं कङ्कणं यस्या एवंभूतां वसुंधरां विजित्य तस्मिञ्छुकनासनाम्नि मन्त्रिणि सुहृदीव मित्र इव
राज्यभारमारोप्य निधाय सुस्थिताः सुखेन स्थायिन्यः प्रजाः प्रकृतीः कृत्वा निष्पाद्य कर्तव्यशेषमितः परं

किं कर्तव्यमस्तीत्य परपरं विचारविषयं कार्यमपश्यदित्यन्वयः । प्रश- मितेति । प्रशमिताः शान्ति प्रापिता
अशेषाः समग्रा विपक्षा दस्यवो येन तस्य भावस्तत्ता तया । अत एवंव विगताशङ्को निर्भयः । शिथिलीति ।
शिथिलीकृतः श्लथीकृतो वसुंधरायाः क्षितेर्व्यापारो व्याटपृतिर्येन स तथा । प्रायो बाहुल्येन यौवनस्य तारुण्यस्य

सुखानि स्त्रीसंभोगादीन्यनुबभूवानुभवविषयीचक्रे । तदेव दर्शयति — तथा हीति । कदा चिदिति ।
कदाचित् कस्मिंश्चित्समयेऽनङ्ग- परवशः कामपरायत्तः सुरतं मैथुनमाततान विस्तारयामासेत्यन्वयः । किं क्रिय-
माणः । अभिषिच्यमानः सिच्यमानः । काभिः । स्मित- मीषद्धसितं तदेव सुधामृतं तस्याइश्छविभिः कान्तिभिः ।
काभिरिव । प्रणयिनीनां कामिनीनां चन्दनजलच्छटाभिरिव । कीदृशीनाम् । उल्लसन्तो विकसन्तः कठोराः
कठिनाः कपोलेषु पुलका रोमाञ्चास्तैर्जर्जरिताः श्लथीभूताः कर्णपल्लवाः श्रोत्र किसलयानि यासाम् । पुनः किं क्रिय-
माणः । ताड्यमानः पीड्यमानः । कैः । लोचनांशुभिः नेत्रकान्तिभिः । कैरिव । कर्णोत्पलैरिव श्रवणकुवलयै-
टिप्प० -

 
[^
1]F. परिधिशब्दस्य पुंस्त्वमेवावगन्तव्यम् ।
[^
2]F. ' निखिलारातिकुलप्रलयधूमकेतुना बाहुदण्डेन'
इत्येवो- चितः पाठः । निखिलस्य अरातिकुलस्य प्रलये विनाशे धूमकेतुरिव धूमकेतुः ( विनाशसूचकः )
तेन इति तदर्थः ।
 
पाठा० -

 
[^
१]G. परिक्षेप प्रमाणे; परिखाप्रमाणे .
[^
२ घ]G. धरणितले.
[^
३]G. कुञ्जरपीवरेण .
[^
४]G. राजलक्ष्मी .
[^
५]G. जगदीक्षाभयप्रदान.

[^
६]G. प्रदानशौण्डेन रणयशज्ञदीक्षा .
[^
७]G. धूमकेतुना बाहुदण्डेन विजित्य सकलद्वीप .
[^
८]G. अपश्यन् .
[^
९]G. विपक्षतया तया.

[^
१०]G. विगलिताशङ्क.
[^
११]G. शिथिलितपृथिवीव्यापार : .
[^
१२]G. प्रायशो.
[^
१३]G. सुखम्.
 
.
 

१७ का०