2026-02-19 08:31:34 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>अध्या० १]
तेजबिन्दुपनिषत् ॥ ३९ ॥
</ignore>
<ignore>૨૨
</ignore>
<p merge-next="true">द्वाचो निवर्तन्ते अप्राप्य मनसा सह । यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा
बुधः ॥ २० ॥ वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते । प्रपञ्चो यदि
वक्तव्यः सोऽपि शब्दविवर्जितः ॥ २१ ॥ इति वा तद्भवेन्मौनं सर्ववं सहज-
संज्ञितम् । गिरां मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् ॥ २२ ॥ आदावन्ते
च मध्ये च जनो यस्मिन्न विद्यते । येनेदं सततं व्याप्तं स देशो विजन:
नः
स्मृतः ॥ २३ ॥ कल्पना सर्वभूतानां ब्रह्मादीनां निमेषतः । कालशब्देन नि-
र्दिष्टं ह्यखण्डानन्दमद्वयम् ॥ २४ ॥ सुखेनैव भवेद्यस्मिन्नजत्स्रं ब्रह्मचिन्तनम् ।
आसनं तद्विजानीयादन्यत्सुखविनाशनम् ॥ २५ ॥ सिद्धये सर्वभूतादि चि-
श्वाधिष्ठानमद्वयम् । यस्मिन्सिद्धिं गताः सिद्धास्तत्सिद्धासनमुच्यते ॥ २६॥
यन्मूलं सर्वलोकानां यन्मूलं चित्तबन्धनम् । मूलबन्धः सदा सेव्यो योग्यो-
ऽसौ ब्रह्मवादिनाम् ॥ २७ ॥ अङ्गानां समतां विद्यात्समे ब्रह्मणि लीयते । नो
चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् ॥ २८ ॥हृदृष्टिं ज्ञानमयीं कृत्वा पश्ये-
द्ब्रह्ममयं जगत् । सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥ २९ ॥ द्रष्टृ-
दर्शनदृश्यानां विरामो यत्र वा भवेत् । दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलो -
किनी ॥ ३० ॥ चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् । निरोधः सर्ववृ-
त्तीनां प्राणायामः स उच्यते ॥ ३१ ॥ निषेधनं प्रपञ्चस्य रेचकाख्यः समी-
रितः । ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरुच्यते ॥ ३२ ॥ ततस्तद्वृत्तिनै-
श्वचल्यं कुम्भकः प्राणसंयमः । अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् ॥ ३३ ॥
विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तरञ्जकम् । प्रत्याहारः स विज्ञेयोऽभ्यसनीयो
मुहुर्मुहुः ॥ ३४ ॥ यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् । मनसा धारणं
चैव धारणा सा परा मता ॥ ३५ ॥ ब्रह्मैवास्मीति सङ्घच्द्वृत्त्या निरालम्बतया
स्थितिः । ध्यानशब्देन विख्यातः परमानन्ददायकः ॥ ३६ ॥ निर्विकारतया
वृत्या ब्रह्माकारतया पुनः । वृत्तिविस्मरणं सम्यक्समाधिरभिधीयते ॥ ३७ ॥
इमं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् । लक्ष्यो यावत्क्षणात्पुंसः प्रत्यक्त्वं
संभवेत्स्वयम् ॥ ३८ ॥ ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् । तत्त्रं
स्वं
रूपं भवेत्तस्य विषयो मनसो गिराम् ॥ ३९ ॥ समाधौ क्रियमाणे तु विघ्ना-
न्यायान्ति वै बलात् । अनुसंधानराहित्यमालस्यं भोगलालसम् ॥ ४० ॥
लयस्तमश्च विक्षेपस्तेजः स्वेदश्च शून्यता । एवं हि विघ्नबाहुल्यं त्याज्यं ब्रह्म-
विशारदैः ॥ ४१ ॥ भाववृत्या हि भावत्वं शून्यवृत्या हि शून्यता । ब्रह्म-
वृत्त्या हि पूर्णत्वं तया पूर्णत्वमभ्यसेत् ॥ ४२ ॥ ये हि वृत्तिं विहायैनां ब्रह्मा-
</p>
</page>
<ignore>अध्या० १]
तेजबिन्दुपनिषत् ॥ ३९ ॥
<ignore>૨૨
<p merge-next="true">द्वाचो निवर्तन्ते अप्राप्य मनसा सह । यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा
बुधः ॥ २० ॥ वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते । प्रपञ्चो यदि
वक्तव्यः सोऽपि शब्दविवर्जितः ॥ २१ ॥ इति वा तद्भवेन्मौनं सर्
संज्ञितम् । गिरां मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् ॥ २२ ॥ आदावन्ते
च मध्ये च जनो यस्मिन्न विद्यते । येनेदं सततं व्याप्तं स देशो विज
स्मृतः ॥ २३ ॥ कल्पना सर्वभूतानां ब्रह्मादीनां निमेषतः । कालशब्देन नि-
र्दिष्टं ह्यखण्डानन्दमद्वयम् ॥ २४ ॥ सुखेनैव भवेद्यस्मिन्नज
आसनं तद्विजानीयादन्यत्सुखविनाशनम् ॥ २५ ॥ सिद्धये सर्वभूतादि चि-
श्वाधिष्ठानमद्वयम् । यस्मिन्सिद्धिं गताः सिद्धास्तत्सिद्धासनमुच्यते ॥ २६॥
यन्मूलं सर्वलोकानां यन्मूलं चित्तबन्धनम् । मूलबन्धः सदा सेव्यो योग्यो-
ऽसौ ब्रह्मवादिनाम् ॥ २७ ॥ अङ्गानां समतां विद्यात्समे ब्रह्मणि लीयते । नो
चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् ॥ २८ ॥
द्ब्रह्ममयं जगत् । सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥ २९ ॥ द्रष्टृ-
दर्शनदृश्यानां विरामो यत्र वा भवेत् । दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलो
किनी ॥ ३० ॥ चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् । निरोधः सर्ववृ-
त्तीनां प्राणायामः स उच्यते ॥ ३१ ॥ निषेधनं प्रपञ्चस्य रेचकाख्यः समी-
रितः । ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरुच्यते ॥ ३२ ॥ ततस्तद्वृत्तिनै-
श्
विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तरञ्जकम् । प्रत्याहारः स विज्ञेयोऽभ्यसनीयो
मुहुर्मुहुः ॥ ३४ ॥ यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् । मनसा धारणं
चैव धारणा सा परा मता ॥ ३५ ॥ ब्रह्मैवास्मीति स
स्थितिः । ध्यानशब्देन विख्यातः परमानन्ददायकः ॥ ३६ ॥ निर्विकारतया
वृत्या ब्रह्माकारतया पुनः । वृत्तिविस्मरणं सम्यक्समाधिरभिधीयते ॥ ३७ ॥
इमं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् । लक्ष्यो यावत्क्षणात्पुंसः प्रत्यक्त्वं
संभवेत्स्वयम् ॥ ३८ ॥ ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् । तत्